← अध्यायः ०४० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१
[[लेखकः :|]]
अध्यायः ०४२ →

श्रीनारायण उवाच
प्रीयन्ते पितरो येन जप्येन नियमेन च ।
स्तोत्रं तेषां प्रवक्ष्यामि सर्वकामप्रदं शुभम् ।। १ ।।
श्राद्धकाले प्रवक्तव्यं पितॄणां तोषणाय तत् ।।
यजमानेन पुत्रेण ब्राह्मणेन सुसाधुना ।। २ ।।
अमूर्तानां समूर्तानां पितॄणां दीप्ततेजसाम् ।।
नमस्यामि सदा ताँस्तु ध्यानिनो योगचक्षुषः ।। ३ ।।
इन्द्रादेर्जनयितारो भृगुमारीचयोस्तथा ।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ।। ४ ।।
मन्वादीनां सुरेशानां सूर्याचन्द्रमसोरपि ।
जनयितॄन्नमस्यामि पितॄन् कुशलदायकान् ॥ ५ ॥
नक्षत्राणां चरादीनां पितॄनथ पितामहान् ।।
द्यावापृथिव्योः पितॄँश्च नमस्यामि कृताञ्जलिः ।।६।।
देवर्षीणां जनयितन् सर्वलोकनमस्कृतान् ।।
अभयस्य सदा दातॄन् नमस्येऽहं कृताञ्जलिः ।। ७ ।।
प्रजेशाय कश्यपाय सोमाय वरुणाय च ।।
योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ ८ ॥
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।।
स्वयंभुवे नमस्तस्मै ब्रह्मणे योगचक्षुषे ॥ ९ ॥
अनेन स्तोत्रवरेण त्रीन्वराँल्लभते जनः ।।
अन्नमायुः सुताँश्चैव ददते पितरः सुखाः ॥1.41.१०॥
यत् किञ्चित्पच्यते गेहे भक्ष्यं भोज्यादिकं तथा ।
अनिवेद्य न भोक्तव्यं देवपितृभ्य इत्यपि ॥११॥
पित्युभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः ।।
सदा दद्याच्छ्रिया युक्तः स विभाति दिवाकरः ॥१२॥
गुगुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति ।।
संयुक्तान्मधुसर्पिभ्यां सोऽश्वमेधफलं लभेत् ॥१३॥
धूपं गन्धगुणोपेतं कान्तं पितृपरायणम् ।
लभते स्त्रीष्वपत्यानि हीह चामुत्र चोभयोः ॥१४।।
दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।।
स लोकेऽप्रतिमं चक्षुर्लभते दिव्यदृष्टिदम् ॥१५॥
तेजसा यशसा चैव कान्त्या चापि बलेन च ।
स्वयंप्रकाशो भवति भ्राजते च त्रिविष्टपे ॥१६॥
अप्सरोभिः परिवृतो विमानाग्रे तु मोदिते ।।
गन्धान् पुष्पाणि धूपाँश्च दद्यादाज्याहुतीश्च वै ॥१७॥
फलमूलनमस्कारैः पितॄणां प्रीतिमावहेत् ।
श्राद्धकाले तु सततं वायुभूताः पितामहाः ॥१८॥
आविशन्ति द्विजान्साधून् साध्वीर्दृष्ट्वा च हर्षतः ।।
वस्त्रैरन्नैः प्रदानैश्च भक्ष्यैर्भोज्यैस्तथैव च ॥१९॥
पानैर्गोभिस्तथा ग्रामैः पूजयेत् पात्रसंस्थितान् ।
काशाः पुनर्भवा ये च बर्हिणा उपबर्हिणा ॥1.41.२०॥
त एव पितरो देवा देवाश्च पितरः पुनः ।।
द्विजात्यभिमुखो दद्याद् दर्भान् पिण्डॉश्च यत्नतः ।।२१।।
अथाऽऽहृत्य दक्षिणां च ततो होमो विधीयते ।
अग्नये कव्यवाहाय स्वधा चांगिरसे नमः ।।२२।।
सोमाय वै पितृमते स्वधा चांगिरसे नमः ।।
यमाय चैवांगिरसे स्वधा नम इति ब्रुवन् ।।२३।।
बहुहव्यत्वमेवाऽग्नौ सुसमिद्धे विशेषतः ।।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥२४॥
अप्रबुद्धे सधूमे च जुहुयाद् यो हुताशने ।।
यजमानो भवेदन्धः सोऽपुत्रो भवतीत्यपि ॥२५॥
अल्पेन्धनो वा रूक्षो वा विस्फुल्लिंगश्च सर्वशः ।।
ज्वालाधूमोऽपसव्यश्च स तु वह्निर्न सिद्धये ॥२६॥
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।।
भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥२७॥
अर्चिष्मान् पिण्डितशिखः सर्पिष्कांचनसंभवः ।।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥२८॥
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।।
पत्नीमादाय पुत्राँश्च जुहुयाद्धव्यवाहनम् ॥२९॥
समानप्लक्षीन्यग्रोधप्लक्षाऽश्वत्थविकंकताः।
उदुम्बरास्तथा बिल्वचन्दना यज्ञगा समिध् ॥1.41.३०॥
सरलो देवदारुश्च शालश्च खदिरस्तथा ।।
समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ।।३१।।
विश्वेदेवाश्च ये प्रोक्ता ह्येतेऽपि पितरो ह्युत ।।
तेषामाज्यं च पिण्डं च वह्नौ दद्यात्प्रयत्नतः ।।३।।
पुष्पाणां च फलानां च भक्ष्यान्नानां तथैव च ।।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥३३॥
तीर्थे होमश्च पिण्डाश्च श्राद्धं कर्तव्यमादरात् ।
देवालयो गुरोर्वासः पर्वताः सरितस्तथा ।। ३४।।
पुण्यवृक्षास्तडागानि यत्र वा ब्राह्मणो भवेत् ।।
ते ते श्राद्धार्हदेशाः स्युस्तत्र पुण्यमसंख्यकम् ॥३५॥
पृथ्वीं सागरवेलान्तां दिव्याः सत्पुरुषाः सदा ।।
नानारूपैश्चरन्त्यत्र तेषां योगात्तु मोक्षणम् ॥३६॥
सिद्धाः सन्तश्च साध्व्यश्च तीर्थानां तीर्थमुत्तमम् ।
लक्ष्मीर्नारायणश्चात्र तद्रूपेषु वसत्यरम् ॥३७॥
पिपासिताय श्रान्ताय क्षुधिताय विवस्त्रिणे ।
सत्कृत्य किंचिद् दातव्यं यज्ञस्य फलमाप्नुयात् ॥३८॥
श्राद्धे स्थूलः स्थूलमत्ति पितरोऽदन्ति सुकृतम् ।
तृप्तिमात्मा स्वयं भुंक्तेऽन्वितब्रह्मसमर्पणात् ॥३९॥
कर्मलोके तु कृत्वैव दत्वैव च मुहुर्मुहुः ।
परे लोके ह्यवाप्यन्ते तस्माद् देयं विशेषतः ॥1.41.४०॥
येषां दास्यन्ति पिण्डाँस्त्रीन् बान्धवा नामगोत्रतः ।।
भूमौ कुशोत्तरायां च ब्राह्मणोक्तविधानतः ।।४१।।
सर्वत्र वर्तमानाँस्ते पिण्डाः प्रीणन्ति वै पितॄन् ।
यदाहारो भवेजन्तुराहारः सोऽस्य जायते ॥४२॥
या गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ।
तथा तं नयते मन्त्रो जन्तुर्यत्राऽवतिष्ठते ।।४३॥
नाम गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम् ।।
अपि योनिशतं प्राप्ताँस्तृप्तिस्ताननुगच्छति ।।४४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने स्तोत्रहोमाग्निवृक्षस्थानादिनिरूपणनामा एकचत्वारिंशोऽध्यायः ॥४१॥