← अध्यायः ०१८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९
[[लेखकः :|]]
अध्यायः ०२० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि साधूनां श्रेष्ठता यतः ।
सन्तो दिशन्ति चक्षूंषि सन्तस्ते हृदयं मम ।। १ ।।
मुक्तिमार्गोऽनवरतस्तादृशैः साधुभिर्मम ।
उद्धारितः प्रवृत्तश्च मुच्यन्ते तेन जन्तवः ।। २ ।।
वेदज्ञानं जनाचारो दैवं पैत्र्यं च कर्म यत् ।
प्रवर्तते सदा तेभ्यो मोदन्ते तेन जन्तवः ।। ३ ।।
भक्तेर्बलं च वैराग्यं कल्याणं विविधं च तैः ।
जायंतेऽथ विरक्तास्तु मुक्तिं संयान्ति तेन वै ।। ४ ।।
साधुवंशा आर्षवंशा ब्रह्मचारिप्रणालिकाः ।
प्रवर्तन्ते सदा तैस्तु तेन मोक्षो ध्रुवो भवेत् ।। ५ ।।
सनकादिसमा दिव्या आबाल्याद् ब्रह्मचारिणः ।
सन्तो ब्रह्म स्वयं बोध्यास्त एव परमेश्वराः ।। ६ ।।
सतामाशीर्वचोभिस्तु न्वहं नारायणोऽभवम् ।
सतामाशीर्वचोभिस्त्वं लक्ष्मीरभव आर्थिकी ।। ७ ।।
सन्तो यदि प्रयाचेयुर्लक्ष्मीरस्मभ्य आवह ।
तदा सद्भ्योऽप्यहं लक्ष्मीस्त्वां प्रियां नु समर्पये ।। ८ ।।
बदाऽन्यत् किन्न देयं मे सतामर्थे भवेत्परम् ।
सर्वाधिकप्रियां त्वां यद् ददामि तेभ्य आदरात् ।। ९ ।।
दासा दास्यश्च वैकुण्ठं भोग्यसाधनसम्पदः ।
लक्ष्मीश्चाहं च सर्वं मे सतां भोग्यं न संशयः ।। 1.19.१० ।।
बहुजन्मकृतं पुण्यं यदा भवति साम्प्रतम् ।
तदा सन्तः स्वगेहं वै समागच्छन्ति भाग्यतः ।। ११ ।।
यदि सन्तोषिता वृद्धा बहुभिर्जन्मभिस्तदा ।
आगच्छेयुः समाः सन्तो गृहं तु गृहिणां मुदा ।। १२ ।।।
सन्तो वाञ्च्छन्ति यद्यन्मे गृहदाराधनादिकम् ।
निःसंशयं तु तत्प्रेम्णा सद्भ्यः सर्वं समर्पये ।। १२ ।।
ब्रह्मलोको न गोलोको वैकुंठोऽप्याकृतो न च ।
न लक्ष्मीर्न रमा राधा सद्भ्यो नास्त्यधिकं हि मे ।। १४।।
लक्ष्मि! सन्तः सदा सेव्यास्तन्वा च मनसाऽन्वहम् ।
सन्तो मम प्रतीका वै सन्तस्तु मम मूर्तयः ।। १५।।
सन्नो नखशिखायावद्देहदिव्या भवन्ति हि ।
चरणानां जलं तेषां प्रपुनाति भुवस्तलम् ।। १६।।
चरणानां रजस्तेषां पुनाति शिरसा धृतम् ।
चरणानां तलं तेषां पुनाति वक्षसि धृतम् ।। १७।।
चरणानां स्पर्शनं वै पुनाति भुवनत्रयम् ।
पादसंवाहनं तेषां प्रारब्धं सुकरोति हि ।। १८।।
साधूनां पादयोः स्वस्य मस्तके धारणे कृते ।
पवित्रं जायते सर्वं शरीरं मोक्षभाजनम् ।। १९ ।।
पादयोर्लेहने तेषामात्मा शुद्ध्यति किल्बिषात् ।
जंघासंवाहने तेषां सम्राड् भवति सेवकः ।। 1.19.२० ।।
सक्थिसंवाहने तेषां सार्वभामो नृपो भवेत् ।
कटिसंवाहने तेषां त्रिलोकीशो भवेद् ध्रुवम् ।। २ १ ।।
पृष्ठसंवाहने तेषां परमेष्ठिपदं लभेत् ।
हस्तसंवाहने तेषां वैराजं पदमालभेत् ।। २२।।
अंगानां मर्दने तेषां विष्णुराज्यं परं लभेत् ।
सतां संकल्पपूर्त्या स्वं सर्वं प्रपूरितं भवेत् ।। २३ ।।
सतां शरीरे भगवच्छरीरं सतां विचारे भगवद्विचारः ।
सतां प्रयत्ने भगवत्प्रयत्नस्ततः सुसन्तः खलु तोषणीयाः ।। २४।।
सतां पदे श्रीहरिपादशक्तिः सतां करे श्रीहरिहस्तशक्तिः ।।
सतां हृदि श्रीहरिवासशक्तिः सतां विहारे हरिगम्यशक्तिः।। २५।।
सतां मनः श्रीहरिमानसं मत
ज्ञानं सतां ज्ञानममुष्य सम्मतम् ।
इच्छा सतां श्रीहरिवाञ्च्छनं मत
कार्ये सतां श्रीहरिणा कृतं मतम् ।। २६।।
सतां तु नाड्यः परमेशनाड्यो रक्तं सतां श्रीपरमेशरक्तम् ।
धातुः सतां श्रीपरमेशधातुः श्वासः सतां श्रीपरमेशवायुः ।। २७।।
चक्षुः सतां श्रीपरमेशचक्षुः कर्णः सतां श्रीपरमेशकर्णः ।
मुखं सतां श्रीपरमेश्वरास्यं जिह्वा सतां श्रीपरमेशजिह्वा ।। २८ ।।
भोज्यं सतां श्रीपरमेशभोज्यं ग्राह्यं सतां श्रीपरमेशलभ्यम् ।
भोग्यं सतां श्रीपरमेशभोग्यं दिव्यं भवेद्वस्तु सतां प्रसंगात् ।। २९।।
सन्तः सदा श्रीभगवत्समाना मोक्षप्रदास्ते शरणागतेभ्यः ।
पापानि सद्यः खलु मार्जयन्ति पुण्यान्यनन्तानि समर्पयन्ति।। 1.19.३० ।।
सतां त्वचो ह्यक्षरदिव्यतुल्याऽऽ-
नन्दप्रदाः स्पर्शकृतां भवेयुः ।
सतां समस्तेन्द्रिययोगलाभो
मुक्तिप्रदः पुष्यन् एव बोध्यः ।। ३१ ।।
सतां सकाशात् खलु येन पुत्रो
लब्धः सुपुत्रः कुलपावनः सः ।
हरेस्तु गात्रान्ननु सोऽपि जातः
सता समो वै हरिणा समः सः ।। ३२।।
सतां प्रसादो मुखपंकजस्य लब्धस्तु येनाऽत्र स मुक्तिपात्रम् ।
सतां समस्तं शरीरन्तु येन सम्मर्दितं तस्य समस्तसौख्यम् ।। ३३ ।।
जनाः सतां भोजनदानमग्रतः
कृत्वा तु गृह्णन्ति सतां प्रसन्नताम् ।
जिह्वन्द्रिऽयाऽर्प्याऽर्थ्यसुमिष्टमश्नतां
स्वीकुर्वतां शिष्यसुदत्तसूपदाः ।। ३४।।
रसस्तु सर्वो मधुरादिरूपः सत्स्वीकृतो निर्गुणभावमीयात् ।
रूपं तथा शुक्लसुरूपसौम्याकृति प्रदृष्टं ह्यगुणत्वमीयात् ।। ३५।।।
शब्दस्तु सद्भिः खलु संश्रुतो यः
स दिव्यतां याति सतां प्रसंगात् ।
स्पर्शस्तथा सत्पुरुषैः कृतो यः
स मुक्तिदः स्याद्धि सतां प्रसंगात् ।। ३६।।
गन्धस्तु सद्भिर्ग्रहणे धृतो यः स निर्गुणो वै भवति प्रदिव्यः ।
संकल्पमात्रं तु सतां विबोध्यं मोक्षप्रदं पुण्यसुदं समर्द्धम् ।। ३७।।
यदासनं सद्भिरधिष्ठितं च यद् यानं शरीरं पशुपक्षिणां तथा ।
यच्चाऽप्यधिष्ठाय सुखस्य मात्रां गच्छन्ति सन्तस्तदु मोक्षगामि । ३८ ।
यद्युज्जडानामथ चेतनानां देहेषु सन्तः सुखमामनन्ति ।
तत्तज्जडं चेतनमस्य योगाद् दिव्यं सुमुक्तिं गतमित्यवेहि । । ३ ९।।
यस्मिन् गृहे पादतलस्य लब्धिः सतां भवेत्तद्गृहमिष्टदिव्यम् ।
यस्मिन्पदार्थे करयोः सतां तु स्पर्शो भवेद्वस्तु तदेव दिव्यम्।।1.19.४ ० ।।
सतां स्तवे येन तु वाक् प्रयुक्ता सा दिव्यतां याति न बन्धनाय ।
आस्यं प्रजन्यं च सतां प्रसंगात् सदा पवित्रं भवतीह दिव्यम् ।।४ १ ।।
शारीरकं यत्करणं च कार्यं प्रत्येकमंगं च समस्तदेहः ।
यद्यत्सतां स्यादुपयोगलभ्यं तत्तद्भवेन्मोक्षकरं तु दिव्यम् ।।४२ । ।
देहस्य भोग्यानि सुपौरटाणि वा राजतादीनि सुभूषणानि ।
कौशेयकार्पासकृतानि यानि वस्त्राणि यावत्प्रकराणि तानि ।।४३ ।।
तैलानि मृद्यानि सुगन्धितानि
लेप्यानि चाऽर्च्यानि तु चन्दनानि ।
पुष्पाणि रम्याणि सुगन्धिभाञ्जि
सद्भ्योऽर्पितान्याप्नुयुरत्रिगौणम् ।।४४।।
अहो विशेषात् किमहं ब्रवीमि
सन्तस्तु सर्वान्नु पवित्रयन्ति ।
पापान् सुदुष्टान्मलिनान् शठाँश्च
तमः प्रधानानधमाँश्च जीवान् ।।४५।।
प्रजापतीन् मनून् देवानृषीन् पितॄन् पृथक्स्थितान् ।
गन्धर्वांश्चारणान् सिद्धान् यक्षान् विद्याधराऽसुरान् ।।४६।।
किंपुरुषाँश्चाऽप्सरसः किन्नरानुरगाँस्तथा ।
मातृः पिशाचान् रक्षांसि भूतान् प्रेतान् विनायकान् ।।४७।।
वेतालोन्मादकूष्माण्डान् वृद्धबालग्रहाँस्तथा ।
पशून्मृगान्खगान्वृक्षान्पर्वताँश्च सरीसृपान् ।।४८।।
स्थावरान् जंगमान् सर्वान् भूवारिगगनौकसः ।
शुद्धसत्त्वान्मिश्रसत्त्वान्राजसाँस्तामसाँस्तथा ।।४९।।
सर्वान् शुभाऽशुभाञ्जीवान् पुण्याऽपुण्यपरिप्लुतान् ।
सन्तः पुनन्ति संकल्पान्मोक्षं नयन्ति दर्शनात् ।।1.19.५० ।।
दिव्यान् कुर्वन्ति संसर्गात् स्मृद्धान्कुर्वन्ति सेवनात् ।
ईशान् कुर्वन्ति वचनात् शान्तान्कुर्वन्ति संगमात् ।।५ १ ।।
तेषां श्रैष्ठ्यं क्रमाद् बोध्यं क्रमस्तु ज्ञानमात्रया ।
भक्त्या चापि क्रमो बोध्यो वदामि शृणु पद्मजे! ।।५२।।
अस्मादिभ्योऽत्र जीवेभ्यः श्रेष्ठाः सन्ति तृणादयः ।
अन्नौषध्यादयस्तेभ्यस्ततः श्रेष्ठाश्च वीरुधः ।।५ ३।।
तत आम्रादयो वृक्षाः श्रेष्ठा देवद्रुमास्ततः ।
स्थास्नुभ्यस्तु चराः श्रेष्ठाः सूक्ष्मा ये जन्तवः खलु ।।५४।।
तेभ्यः पिपीलिकाः श्रेष्ठास्तेभ्यस्तु शलभादयः ।
भ्रमराद्यास्ततस्तेभ्यश्चटकाप्रमुखा मताः ।।।५५।।
शशादयस्ततोऽजाद्यास्तेभ्यः श्रेष्ठा गवादयः ।
ततो मनुजास्तेषु वर्णाश्चत्वारो सदुत्तमाः ।।५ ६ ।।
ब्राह्मणास्तेषु तेषां च धर्मनिष्ठा वरा मताः ।
ज्ञानिनोऽथ वरास्तेभ्यो ज्ञानिभ्यो देवकोटयः ।।५७।।
देवेभ्यः पितरः श्रेष्ठास्तेभ्य ऋषय उत्तमाः ।
ऋषिभ्योऽपि परंश्रेष्ठो य एकान्तिकभक्तिमान् ।।५८।।
ऐकान्तिकेषु भक्तेषु श्रेष्ठः साधुगुणालयः ।
सर्वस्वात्मनिवेदी यो भगवत्त्वाय कल्पितः ।।५९।।
श्रीहरेरंकजः पुत्रः साधुः सद्गुणभाजनम् ।
श्रीहरेरंशजः शिष्यः सत्पुरुषो हि दायभाग् ।।1.19.६०।।
दायो मुक्तिस्तस्य भाग् यः स साधुर्हरिरेव सः ।
हरेर्वंशो हरेर्गोत्रं हरेर्मूर्तिः स सम्मतः ।।६१ ।।
नाऽल्पो न्यूनो हरेः साक्षाद्धरिस्तस्मान्न रिच्यते ।
तस्माच्छ्रेष्ठो न कोऽप्यऽस्ति सदाऽऽस्ते तत्र यद्धरिः ।।६२।।
तारतम्यं विदित्वैवं बहुमान्या हरिश्रिताः ।
हरेः समाश्रिताः साक्षाद्धरेस्तु हृदयात्मकाः ।।६३।।
हरौ सन्तस्तु ते सौम्यास्तिष्ठन्त्यभेदवृत्तितः ।
यतयः साधवो दिव्या साक्षाच्छ्रीहरिमूर्तयः ।।६४।।
जनलोकसमा भूत्वा तोषयन्ति जनान् सदा ।
आसने शयने खाद्ये भोजने पात्रलेपने ।।६५।।
रमणे गमने हास्ये खेलने सहवासने ।
श्लेषणे दर्शने श्रेष्ठे उत्सवे यानवाहने ।।६६।।
मनोरंजनके कार्ये तोषयन्ति जनाँस्तु ये ।
तान् प्रसाद्य सदा लक्ष्मि! सौख्यं भवति शाश्वतम् ।।६७।।
परोपकारशीलास्ते परकार्यशरीरकाः ।
परार्थसाधका मोक्षदायिनो जीवतारकाः ।।६८।।
साधवास्ते हरेर्भक्ता जीवमात्रहितावहाः ।
सर्वसहाः सदा पूज्या मान्याः स्वेष्टाधिकत्वतः ।।६९।।
साधूनां संश्रयात्पापा भवन्ति पुण्यशालिनः ।
सतां संसेवनान्नार्यो नरा यान्ति परां गतिम् ।।1.19.७०।।
देहधनमनस्त्यागात्साधूनामग्रतः सदा ।
स्वसर्वस्वाऽर्पणाद्वापि मुक्तिर्भवत्यसंशया ।।७१।।
ये वै साधुवशे जाताः साधवस्तद्वशंगताः ।
भूत्वा प्राप्यं परं मोक्षं नयन्ति स्वप्रतापतः ।।७२।।
यन्नेत्रे मम दर्शने प्रणिहिते यन्मानसं मन्मतम्
यत्कर्णौ मम दिव्यकार्यचरितानां संश्रवे सुस्थितौ ।
यन्नासा मम मूर्तियोगसुभवामोदग्रहे सम्मता
यजिह्वा मम कीर्तने च रसना मे रासने वर्तते ।।७३।।
ओष्ठौ वै मम मूर्तिचूम्बनविधौ सौख्यं दधाते परं
येषां त्वक् स्पृशति प्रकृष्टममलं बिम्बं मदीयं सदा ।
येषां श्लेषणमेव मे तनुकृतं नान्यत्परं सम्मतं
तेषां त्वेव सतां सदाऽहमवनं कुर्वे मदीया यतः ।।७४।।
सेवां तेषां सदा कुर्वे भक्तिं चापि सदा त्वहम् ।
तेन समृद्धः सदा चास्मि त्वया सह पतिव्रते! ।।७५।।
अहं यथा तथा त्वं वै सेवां तेषां सदा कुरु ।
तेन वै सेवितः स्यां यत् पातिव्रत्यादपि त्रयात् ।।७६।।
मानसाद् दैहिकाद् वाचो यथा वै सेवितोऽस्म्यहम् ।
तथा ते साधवः सेव्याः सदा शं ते भविष्यति ।।७७।।
तेषामाशीर्वचोभ्यस्ते मे विश्लेषो न वै भवेत् ।
कदाचित्त्वपि कमले! तस्मात्सेव्याश्च ते त्वया ।।७८।।
सदा पूज्यान् सदा मान्यान् सदा मत्परिचायकान् ।
मदर्थे कृतसंत्यागान् प्रणमामि हि तान्मुहुः ।।७९।।
सतां कामो न रत्यर्थं लोभः स्वार्थाय नैव च ।
क्रोधो नोद्वेगफलको मोहोऽपि बन्धनाय न ।।1.19.८०।।
मदो गर्वाय नैव स्यादाशा तृष्णाकरी नहि ।
स्पर्धा सद्गुणलाभाय दया दुःखहराय च ।।८ १ ।।
इत्येवं तु परेषां वै ह्युपकाराय सर्वथा ।
सतां सन्ति स्वभावास्ते सुखमोक्षकराः सदा ।।।८२।।
तस्मात् सन्तोऽन्वहं दिव्याः परोपकरणास्तथा ।
परोपकारे भगवान् वसामीति वदाम्यहम् ।।८३ ।।
इति श्रीलक्ष्मीनारायणायसंहितायां प्रथमे कृतयुगसन्ताने सनकादिसत्पुरुषमाहात्म्यकथननामैकोनविंशोऽध्यायः ।। १९ ।।