योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०८८

← सर्गः ८७ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०८८
वाल्मीकिः
सर्गः ८९ →

अष्टाशीतितमः सर्गः ८८

श्रीवसिष्ठ उवाच ।
भूपीठेन सता तत्र मया तदनु मानव ।
अनुभूतं नदनदीस्वसंवेदनसंस्थितेः ।। १
क्वचिन्मरणसाक्रन्दनारीकरुणवेदनम् ।
क्वचिदुत्ताण्डवस्त्रैणमहोत्सवमहासुखम् ।। २
क्वचिद्दुर्वारदुर्भिक्षदुराक्रन्दं दुरीहितम् ।
क्वचित्सकलसस्यौघसंपन्नघनसौहृदम् ।। ३
क्वचिदग्निमहादाहदग्धदेहोग्रवेदनम् ।
क्वचिज्जलप्लवालूनपुरपत्तनखण्डकम् ।। ४
क्वचिच्चपलसामन्तकृतलुण्ठनमण्डलम् ।
क्वचिदुद्दामदौरात्म्यरक्षःपैशाचमण्डलम् ।। ५
क्वचिज्जलाशयोल्लासवेल्लनोत्पुलकाग्रकम् ।
कन्दरोदरनिष्क्रान्तवातवेल्लितवारिदम् ।। ६
संविद्बोधोन्नमत्स्वाङ्गकेशोत्थाङ्कुरलोमकम् ।
वारिवाहनविक्षोभनतोन्नतलसत्तलम् ।। ७
सशृङ्गभैरवश्वभ्रपुराद्रिवनपत्तनम् ।
संविन्मण्डलसंचाललेखाङ्कमृदुकम्पनम् ।। ८
क्वचित्सामन्तसंक्षुब्धसैन्यसंहरणं रणे ।
क्वचित्सौम्यसुखासीनसर्वसामन्तमण्डलम् ।। ९
अरण्यं क्वचिदाशून्यमुल्लसद्वातझंकृति ।
जंगलं क्वचिदालूनव्युप्तसंपन्नसस्यकम् ।। 6.2.88.१०
हंसकारण्डवाकीर्णसरः फुल्लाम्बुजं क्वचित् ।
क्वचिन्मरुस्थलस्थूलस्तम्भनार्जुनमारुतम् ।। ११
क्वचिन्नदनदीवाहहेलानिकषघर्घरम् ।
क्वचिदङ्कुरकार्याङ्गसिक्तबीजस्य जृम्भणम् ।। १२
क्वचिदन्तस्तु कीटास्यमृदुस्पन्दनवेदनम् ।
मां त्वमेवाशु बुद्ध्वेह त्रायस्वेतीव बोधनम् ।। १३
शाखापरिकराभोगं मृद्भागाङ्गनिपीडनैः ।
मूलजालमवष्टभ्य क्वचिद्विटपधारिणम् ।। १४
अन्योन्यमलमाक्रम्य दिक्तटाङ्गनिपीडनैः ।
क्वचिदद्र्य(?)स्थिनिबिडैरर्णवोल्लासवेल्लितम् ।। १५
शुष्कपल्लवसंकोचनिबिडाङ्गनिपीडनम् ।
अमर्षणैः करैरार्कैः स्वरसाकर्षणं क्वचित् ।। १६
शृङ्गमन्दिरमातङ्गप्रहाराशनिभूरुहाम् ।
निबिडाङ्गोत्कटस्थैर्यपरुषापतनं क्वचित् ।। १७
निमीलितैक्षणानन्दतनूनामसमाक्रमम् ।
क्वचित्सूक्ष्मतरोल्लेखमङ्कुरोल्लासनं नवम् ।। १८
मक्षिकायौकमशकनिवाससदृशं क्वचित् ।
कुड्यलेशकुभृङ्गारिहलहेलानिकर्षणम् ।। १९
शीतं शीतविशीर्णाङ्गजर्जरत्वग्विकीर्णवत् ।
पाषाणीभूतसलिलं क्वचित्परुषमारुतम् ।। 6.2.88.२०
उद्दालीभूतमृद्वङ्गमज्जदन्तःकृमिव्रजम् ।
क्वचिदुद्भवदङ्गादिमूलं जलनिमज्जनम् ।। २१
शनैरन्तर्निलीनाम्बुकृताह्लादं बहिश्च र-
-सोन्नामाङ्कुररोमौघं क्वचिद्वर्षविजृम्भितम् ।। २२
तनुतरपवनविकम्पितकोमलनलिनीदलास्तरणैः ।
विहरणमिव मे विहितं सरोभिरङ्गेषु निर्वाणम् ।।

इत्यार्षे श्रीवासिष्ठमहा० वाल्मी० दे० मो० निर्वाणप्रकरणे उ० पाषा० भूमण्डलगतविशेषवर्णनं नामाष्टाशीतितमः सर्गः ।।८ ८ ।।