योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १२५

← सर्गः १२४ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः १२५
वाल्मीकिः
सर्गः १२६ →


पञ्चविंशत्यधिकशततमः सर्गः १२५
श्रीवसिष्ठ उवाच ।
वर्षे शान्तभयाभिख्ये जलधारे गिरौ तरौ ।
तादृक्कर्तरिपानीयं शाकद्वीपे पिबन् स्थितः ।। १
पूर्वोऽथ वर्षसप्तत्या पाश्चात्येनैत्य मोक्षितः ।
विद्यया क्रकचेनेव छित्त्वा वृक्षत्वमक्षतः ।। २
पाश्चात्यः शिशिरे वर्षे पाषाणत्वमुपागतः ।
मोचितो दक्षिणेनाशु गोमांसादिप्रयोगतः ।। ३
शिवेऽस्ताचलपारस्थे वर्षे वर्षेण पश्चिमः ।
मोचितो दक्षिणेनैत्य गोपिशाच्या वृषीकृतः ।। ४
अत्रैव क्षेमके वर्षे आम्बिकेयगिरौ तरौ ।
दक्षिणो यक्षतां यातो मोक्षं यक्षेण लब्धवान् ।। ५
अत्रैव वृषके वर्षे शैले केसरनामनि ।
केसरित्वं गतः पूर्वः पाश्चात्येनैव मोचितः ।। ६
श्रीराम उवाच ।
एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।
योगिनस्त्रिषु कालेषु सर्वाणि भगवन्कथम् ।। ७
श्रीवसिष्ठ उवाच ।
इह रामाप्रबुद्धानां यदस्त्यस्त्वलमेव नः ।
तेन यत्तु प्रबुद्धानां तदिदं श्रृणु कथ्यते ।। ८
चिन्मात्रसत्तासामान्यादृतेऽन्यन्नात्म तद्विदाम् ।
दृश्यात्यन्ताभावबोधे सर्गासर्गदृशोः क्षये ।। ९
चिन्मात्रसत्तासामान्ये विश्रान्तस्य निरन्तरम् ।
सर्वेशस्येह सर्वत्वं सर्वात्मत्वं च सर्वदा ।। १०
वद केन कथं कुत्र कदा किमिव रोध्यते ।
सर्वगस्त्वथ सर्वात्मा यत्र भाति यदा यथा ।। ११
तथा भाति तदा तत्र सर्वात्मनि किमस्ति नो ।
अतीतं वर्तमानं च भविष्यत्स्थूलमप्यणु ।। १२
तथा दूरमदूरं च निमेषः कल्प एव च ।
स्वरूपमजहत्येव सामान्ये तानि सर्वदा ।। १३
सर्वात्मनि स्थितान्येव पश्य मायाविजृम्भितम् ।
अजातमनिरुद्धं च यथास्थितमवस्थितम् ।। १४
विज्ञानघनमेवेदमत एव जगत्त्रयम् ।
नभस्त्वमत्यजंश्चैव सर्वात्मैव नभः स्थितम् ।। १५
जगदात्मा जगद्रूपं द्रष्टृदृश्यतयोदितम् ।
विश्वात्मदृग्वपुर्यत्स्यात्तत्किं केन कथं कदा ।। १६
दुःसाध्यं ब्रूहि तत्त्वज्ञ साध्यासाध्यस्वरूपिणः ।
तस्मादस्याः सदैकस्या विपश्चिद्राजसंविदः ।। १७
प्रबोधमनुगच्छन्त्या अप्राप्तायाः परं पदम् ।
एकस्या अप्यनेकस्याः सर्वं सर्वत्र युज्यते ।। १८
बोधाबोधात्मरूपे हि किं नामास्ति परात्मनि ।
अप्राप्तायाः परं बोधं पदार्थाकुलतोचिता ।। १९
किंचिद्बोधं प्रविष्टायाः सिद्धताप्युचितैव सा ।
एवं ते सर्वदिक्संस्थाः सर्वमेव परस्परम् ।। २०
पश्यन्त्यनुभवन्त्याशु चिकित्सन्ते च संकटम् ।
बोधाकाशः स्वकाद्रूपादीषच्च्युत इवाशु चेत् ।। २१
तदन्यतामिवादत्ते सुस्थितोऽपि यथास्थितम् ।
श्रीराम उवाच ।
विपश्चितः प्रबुद्धाश्चेत्कथं सिंहवृषादिताम् ।। २२
दिक्षु यान्तीति मे ब्रह्मन्बोधाय कथयाश्वलम् ।
श्रीवसिष्ठ उवाच ।
प्रबुद्धाः कथिता ये ते योगिनस्ते मयानघ ।। २३
प्रसङ्गरूपान्तरतो न प्रबुद्धा विपश्चितः ।
विपश्चितो महाबाहो प्रबुद्धा निपुणं न ते ।। २४
बोधाबोधदृशोर्मध्ये ते हि दोलायिताः स्थिताः ।
मोक्षचिह्नानि दृश्यन्ते बन्धचिह्नानि चाभितः ।। २५
नित्यधर्मप्रबुद्धानां तथाभूततया तया ।
विपश्चितो धारणया योगिनो न परं गताः ।। २६
धारणायोगिनस्ते हि धारणाप्राप्तसिद्धयः ।
ये परं बोधमायाता येष्वविद्या न विद्यते ।। २७
किमविद्यामवेक्षन्ते ते तामरसलोचन ।
धारणायोगिनो ह्येते वरेण प्राप्तसिद्धयः ।। २८
अविद्या विद्यते तेषां तेन तेऽतद्विचारिणः ।
अन्यच्च श्रृणु हे राम जीवन्मुक्तशरीरिणाम् ।। २९
भवेद्व्यवहृतावेव पदार्थान्तरवेदनम् ।
मोक्षोऽपि चेतसो धर्मश्चेतस्येव स तिष्ठति ।। ३०
न देहे देहधर्मस्तु न देहाद्विनिवर्तते ।
न कदाचन निर्मुक्तं चेतो भूयो निबध्यते ।। ३१
यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।
देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ।। ३२
गृह्यते तद्गतं तेषां चेतस्त्वचलमेव तत् ।
मोक्षो हि न परज्ञेयो धारणादिप्रयोगवत् ।। ३३
आत्मसंवेद्य एवासौ मध्वाद्यास्वादसौख्यवत् ।
सुखदुःखैर्युतोयोऽसौ स्वयं बन्धानुभूतिमान् ।। ३४
तन्मुक्तौ मुक्त इत्युक्तः स्वानुभूतिप्रदस्त्वसौ ।
अन्तःशीतलचित्तो हि मुक्त इत्यभिधीयते ।। ३५
बन्धः संतप्तचित्तेति देहादेस्तन्न दृश्यते ।
शरीरे कणशः कृत्ते राज्ये वा विनियोजिते ।। ३६
रुदतो हसतश्चैव जीवन्मुक्तमतेरिह ।
न दुःखं न सुखं किंचिदन्तर्भवति तत्स्थितम् ।। ३७
गृह्णतोऽप्यनुभूतिस्तु तत्रैवैषास्ति नापरे ।
दृश्यन्ते पण्डिता भग्ना रूपान्तरमुपागताः ।। ३८
देहादिजीवन्मुक्तानां स्वभावान्न कदाचन ।
मृतोऽपि नैव म्रियते रुदन्नपि न रोदिति ।। ३९
विहसन्न हसत्येव जीवन्मुक्तो महोदयः ।
वीतरागाः सरागाभा अकोपाः कोपसंयुताः ।। ४०
अमोहा मोहवलिता दृश्यन्ते तत्त्वदर्शिनः ।
इदं सुखमिदं दुःखमित्यादिकलनास्तु ताः ।। २
अलं दूरगतास्तेषामङ्कुरा नभसो यथा ।
जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च ।। ४२
सुखदुःखादि तस्येति वाग्व्योमविटपोपमा ।
अशोका एव शोचन्ते जीवन्मुक्ता जयान्विताः ।। ४३
अच्छिन्ना एकतद्भावा दृश्यन्ते तत्त्वदर्शिनः ।
शिरः कमलजस्योच्चैः सामगायनतत्परम् ।। ४४
हरो नखेन चिच्छेद सुकुमारमिवाम्बुजम् ।
शक्तोऽपि न पुनर्ब्रह्मा जनयामास तच्छिरः ।। ४५
व्योमैकतास्य चिद्व्योम्नो मुधा मूर्ध्नेतरेण किम् ।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।। ४६
यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ।
हरो हरिणशावाक्षीमक्षीणशरतोऽश्रु च ।
धत्ते वपुषि दुग्धाब्धिर्गुप्तामृतकलामिव ।। ४७
शक्तोऽपि रागितामेष न त्यजत्युत्तमाशयः ।
पञ्चेषुदाहसमये दृष्टा नीरागतागुणाः ।। ४८
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।। ४९
रागितैषास्तु मा वास्य किमरागितयान्यया ।
यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ।। ५०
करोति कारयत्युच्चैर्म्रियते मार्यतेऽपि च ।
जायते वर्धतेऽजस्रं जीवन्मुक्तो जनार्दनः ।। ५१
न चाजवं जवीभावं त्यक्तुं शक्तोऽप्यसौ न तम् ।
तेन त्यक्तेन नैवार्थस्तस्य नैवाश्रितेन च ।। ५२
तद्यथास्थितमेवास्तु इह इत्यस्तवासनम् ।
हरिर्निरिच्छ एवास्ते शुद्धचिन्मात्ररूपभृत् ।। ५३
आत्मानमान्दोलयति कालकन्दुकतां गतम् ।
अजस्रं नित्यमादित्यो जगद्गृहनभोङ्गणे ।। ५४
न च रोधयितुं देहं न समर्थो दिनेश्वरः ।
निरिच्छ एव निर्वाणस्तथाप्यास्ते यथास्थितम् ।। ५५
चन्द्रोऽनुभवति व्यर्थमाकल्पं क्षयमक्षयम् ।
जीवन्मुक्ततया खिन्नो यथास्थितमवस्थितः ।। ५६
मरुत्तहव्यगौरीशवीर्यग्रासादिखेदिताम् ।
जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः ।। ५७
बह्वीभिर्विजिगीषाभिः कृपणाविव तिष्ठतः ।
जीवन्मुक्तावपि गुरू लोके शुक्रबृहस्पती ।। ५८
करोति जनको राज्यं जीवन्मुक्तमना मुनिः ।
जगत्यामाजिषूग्रासु देहं जर्जरतां नयन् ।। ५९
नलमान्धातृसगरदिलीपनहुषादयः ।
जीवन्मुक्ताश्चिरं राज्यं चक्रुराकुलिता इव ।। ६०
व्यवहारे यथैवाज्ञस्तथैव खलु पण्डितः ।
वासनावासने एव कारणं बन्धमोक्षयोः ।। ६१
बलिप्रह्लादनमुचिवृत्रान्धकमुरादयः ।
जीवन्मुक्ताः स्थितिं चक्रुर्वीतरागाः सरागवत् ।। ६५२
तस्मादसत्त्वे सत्त्वे च रागद्वेषक्षयोदये ।
न मनागपि भेदोऽस्ति ज्ञखं प्रति स्वरूपिणि ।। ६३
ज्ञानेनाकाशशुद्धेन धर्मान्ये गगनोपमान् ।
विन्दन्ति जीवन्मुक्तानां तेषां भेदमतिः कुतः ।। ६४
भास्वरं शक्रकोदण्डं यथा नानेव शून्यकम् ।
आभासमात्रमेवायं तथा दृश्यात्मको भ्रमः ।। ६५
शक्रचापे यथा भान्ति नानावर्णा नभोङ्गणे ।
तथा शून्यात्मका एव ब्रह्माण्डपरमाणवः ।। ६६
इदं जगदसद्भाति सदिव व्यक्तिमागतम् ।
अजातमनिरुद्धं च यथा शून्यत्वमम्बरे ।। ६७
साद्यन्तमप्यनाद्यन्तमशून्यमपि शून्यकम् ।
जगज्जातं तथाऽजातमरुद्धं रुद्धमेव च ।। ६८
जातं निरुद्धमस्त्येवं ब्रह्म व्योमैव भासते ।
यथा दारुमयः स्तम्भस्तथा तच्छालभञ्जिका ।। ६९
समस्तकलनोन्मुक्तं समं निर्निद्रमासनम् ।
यदेकान्तचिदाकाशं तद्विद्यात्तन्मयं जगत् ।। ७०
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
अनुन्मेषं चिदाकाशं तद्विद्यात्तन्मयं जगत् ।। ७१
तत्र यद्द्वैतमैक्यं तन्मन्ये तदपि नैव च ।
तद्व्योम केवलं भाति मन्ये तदपि नैव वा ।। ७२
जगदाकाशमेवेदमात्मैवात्मनि वा स्थितम् ।
भविष्यत्पुरवद्दृष्टमपि स्फारमपि स्फुटम् ।। ७३
आकाशकोशविशदाशय दृश्यजातं
मौनात्म तिष्ठति शिलाघनमेव शान्तम् ।
यन्नाम तस्य जगदित्यभिधां विधाय
स्वात्मैव मोहित इवायमहो नु माया ।। ७४
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० जीवन्मुक्तकलनं नाम पञ्चविंशाधिकशततमः सर्गः ।। १२५ ।।