← अध्यायः ०१९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०
[[लेखकः :|]]
अध्यायः ०२१ →

श्रीलक्ष्मीरुवाच-
भगवन् देवदेवेश जगतामभयंकर! ।
सन्तो यथाऽन्वहं सेव्याः पुंवर्गा ब्रह्मचारिणः ।। १ ।।
सत्योऽपि ब्रह्मचारिण्यः सेवार्हाः सन्ति वा न वा ।
याभिर्मोक्षगतिश्चापि जीवानां तु भवेद् ध्रुवा ।।।२ ।।
सजातीयगुरूणां वै सेवा ह्यारामकारिणी ।
नारीणां तु कृते साध्व्यः सत्यो गुर्व्यो हि मोक्षदाः ।।३।।
स्नापने मर्दने पाने भोजने शयनेऽर्थने ।
संवादे स्पर्शने याने वाहने रमणेऽर्हणे ।।४।।
आश्लेषे भूषणे रूपे शृंगारे देहवाहने ।
नर्मणि प्रोत्सवे चापि समाजे च प्रवासने ।।५।।
ज्ञाने विज्ञापने हार्दे शारीरे लोकमानने ।
आर्तवे शुद्धिकरणे व्रते विद्यागमे वने ।।६।।
गृहेऽरण्ये स्थले रात्रौ दिवा चाऽप्येकले जने ।
दैवे पैत्र्ये घने देवपूजने मार्जने तथा ।।७।।
शौचे वा सूतके स्वापे मूर्छायां नर्तनेऽथवा ।
विवाहे विपदि वाचि विवेकेऽथ प्रवासके ।।८।।
पलायने सखीयोगे ब्रह्ममन्त्रादिधारणे ।
शरणागतिसंग्राहे विवस्त्रस्थितिवर्तने ।।९।।
नारीण्यामिङ्गिते सम्यक् सदा सेव्यतया गुरुः ।
साध्वी सती भवेद् गुर्वी ह्यसंकोचादसंशयम् ।। 1.20.१० ।।
तस्मात्साध्व्यः समुत्पन्नाः सन्ति वा नहि? मे वद ।
यज्ज्ञात्वा लोककल्याण्यः स्युरुपास्याः स्त्रियाः सदा ।। १ १।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पृष्ठमेतदनुत्तमम् ।
साध्व्यः कुमारिका बह्व्यो मुक्तिदा ब्रह्मणा कृताः ।। १२।।
अक्षता वै सटा तास्तु विवाहपरिवर्जिताः ।
सदा द्वादशवार्षिक्यो राजस्वल्याऽनवप्लुताः ।। १३।।
ऋतुधर्ममनापन्ना नित्यं ब्रह्मपरास्तु ताः ।
साध्व्यः साधुधर्मपरा ब्रह्ममूर्त्यंगनिःसृताः ।। १४।।
तत्र मुख्यां महागीतां नारायणसरूपिणीम् ।
ब्रह्मरूपां ब्रह्मभूतां सच्चिदानन्द लक्षणाम् ।। १५।।
दिव्यां मुक्तमयीं मुक्तां श्रीहरिमूर्तिसंस्थिताम् ।
द्रवरूपां सदा शान्तां सदानन्दमयीं पराम् ।। १६।।
उत्पादयामास हरिः परब्रह्म स्वयंप्रभुः ।
गीतां कुमारिकामेकां भगवान् हृदयात्स्वकात् ।। १७।।
सर्वतेजोमयीं सर्वावयवैः कमनीयकाम् ।
सर्वकामसमापूर्णां पुरुषार्थकृतार्हणाम् ।। १८।।
दिव्यां सुरूपां द्वादशवार्षिकीं सुभगां शुभाम् ।
एकैकांगानन्दपूर्णां सर्वांगपूर्णसुदृढाम् ।। १९।।
सर्वावयवसुघटसुयोगरूपसंयुताम् ।
सर्वप्रकाशसंदात्रीं सर्वमुक्तिकरीं प्रियाम् ।।1.20.२०।।
सर्वज्ञानमयीं रम्यां प्रकाशाऽमृतवर्षिणीम् ।
यावद्धर्मसमोपेतां सर्वभक्त्यधिकारिणीम् ।।२१ ।।
पापानां पापराशीनां नाशिकां बोधसंभृताम् ।
रूपानुरूपलावण्यां स्वाश्रितानां सुखावहाम् ।।।२२।।
यथाकथंचिदपि स्वप्रपत्तिमभियायिनः ।
श्रीहरेः शरणं दिव्यं नयित्रीं मोक्षकारिणीम् ।।२३।।।
चतुर्दशविवरस्थनैकदेहसुधारिणाम् ।
श्रयमात्रात् परब्रह्मप्रापिणीं ब्रह्ममूर्तिकाम् ।।।२४।।
अक्षरब्रह्मणि यस्तु श्रीहरिर्वर्तते सदा ।
नित्यं तत्र हरौ नित्यज्ञानरूपा विराजते ।।२५।।
श्रीहरिणा समं सा तु सर्वत्र चाभिगच्छति ।
यत्र यत्र हरेः प्राविर्भावो भवति तत्र सा ।।२६।।
श्रीहरिणा समं गीता सुमूर्ता गच्छति ध्रुवम् ।
कदाचिद्भगवन्मूर्तौ कदाचिद्वर्तते बहिः ।।२७।।
स्वर्गमृत्युसुपातालेष्वभियाति सुमुक्तिदा ।
वर्तते सर्वदा तेजस्विनी पापप्रणाशिका ।।।२८।।
साध्वी साधुपराशीला साधुधर्मसुपालिनी ।
सतां हृदयसंकृतवासा विज्ञानरूपिणी ।।२९।।
ब्रह्मशीलव्रता दोषहारिणी शुद्धिदा स्मृता ।
नित्यशुद्धा सदा बुद्धा शश्वन्निर्दोषमूर्तिका ।।1.20.३०।।
परा नारायणी देवी गीता नारायणात्मिका ।
साध्वी स्वस्मात्समुत्पाद्य श्रीहरिणा स्वयं हि प्राक् ।। ३ १।।
ब्रह्मधामस्थमुक्तेभ्योऽर्पिताऽऽनन्दप्रलब्धये ।
ततः सा मुक्तिलाभाय हीश्वरेभ्यः समर्पिता ।।।३२।।
ततोऽपि मोक्षदानाय जीवेभ्योऽप्यर्पिता सदा ।
यावत्सष्टेः सन्निवेशो वर्तते मायया कृतः ।।।३३।।
तत्र सर्वत्र सृष्टौ सा गीता साध्वी सुपोषिता ।
यदा श्रीभगवान् गीतां प्रेषयत्यवरां गतिम् ।।।३४।।
तदा तु गीतया देवात्प्रार्थितं स्वस्य रक्षणम् ।
मा मां प्रतारयेत् कश्चित्, तथाऽस्त्विति हरिर्वदन् ।। ३५।।
गीताया रक्षणं यावत् सर्वथा प्रकरोति हि ।
गीतायाः सेविकानां तु सहस्राण्ययुतानि च ।।३६।।
उत्पादितानि गीतायाः सजातीयानि तानि वै ।
तास्तु सर्वाश्च गीतायाः समरूपा गुणैः समाः ।।३७।।
सर्वा गीतास्तु मुक्तान्यो ब्रह्मचारिण्य इष्टदाः ।
मोक्षदाः पुण्यदाः पुण्याः पवित्राः पावनाः पराः ।।३८।।
दास्यो गीतास्तु सेवन्त महागीतां महेश्वरीम् ।
महागीता च गीताश्च ह्यनुगीतास्तथा पराः ।।३९।।
सुन्दर्यो लोकसुन्दर्यो मूर्तिमत्यो महाबलाः ।
विचरन्ति सदा साध्व्यः सन्यासिन्योऽत्र गोलके ।।1.20.४०।।
पापाऽपापप्रसक्तानां नारीणां पापिनां तथा ।
बालशूद्राऽन्त्यजानां च वर्णसंकरकारिणाम् ।।४१।।
पितॄषिदेवयक्षादिप्रेतमर्त्याघशालिनाम् ।
भूतवेतालकूष्माण्डनागसर्पतमोजुषाम् ।।४२।।।
चराणामचराणां च गुणकर्माऽभिधाजुषाम् ।
सर्वेषां तारिका गीताः साध्व्यश्चरन्ति गोलके ।।४३।।
दिव्यदृशां तु साक्षात्ता दृश्या भवन्ति सर्वदा ।
पापकृतामदिव्यानां ज्ञानशब्दात्मिकास्तु ताः ।।४४।।
ज्ञानशास्त्रात्मिकास्तास्तु तिष्ठन्ति सुलभाः शुभाः ।
तासां शरणमादाय तरन्ति भववारिधिम् ।।४५।।
मैथुनस्था रजःसंस्थाः सूतकस्था अशुद्धिगाः ।
पत्यङ्कस्थाः पराङ्कस्थाः कामशय्यास्थिताश्च वा ।।४६।।
विपत्तौ परहस्तस्था असंस्कारहताश्च वा ।
दैवाधीनपराधीना नटभाण्डसमाश्रयाः ।।४७।।
नृत्यनाटकचाण्डालस्रंसत्कार्यनियोगगाः ।
अप्सरो गणिका गुप्तपतिका बालघातिकाः ।।४८।।
पातिव्रत्यादिरहिता धर्महीना मदान्धिकाः ।
मद्यमांसपराभ्रष्टवासगेहादिबृंहिताः ।। ४९।।
उपप्लवादिदारिद्र्यदोषकृत्परभोगदाः ।
भुजिष्या प्रमदाः सर्वा गीताश्रयात् तरन्ति ताः ।।1.20.५० ।।
गर्भपातपतिहन्तृधर्मकामविहन्तृजाः ।
दोषा नश्यन्ति तासां वै गीतादेवीसमाश्रयात् ।।५१।।
नास्ति पापं परं त्वेवं नास्ति दोषो महानिति ।
क्रिया नास्त्यधमा यद्वै गीता तन्न विशोधयेत् ।।५२।।
यं यं देहमभिगृह्य ज्ञानगीतां प्रकाशिता ।
तत्तन्नाम्ना तु सा गीता ज्ञानशब्दात्मिका मता ।।५३।।
ऋषीणां च मुनीनां च परब्रह्मविदां तथा ।
देवानां देवगुरूणां मानवानां विमानिनाम् ।।५४।।
श्रीहरेरवताराणामीश्वराणां च वेदिनाम् ।
अनन्तत्त्वाद्धि गीतानामप्यन्तो नैव विद्यते ।।५५।।
ब्रह्मगीता मुक्तगीता विष्णुगीता तथा परा ।
नारायणकृता गीता हरिगीताऽथ तत्परा ।।५६।।
सतीगीता वधूगीता गीताः सन्ति तु कोटिशः ।
तासां समाश्रयान्म्लेच्छः सद्यो भवति पावनः ।।५७।।
हृत्कपाटं समुद्धाट्याऽऽन्तरा नाशयतीषणाम् ।
प्रसन्नयति चात्मानं समुन्नयति धाम तत्। ।।५८।।
तस्माद् गीता सदा सेव्या नारीभिरघमर्षणा ।
भवहर्त्री मुक्तिकर्त्री ब्रह्मसायुज्यदायिनी ।।५९।।
इति ते कथिता लक्ष्मि! साध्वी स्वसेविकान्विता ।
महागीताऽन्यगीताभिः सखीभिः सह मुक्तिदा ।।1.20.६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मोक्षप्रदमहासतीसाध्वीमहागीतामाहात्म्यकथननामा विंशोऽध्यायः ।। २० ।।