योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०४२

← सर्गः ४१ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०४२
अज्ञातलेखकः
सर्गः ४३ →

श्रीवसिष्ठ उवाच ।
यस्त्वबुद्धमतिर्मूढो रूढो न वितते पदे ।
वज्रसारमिदं तस्य जगदस्त्यसदेव सत् ।। १
यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः ।
असदेव सदाकारं तथा मूढमते जगत् ।। २
ताप एव यथा वारि मृगाणां भ्रमकारणम् ।
असत्यमेव सत्याभं तथा मूढमतेर्जगत् ।। ३
यथा स्वप्नमृतिर्जन्तोरसत्या सत्यरूपिणी ।
अर्थक्रियाकरी भाति तथा मूढधियां जगत् ।। ४
अव्युत्पन्नस्य कनके कानके कटके यथा ।
कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः ।। ५
तथाऽज्ञस्य पुणुराजगनागेश्वमेखसुर् ।
इयं दृश्यदृगेवास्ति न त्वन्या परमाथदृक् ।। ६
यथा नभसि मुक्तालीपिच्छकेशोण्ड्रकादयः ।
असत्याः सत्यतां याता भात्येवं दुर्दशां जगत् ।। ७
दीर्मस्वप्नमिदं विश्वं विद्ध्यहन्तादिसंयुतम् ।
अत्रान्ये स्वप्नपुरुषा यथा सत्यास्तथा शृणु ।। ८
अस्ति सर्वगतं शान्तं परमार्थघनं शुचि ।
अचेत्यचिन्मात्रवपुः परमाकाशमाततम् ।। ९
तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् ।
यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै ।। १०
तेन स्वप्नपुरे द्रष्टा यान्वेत्ति पुरवासिनः ।
नरानिति नरा एव क्षणात्तस्य भवन्ति ते ।। ११
यद्द्रष्टुश्चित्स्वरूपं तत्स्वप्नाकाशान्तरस्थितम् ।
स्वप्नाकाशचित्ताभं हि नरानामेति भावितम् ।। १२
वेदितृत्वैक्यवशतो नरतेवावबुध्यते ।
आत्मन्यतश्चिद्बलेन द्वयोरप्येति सत्यता ।। १३
श्रीराम उवाच ।
स्वप्नेऽपि स्वप्नपुरुषा न सत्याः स्युर्मुने यदि ।
वद तत्को भवेद्दोषो मायामात्रशरीरिणि ।। १४
श्रीवसिष्ठ उवाच ।
स्वप्ने न पुरवास्तव्या वस्तुतः सत्यरूपिणः ।
प्रमाणमत्र शृणु मे प्रत्यक्षं नाम नेतरत् ।। १५
सर्गादावात्मभूर्भाति स्वप्नाभानुभवात्मकः ।
तत्संकल्पकलं विश्वमेव स्वप्नाभमेव तत् ।। १६
एवं विश्वमिदं स्वप्नस्तत्र सत्यं भवान्मम ।
यथैव त्वं तथैवान्ये स्वप्ने स्वप्नवरा नृणाम् ।। १७
स्वप्ने नगरवास्तव्याः सत्या न स्युरिमे यदि ।
तदिहापि तदाकारे न सत्यं मे मनागपि ।। १८
यथाहं तव सत्यात्मा सत्यं सर्व भवेन्मम ।
स्वप्नोपलम्भे संसारे मिथः सिद्ध्यै प्रमेदृशी ।। १९
संसारे विपुले स्वप्ने यथा सत्यमहं तव ।
यथा त्वमपि मे सत्यं सर्वं स्वप्नेष्विति क्रमः ।। २०
श्रीराम उवाच ।
स्वप्नद्रष्टरि निर्निद्रे तद्द्रष्टुः स्वप्नपत्तनम् ।
सद्रूपत्वात्तथैवास्ते ममेति भगवन्मतिः ।। २१
श्रीवसिष्ठ उवाच ।
एवमेतत्तथैवास्ते सत्यत्वात्स्वप्रपत्तनम् ।
स्वप्नद्रष्टरि निर्निद्रेऽप्याकाशविशदाकृति ।। २२
एतदास्तामिदं तावद्यज्जाग्रदिव मन्यसे ।
विद्धि तत्स्वप्नमेवान्तर्देशकालाद्यपूरकम् ।। २३
एवं सर्वमिदं भाति न सत्यं सत्यवत्स्थितम् ।
रञ्जयत्यपि मिथ्यैव स्वप्नस्त्रीसुरतोपमम् ।। २४
सर्वत्र विद्यते सर्वं देहस्यान्तर्बहिस्तथा ।
यत्तु वेत्ति यथा संवित्तत्तथा स्वैव पश्यति ।। २५
यत्कोशे विद्यते द्रव्यं तद्द्रष्ट्रा लभ्यते यथा ।
तथास्ति सर्वं चिद्व्योम्नि चेत्यते तत्त्वनेन वै ।। २६
अनन्तरमुवाचेदं देवी ज्ञप्तिर्विदूरथम् । ।
कृत्वा बोधामृतासेकैर्विवेकाङ्कुरसुन्दरम् ।। २७
एतदेव मया राजँल्लीलार्थमुपवर्णितम् ।
स्वस्ति तेऽस्तु गमिष्यावो दृष्टा दृष्टान्तदृष्टयः ।। २८
श्रीवसिष्ठ उवाच ।
इति प्रोक्ते सरस्वत्या गिरा मधुरवर्णया ।
उवाच वचनं धीमान्भूमिपालो विदूरथः ।। २९
विदूरथ उवाच ।
ममापि दर्शनं देवि मोघं भवति नार्थिनि ।
महाफलप्रदायास्तु कथं तव भविष्यति ।। ३०
अहं देहं समुत्सृज्य लोकान्तरमितोऽपरम् ।
निजमायामि हे देवि स्वप्नात्स्वप्नान्तरं यथा ।। ३१
पश्यादिशाशु मां मातः प्रपन्नं शरणागतम् ।
भक्तेऽवहेला वरदे महतां न विराजते ।। ३२
यं प्रदेशमहं यामि तमेवायात्वयं मम ।
मन्त्री कुमारी चैवेयं बालेति कुरु मे दयाम् ।। ३३
श्रीसरस्वत्युवाच ।
आगच्छ राज्यमुचितार्थविलासचारु
प्राग्जन्ममण्डलपते कुरु निर्विशङ्कम् ।
अस्माभिरर्थिजनकामनिराकृतिर्हि
दृष्टा न काचन कदाचिदपीति विद्धि ।। ३४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० स्वप्नपुरुषसत्यत्वनिरूपणं नाम द्विचत्वारिंशः सर्गः ।। ४२ ।।