योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०९२

← सर्गः ९१ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०९२
वाल्मीकिः
सर्गः ९३ →

श्रीवसिष्ठ उवाच ।
अथ वातमयीं कृत्वा जगत्प्रेक्षणकौतुकात् ।
धारणां धीरया वृत्त्या विततामहमागतः ।। १
संपन्नोऽस्म्यनिलो वल्लीललनालोकलासकः ।
कमलोत्पलकुन्दादिजालकामोदपालकः ।। २
सीकरोत्करनीहारहेलाहरणतत्परः ।
सुरतश्रान्तसर्वाङ्गसमाह्लादनतर्षुलः ।। ३
तृणगुल्मलतावल्लीदलताण्डवपण्डितः ।
लतौषधिफलोल्लासकुसुमामोदमण्डितः ।। ४
मृदुर्मङ्गलकालेषु ललनालोकलालकः ।
भीम उत्पातकालेषु पर्णवत्प्रौढपर्वतः ।। ५
नन्दने कुन्दमन्दारमकरन्दरजोरुणः ।
नरकेऽङ्गारसंभारभूरिनीहारभासुरः ।। ६
सागरे सरलावर्तलेखानुमितसर्पणः ।
दिवि वारिदसंचारमृष्टामृष्टेन्दुदर्पणः ।। ७
नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः ।
त्रैलोक्यसिद्धसंचारविमानधरणे हितः ।। ८
सहोदर इव क्षिप्रगामित्वादस्य चेतसः ।
अनङ्गोऽपि समस्ताङ्गः स्पन्दानन्दनचन्दनः ।। ९
तुषारसीकरासारजरारोमविजर्जरः ।
आमोदयौवनोन्मादो मौनमार्दवशैशवः ।। 6.2.92.१०
नन्दनामोदमधुरो मधुरोदारसंसृतिः ।
चारुचैत्ररथोन्मुक्तो हृतकान्तारतश्रमः ।। ११
चिरं गङ्गातरङ्गाङ्गदोलान्दोलनसश्रमः ।
श्रमस्वरूपाज्ञतया निवारितततश्रमः ।। १२
पुष्पभारानताः स्पर्शैर्वसन्तवनितालताः ।
चिरं चपलयँल्लोलदलहस्तालिलोचनाः ।। १३
चिरं भुकत्वेन्दुबिम्बाग्रं सुप्ता पूर्णाभ्रतल्पके ।
विधूय कमलानीकमपनीतरतश्रमः ।। १४
समस्तरजसामेको व्योमगामी तुरंगमः ।
आमोदमदमातङ्गसमुल्लासमहासुहृत् ।। १५
धीरेणाप्य तडिच्छृङ्गं पयोदपशुपालकः ।
तन्तुः सीकरमुक्तानामरिधर्मा रजोरुजाम् ।। १६
आकाशकुसुमामोदः सर्वशब्दसहोदरः ।
नाडीप्रणालीसलिलं भूताङ्गोपाङ्गवर्तकः ।। १७
मर्मकर्मकरैकात्मा हृद्गुहागेहकेसरी ।
नित्यमेकान्तपथिकः सारविज्जातवेदसः ।। १८
आमोदरत्नलुण्टाको विमाननगरावनिः ।
दाहान्धकारशीतांशुः शैत्येन्दुक्षीरसागरः ।। १८
प्राणापानकलारज्ज्वा प्राणिनां यन्त्रवाहकः ।
अरिर्मित्रं च द्वीपानां द्वीपसंचारणे रतः ।। 6.2.92.२०
पुरोगतोऽप्यदृश्यात्मा मनोराज्यपुरोपमः ।
तालवृन्ततिलेतैलमालानं स्पन्ददन्तिनः ।। २१
एकक्षणलवेनैव चालिताखिलभूधरः ।
वर्णावलितरङ्गाणां गङ्गावाह इवैककृत् ।। २२
धूमाम्बुवाहरजसां महावर्तकृदम्भसाम् ।
द्युनदीवाहवार्योघनभोनीलोत्पलालिकः ।। २३
शरीरावेष्टितोन्मुक्तपुराणतृणचोपनः ।
स्पन्दपद्मवनादित्यः शब्दवर्षैकवारिदः ।। २४
व्योमकाननमातङ्गः शरीरगृहगर्गटः ।
धूलीकदम्बविपिनमालालिङ्गननायकः ।। २५
स्त्यानीकरणसंशोषधृतिस्पन्दनसौरभैः ।
सशैत्यैः कर्मभिः षड्भिरलब्धक्षण आक्षयम् ।। २६
रसाकर्षणसव्यग्रो नित्यं भ्रातेव तेजसः ।
हरणादानकर्तॄणामङ्गानां विनियोगकृत् ।। २७
शरीरनगरे नाडीमार्गैर्गतिनिरर्गलः ।
रसभाण्डे परावर्तादायुर्मणिमहावणिक् ।। २८
शरीरनगरीनाशनिर्माणैकपरायणः ।
रसकिट्टकलाधातुपृथक्करणकोविदः ।। २९
प्रतिसूक्ष्माणुकं देहे ततो दृष्टं मया जगत् ।
तत्रेत्थं रूपवानस्मि स्फुटमाभोगि सुस्थिरम् ।। 6.2.92.३०
परमाणुप्रति त्वत्र प्रोह्यन्त इव सर्गकाः ।
न च किंचित्किलोह्यन्ते स्वा(खा?)कृते किमिवोह्यते ।। ३१
सचन्द्रार्कानिलाग्नीन्द्रपद्मवैश्रवणेश्वराः ।
सब्रह्महरिगन्धर्वा विद्याधरमहोरगाः ।। ३२
ससागरगिरिद्वीपदिगन्तरमहार्णवाः ।
सलोकान्तरलोकेशक्रियाकालकलाक्रमाः ।। ३३
सस्वर्गभूमिपातालततलोकान्तरान्तराः ।
सभावाभाववैधुर्यजरामरणसंभ्रमाः ।। ३४
एवं नाम तदा राम भूतपञ्चकरूपिणा ।
मया प्रविहृतं तत्र त्रैलोक्यनलिनोदरे ।। ३५
रसः पीतोऽनुभूतश्च क्ष्माजलानिलतेजसाम् ।
मूलजालेन वृक्षाणां प्राणिनां वसता मया ।। ३६
रसायनघनाङ्गेषु चन्दनद्रवशोभिषु ।
लुठितं चन्द्रबिम्बेषु तुषारशयनेष्विव ।। ३७
सर्वर्तुवनजालेषु नानामोदानि दिक्ष्वलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददताऽलये ।। ३८
ततोन्नतासु मृद्वीषु स्वास्तीर्णास्वम्बराजिरे ।
सुप्तं शुभ्राभ्रमालासु नवनीतस्थलीष्विव ।। ३९
सुमनःपत्रमृदुषु नीललक्ष्मीविलासिषु ।
सुरसिद्धाङ्गनाङ्गेषु दूरास्तस्मरवासनम् ।। 6.2.92.४०
कृतः कुमुदकह्रारकमले नलिनीवने ।
कोमलः कलहंसीभिर्लीलाकलकलारवः ।। ४१
सरत्सरिच्छिरासारा मूलभूमण्डलान्विताः ।
अङ्गैरूढाः स्फुरद्भूता लोमालय इवाद्रयः ।। ४२
खाद्रयः प्रथिता दीर्घसरित्सूत्रैः समुद्रकैः ।
आदर्शैरिव विश्रान्तमङ्गेषु प्रतिबिम्बिभिः ।। ४३
भूतसर्गेण विश्रान्तं सिद्धविद्याधरादिना ।
मद्देहे चेतितेनेव मक्षिकायौकरूपिणा ।। ४४
मत्प्रसादेन मुदितैर्लब्धमर्कादिभिर्वपुः ।
कृष्णरक्तसितापीतहरितैर्हरितैरिव ।। ४५
समुद्रमुद्रया सप्तद्वीपसप्तात्मरूपया ।
संस्थया स्थापिता भूमिः प्रकोष्ठे वलयोपमा ।। ४६
विद्याधरपुरन्ध्रीणां परामृष्टाङ्गयष्टिना ।
अदृष्टेनैव विहितः पुलकोल्लास आत्मना ।। ४७
सरिच्छिरामलस्फाररसानि सुषिराणि च ।
जगन्त्येवास्थिजालानि ममासन्संस्थितानि च ।। ४८
असंख्यैर्व्योममातङ्गैश्चन्द्रार्कचलचामरैः ।
उदुम्बरान्तर्मशकैरिव मद्धृदये स्थितम् ।। ४९
सर्वपातालपादेन भूतलोदरधारिणा ।
स्वमूर्ध्नापि तदा राम न त्यक्ताथ पराणुता ।। 6.2.92.५०
दिक्षु सर्वासु सर्वत्र सर्वदा सर्वकारिणा ।
सर्वात्मनाप्यसर्वेण शून्यरूपेण संस्थितम् ।। ५१
किंचित्त्वे सदकिंचित्त्वं साकृतित्वं निराकृति ।
अनुभूतं सजाड्यं च चेतनत्वमलं मया ।। ५२
मैनाकमुग्धपीनस्य सागरस्यावनिं प्रति ।
सन्ति सर्गसहस्राणि स्थाणुभूतान्यथो मया ।। ५३
जगन्त्यङ्गे मयोढानि गूढानि प्रकटान्यपि ।
प्रतिबिम्बपुराणीव मुकुरेणाजडात्मना ।। ५४
एवं जलानिलाग्नित्वं भूमित्वं खात्मना मया ।
कृतं चितेव स्वप्नेषु बत मायाविजृम्भितम् ।। ५५
अपि तस्यामवस्थायां जगन्त्याकाशकोशके ।
मया दृष्टान्यसंख्यानि परमाणुकणं प्रति ।। ५५
परमाणु प्रति व्योम परमाणु प्रति स्थितम् ।
सर्गवृन्दं यथा स्वप्ने स्वप्नान्तरयुतं पुरम् ।। ५७
स्वमेवाहमभूवं भूमण्डलं द्वीपकुण्डलम् ।
सर्वात्मनापि न व्याप्तं किंचनापि मया क्वचित् ।। ५८
समुत्पादयताशेषं लतातरुतृणाङ्कुरम् ।
भूतलेन रसाः कृष्टा मयार्थेनैव पुंभृताम् ।। ५९
अवदाततमे युद्धबोधकालमुपेयुषि ।
जगल्लक्षाणि तिष्ठन्ति न तिष्ठन्ति च कानिचित् ।।6.2.92.६०
चिति यास्तु चमत्कारं चमत्कुर्वन्ति यस्त्वतः ।
स्वचमत्कृतयोऽन्तस्थास्तदेताः सृष्टिदृष्टयः ।। ६१
अनुभूतं कृतं कष्टं यावत्क्वचन किंचन ।
परमार्थचमत्कारादृते नेहोपलभ्यते ।। ६२
प्रत्येकं विश्वरूपात्मा सर्वकर्ता निरामयः ।
प्रबुद्धः शुद्धबोधात्मा सर्वं ब्रह्मात्मकं यतः ।। ६३
सर्वः सर्वत्र सर्वात्मा सर्वगः सर्वसंश्रयः ।
एतत्प्रबुद्धविषयमप्रबुद्धं न वेद्म्यहम् ।। ६४
आकाशकोशविशदात्मनि चित्स्वरूपे
येयं सदा कचति सर्गपरम्परेति ।
सान्तस्तदेव किल ताप इवान्तरूष्मा
भेदोपलम्भ इति नास्ति सदस्त्यनन्तम् ६५

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा० परमार्थसर्गयोरैक्यप्रतिपादनं नाम द्विनवतितमः सर्गः।।९२।।