← अध्यायः ०३९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४०
[[लेखकः :|]]
अध्यायः ०४१ →

श्रीलक्ष्मीरुवाच-
पितरः कतिधा बोध्याः किं देयं किं फलं तथा ।
अभिसन्धाय पितरं पितुश्च पितरं तथा ।। १ ।।
पितुः पितामहं चैव त्रिषु पिण्डेषु नामतः ।
कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन् ।। २ ।।
भुवि भुवरि स्वर्गे वा दुःखिनः सुखिनोऽपि वा ।
पूर्वजा देहमापन्ना भवेयुः पितरो न वा ।। ३ ।।
श्रीनारायण उवाच-
देवाश्च ऋषयश्चैव जीवाश्चापि ह्यनेकशः ।
कर्मलोके समागम्य कृत्वा कर्माणि भूरिशः ।। ४ ।।
जायन्ते पितरस्ते वै पृथ्व्यादिलोकवासिनः ।
केचित्पृथ्व्यां संवसन्ति तिष्ठन्त्यन्ये भुवः स्तरे ।। ५ ।।
ते तु सर्वे वासनाभिर्जाताऽऽकस्मिकमृत्यवः ।
केचित्स्वर्गे तु गच्छन्ति ये वै पुण्यपरायणाः ।। ६ ।।
केचिन्महर्जनतपोलोकान्प्रयान्ति पुण्यतः ।
सोमलोकं सूर्यलोकं विद्युल्लोकं तथा परे ।। ७ ।।
अग्निलोकं चेन्द्रलोकं नक्षत्रादिग्रहस्तरान् ।
यान्ति पुण्यानुसारेण देवास्ते पितरः स्मृताः ।। ८ ।।
भवन्ति पितरो देवा देवाश्च पितरः पुनः ।
लोकाः सान्तानिका नाम पितॄणां भास्वरा मताः ।। ९ ।।
यत्र क्वापि स्थितान् पितॄन् स्मरन्ति वंशजास्तु यान् ।
सान्तानिकैस्तु पितृभिस्तत्राऽऽगन्तव्यमेव यत् ।। 1.40.१० ।।
पितॄणां तु भवेद्राजा सोमश्चाऽप्यर्यमा तथा ।
अर्यमा किरणैः सोममुत्तेजयति चाऽन्वहम् ।। १ १।।
सोमश्च किरणैः सर्वमाप्याययति वै जगत् ।
तस्माश्च पितरः सर्वे सोमं तृप्यन्ति चाऽऽप्य वै ।। १२।।
सोमं तु पितरं श्राद्धैराप्याय्य तृप्तिमाप्नुयुः ।।
सोमलोकनिवासा ये पितरः सोमजीवनाः ।। १३।।
श्राद्धैराप्यायितः सोमो लोकोनाप्याययिष्यति ।
कृत्स्नं सपर्वतवनं जंगमाजंगमैर्वृतम् ।। १४।।
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ।। ११।।
श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः ।
सर्वत्र वर्तमानास्ते पितरः प्रपितामहम् ।। १६।।
तेषामाप्याययिष्यन्ति श्राद्धदानेन च प्रजाः ।
सुखिनो दुःखिनो वापि पितरस्तु सवासनः ।। १७।।
तेभ्योऽवश्यं जलमन्नं देयं शक्त्या तु वंशजैः ।
पितरस्तेन तृप्ताः स्युः सुमूर्ता वाप्यमूर्तयः ।। १८।।
तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
अमूर्तयस्त्रयस्तेषां चत्वारस्तु समूर्तयः ।। १९।।
उपरिष्टात् त्रयस्तेषां वर्तन्ते भावमूर्तयः ।
तेषामधस्ताद् वर्तन्ते चत्वारः सूक्ष्ममूर्तयः ।।1.40.२०।।
श्रद्धया भावनया च तृप्यन्ति भावमूर्तयः ।
अन्नादिपुण्यतृप्तास्ते भवन्ति सूक्ष्ममूर्तयः ।।।२ १।।
मनोजवाः स्वधाभक्ताः सर्वदेय सुवस्तवः ।
अन्नं सोमं च संलब्ध्वाऽऽप्यायन्ते तृप्तमानसाः ।।२२।।।
तत्र श्राद्धे जलान्नैस्ते तृप्यन्ति दानभावनैः ।
ज्ञानिनो विष्णुभक्तास्ते ब्रह्मार्पणक्रियादिभिः ।।२३।।
पूर्णयुगसहस्रान्ते जायन्ते ब्रह्मवादिनः ।
उत्सृज्य देहजातानि मोक्षं गच्छन्त्यमूर्तयः ।।।२४।।
क्रियया गुरुपूजाभिस्तृप्यन्ति तु समूर्तयः ।
श्राद्धे तृप्ताः पुनः सोमं पिबन्ति पितरश्च ते ।।२५।।
सहस्रशस्तु विप्रान्वै साधून् बालाँश्च भोजयेत् ।
तृप्यन्ति पितरस्तेषां साध्वीनां भोजनेन च ।।२६।।
विप्राणां तु सहस्रेण स्नातकानां शतेन च ।
अनाथानां सहस्रेण वानप्रस्थशतेन च ।।२७।।
साध्वी चैका साधुरेको भोजने तु विशिष्यते ।
साधुः साध्वी हरेर्बालौ ज्ञानध्यानमयौ यतः ।।२८।।
दिव्यौ मोक्षकरौ तुष्टौ योगिनौ ब्रह्मतन्मयौ ।
पुत्रः पौत्रः प्रपौत्रो वा बालौ तौ भोजयिष्यति ।।२९।।
पितरस्तस्य तृप्यन्ति सुवृष्टेनेव कर्षुकः ।
अलाभे साधुसाध्वीनां भोजयेद् ब्रह्मचारिणौ ।।1.40.३०।।
तदलाभे तु दौहित्रं ह्यतिथिं चापि भोजयेत् ।।
सिद्धाश्च गुप्तरूपेण चरन्ति बहुधाऽन्वहम् ॥३१॥
साधुसाध्वीस्वरूपं तमतिथिं पूजयेत्सदा ।
उर्वी सागरपर्यन्तां देवा योगेश्वरास्तथा ॥३२॥
नानारूपैश्चरन्त्येते प्रजाधर्मप्रपालकाः ।
सिद्धाः सन्तश्च साध्व्यश्च विचरन्ति महीतले ॥३३॥
लक्ष्मीनारायणरूपास्तेषां पूजनमाचरेत् ।
दद्याच्च भोजनं रम्यं व्यंजनानि फलानि च ।।३४॥
देवाश्च पितरश्चैच वह्रिश्चाऽतिथिरूपकान् ।
आविश्य भुंजते तद्वै पूजयेद तिथीन्सदा ॥३५॥
बालानभ्यागतान् खिन्नान्साधून् साध्वीर्निराश्रयान् ।
भक्ताँश्च याचकान् जानीयादतिथ्यात्मकान् सदा ॥३६॥
अभ्यागतो याचकः स्यादतिथिः स्यादयाचकः ।
पिपासिनाय श्रान्ताय भ्रान्तायाऽतिबुभुक्षते ॥३७॥
विदुषे साधवे साध्व्यै बालायाऽनाश्रयाय च ।
तस्मै सत्कृत्य दातव्यं यज्ञस्य फलमिच्छता ॥३८॥
साधवश्च महात्मानः श्राद्धे सत्कृत्य पूजिता ।।
मोक्षं योगमथैश्वर्यं प्रयच्छन्ति पितामहाः ॥३९॥
सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः ।
दत्तं स्वधां पुरोधाय तथा प्रीणाति वै पितॄन् ॥1.40.४०॥
पितॄन् प्रीणाति वै भक्त्या पितरः प्रीणयन्ति तम् ।।
पितरः पुष्टिकामस्य पूजाकामस्य वा पुनः ॥४१॥
पुष्टि प्रजां च सुस्वर्गं प्रयच्छन्ति न संशयः ।।
विमानानि सहस्राणि युक्तान्यप्सरसां गणैः ॥४२॥
सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ।।
प्रज्ञां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमित्यपि ॥४३॥
मुक्तावैदूर्यवासांसि वाजिनागाऽयुतानि च ।
कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ॥४४॥
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।
रजतं रजताक्तं वा पितॄणां पात्रमुत्तमम् ॥४५॥
रजतस्य कथा वापि दर्शनं दानमेव च ।
अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते ॥४६॥
पितॄनेतेन दानेन सत्पात्रास्तारयन्त्युत ।।
कांचनं राजतं ताम्रं दौहित्रः कुतपास्तिलाः ॥४७॥
वस्त्रं च पावनीयानि साध्वी च साधुरित्यपि ।
प्रीयन्ते पितरो येन भोज्येन सुरसेन च ॥४८॥
तानि तेषां प्रवक्ष्यामि सर्वकामप्रदानि वै ।।
श्राद्धकाले सुभोज्यानि पितॄणां तोषणाय वै ॥४९॥
परमान्नं दुग्धपाकः पूरिकाः पोलिकास्तथा ।
शतच्छिद्राण्यपूपाश्च मिष्टाः पूरणपोलिकाः ॥1.40.५०॥
रुतल्यश्च तथा घारिपूरिकाश्च प्ररोटकाः ।।
फाफटाः स्थिरकाश्चैव घृतचूर्णा गुडौदनाः ॥५१॥
शश्कुल्यः खाजकाश्चैव संयावो मोदकास्तथा ।
कंसारः पर्पिकाखण्डाः पिण्डका ग्रन्थकास्तथा ॥५२॥
कलिकालडडुकाश्चापि कलिकाः सेविकास्तथा ।
सोहालिका मण्डकाश्च वटिका घृतपूरणाः ॥५३॥
पूपाश्च मौक्तिकाश्चैव शाटकाः सूत्रफेणिकाः ।।
सुखदाः शालिपिष्टाश्च मुद्गमोदकघुर्घराः ॥५४॥
तिलश्रृंखा गुन्द्रपाकः पीतसाराश्च शर्कराः ।।
मेशुभो मोहनस्थाल ओदनः पुष्पवट्टिकाः ॥५५॥
निवाराश्च यवाश्चैव राजगर्वादयस्तथा ।।
श्रृंगाटका रक्तालवो वटाणा द्विदलास्तथा ॥५६॥
व्हालाश्च पर्पटाश्चैव पर्पट्यः क्वथिका दधि ।
हरिन्माषाश्च मुद्गाश्च तुवर्यश्चैव दुग्धकम् ॥५७॥
शाकानि त्वङ्लवंगैलासंस्कृतानि मधूनि च ।
गवाहारा भिण्डकाश्च रक्तालवश्च चिर्भटाः ॥५८॥
कर्कट्यः कारवेल्लाश्च कूष्माण्डाः सूरणस्तथा ।
वृन्ताकः शर्कराकन्दः शिम्बिकाखर्बुजस्तथा ।।५९॥
पटोला गण्डकाश्चापि घृतषोढाः परावलाः ।।
लूनिका मेथिका राज्ञी जीवन्ती सुवमूलकाः ॥1.40.६०॥
ताण्डुलाज्यो ह्यम्ब्ललूनी राजग्रहश्च दुग्धिका ।
कुनराः शर्करातिक्ताः पत्रवल्य्रश्च नैकधा ॥६१॥
वृन्ताकभर्जनं चापि चटन्यो नवनीतकम् ।
धान्याकाकौथुमीबुद्धिहीनानां चटनी तथा ॥६॥
द्राक्षाखारिककदलै राजिकातिक्तवस्तुजम् ।
दध्याक्तं राजिकाराद्धमारनालान्यनेकधा ॥६३॥
मिष्टान्नानि नवान्येव भोज्याकानि वराणि च ।।
पेयानि मिष्टमिश्राणि सुगन्धीनि रसानि च ॥६४॥
इक्षुनारंगकदलजम्बीराङ्गुदसन्तुराः।
सेतुराऽमृतसफलजननस्पतिजाम्बवः ॥६५।।
इङ्गुदीनारिकेलाऽऽम्रपनसलिप्सिकाचिकाः।
बदराङ्गुरपूपीयाऽनानसाऽऽमलकास्तथा ॥६६॥
रामफलपपनससीताफलसुबिल्वकाः ।
फलान्येतानि ताम्बूलपूगीवरीयसीत्वचः ॥६७॥
जलं तु तीर्थसंभूतं पुष्पाणि सुसुगन्धयः ।।
देयं श्राद्धे विशेषेण पितॄणां तृप्तिहेतवे ॥६८॥
येन प्रदीयते यस्मै यत्तृप्त्यर्थं च यत्र वै ।।
त्रिष्वत्र भगवान् साक्षाद् दाता ग्रहीता नायकः ॥६९।।
यजमानेन स्वरूपं दातारं व्यापकं हरिम् ।।
विभाव्य पात्ररूपाय हरये देयमेव ह ॥1.40.७०||
स हरिर्व्यापकः श्रीमान् पितर्यपि सुवर्तते ।।
सर्वत्र तु हरेर्योगात् तृप्तिस्तु पितृणां भवेत् ।।७१।।
पितॄणां नाम व्याहृत्यः दातव्यं हरिबुद्धितः ।।
अक्षय्या सा भवेत् तृप्तिः स्वल्पमप्यतुलं भवेत् ॥७२॥
कन्यका विधवा नार्यो वृद्धा आधारवर्जिताः ।
सौभाग्या भोजनीयाश्च श्राद्धे फलमनन्तकम् ॥७३॥
ग्रामो धूम्रनिरोधेन भोजनीयाः फलार्थिना ।
यज्ञाधिकं फलं तस्य भुज्यन्ते पशुपक्षिभिः ।।७४।।
जलस्थैश्चापि भुज्यन्ते यत्र कीटादिभिस्तथा ।
श्राद्धः सर्वान्तरात्मात्मा सार्वभौमः स कथ्यते ॥७५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विविधपितृतत्पात्र-तद्देयान्नफलादि-तत्प्राप्तिफलादिवर्णननामा चत्वारिंशोऽध्यायः ॥ ४० ॥