योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०८९

← सर्गः ८८ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०८९
वाल्मीकिः
सर्गः ९० →

एकोननवतितमः सर्गः ८९

श्रीराम उवाच ।
पार्थिवीं धारणां बद्ध्वा जगन्ति समवेक्षितुम् ।
संपन्नस्त्वमसौ भूमिलोकः किमुत मानसः ।। १
श्रीवसिष्ठ उवाच ।
इदं च मानसं चाहं संपन्नः पृथुभूतलम् ।
नेदं न मानसं नैव संपन्नो वस्तुतस्त्वहम् ।। २
अमानसं महीपीठं न संभवति किंचन ।
यदसद्वेत्सि यत्सद्वा मनोमात्रकमेव तत् ।। ३
चिदाकाशमहं शुद्धं तस्य मे तत्पदात्मनः ।
यच्चिन्मात्रात्मकचनं तत्संकल्पाभिदं स्मृतम् ।। ४
तन्मनस्तन्महीपृष्ठं तज्जगत्स पितामहः ।
संकल्पपुरवद्व्योम्नि कचत्येतन्मनोनभः ।। ५
एवं संकल्पमात्रं मे मनोमात्रं तदाततम् ।
धारणाभ्याससंपुष्टं भूमण्डलमिति स्थितम् ।। ६
नेदं भूमण्डलं तद्वै तदन्यद्धि मनोमयम् ।
आकाशमात्रकचनमचेत्यं कचनं चितेः ।। ७
तदेवाकाशमात्रात्म तथाभूतं चिरं स्थितम् ।
इदं प्रत्ययलब्धत्वान्मानसत्वं समुज्झति ।। ८
इदं स्थिरं सुकठिनं विततं भूमिमण्डलम् ।
अस्तीति जायते बुद्धिर्व्योम्नीव चिरवेदनात् ।। ९
न्यायेनेदमिवानेन न स्थितं वसुधातलम् ।
इदं चैवैकमेवाद्यसर्गस्याद्यमुपागतम् ।। 6.2.89.१०
यथा स्वप्ने पुरत्वेन चिदेव व्योम्नि भासते ।
तथा चिदेव सर्गादाविदं जगदिति स्थितम् ।। ११
विद्धि चिद्रूपबालस्य मनोराज्यं जगत्त्रयम् ।
महीतलादिकं दृश्यमिदं सर्वं च सर्वदा ।। १२
चिद्रूपस्यात्मनो नान्यः संकल्पस्तन्मयं जगत् ।
वस्तुतस्तु न सत्यात्म न पिण्डात्म न भासुरम् ।। १३
दृश्यमस्त्यपरिज्ञातं परिज्ञातं न विद्यते ।
परिज्ञातं तदेवास्य शृणोषि यदिदं चिरम् ।। १४
सर्वं चिन्मात्रमाशान्त प्रकचत्यात्मनात्मनि ।
भूमण्डलात्म दृश्यात्म द्वैतैक्याभ्यां विवर्जितम् ।। १५
मणिर्यथा स्वभावेन शुक्लपीतादिकास्त्विषः ।
अकुर्वन्नेव कुरुते चिदाकाशस्तथा जगत् ।। १६
यतो न किंचित्कुरुते न च रूपं समुज्झति ।
तस्मान्न मानसं नेदं किंचिदस्ति महीतलम् ।। १७
महीतलमिवाभाति चिद्व्योमैव निरन्तरम् ।
आत्मन्येवातलं व्योम यथामलतलं स्थितम् ।। १८
स्वभावमात्रकचन तत्तदेव यथास्थितम् ।
भूमण्डलमिवात्यच्छं खमेव विशतान्तरम् ।। १९
इदं भूमण्डलं तच्च द्वयमेतन्महाचितेः ।
स्वरूपमेव कचति तव स्वप्नपुरं यथा ।। 6.2.89.२०
इदमाकाशमात्रात्म तदप्याकाशमात्रकम् ।
अज्ञानात्मपरिज्ञानाज्ज्ञानान्नेदं न तत्क्वचित् ।। २१
त्रैलोक्यभूतजालानां कालत्रितयभाविनाम् ।
संभ्रमः स्वप्नसंकल्पो मनोराज्यदशास्थितौ ।। २२
भूतान्यथ भविष्यन्ति वर्तमानानि यानि च ।
भूमण्डलानि तान्यत्र सत्ता सामान्यतां गता ।। २३
अहमेव समग्राणि तेषामन्तर्गतान्यपि ।
तेन तान्यनुभूतानि तथा दृष्टानि चाखिलम् ।। २४
चिन्मात्रमेतदजरं परमात्मतत्त्वं
शुद्धात्मतामजहदङ्गगतं बिभर्ति ।
सर्वं यथास्थितमिदं जगदात्तभेदं
बुद्धं सदङ्ग न बिभर्ति तु किंचनापि ।। २५

इत्यार्षे श्रीवसिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पा० दृश्यमनोमात्रत्वप्रतिपादनं नामैकोननवतितमः सर्गः ।।८९।।