← अध्यायः ०४७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ०४९ →

श्रीलक्ष्मीरुवाच--
इन्द्रस्य ब्रह्महत्या तु कथं जातेति मे हृदि ।
परं कुतूहलं प्राप्तं तत्कथां कथय प्रभो ! ॥ १ ॥
पृथुना च कदा पृथ्वी समीकृतेति कीर्तय ।
तत्पूर्वं कीदृशी देवी समासीत्पृथिवी प्रभो ! ॥ २॥
श्रीनारायण उवाच --
शृणु लक्ष्मि ! प्रवक्ष्यामि ह्यादितस्तां कथां शुभाम् ।
या श्रुता भगवद्योगात्पापहन्त्री भवत्यपि ।। ३ ।।

ब्रह्मणो मरीचिः पुत्रस्तस्य वै कश्यपः सुतः ।
कश्यपस्य त्वदित्यां च त्वष्टा पुत्रो ह्यभूच्छुभः ॥ ४ ॥
त्वष्टा पत्न्यां रचनायां विश्वरूपमजीजनत् ।।
विश्वरूपोऽभवत्तत्र देवानां तु पुरोहिताः ॥ ५ ॥
एकदेन्द्रसभायां तु बृहस्पतिरुपागमत् ।
अभ्युत्थानादिना चेन्द्रः सत्कारं तस्य नाऽऽचरत् ।। ६ ।।
तत आरभ्य गुरुराड् बृहस्पतिर्दिवौकसाम् ।
पौरोहित्यं तु तत्याज देवानामित्यतः परम् ।। ७ ।।
पौरोहित्यं ददाविन्द्रो विश्वरूपाय तत्परम् । ।
इन्द्रेण तु कृते यज्ञे विश्वरूपः पुरोहितः ।। ८ ।।
देवेभ्यस्तु बलिं दत्वाऽसुरेभ्योऽपि ददौ रहः ।
दैत्यास्तु मातुलास्तस्य तस्माच्छन्नं बलिं ददौ ।। ९ ।।
प्रच्छन्नं तत्प्रदत्तं वै बलिं ज्ञात्वा तु देवराट् ।
चुक्रोध जगृहे शस्त्रं चिच्छेद तच्छिरस्त्रयम् ।।1.48.१०।।
एकं तु मस्तकं तस्य सोमपानकरं ह्यभूत् ।।
तच्छेदने तु सञ्जाताः पक्षिणो वै कपिञ्जलाः ।।११।।
द्वितीयं मस्तकं तस्य क्वाथपानकरं ह्यभूत् ।।
तच्छेदने तु सञ्जाताः कलविंकास्तु पक्षिणः ।।१२।।
तृतीयं मस्तकं तस्य चाऽन्नभोजनकृत् त्वभूत् ।।
तच्छेदने तु सञ्जातास्तित्तिराख्यास्तु पक्षिणः ।।१३।।
पुरोहितच्छिरश्छेदे ब्रह्महत्या बभूव सा ।।
रक्ता क्षारा हरित् कृष्णा भयदा चित्ररूपिणी ।।१४।।
ववल्गे सा महेन्द्रं तु चित्रवर्णोऽभवद्धि सः ।।
ततो देवैर्मिलित्वा तां चतुर्भागैर्विभज्य च ॥१५॥
यज्ञाऽन्तेऽश्रावयत्स्पष्टं देया विनिमयेन हि ।।
ब्रह्महत्यातुर्यभागं गृह्णन्तु व्यक्तयस्तु याः ॥१६॥
ताभ्यो देयो वरस्तासामिष्ट एव न संशयः ।।
श्रुत्वा तु कामतृप्त्यर्थं नारीभिरीप्सितो वरः ।।१७।।
अर्थितः कामभोगे वै बहुमैथुन सेवने ।
कृतेऽपि न श्रमो नित्यकामभोगोऽस्तु चैच्छिकः ॥१८॥
देवैरेवं वरं दत्वा ब्रह्महत्या चतुर्थकः ।।
भागोऽर्पितस्तु नारीभ्यस्तद्रक्तमार्तवं ह्यभूत् ॥१९॥
तत आरभ्य नारीणां कामदेवो नवो नवः ।।
मासि मासि रजोलाभः पुष्पं गर्भधृगप्यभूत् ॥1.48.२०॥
अथ भूम्याऽर्थितं यत्र यत्र मे निम्नता भवेत् ।
खातता वा तत्र तत्र प्रपूर्तिर्मे सदा भवेत् ॥२१॥
इमं वरं धरायै तु दत्वा भागं चतुर्थकम् ।।
भूमेः खातप्रदेशास्तु पूर्यन्ते तत्स्वभावतः ॥२२॥
तत्र तत्र क्षारभागो भवतीति तु तत्फलम् ।
अथवृक्षादिभिस्तत्राऽर्थितं ह्याकस्मिकस्थितौ ॥२३॥
क्षते छिन्ने च भुग्ने च पुनः संरोहणं भवेत् ।।
दत्वा द्रुभ्यो वरस्तत्र हत्याभागचतुर्थकः ॥२४॥
द्रुभ्यो दत्तश्च तेषां वै कृष्णगुन्द्रस्रवश्च यः ।।
न भक्ष्यते स वै कीटो ब्रह्महत्याफलात्मकः ।।२५।।
अथाऽद्भिः स्वेप्सितस्तत्र वरोऽप्यर्थित उद्गमे ।।
जलपूर्तिर्भवेत्प्रस्रवणाद्येषु समन्ततः ।।२६।।
यत्र द्रव्ये जलक्षेपस्तस्य वृद्धिर्भवेत् सदा ।।
तत्र वासो रसरूपेणाऽस्माकं भवतादिति ॥२७॥
तादृग्वरस्तु तेभ्यो वै हत्वा हत्याचतुर्थकम् ।
दत्ते तेन जले भूमौ सर्वदा पूर्तिरीक्ष्यते ॥२८॥
जले हत्यास्वरूपन्तु शैवालः फेनबुद्बुदाः ।।
इत्येवं ब्रह्महत्यानां भागाश्चत्वार ईरिताः ॥२९॥
इच्छुकेभ्यश्च दत्तास्ते हीन्द्रः शुद्धिं जगाम ह ।
तत आरभ्य देवेन्द्रो यज्ञान्कारयति प्रथान् ॥1.48.३०॥
अथेन्द्रस्य विवधार्थं पुत्रनिष्क्रयलब्धये ।।
हतपुत्रस्तदा त्वष्टा जुहावाऽग्नौ समन्त्रकम् ॥३१॥
इन्द्रशातृ विवर्धस्व जहीन्द्रं चाऽत्र सत्वरम् ।
इति होमेन तत्रैव पुरुषो घोरदर्शनः ॥३२॥
समुत्पेदे महाकायः कालसन्निभरूपधृक् ।।
नित्यं सहस्र हस्तानां वर्धमानोऽग्रधूम्रभः ॥३३॥
कान्त्या सन्ध्याऽब्भ्रसदृशः त्रिशूलं भ्रामयन् स्थितः ।।
ताम्रामकेशजटिलो मध्याह्नार्कोग्रनेत्रवान् ॥३४॥
गर्जंश्च कम्पयन् पृथ्वीमाकाशं संलिहन्निव ।
प्रकाशं भक्षयन्नग्रेऽन्धं तम उद्वमन्निव ॥३५॥
अन्धकारस्वरूपेण तेन लोकाः समावृताः ।
स वै वृत्र इति नाम्ना त्वष्ट्राऽऽहूतस्तु दारुणः ।।३६।।
तं देवाः समभिद्रुत्य निजघ्नुर्दिव्यहेतिभिः ।
अस्त्रशस्त्राणि सर्वाणि सोऽग्रसत्सर्वतः स्वयम् ॥३७॥
विस्मिताश्च तदा देवा विषण्णा नष्टतेजसः ।।
अन्तःस्थितं प्रभु देवमस्तुवन् भग्नवृत्तयः ।।३८॥
नमोऽस्तु ते श्रीपुरुषोत्तमाय ब्रह्माधिदेवाय परात्पराय ।
ब्रह्मात्मने मुक्ततनुस्थिताय नमोऽस्तु ते त्राहि भयावृतान्नः ॥३९॥
श्रीवासुदेवप्रभृतीश्वराणां वैकुण्ठधामादिपतीश्वराणाम् ।
सदाशिवादीश्वरकोटिकानां शास्त्रे नमस्त्राणमथो कुरु त्वम् ॥1.48.४०॥
त्वयास्वपृष्ठे विधृतस्तु शैलः श्रृंगे स्वकीयेऽवधृता तु नौका ।
त्वयास्वदन्तेऽवधृता वसुन्ध्रा स एव देवः प्रकरोतु रक्षाम् ।।४१।।
वयं विसृष्टाः परिपालनाय तन्नश्याम ईक्षान्धतमः सुविक्लवाः ।।
शस्त्राऽस्त्रहीना अरिणाऽर्दिता मुहुर्देवाधिदेवोऽरणमार्तिहा क्रियात् ।।४२॥
इति स्तुत्वा विररमुर्देवा ब्रह्मपुरोगमाः ।
भगवान् श्रीहरिस्तत्राऽऽविर्बभूव धृतायुधः ॥४३॥
सर्वावयवसौन्दर्यदिव्यध्येयमनोहरः ।
दण्डवत्पतिता देवाः पुनरुत्थाय तुष्टुवुः ॥४४॥
पाहि नाथ महाघोराद् वृत्रासुरमहाभयात् ।
हरे त्वां वै प्रपन्नाः स्म त्रातारमच्युतं प्रभुम् ॥४५॥
श्रीहरिरुवाच--
इन्द्र याहि स्वस्ति वोऽस्तु दध्यंचं योगिनमृषिम् ।
विद्यातपोमयं गात्रं याचतेति प्रदास्यति ॥४६॥
श्रीनारायण उवाच--
इत्युक्त्वा श्रीहरिस्तावत् तत्रैवान्तर्दधे ततः ।।
देवा गत्वा तु दध्यञ्चमयाचत मुहुस्तनुम् ॥४७॥
दध्यञ्चा सुप्रसन्नेन परोपकृतिशालिना ।
शरीरं योगमास्थाय परित्यक्तं तदैव हि ॥४८॥
तदस्थिकारितं वज्रमिन्द्रश्चादाय हर्षतः ।।
वृत्रमभ्यद्रवद्धन्तुं हर्षयन्देवमण्डलम् ॥४९॥
तत्र देवा रुद्रवस्वादित्याग्निवायवस्तथा ।
पितरः ऋभवः साध्या विश्वेदेवाः कुमारकाः ॥1.48.५०॥
अन्ये च देवतास्तत्र मिलिता रणगामिनः ।।
असुराश्चापि वृत्रस्था वृत्रपक्षप्रपातिनः ॥५१॥
नमुचिशंबराऽनर्वंद्विमूर्धर्षभकालयः ।
हयग्रीवशंकुशिरविप्रचित्तिस्वयोमुखाः ॥५२॥
पुलोमवृषपर्वादिहेतिप्रहेतिदानवाः।
यक्षाश्च राक्षसाश्चापि सिंहगर्जनकारकाः ॥५३॥
सर्वशस्त्रकरास्ते वै गदापरिघपाणयः ।
बाणतोमरमुद्गप्रासशूलपरश्वधैः ॥५४।।
खड्गैः शस्त्रैस्तथाऽस्त्रैश्च शतघ्नीभूशुण्डिभिर्हि सः ॥
सर्वतोऽवाकिरन्क्रोधात्तुमुलं विबुधर्षभान् ॥५५॥
तेषां शस्त्राणि देवैस्तु भग्नान्येव सहस्रधा ।।
वृत्रपक्षाः पलायिता देवाः स्वास्थ्यं प्रलेभिरे ॥५६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वरूपस्य हत्यायाश्चतुर्धा वितरणं वृत्रोत्पत्तिर्वृत्रनाशाय दध्यंचाऽस्थिनिर्मितवज्रेण युद्धमिति निरूपणनामाऽष्टचत्वारिंशोऽध्यायः ॥४८॥