← अध्यायः ०४८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९
[[लेखकः :|]]
अध्यायः ०५० →

श्रीनारायण उवाच
वृत्रः प्राह प्रभग्नाँस्तान्पलायतो विहस्य वै ।।
हे विप्रचित्ते नमुचे पुलोमन् शम्बरादयः ॥ १॥
ध्रुवो जन्मजुषां मृत्युः शूराणामपि देहिनाम् ।।
आगतस्य स्वभावस्य प्रतीकारो न विद्यते ।। २ ।।
शूराणां रणमध्ये वै शत्रूणां प्रतिवक्षसि ।।
कथं मृत्युर्न वै पूज्यो यशसे श्रेयसे तथा ।। ३ ।।
मोक्षदौ तु मतौ मृत्यू द्वावेव नियतौ यथा ।
योगिनां योगरन्ध्रेण शूराणां शस्त्ररन्ध्रतः ।। ४ ।।
इत्येवं बोध्यमानाऽपि वृत्रसेना पलायिता ।।
नाऽगृह्णात् तद्धर्मवचः प्राणापत्त्रस्तमानसा ॥ ५ ॥
तदा क्रुद्धः पुनर्वृत्रो व्याजहार सभर्त्सनम् ।।
किं मातृहन्तृभिः क्षुद्रैर्नामधामविनाशिभिः ॥ ६ ॥
पृष्ठमृत्युसमासद्भिर्मातृदुग्धविडम्बिभिः
न वै पलायने कीर्तिर्न लोको न परागतिः ॥ ७ ।।
नाऽयं द्रवद्रणः श्लाघ्यः क्षुल्लकानामिवाऽऽर्तिदः ।।
स्वस्था भवन्तु सम्मुखा जयं यान्तु ममाग्रतः ।।८।।
इति श्रुत्वा बलं प्राप्ताः परावृत्य तदा च ते ।।
भीषयन्तः सुरान् शस्त्रैरर्दयामासुरुल्बणाः ॥ ९ ॥
वृत्रस्त्विन्द्रेभकुंभे वै गदां चिक्षेप धातवीम् ।।
गजः प्रहारघातेन सप्तधनुरपासरत् ॥1.49.१०॥
इन्द्रो जग्राह वज्रं तद् दैत्यभ्रातृहणं यदा ।
वृत्रः प्राह परं क्रुद्धो दिष्ट्या मे समवस्थितः ॥११॥
ब्रह्महा गुरुहा मे च भ्रातृहा शिष्यहा तथा ।
दिष्ट्याऽनृणो भवाम्येष शूलेन सादितो मया ॥१२॥
श्रोत्रीयं च गुरुं बालं विश्वस्तं दीक्षितं द्विजम् ।।
खड्गेन हत्वा ते नूनं का गतिः संभविष्यति ॥१३॥
ह्रीश्रीदयादिहीनं त्वां ग्रध्राः खादन्तु भूतले ।
मम शूलेन निर्भिन्नमस्पृष्टवह्निकं शवम् ॥१४॥
यदि वज्रेण नष्टोऽहं गतिं यास्यामि शूरगाम् ।।
यदि शूलेन नष्टस्त्वं पदमैन्द्रं मम ध्रुवम् ॥१५॥
अथवा किन्नु राज्येन निरयेण मतेन वै ।
रागद्वेषौ न मे स्यातां श्रीहरिर्मे प्रसीदतु ॥१६॥
दासानुदासो भविता तव वज्रेण नाशितः ।
संसारपाशदुःखाब्धेर्मोचितः स्यामहं त्वया ॥१७॥
सेविष्ये भगवत्पादं करिष्ये भक्तसेवनम् ।।
किमनेन विनश्वरकायलोकपदादिना ॥१८॥
मा भूयान्मम चित्तस्य संगो गेहात्मजादिषु ।।
सर्वदा मम संभूयाद् वासस्तच्चरणादिषु ॥१९॥
इत्येवं कत्थमानाय वृत्राय प्राहिणोद् गदाम् ।।
गुर्वीं पर्वतसंकाशामिन्द्रो वज्रधरस्तदा ॥1.49.२०॥
लीलयेव गदां तां तु वृत्रो जग्राह पाणिना ।
तावदिन्द्रः स्वकं वज्रं प्राहिणोद् वृत्रशान्तये ॥२१॥
तं च लोहमयं वज्रमग्रसन्मुखगर्तया ।
वृत्रोऽथेन्द्रविनाशाय त्रिशूलं समवासृजत् ॥२२॥
जगादाऽद्य हतोऽस्यत्र पाप याहि यमालयम् ।
इन्द्रः शताऽरवज्रेणाऽच्छिनत् क्षणात् त्रिशूलकम् ।।२३।।
यावद्वृत्रो द्वितीयं तु शूलं जग्राह पाणिना ।
तावदिन्द्रोऽन्यवज्रेणाऽच्छिनत्सभुजशूलकम् ॥२४॥
एकेन हस्तेन तदा च वृत्रो वेगेन जग्राह च शूलमन्यत् ।।
चिक्षेप चेन्द्राय पुनस्तदानीं संगृह्य चान्यं परिघं तमाह ॥२५॥
मृतोऽसीन्द्र गतोऽसीन्द्र पूर्वजानां गमिस्थले ।
कृत्वा तु गर्जनां घोरां तताडेन्द्रं हनौ प्रघम् ॥२६॥
हस्तात्तु न्यपतद्वज्रं मघवाऽपि भ्रमिं गतः ।।
देवाः सिद्धाश्च शूराश्च हा हेति चुक्रुशुर्भृशम् ॥२७॥
वृत्रश्चेन्द्रं तदा प्राह वज्रं गृहाण पाणिना ।
रणभूमौ गतानां तु का ह्रीर्बलतुलाऽऽपणे ।।२८।।
आयुः श्रीः कीर्तिरैश्वर्यं गृहदारासुसम्पदः
नैव सन्तीति कृत्वैव विहरस्व रणांगणे । २९॥
सुखं दुःखं मृत्युजीवी मानामाने जयाजयौ ।
सर्वं मायामयं ज्ञात्वा विहरस्व रणांगणे ॥1.49.३०॥
रणासनश्च शस्त्राक्षः प्राणग्लहोऽयमुच्यते ।
अकस्माद्विजयः कस्य याते प्राणे प्रपत्स्यते ॥३१॥
श्रुत्वेदन्तु भागवतं वचनं वृत्रनोदितम् ।
तुतोष परमं तस्मै वज्रमादाय पाणिना ॥३२॥
चिक्षेप यावद् वृत्राय तावत् स दैत्यराट् द्रुतम् ।।
कृत्वाऽधरां हनुं भूमौ वृत्रो दिव्युत्तरां हनुम् ।।३३।।
शीघ्रं सवज्रमिन्द्रन्तु वृत्रो जग्रास तत्क्षणम् ।
हाहाकारो महानासीच्चुक्रुशुश्च महर्षयः ॥३४॥
तावदिन्द्रः स्ववज्रेणोदरं तद्वज्रकर्तितम् ।
भित्त्वा कुक्षिं विनिष्क्रम्य ह्युच्चकर्त शिरस्ततः ॥३५॥
पपात भूमौ यावद्वै वृत्रच्छिन्नमहातनुः ।।
नेदुर्दुन्दुभयो देवमार्गे हृष्टा महर्षयः ॥३६॥
जगुर्गन्धर्वसिद्धाश्चाऽप्सरसो ननृतुर्मुदा ।
पुष्पवृष्टिस्तदा देवैः कृता विजयगीतिका ॥३७॥
वृत्रात्मा पश्यतां तत्र लीनो महसि ब्रह्मणः ।
हते वृत्रे तदा लोका विज्वरा ह्यभवन्नथ ।।३८॥
प्रतिजग्मुः स्वधिष्ण्यानि देवा ब्रह्मादयः पुनः ।।
वृत्रघातसमुत्पन्नहत्ययेन्द्रस्तु दुःखितः ॥३९॥
न च शर्म मनाक् लेभे हत्यां नाशयितुं ततः ।
महर्षीन् प्रार्थयामास हत्यां क्व मार्जयाम्यहम् ॥1.49.४०॥
प्राहुस्तु ऋषयस्तं वै हयमेधेन याजय ।।
इष्ट्वा नारायणं देवं मोक्ष्यसे पापराशितः ॥४१॥
ब्रह्महा पितृहा गोहा मातृहा गुरुहा तथा ।
शुद्ध्यति यजनाद् यस्य नामकीर्तनसेवनात् ॥४२॥
एवं प्रेरित इन्द्रस्तु ब्रह्महत्यापराद्रुतः ।
उदीचिं दिशमाश्रित्य मानसाख्ये सरोवरे ॥४३॥
वर्षमेकं महानाले ह्युवास तापपीडितः ।
चाण्डाली घोरकृष्णा सा रक्तवस्त्राऽऽन्त्रचर्विणी ।।४४।।
दुर्गन्धा परितस्तत्र सरसोऽप्यन्ववर्तत ।।
ऋषयस्तं समाहूय हयमेधेन सर्वशः ॥४५॥
यथावद् दीक्षयांचक्रुः पुरुषाराधनेन च ।
पूर्णेऽश्वमेधे संजाते हत्यानाशं गता तथा ॥४६॥
इन्द्रो विधूतपापः सन् स्वर्गराज्यमगात्पुनः ।।
कथेयं लक्ष्मि ! दिव्याऽस्ति सूक्ष्मरूपेण मत्कृता ॥४७॥
स्थूलाख्यानेन ते देवि ! दर्शिता सुखसंश्रवा ।
सूर्यादिग्रहगतिदा शक्तिरिन्द्रः समुच्यते ॥४८॥
जलप्रकाशरोधाऽऽढ्या शक्तिर्वृत्रः समुच्यते ।।
जलप्रकाशसामर्थ्याद् ग्रहाः सुगतिकाः सदा ॥४९॥
वृत्रोऽन्धकाररूपः स गतिरोधं करोति वै ।।
तन्नाशाय महानिन्द्रो युद्धं करोति नित्यशः ॥1.49.५०॥
विशेषेण तु शरदि हीन्द्रो हन्त्यसुरं तदा ।
इति ते सर्वमाख्यातं हत्याफलमनिष्टदम् ॥५१।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वृत्रनाशोत्तरब्रह्महत्याविनाशकहयमेधकरणादि निरूपणनामैकोनपंचाशत्तमोऽध्यायः ॥४९॥