योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०९३

← सर्गः ९२ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०९३
वाल्मीकिः
सर्गः ९४ →


त्रिनवतितमः सर्गः ९३
श्रीवसिष्ठ उवाच ।
अथैवंरूपसंवित्तेः परावृत्त्य प्रयत्नतः ।
तमम्बरकुटीकोशदेशमागतवानहम् ।। १
यावत्तत्र न पश्यामि स्वदेहं क्वचन स्थितम् ।
पश्यामि केवलं सिद्धं कमप्यन्यं पुरः स्थितम् ।। २
उपविष्ट समाधाननिष्ठमिष्टं पदं गतम् ।
सौम्योदयमिवादित्यं दग्धेन्धनमिवानलम् ।। ३
बद्धपद्मासनं शान्तं समाधाननिरिङ्गनम् ।
गुल्फद्वितयमध्यस्थवृषणं विषयातिगम् ।। ४
मृष्टसौम्यसमाभोगस्कन्धबन्धुरकन्धरम् ।
सुस्थिरोदारविश्रान्तरकारकस्थितिसुन्दरम् ।। ५
नाभीनिकटगोत्तानपाणिद्वितयदीप्तिभिः ।
हृदयाम्भोजतेजोभिर्बहिष्ठैरिव भासितम् ।। ६
श्लिष्टपक्ष्मेक्षणं क्षीणसर्वेक्षं स्वच्छतां गतम् ।
सरो निमीलिताम्भोजमिव सुप्तं दिनात्यये ।। ७
अविक्षुभितमाशान्तमन्तःकरणकोटरम् ।
दधानं धीरया वृत्त्या शान्तोत्पातमिवाम्बरम् ।। ८
अपश्यता निजं देहं तं मुनिं पश्यता पुरः ।
इदं मया तदा तत्र चिन्तितं चारुचेतसा ।। ९
अयं कश्चिन्महासिद्धः संप्राप्तोऽस्मिन्दिगन्तरे ।
विचार्याहमिवैकान्तं विश्रामार्थी महाम्बरम् ।। १०
समाधियोग्यमेकान्तं लभेयेतीह चिन्तया ।
कुटी दृष्टेयमेतेन सत्यसंकल्पशालिना ।। ११
मदागमनमेतेन ततोऽचिन्तयता चिरम् ।
तं स्वदेहं शवीभूतमपास्येह कृता स्थितिः ।। १२
तदिहास्तमहं यामि स्वं लोकमिति निश्चयम् ।
यावद्गन्तुं प्रवृत्तोऽस्मि तावत्संकल्पनक्षयात् ।। १३
सा निवृत्ता कुटी तत्र संपन्नं व्योम केवलम् ।
स सिद्धोऽपि निराधारः पतितोधः समाधिमान् १४
स्वप्नसंकल्पसंशान्तौ स्वप्नसंकल्पपत्तनम् ।
यदा सा सुकुटी नष्टा मत्संकल्पोपशान्तितः ।। १५
स पपात ततो ध्यानी जलोत्पीड इवाम्बुदात् ।
खादिवानिलनुन्नोऽब्द इन्दुबिम्बमिव क्षये ।। १६
वैमानिक इवापुण्यश्छिन्नमूल इव द्रुमः ।
खात्त्यक्त इव पाषाणः स पपात ततोऽवनौ ।। १७
अहं यावदियं तावत्कुटिकास्त्विति कल्पने ।
क्षीणे कुटीक्षये जाते स सिद्धः पतितः क्षणात् ।।१८
पतता तेन सिद्धेन ततः सौजन्यकौतुकः ।
मनसैवाहमगमं नभसो वसुधातलम् ।। १९
सोऽपतत्पवनस्कन्धवलनावर्तवृत्तिभिः ।
सप्तद्वीपसमुद्रान्ते गीर्वाणरमणावनौ ।। २०
प्राणापानोर्ध्वगामित्वात्खाद्यथास्थितमेव सः ।
सृष्टपूर्वोर्ध्वमूर्धोर्व्यां बद्धपद्मासनोऽपतत् ।। २१
न प्रबुद्धो बभूवासौ विचरं तमचेतनः ।
पाषाणदेह इव वा तूलात्मेवैव वा लघुः ।। २२
मया तदवबोधार्थमथ यत्नवता तदा ।
कृत्वा जलदतां व्योम्नि वृष्टं गर्जितमूर्जितम् ।। २३
करकाशनिपातेन तेन तस्मिन्दिगन्तरे ।
मयूरं प्रावृषेवामुं बुद्ध्या बोधितवानसौ ।। २४
बभूवाभासिताङ्गश्रीर्विकासितविलोचनः ।
धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः ।। २५
प्रबुद्धं संप्रशान्तायां दृष्टौ तमहमग्रतः ।
अपृच्छं स्वच्छया वृत्त्या निवृत्तं परमार्थतः ।। २६
क्व स्थितोऽसि करोषीदं किं च भो मुनिनायक ।
कस्त्वं कस्मादलं दूरान्न भ्रंशमपि चेतसि ।। २७
इत्युक्तो मामसौ प्रेक्ष्य संस्मृत्य प्राक्तनीं गतिम् ।
उवाच वचनं चारु चातको जलदं यथा ।। २८
सिद्ध उवाच ।
प्रतिपालय मे यावत्स्ववृत्तान्तं स्मराम्यहम् ।
कथयिष्यामि ते पश्चात्पाश्चात्यं वृत्तमात्मनः ।। २९
इत्युक्त्वा चिन्तयित्वाशु स यथा वृत्तमक्षतम् ।
स्मृतवान्सायमह्नीव समाचरितमात्मनः ।। ३०
मामथोवाच वचनं चारु चन्द्रांशुशीतलम् ।
आह्लादनमनिन्द्यं च निरवद्यं सुखोदयम् ।। ३१
सिद्ध उवाच ।
अधुना त्वं मया ब्रह्मन्परिज्ञातोऽभिवादये ।
अतिक्रमोऽयं क्षन्तव्यः स्वभावो हि सतां क्षमा ।।३२
मुने चिरमहं भ्रान्तो देवोपवनभूमिषु ।
भोगामोदविमोहेषु षट्पदः पद्मिनीष्विव ।। ३३
दृश्यनद्यामथो चित्तजलकल्लोलहेलया ।
चक्रावर्तोह्यमानेन मयोद्विग्नेन चिन्तितम् ।। ३४
संसारसागरे दृश्यकल्लोलैरहमाकुलः ।
कालेनोद्वेगमायातश्चातकोऽवग्रहे यथा ।। ३५
संविन्मात्रैकसारेषु रम्यं भोगेषु नाम किम् ।
अवतिष्ठे गतोद्वेगसंविद्व्योम्न्येव केवलम् ।। ३६
शब्दरूपरसस्पर्शगन्धमात्रादृते परम् ।
नेह किंचन नामास्ति किमेतावत्यहं रमे ।। ३७
चिन्मात्राकाशमेवैतत्सर्वं चिन्मात्रमेव वा ।
तत्किमत्रासदाकारे रमे नष्टमतिर्यथा ।। ३८
विषया विषवैषम्या वामाः कामविमोहदाः ।
रसाः सरसवैरस्या लुठन्नेषु न को हतः ।। ३९
जीर्णा जीवितजम्बालजरच्छफरिकामतिः ।
कायं द्रुतगताऽऽदातुं जरेच्छति बृहद्वकी ।। ४०
कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।
स्फुरन्नेव पुरोन्तर्द्धि याति दीपशिखा यथा ।। ४१
विविधाकुलकल्लोला चक्रावर्तविधायिनी ।
मृतिजन्मवृहत्कूला सुखदुःखतरङ्गिणी ।। ४२
यौवनोल्लासकलिला जराधवलफेनिला ।
काकतालीययोगेन संपन्नसुखबुद्बुदा ।। ४३
व्यवहारमहावाहलेखाजडरवाकुला ।
रागद्वेषघनोल्लासा भूतलालोलदेहिका ।। ४४
लोभमोहमहावर्ता पातोत्पातविवर्तनी ।
हा तप्ता जीविताख्येयं नदी नदनशीतला ।। ४५
अपूर्वाण्युपगच्छन्ति तथा पूर्वाणि यान्त्यलम् ।
संसारसरिदम्बूनि संगतानि धनानि च ।। ४६
प्रवृत्ता ये निवर्तन्ते तैरलं हतभावकैः ।
अपूर्वा ये प्रवर्तन्ते तेष्वथास्थेह कीदृशी ।। ४७
सर्वस्याः सरितो वारि प्रयात्यायाति चाकरात् ।
देहनद्याः पयस्त्वायुर्यात्येवायाति नो पुनः ।। ४८
शतशः परिवर्तन्ते प्रतिपिण्डं क्षणं प्रति ।
कुलालचक्रकाभावा इव भावा भवाम्बुधौ ।। ४९
चरन्ति चतुराश्चौरा विषमा विषयारयः ।
हरन्ति भावसर्वस्वं जागर्मि स्वपिमीह किम् ।। ५०
आयुषः खण्डखण्डाश्च निपतन्तः पुनःपुनः ।
न कश्चिद्वेत्ति कालेन क्षतानि दिवसान्यहो ।। ५१
इदमद्य तथेदं च तथेदमिदमस्य मे ।
एवं कलनया लोको गतं प्राप्तं न वेत्त्यहो ।। ५२
भुक्तं पीतमनन्तासु भ्रान्तं च वनभूमिषु ।
दृष्टानि सुखदुःखानि किमन्यदिह साध्यते ।। ५३
सुखदुःखानुभवनाद्भूयोभूयो विवर्तनात् ।
अनित्यत्वाच्च भावानां स्थिता निष्कौतुका वयम् ।। ५४
भुक्तानि भोगवृन्दानि दृष्टा चानित्यता भृशम् ।
नोपलभ्यत एवाति विश्रान्तिरिह कुत्रचित् ।। ५५
भ्रान्तमुत्तुङ्गशृङ्गासु मेरूपवनभूमिषु ।
लोकपालपुरीषूच्चैः संप्राप्तं किमकृत्रिमम् ।। ५६
सर्वत्र दारुभिर्वृक्षा मांसैर्भूतानि भूर्मृदा ।
दुःखान्यनित्यता चेति कथमाश्वास्यते वद ।। ५७
न धनानि न मित्राणि न सुखानि न बान्धवाः ।
शक्नुवन्ति परित्रातुं कालेनाकलितं जनम् ।। ५८
जनो जीमूतजठरजलवद्गिरिकुक्षिषु ।
यात्यन्तःशून्य एवास्तं पांसूपचयपेलवः ।। ५९
न मे मनोरमाः कामा न च रम्या विभूतयः ।
इदं मत्ताङ्गनापाङ्गभङ्गलोलं च जीवितम् ।। ६०
क्वेव कस्य कथं नाम कुत आश्वासना मुने ।
अद्य श्वो वाऽऽपदं पापो मृत्युर्मूर्ध्नि नियच्छति ।।६१
शरीरं पर्णवद्भ्रंशि जीवितं जीर्णसंस्थिति ।
धीरधीरतया ग्रस्ता रसा नीरसतां गताः ।। ६
नीतं मनोरथैरेव नीरसैर्वाऽऽयुराततम् ।
न मम स्वं चमत्कारकारि किंचिदपीहितम् ।। ६३
मोहोऽद्य मान्यमायातो देहो नेहोपयुज्यते ।
अनास्थैवोत्तमावस्था स्थानास्थैवाधमा स्थितिः ।। ६४
आपदापतितैवेयमहो मोहविधायिनी ।
नित्यमित्येव मन्तव्यं सक्तव्यं नेह संसृतौ ।। ६५
विधिभिः प्रतिषेधैश्च शाश्वतैरप्यशाश्वतैः ।
यथेष्टं नीयते लोको जलं निमनोन्नतैरिव ।। ६६
विवेकामोदसर्वस्वं चेतः कुसुमकोशतः ।
हृत्वा मूर्च्छां प्रयच्छन्ति विषया विषवायवः ।। ६७
असदेव तथा नाम दृष्टं सत्तामुपागतम् ।
यथाऽसदेव सद्रूपं संपन्नमसदेव सत् ।। ६८
दोलायन्त्योऽवनौ देहं सागरान्सागराङ्गनाः ।
यथा धावन्ति धावन्ति जनता विषयांस्तथा ।। ६९
धावन्ति विषयाँल्लक्ष्यमुन्मुक्ताश्चित्तसायकाः ।
स्पृशन्ति न गुणान्भूयः कृतघ्नाः सौहृदं यथा ।। ७०
उत्पातवायुरेवायुर्मित्राण्येवातिशत्रवः ।
बन्धवो बन्धनान्येव धनान्येवाति नैधनम् ।। ७१
सुखान्येवातिदुःखानि संपदः परमापदः ।
भोगा भवमहारोगा रतिरेव परारतिः ।। ७२
आपदः संपदः सर्वाः सुखं दुःखाय केवलम् ।
जीवितं मरणायैव बत मायाविजृम्भितम् ।। ७३
बहून्कालपरावर्तानिष्टानिष्टान्सुखं मनाक् ।
पश्यन्प्रियवियोगांश्च याति जर्जरतां जनः ।। ७४
भोगा विषयसंभोगा भोगा एव फणावताम् ।
दशन्त्येव मनाक् स्पृष्टा दृष्टा नष्टाः प्रतिक्षणम् ।। ७५
आयुर्याति निरायासपदप्राप्तिविवर्जितैः ।
उदर्कभङ्गुराकारैः करालैः कष्टचेष्टितैः ।। ७६
भोगाशाबद्धतृष्णानामपमानः पदे पदे ।
आलानमवलीनानां वन्यानामिव दन्तिनाम् ।। ७७
संपदः प्रमदाश्चैव तरङ्गोत्सङ्गभङ्गुराः ।
कस्तास्वहिफणाच्छत्रच्छायासु रमते बुधः ।। ७८
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ।। ७९
आपातरमणीयेषु रमन्ते विषयेषु ये ।
अत्यन्तविरसान्तेषु पतन्ति निरयेषु ते ।। ८०
द्वन्द्वदोषोपरुद्धानि दुःसाध्यान्यस्थिराणि च ।
धनान्यभव्यसेव्यानि मम जातु न तुष्टये ।। ८१
आपातमात्रमधुरा दुःखपर्यवसायिनी ।
मोहनायैव लोकस्य लक्ष्मीः क्षणविलासिनी ।। ८२
आपातरमणीयानि विमर्दविसराण्यति ।
दुःखान्यापत्प्रदातृणि संगतानि खलैरिव ।। ८३
शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ।। ८४
अन्तकः पर्यवस्थाता जीविते महतामपि ।
चलन्त्यायूंषि शाखाग्रलम्बाम्बूनीव देहिनाम् ।। ८५
जीर्यन्ते जीर्यतः केशा हुत्वा जीर्यन्ति जीर्यतः ।
क्षीयते जीर्यते सर्वं तृष्णैवैका न जीर्यते ।। ८६
भोगाभोगातिगहने सर्वस्मिन्कायकानने ।
परमुल्लासमायाति तृष्णैका विषमञ्जरी ।। ८७
बाल्यं यौवनवद्याति यौवनं याति बाल्यवत् ।
उपमानोपमेयत्वं भङ्गुरत्वं मिथोऽनयोः ।। ८८
जीवितं गलति क्षिप्रं जलमञ्जलिना यथा ।
प्रवाह इव वाहिन्या गतं न विनिवर्तते ।। ८९
झटित्येवागतो देहः कुतोऽप्यर्जुनवातवत् ।
याति पश्यत एवास्तं तरङ्गाम्बुददीपवत् ।। ९०
रम्येष्वरम्यता दृष्टा स्थिरेष्वस्थिरतापि च ।
सत्येष्वसत्यतार्थेषु तेनेह विरसा वयम् ।। ९१
सुखं यदात्मविश्रान्तौ गते मनसि सत्त्वताम् ।
पाताले भूतले स्वर्गे तन्न भोगेषु केषुचित् ।। ९२
अपि संपूर्णहृद्यार्थाः पञ्चापीन्द्रियवृत्तयः ।
तावज्जयन्ति मामेता भृङ्गं चित्रलता इव ।। ९३

अद्य दीर्घेण कालेन निरहंकृतिना मया ।
स्वर्गापवर्गवैतृष्ण्यमिदमासादितं धिया ।। ९४
चिरमेकान्तविश्रान्त्यै तेनैतन्नभसः पदम् ।
त्वमिवागतवानत्र दृष्टवानस्मि तां कुटीम् ।। ९५
अद्यैतत्संपरिज्ञातं यदेषा भवतः कुटी ।
आगन्ता त्वं पुनश्चेति मया तन्न विचारितम् ।। ९६
तदा त्वत्र मया ज्ञातं कश्चित्सिद्धोऽयमात्मना ।
देहं त्यक्त्वेह निर्वाणं गत इत्यनुमानतः ।। ९७
एतन्मे भगवन्वृत्तमेषोऽस्मीति यथास्थितम् ।
मया ते कथितं सर्वं यथा जानासि तत्कुरु ।। ९८
सिद्धैर्न यावदवधानपरैर्विचार्य
निर्णीतमुत्तमधियान्तरशेषवस्तु ।
तावत्त्रिकालकलनं न विदन्ति किंचि-
दित्यब्जजादिमनसोऽपि मुने स्वभावः ।।९९
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० पा० आकाशमण्डपसिद्धसमागमगाथावर्णनं नाम त्रिनवतितमः सर्गः ।।९३ ।।