योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०४३

← सर्गः ४२ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०४३
अज्ञातलेखकः
सर्गः ४४ →

श्रीसरस्वत्युवाच ।
अस्मिन् रणवरे राजन्मर्तव्यं भवताधुना ।
प्राप्तव्यं प्राक्तनं राज्यं सर्वं प्रत्यक्षमेव ते ।। १
कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् ।
आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम् ।। २
आवां यावो यथायातं वातरूपेण च त्वया ।
आगन्तव्यः स देशस्तु कुमार्या मन्त्रिणापि च ।। ३
अन्यैव गतिरश्वस्य गतिरन्या खरोष्ट्रयोः ।
मदस्विन्नकपोलस्य गतिरन्यैव दन्तिनः ।। ४
प्रस्तुतेति कथा यावन्मिथो मधुरभाषिणोः ।
तावत्प्रविश्य संभ्रान्त उवाचोर्ध्वस्थितो नरः ।। ५
देव सायकचक्रासिगदापीरघवृष्टिमत् ।
महत्परबलं प्राप्तमेकार्णव इवोद्धतः ।। ६
कल्पकालानिलोद्धूतकुलाचलशिलोपमम् ।
गदाशक्तिभुशुण्डीनां वृष्टिं मुञ्चति तुष्टिमत् ।। ७
नगरे नगसंकाशे लग्नोऽग्निर्व्याप्तदिक्तटः ।
दहंश्चटचटास्फोटैः पातयत्युत्तमां पुरीम् ।। ८
कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः ।
बलात्प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव ।। ९
श्रीवसिष्ठ उवाच ।
ससंभ्रमं वदत्येवं पुरुषे परुषारवः ।
उदभूत्पूरयन्नाशा बहिः कोलाहलो महान् ।। १०
बलादाकर्णकृष्टानां धनुषां शरवर्षिणाम् ।
बृंहतामतिमत्तानां कुञ्जराणां तरस्विनाम् ।। ११
पुरे चटचटास्फोटैर्दहतां जातवेदसाम् ।
पौराणां दग्धदाराणां महाहलहलारवैः ।। १२
तरतामग्निखण्डानां टांकारः कथितो रवैः ।
ज्वलितानां परिस्पन्दाद्धगद्धगिति चार्चिषाम् ।। १३
अथ वातायनाद्देव्यौ मन्त्री राजा विदूरथः ।
ददृशुः प्रोल्लसन्नादं महानिशि महापुरम् ।। १४
प्रलयानलसंक्षुब्धपूर्णैकार्णवरंहसा ।
पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा ।। १५
कल्पान्तवह्निविगलन्मेरुभूधरभासुरैः ।
दह्यमानं महाज्वालाज्वालैरम्बरपूरकैः ।। १६
मुष्टिग्राह्यमहामेघगर्जासंतर्जितोर्जितैः ।
घोरं कलकलारावैर्मांसलैर्दस्युजल्पितैः ।। १७
पुष्करावर्तसंकाशधूम्रूभ्रपिहिताम्बरम् ।
प्रोड्डीनहेमाग्रनिभैर्ज्वालापुञ्जैर्निरन्तरम् ।। १८
तरदुल्मुकखण्डोग्रतारातरलिताम्बरम् ।
अन्योन्यदेशसद्मौघप्रज्वलज्ज्वलनाचलम् ।। १९
हतसैन्यपुरापातं द्रुताङ्गाराभ्रकोटरैः ।
कर्कशाक्रन्दनिर्दग्धलोकपूगोग्रगर्जितम् ।। २०
कृशानुकणनाराचनिरन्तरतराम्बरम् ।
बहुहेतिशिलाजाललुठद्दग्धपुरोत्करम् ।। २१
रणद्द्विरदसंघट्टकुट्टितोद्भटसद्भटम् ।
विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम् ।। २२
अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् ।
स्फुटच्चटचटाशब्दप्रलुठत्स्फुटकाष्ठकम् ।। २३
विपुलालातचक्रौघशतसूर्यनभस्तलम् ।
अङ्गारशिखिराकीर्णसमस्तवसुधातलम् ।। २४
दग्धाग्निकाष्ठक्रेकाररणज्जवलनवैणवम् ।
दग्धजन्तुघनाक्रन्दरुदत्सकलसैनिकम् ।। २५
पांसुशेषात्तराजश्रीवृद्धतृप्तहुताशनम् ।
सकलग्रसनारम्भसोद्योगाग्निमहाशनम् ।। २६
यदृच्छात्कारडात्कारकठिनाग्निरटद्गृहम् ।
अनन्तजन्तुभोज्यान्नवह्निभुक्तेन्धनस्पृहम् ।। २७
अथ शुश्राव तत्रासौ गिरो राजा विदूरथः ।
योधानां दग्धदाराणां पश्यतामभिधावताम् ।। २८
हा मत्तमरुदूर्ध्वस्थानङ्गार गृहपादपान् ।
रणत्खरखरं नीरजालामातपपन्थिनः ।। २९
हा दग्धदाराः प्रालेयशीता देहेषु दन्तिनाम् ।
मग्ना मनस्तु महतामिव विज्ञानसूक्तयः ।। २०
हा तात हेतयो लग्नास्तरुणीकबरीतृणे ।
ज्वलन्ति शुष्कपर्णौघा इव वीरानिलेरिताः ।। ३१
आवर्तननदीदीर्घा वहत्यूर्ध्वतरङ्गिणी ।
पश्येयं धूमयमुना व्योमगङ्गां प्रधावति ।। ३२
वहदुल्मुककाष्ठोर्ध्वगामिनी धूमनिम्नगा ।
वैमानिकानन्धयति पश्याग्निकणबुद्बुदा ।। ३३
अस्या माता पिता भ्राता जामाता स्तनपाः सुते ।
अस्मिन्सद्मनि निर्दग्धा दग्धैवासत्समिन्धने ।। ३४
हा हा हागच्छ ते शीघ्रमेतदङ्गारमन्दिरम् ।
इतः प्रवृत्तं पतितुं सुमेरुः प्रलये यथा ।। ३५
अहो शरशिलाशक्तिकुन्तप्रासासिहेतयः ।
जालसंध्याभ्रपटलं विशन्ति शलभा इव ।। ३६
हेतिप्रवाहा ज्वलनं नभस्यन्त्यां विशन्त्यहो ।
वडवानलमुज्वालमर्णःपूरा इवार्णवात् ।। ३७
धूमायन्ति महाभ्राणि ज्वालाः शिखरिकोटिषु ।
सरसान्यपि शुष्यन्ति हृदयानीव रागिणाम् ।। ३८
आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः ।
स्फुरत्कटकटारावं पात्यन्ते कृतचीत्कृतैः ।। ३९
पुष्टषुष्पफलस्कन्धा गतश्रीका गृहद्रुमाः ।
गता निर्दग्धसर्वस्वा गृहस्था इव दीनताम् ।। ४३
मातापितृविनिर्मुक्ता बालकास्तिमिरावलीम् ।
मग्नन्तोऽङ्गेषुरथ्यासु कुड्यपातेन हा हताः ।। ४१
वातविद्रावितात्त्रस्यन्कीरण्यो रणमूर्धनि ।
पतदङ्गारकागारभारिणः कटुकूजितम् ।। ४२
हा कष्टमसिनिर्भिन्ने स्कन्धे सन्नदृढोल्मुके ।
पतितो यन्त्रपाषाणः पुरुष्स्याशनिर्यथा ।। ४३
गवाश्वमहिषेभोष्ट्रश्वशृगालेडकैरहो ।
घोरै रणमिवारब्धं मार्गरोधकमाकुलैः ।। ४४
पटैः पटपटाशब्दजलजालालिमालितैः ।
आक्रन्दन्त्यः स्त्रियो यान्ति स्थलपद्माचिता इव ।। ४५
स्त्रीणां ज्वालालवाः पश्य लिहन्त्यलकवल्लरीः ।
कुर्वन्तोऽशोकपुष्पाभां करभा इव पन्नगीः ।। ४६
हा हा हरिणशावाक्ष्याः पक्षलक्षणपक्ष्मसु ।
कुमार्गेष्विव विश्रान्तिमेति कार्शानवी शिखा ।। ४७
दह्यमानो विनिर्याति न कलत्रं विना नरः ।
अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः ।। ४८
करी रभसनिर्लूनज्वलदङ्गारपादपः ।
प्लुष्टपुष्करकः कोपान्मग्नः पुष्करदं सरः ।। ४९
धूमोऽम्बुदपदं प्राप्य विलोलान्तस्तडिल्लतः ।
ज्वलदङ्गारनाराचनिकरं परिवर्षति ।। ५०
देव धूमस्फुरद्वह्निकण आवर्तवृत्तिमान् ।
स्थित आपीडवात्तव्योम्नि रत्नपूर्ण इवार्णवः ।। ५१
गौरमम्बरमाभाति ज्वालाशिखरतेजसा । ।।
मृत्युनेवोत्सवे दत्तः कुङ्कुमाक्तकरण्डकः ।। ५२
अहो नु विषमं चेदं वर्तते वृत्तवर्जितम् ।
ध्रियन्ते राजनार्योऽपि वैरिवीरैरुदायुधैः ।। ५३
लोलस्रग्दामकुसुमैर्मार्गप्राकारकारकैः ।
अर्धनिर्दग्धकबरीकीर्णवक्षस्थलस्तनाः ।। ५४
आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः ।
पतन्माणिक्यवलयवलितावनिमण्डलाः ।। ५५
छिन्नहारलताजालविकीर्णामलमौक्तिकाः ।
दृष्टादृष्टस्तनश्रेणीपार्श्वोद्यत्कनकप्रभाः ।। १९६
कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः ।
धारावाहास्रुतारावभिन्नपार्श्वविचेतनाः ।। ५७
रक्तकर्दमवाष्पाम्बुक्लिन्नग्रन्धितवाससः ।
भुजमूलार्पितभुजैर्नीयमाना बलान्नृभिः ।। ५८
क इवास्मिन्परित्राता स्यादित्यादीनवीक्षितैः ।
उत्पलालीव वर्षद्भिः परिरोदितसैनिकाः ।। ५९
मृणालकोमलाच्छोरुमूलजालैः सुनिर्मलैः ।
स्वच्छाम्बरतलालक्ष्यैराकाशनलिनीनिभाः ।। ६०
आलोलमाल्यवसनाभरणाङ्गरागा
बाष्पाकुलाततचलालकवल्लरीकाः ।
आनन्दमन्दरनिरन्तरमथ्यमाना-
त्कामार्णवात्समुदिता इव राजलक्ष्म्यः ।। ६१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० अग्निदग्धगृहादिवर्णनं नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।