लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०१३
← अध्यायः ०१२ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः १३ [[लेखकः :|]] |
अध्यायः ०१४ → |
श्रीनारायण उवाच-
एतद्ब्रह्माण्डमानं तु पञ्चाशत्कोटियोजनम् ।
भूम्यावरणमित्येतत् कटाहं प्रथमं मतम् ।। १. ।।
अथोत्पन्नेष्वसंख्येषु ब्रह्माण्डेषु च तेषु वै ।
मध्योत्पन्नोष्मणा भौमं कटाहं शीर्णतोन्मुखम् ।। २ ।।
दृष्ट्वा तु ब्रह्मणा तत्तच्छान्त्यर्थं चापरं ततः ।
तादृग्गुणं कटाहं तु सलिलावरणात्मकम् ।। ३ ।।
आहितं तत्समावृत्तं पञ्चाऽब्जयोजनावृतम् ।
जलातिशैत्यनियमकृते तैजसमावृतम् ।। ४ ।।
तृतीयं जलतस्तद्वै दशोत्तरगुणं मतम् ।
तन्नियमकृते वायोस्ततोऽपि दशपुष्टिकम् ।। ५ ।।
तस्याकाशं ततस्तस्याऽहंकारस्तस्य वै महान् ।
महतः प्रकृतिः प्रोक्ता चाऽष्टमाऽवरणात्मिकी ।। ६ ।।
एतान्यष्टकटाहानि ब्रह्माण्डाऽवरणानि वै ।
प्रत्येकं तत्र लग्नानि तेषां दार्ढ्यकराणि हि ।। ७ ।।
ब्रह्माण्डानां च सृष्टीनां वैराजादेश्च कृत्स्नशः ।
आयुष्यनियमार्थं तु परब्रह्म स्वयं हरिः ।। ८ ।।
महाकालं स्वमूर्तेस्तु प्रकटीकृतवाँस्ततः ।
महाकालस्य रूपं वै समयः परिकथ्यते ।। ९ ।।
कालः कलयते लोकान् कालः संहरते प्रजाः ।
क्षणादारभ्य च महाप्रलयाऽवधिकार्यकृत् ।। 1.13.१० ।।
स एवाऽऽयुष्यसंक्षेप्ता हरिणा परिकल्पितः ।
क्षणः स्याद् या परमाण्वोर्विभागजनिका क्रिया ।। ११ ।।
क्रियाविशिष्टकालः सः क्षणाख्यां लभते ततः ।
विभागेनाऽप्यभिव्याप्तः कालः क्षणो द्वितीयकः ।। १ २।।
पूर्वसंयोगनाशाढ्यः कालः क्षणस्तृतीयकः ।
उत्तरदेशसंयोगव्याप्तः क्षणश्चतुर्थकः ।। १ ३।।।
चतुर्भिश्च क्षणैः कालः कूट इत्यभिधीयते ।
त्रिभिः कूटैस्त्रुटिः प्रोक्ता तिस्रस्त्रुटयो लवो मतः ।। १४।।
लवत्रयं निमेषः स्यान्निमेषा दश पंच च ।
काष्ठा प्रोक्ता तथा पञ्चदशकाष्ठास्तु नाडिका ।। १५।।
ते द्वे मुहूर्तः संप्रोक्तः प्रहरः षण्मुहूर्तकाः ।
प्रहराः सप्त यामः स्यात्, दिवा यामचतुष्टयम् ।। १६।।
तथा यामाश्च चत्वारो निशा, रात्र्यहनी ह्युभे ।
पञ्चदश भवेत्पक्षः, द्वौ पक्षौ मास उच्यते ।। १७।।
मासोऽयन्तु मनुष्याणां पितॄणां तदहर्निशम् ।
द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं मतम् ।। १८।।
दक्षिणन्तु निशा प्रोक्तोत्तरं तु दिवसो दिवि ।
अयने द्वे तु मासानां द्वादश, वत्सरोऽपि सः ।। १९।।
दिव्यवर्षप्रमाणेन युगाः समनुकीर्तिताः ।
कृतं त्रेता द्वापरं च कलिश्चेति युगाः स्मृताः ।।1.13.२०।।
चत्वारि त्रीणि द्वे चैकं वर्षाणां तु यथाक्रमम् ।
तत्तद्युगानां समयो वर्षदशसहस्रकम् ।।।२ १ ।।
तथा सन्ध्यंशयोस्तेषां समयो द्विसहस्रकम् ।
अष्ट षडथ चत्वारि द्वे वर्षाणि यथाक्रमम् ।।।२२।।
तादृशं युगसाहस्रं ब्रह्मणो दिनमुच्यते ।
तावत्येव निशा तस्य यत्र त्रिलोकि नश्यति ।।२३।।
प्रातः पुनः समुदेति, सायं नाशो यथाक्रमम् ।
ब्रह्मणस्तु दिने यान्ति मनवो वै चतुर्दश ।।२४।।
मनुः स्वं समयं भुंक्ते चतुष्कीमेकसप्ततिम् ।
इन्द्रोऽपि समयं भुंक्ते स्वचतुष्क्येकसप्ततिम् ।।२५।।
ब्रह्मणोऽपि स्वदिवसैः परमायुर्वयःशतम् ।
पञ्चाशद्वर्षमानन्तु पूर्वार्धमिति तन्मतम् ।।२६।।
एवमेव परार्धं तत्पञ्चाशद्वर्षमानकम् ।
ब्रह्मणो यद्भवेद्वर्षं वैराजस्य दिवा हि सः ।।२७।।
वैराजस्य च यद्वर्षं महाविष्णोर्दिवा तु सः ।
महाविष्णोस्तु यद्वर्षं प्रधानपुरुषस्य सः ।।२८।।
दिवसोऽथाऽस्य यद्वर्षं प्रकृतिपूरुषस्य सः ।
दिवसस्तत्प्रमाणेन वर्षाणां शतमित्ययम् ।।।२९।।
सृष्टिमयः समयः स उन्मेषोऽक्षरब्रह्मणः ।
तस्य प्रतिनिमेषस्तु महाप्रलय उच्यते ।।1.13.३ ० ।।
निमेषोन्मेषयोस्तस्य सृष्टयोऽनन्तरीतयः ।
विलीयन्ते च जायन्ते तत्प्रवाहस्य नाऽदिता ।। ३ १।।
अथवा कालमानं तु सूक्ष्मं क्षणचतुष्टयम् ।
षष्टिः क्षणचतुष्काणां विपलः परिकीर्तितः ३२।।
विपलानां तु या षष्टिः पलः स समयो मतः ।
पलानां तु च या षष्टिः सा घटिकेति सम्मता ।।३३।।
सार्धद्वयघटिकानां घण्टाकालः प्रकीर्तितः ।
चतुर्विशतिघण्टानां रात्रिदिनं तु मानुषम् ।।।३४।।
वर्षन्त्वह्नां च रात्रीणां पञ्चषष्टिः शतत्रयम् ।
एवं कालः सदा सर्वान् स्वायत्तीकृत्य वर्तते ।।३५।।
पक्षो यो मानुषश्चात्र चान्द्रः स दिवसो मतः ।
रात्रिश्च तादृशी लम्बा मासो रात्रिदिवं ततः ।। ३६।।।
चान्द्रं बोध्यं तथा सौर्यं रात्रिशून्यं तु मण्डलम् ।
ध्रुवेऽति दिवसो नित्यो यतः सृष्टर्विभिन्नगा ।।३७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आयुःप्रमापकसमयव्यवच्छेदादिनिरूपनामा त्रयोदशोऽध्यायः ।। १ ३।