← अध्यायः ०१३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४
[[लेखकः :|]]
अध्यायः ०१५ →

श्री नारायण उवाच-
अथ ब्रह्मा मानसीं तु सृष्टिं चैच्छत् सरूपिणीम् ।
मृद्यमर्दकभावेन गुणसृष्टिमकल्पयत् ।। १ ।।
ब्रह्मा स्ववित्तिविभवाद्बहुवीतिधाराः
स्वेच्छाप्रवाहविभवादभिलाषधाराः ।
यत्नात् स्वकीयगुणतो वहुयत्नकूटा-
नुत्पाद्य सृष्टिकरणाय पुरुक्रियाश्च ।। २ ।।
स्वस्मान्मनांस्यपरिमाणगुणानि कृत्वा
संख्यां परार्धगुणितां च ततोऽप्यसंख्याम् ।
मानं च ह्रस्वमणु दीर्घमथो महच्च
सृष्ट्वा वियोगनु सुयोगमतः परं च ।। ३ ।।
ज्येष्ठत्वमर्थसुकनिष्ठकताऽन्तिकत्वे
दूरत्वमर्थगुरुतां द्रवतां ततोऽन्यम् ।
स्नेहं तथा कमलजो विरचय्य नैजात् देहाद् गुणान्
बहुविधान् समतिष्ठिपत्तान् ।। ४ ।।
मायां निगृह्य निजमानससंस्थितां सः
तस्यास्तमोऽपि च विमोहमपि द्वितीयम् ।
मोहं महान्तमपि तुर्यसुपर्वसंज्ञं
तामिस्रमन्धतमसं च ससर्ज पञ्च ।। ५ ।।
अज्ञानवृत्तय इति स्म भवन्ति सृष्टा-
वालम्ब्य या भववहाः सुभवन्ति जीवाः ।
ता एव रूपविवरेण विभिन्नसंज्ञा
आविद्यमस्मिभवनं समरागकश्च ।। ६ ।।
द्वेषो भयं त इति सर्वशरीरिसक्ता
ब्रह्मा ससर्ज पुनरप्यथ सत्प्रमाणम् ।
वैकल्पकं च नु विपर्ययमुग्रनिद्रां
स्वप्नं सुषुप्तिमथ घोरतरां नु वृतिम् ।। ७ ।।
मौढ्यं च नर्म हसनं कपटं च मायां
वेधास्ततः समससर्ज नु संशयं च ।
तर्कं च वादमथ जल्पमथो वितण्डां
कापट्यचौर्यमथ तच्छलमामृषात्वम् ।। ८ ।।
लौल्यं तृषामपि तथाऽऽसुरभावनां च
नास्तिक्यमुग्रतरनिर्दयतामशान्तिम् ।
अस्निग्धतां परमरुक्षतरत्वमार्तिं
घातंतिरस्कृतिमथार्धगडुत्वमुग्रम् ।। ९ ।।
सृष्टिं समानां समुपद्रवान्विता
दृष्ट्वा विचार्य्याऽथ तमोमयीं मुहुः ।
पापीयसीं स्वस्य विरुद्धयामिनीं
न चित्तशान्तिं समवाप्तवानजः ।। 1.14.१० ।।
अशान्तस्य विधेः पृष्ठादधर्मः समजायत ।
अनीतिस्तेन साकं वै प्रोत्पन्ना सहचारिणी ।। १ १।।
भार्यास्तथाऽभवश्चिन्ताऽसूयेर्ष्या ममता मृषा ।
आशाऽहन्ता तथा तृष्णा दुष्टता निकृतिः स्पृहा ।। १२।।
हिंसा दुरुक्तिरश्रद्धाऽशान्तिनिर्दयता तथा ।
अमेधा चाऽप्यतुष्टिश्चाऽपुष्ट्यमैत्र्यक्रियास्तथा ।। १३।।
अबुद्धिरगतिश्चाप्यतितिक्षाऽथाऽगतिस्तथा ।
अनुन्नतिरमूर्तिश्चाऽनुपरक्तिस्तथाऽक्षमा ।। १ ४।।
अस्मृतिश्च सुषुप्तिश्चाऽजायन्त संसृतिप्रदाः ।
तत्पुत्रास्तु मदो लोभो रसो मोहश्च मत्सरः ।। १५।।
दंभः कामस्तथा क्रोधो दर्पः पारुष्यमनृतम् ।
स्नेहो मानं च कालुष्यं द्रोहोऽशौचं कलिस्तथा ।। १६।।
अशौचं चाऽप्यविश्वासश्चौर्यं पानं द्युतं तथा ।
गर्वो नास्तिक्यमेवापि प्रमादो राग एव च ।। १७।।
पैशुन्यं व्यसनं दुःख द्वेषोऽज्ञानं भयं तथा ।
पापं मृत्युरनैश्वर्यं कौटिल्यं चाऽप्यनिग्रहः ।। १८।।
अमार्दवमसन्तोषोऽधैर्यं चैवाऽप्यनर्थकः ।
अत्यागश्चाऽप्ययोगश्चाऽप्रसादोऽप्रश्रयस्तथा ।। १९।।
अलाभोऽनुद्यमश्चाऽप्यदमो विघ्नमिति स्मृताः ।
पुत्र्यश्चैवाऽप्यधर्मस्य जाता बह्व्यो हि दुःखदाः ।।1.14.२०।।
घृणा निन्दा च कुत्सा च जुगुप्सा कूटता तथा ।
प्रतारणा छलाऽन्याया प्रसह्यता च धिक्कृतिः ।।२१।।
छिच्छिकारा ह्यरर्राटी हाहाकारा च वेदना ।
पीडा हृदयदाहा च कालिमा मोहिनी तथा ।।२२।।
हृत्फाला प्रभया योनिर्मलदा फट्प्रकाण्डिका ।
कामना च रजस्रोता लिट्करी क्षुवती तथा ।।२३।।
कुदृष्टिश्च कुशीला च प्रगुह्याशाऽङ्गलिङ्गिका ।
कृपणता पराधीना मलिनता दरिद्रता ।।२४।।
अरिष्टा चाऽपशकुना दुरिता पापिणी तथा ।
कुणपा रक्तपा शुक्रपायिनी पातिनी तथा ।।।२५।।
परस्वभेदिका षण्ढा मारिणी विह्वला तथा ।
अभाना च तमस्करी घोरा दिग्विभ्रमा तथा ।।२६।।
आडम्बरा विडम्बाना चाकस्मिकी मृतंकरी ।
एताः प्रोक्ता अधर्मस्य पुत्र्य उद्वेजिकाः सदा ।।२७।।
साऽपत्यं तु तमधर्मं दृष्ट्वा वेधास्तुतोष न ।
तदा शान्तिप्रदां सृष्टिं कर्तुमैच्छद् हृदा पुनः ।।२८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणो मानससृष्टौ गुणाऽज्ञानाऽधर्मसृष्टिनिरूपणनामा चतुर्दशोऽध्यायः ।। १४ ।।