← अध्यायः ०५१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२
[[लेखकः :|]]
अध्यायः ०५३ →

श्री लक्ष्मीरुवाच
कदा यज्ञः प्रवृत्तः स किमभूत्तत्र पापकृत् ।
केन कृतः कथं वसोः पतनं समभूत्कुतः ?।। १ ।।
श्रीनारायण उवाच--
प्रथमे तु युगे त्रेतानामके राजचिह्नवान् ।
उत्तानपादपुत्रस्तु वसुनामाऽभवन्नृपः ।। २ ।।
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः ।
आजानुबाहवश्चैव धनुर्हस्ता वृषांकिताः ॥ ३ ॥
ताम्रप्रभौष्ठदन्तौष्ठाः श्रीवत्साश्चोर्ध्वरोमशाः ।
केशस्थिता ललाटोर्णा जिह्वा चैषां प्रमार्जनी ।। ४ ।।
न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः ।
गजेन्द्रगतयश्चैव महाहनव एव च ।। ५ ।।
ऐश्वर्येणाऽणिमाद्येन प्रभुशक्त्या बलेन च ।
अन्नेन तपसा चैव ऋषीनभिभवन्ति वै ॥ ६ ॥
नयेन तपसा चैव देवदानवमानुषान् ।।
अभिभवन्ति योगेन विष्णुप्रदत्तशक्तिभिः ॥ ७ ॥
पादयोश्चक्रमत्स्यौ च शंखपद्मे तु हस्तयोः ।
धनुर्भुजे ह्युरौ छत्रं रेखास्ताश्चक्रवर्तिनाम् ।। ८ ।।
चक्रं रथो मणिः खड्गं धनूरत्नं च पंचमम् ।
केतुर्निधिश्च सप्तैते रत्नश्रेष्ठा अचेतनाः ॥ ९ ॥
राज्ञी पुरोहितश्चैव सेनानी रथसारथिः ।
मन्त्र्यश्वः कलभश्चैते रत्नश्रेष्ठाः सचेतनाः ॥1.52.१०॥
दिव्यैतानि चतुर्दश सर्वेषां चक्रवर्तिनाम् ।
अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च ।। ११ ।।
अहता गतयस्तेषां चतस्रश्चक्रवर्तिनाम् ।
चक्रवर्ती भवेदंशस्तस्य श्रीपरमात्मनः ॥१२॥
तेन तस्य प्रजायां वै प्रादुर्भवन्ति शक्तयः ।
दिव्याश्च लौकिकाश्चापि राज्यसीमान्तबोधिकाः ॥१३॥
दूरश्रवणयन्त्राणि दूरभ्यो दूरदर्शनाः ।
कालमानसुयन्त्राणि दूरवाचकरश्मयः ।।१४।।
दूरमूर्तिदर्शकानि दिव्यकाचानि भूरिशः ।
देहानावरणदृष्टिप्रदविद्युत्प्रसाधनम् ॥१५॥
धातुतन्तुधृतिविद्युत्प्रकाशाः सुप्रदीपकाः ।
अग्नियन्त्रोद्भवोद्योगा जलयन्त्राणि भूरिशः ।।१६।।
जलान्तर्गतियानानि व्योमयानानि चाप्यथ ।
विमानानि ह्यसंख्यानि काचिका दूरदर्शिनी ।।१७।।
वायुतन्तुध्वनिग्राह्यशब्दशक्तिनियन्त्रणा
प्रवासयानयन्त्राणि भूविमानानि भूरिशः ॥१८॥
जलप्रवासयन्त्राणि मेघोत्पादकशक्तयः ।
सैनिका व्योमगतिका जलान्तर्गतिका अपि ।।१९।।
धूम्रयानानि बाष्पाणां शकटानि रथास्तथा ।
मोहमारणद्रव्याणि संहाराण्डानि भूरिशः ॥1.52.२०॥
चक्रद्रावणगतयश्चौषधीनां सुशक्तयः ।
ग्रहान्तरगतिश्चाग्नौ गतिः पृथ्व्युदरेक्षणम् ॥२१॥
रूपान्तरधृतिश्चापि हयदृश्यभवनादिकम् ।
भौतिक्यः शक्तयश्चैताः सहाऽऽगच्छन्ति तेन वै ।।२२।।
तत्तच्छक्तिमया देवा मानुषा वा भवन्ति च ।
तत्तदाविष्कृतैर्भौमैर्जलीयैस्तैजसैरपि ॥२३॥
धातुजैर्मानसैश्चैव साधनैश्चक्रवर्तिनः ।
मानवा राज्यभारं निर्वहन्ति चालयन्ति च ।।२४।।
लोकान्तरगतं राज्यं द्वीपान्तरगतं च वा ।
समुद्रान्तरितं राज्यं करोति निकटे इव ।।२५॥
पश्यति च शृणोत्यपि स्पृशत्यपि प्रजिघ्रति ।
वदति चानुभवति स्वगृहे इव संस्थितम् ॥२६॥
चक्रवर्तिप्रजाः सर्वास्तत्समा भाग्यशालिनी ।
तत्समानप्रभोगा च पुण्ययुगबलाद्भवेत् ।।२७
उत्तानपादतनुजो व्योमगामी वसुर्नृपः ।
चक्रवर्त्यभवद्धर्मसत्येज्यादानसत्तपाः ॥२८॥
तदा विश्वभुगिन्द्रश्च यज्ञं प्रावर्तयच्छुभम् ।
देवैस्तु सहितैः सर्वैर्मुनिभिः ऋषिभिस्तथा ॥२९॥
पितृभिर्यक्षराक्षसगन्धर्वकिन्नरोरगैः ।
मानुषैर्नदनदीभिः समुद्रैस्तीर्थपर्वतैः ॥1.52.३०॥
नक्षत्रदैत्यदानवसाधुसाध्वीसुतत्त्वकैः ।
जलस्थलचरैर्वृक्षवल्लीगुल्मलतादिभिः ।।३१।।
सात्विकैर्मनुभिश्चापि राजसैर्नरमानवैः ।
तामसैर्देवदेवीभिः सहितश्चाकरोन्मखम् ॥३२॥
मानसी मैथुनी सृष्टिः सर्वा तत्राऽगमन्मुदा ।
अथाऽश्वमेधे वितते तामसाश्चाऽर्धतामसाः ॥३३॥
यजन्ते पशुभिर्मेध्यैर्हुत्वा मांसप्रियाशनाः ।
कर्मव्यग्रेषु ऋत्विक्षु सन्तते यज्ञकर्मणि ॥३४॥
संप्रगीतेषु तेष्वेवमागमेष्वथ सुस्वरम् ।
परिक्रान्तेषु लघुषु चाध्वर्युवृषभेषु च ॥३५॥
आहुतेषु च देवेषु यज्ञभांक्षु महात्मसु ।
आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ॥३६॥
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः ।
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये ॥३७॥
कल्पादिषु च ये देवास्तान् यजन्ते ह्यध्वर्यवः ।
तदा तु सात्विकाः प्रैषकाले ये वै महर्षयः ॥३८॥
वीक्ष्योत्थिता अध्वर्यवो दीनान्पशुगणान् स्थितान् ।
पप्रच्छुरिन्द्रं संभूय कोऽयं यज्ञविधिस्तव ॥३९॥
अधर्मो बलवानेषो हिंसाकार्येच्छया तव ।
नेष्टः पशुवधस्त्वेषस्तव यज्ञे सुरोत्तम ! ॥1.52.४०॥
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया ।
नाऽयं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥४१॥
हिंसा नाम शरीरस्य सजीवस्य विघानतम् ।
सर्वेषां देहिनां तादृक् दुःखं नान्यत्तु विद्यते ॥४२॥
यथाऽकस्माच्छस्त्रघाताद् दुःखं भवति प्राणिनाम् ।
यत्कर्मणा भवेद् दुःखं पापं तत्तु प्रकीर्तितम् ।।४३।।
तस्मान्न हिंसया पुण्यं कस्यापि च कदापि च ।
कथं त्वं कुरुषे पापं देवो भूत्वा सुराधिप ! ॥४४॥
निरागसां च मौनानां पराधीनप्रजीविनाम् ।
हिंसनं मा कुरु चेन्द्र कर्मैतन्निन्द्यमेव यत् ॥४५॥
ऋषीनिन्द्रस्तदा प्राह यज्ञे हिंसा सुखप्रदा ।
यज्ञे हुता इमे जीवा यास्यन्ति स्वर्गमीप्सितम् ॥४६।।
मोक्षोऽथ भवते तेषां यान् भुंक्तेऽग्निमुखो हरिः ।
पशुयोनेश्च मोक्षोऽपि दुःखबाहुल्यनिभृतेः ॥४७॥
ऋषयः प्राहुरिन्द्रैवं यज्ञे होमाच्च मोक्षणम् ।
दुःखनाशस्तथा स्वर्गं ! सुखं तादृक् न को लभेत् ॥४८॥
सर्पसत्रे भावियुगे कुहकेन सह द्विजाः ।
तव होमं करिष्यन्ति तदा ते शिक्षणं भवेत् ॥४९॥
पारमेष्ठ्यं चैन्द्रपदं सार्वभौमं रसातलम् ।।
वैराजं तत्त्वधामानि प्राकृतं लोकघट्टनम् ।।1.52.५०।।
सर्वे मायाफेनजन्या निरया ब्रह्मणो हरेः ।
तवाऽपीन्द्र ! पदं तादृङ् निरय एव नाऽपरम् ॥५१॥
दुःखदं क्लेशबहुलं पशुप्रायं विभाति नः ।
तस्मादिन्द्र ! इमं देहं पदं चैन्द्रं परित्यज ।।५२।।
यज्ञे स्वयं पशुर्भूत्वा होमं कुरु निजस्य वै ।
यदि स्वहोमे त्रासस्ते स्वं होमं न करिष्यसे ।।५३॥
वयं तु ऋषयस्त्वां वै जुह्मोऽव्यग्रः स्थिरो भव ।
तेन होमेन ते राजन् परं स्वर्गं भविष्यति ।।५४॥
यद्वै ब्रह्मपदं प्राहुर्मोक्षस्थानमनुत्तमम् ।
तत्र गन्ताऽसि चागच्छ त्वां प्रजुह्मो हरेऽद्य वै ॥५५॥
तव मांसेन यज्ञेशः प्रसन्नः संभविष्यति ।
अस्माकमपि पुण्यं स्यान्मांसहोमेन ते मतम् ॥५६॥
अन्नस्येन्द्रत्वलाभः स्यात्पशवः स्युः सुजीविनः ।
लाभाः सुबहवश्चेन्द्र ! हते त्वयि भवन्ति हि ॥५७॥
तत आगच्छ देवेन्द्र भवान् हुतो भवत्विति ।
इत्येवमृषिभिश्चोते शच्या ह्याक्रन्दनं कृतम् ॥५८॥
इन्द्रोऽपि त्रासमापन्नो मरणक्षणदर्शनात् ।
मण्डपे च सदस्येषु महान्कोलाहलोऽभवत् ।।५९॥
इन्द्रो हूयते ऋषिभिर्बह्वनिष्टं भवेदिति ।
इन्द्रस्तु मरणश्रावात् मुखेन श्यामलोऽभवत् ।।1.52.६०।।
तेजस्तिमिरतां यातं शुष्कास्यो ह्यभवत्क्षणात् ।
त्रासात् हृदयकंपश्च वेपथुर्देहजोऽभवत् ॥६१।।
शक्तिहीनानि गात्राणि ह्यभवन्मरणश्रवात् ।
अथवा ऋषिभिः प्रोक्तं मा ते होमोऽस्तु देवराट् ! ॥६२॥
बहवः सन्ति होतारस्तेषां होमो भवत्वथ ।।
अध्वर्यवः ऋत्विजाश्च होतारश्च सदस्यकाः ॥६३॥
अनेके सन्त्युपस्थितास्ते हुताः संभवन्त्विति ।
तेनाऽद्य प्रीयतां कृष्णः पशवः सन्तु रक्षिताः ॥६४॥
हुताः सर्वे गमिष्यन्ति ब्रह्मणः पदमव्ययम् ।
देवमानुषनिरयात् प्रयास्यन्ति प्रमोक्षणम् ॥६५॥
श्रुत्वैतदिन्द्रः स्वस्थोऽभूत्कथंचिज्जीवनाशयः ।।
अध्वर्युहोतृप्रमुखाश्चिन्तामग्नास्तदाऽभवन् ॥६६॥
अहो कष्टमिति प्रोचुर्नेच्छामो मोक्षणं जगुः ।।
न च मुक्तिं न वै होमं न भोज्यं न च दक्षिणाम् ॥६७।।
वस्तु किमपि नेच्छामस्तव सर्वं भवत्विति ।
न स्थास्यामो वयं चात्र मरणं कस्य वै प्रियम् ॥६८॥
गमिष्यामो गृहान्स्वान्स्वान् होमद्रव्याणि नो वयम् । .
इत्येवं त्रासमाप्तानां महान् कोलाहलो ह्यभूत् ॥६९।
तावत्तत्र समायातो राजोपरिचरो वसुः ।।
विमानात्स समुत्तीर्य यज्ञमण्डपमागमत् ।।1.52.७०।।
इन्द्रादिभिः सत्कृतः सन्न्यषीदन्मध्यमासने ।
ऋषिभिस्तु तदा प्रोक्तं हिंसायज्ञो न वैदिकः ॥७१।
आगमेन सदा यज्ञं करोतु यदिहेच्छसि ।।
विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना ॥७२॥
यज्ञबीजैः सुरश्रेष्ठ ! येषु हिंसा न विद्यते ।
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः ॥७३॥
एष धर्मो महानिन्द्र स्वयं विचार्य साध्यताम् ।
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः ॥७४॥
प्रोक्तस्ते तु विवादेन खिन्ना दिव्या महर्षयः ।।
संधाय पशुमुभयं पप्रच्छुश्चेश्वरं वसुम् ।।७५॥
वसो राजन्कथं दृष्टस्त्वया यज्ञविधिर्नृप ।
औत्तानपादे प्रब्रूहि संशयं छिन्धि नः प्रभो ॥७६॥
श्रुत्वा सर्वमुभयेषामविचार्य बलाबलम् ।
वेदशास्त्रमनुसृत्य यज्ञतत्त्वमुवाच ह ॥७७॥
इन्द्रस्य च सुरेशस्य छायामाश्रित्य पक्षतः ।
रागाच्चाऽप्यविरोधेन क्षत्त्रांशप्रबलेन च ।।७८॥
यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ।
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा ॥७९॥
हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ।
यथेहसंहितामन्त्रा हिंसालिंगा महर्षिभिः ॥1.52.८०॥
दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः ।।
तत्प्रामाण्यान्मया चोक्तं तस्मान्मां मन्तुमर्हथ ॥८१॥
यदि प्रमाणं तान्येव महावाक्यानि वै द्विजाः ! ।।
तदा प्रावर्ततां यज्ञो ह्यन्यथा नोऽनृतं वचः ॥८२॥
एवं प्राप्तोत्तरास्ते वै युक्तात्मानस्तपोधनाः ।।
भूत्वा ह्यधोमुखा वसुं प्राहुर्मा वद पार्थिव ।।८३॥
वेदार्थस्तलस्पर्शित्वबुद्ध्या नैवाऽऽहृतस्त्वया ।
वेदस्य नहि तात्पर्यं कदापि हिंसने मतम् ॥८४॥
स्वभावप्राप्तहिंसाया निवृत्तौ युक्तिकृद्वचः ।
अनालोड्योच्यते हिंसा विधिश्चेत्यनृतो भवान् ॥८५॥
मिथ्यावादी वसुः सोऽयं सत्यं नैव ब्रवीत्यपि ।।
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् ॥८६॥
ऊर्ध्वचारी वसुस्त्वासीद् रसातलचरोऽभवत् ।
वसुधाऽध: सदावासी मिथ्यावाक्येन सोऽभवत् ॥८७॥
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयात् ।
बहुद्वारस्य धर्मस्य सूक्ष्मात् सूक्ष्मतरा गतिः ।।८८।।
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् ।
ततो न हिंसा धर्मस्य द्वारं भवति कर्हिचित् ।।८९।।
पत्रं मूलं फलं शाकं मुन्यन्नं पय एव च ।
यज्ञे दत्वा महीयन्ते स्वर्गे लोके तपोधनाः ।।1.52.९०।।
अद्रोहश्चाऽप्यलोभश्च दमौ भूतदया तपः ।
ब्रह्मसेवा च सत्यं च ह्युपकारः क्षमा धृतिः ।।९ १।।
सनातनस्य धर्मस्य मूलान्येतानि सर्वथा ।
तस्माद् द्रोहं मा कुरु त्वं पशून्मोचय यज्ञतः ।।९२।।
फलान्नादिद्रव्यहव्यैर्यज्ञं कुरु सुरेश्वर ।
इत्येतद्वाक्यमादृत्य शक्रेण हतपायसैः ।।९३ ।।
यज्ञः कृतस्ततः पश्चाद् यज्ञास्तु सात्त्विकाः सदा ।
वैष्णवाः सर्वथा त्रेतायां प्रावर्तन्त चाऽद्रुहः ।।९४।।
ऋषयस्तु तदारभ्य शं प्राकुर्वन् सुसत्तपः ।
यज्ञाँश्च वैष्णवाँश्चक्रुरहिंसाधर्मसंभृतान् ।।९५।।
'अजेन तु यजेते'ति अजस्त्रैवार्षिको ब्रिहिः ।
न जायतेंऽकुरो यस्य तद्धान्यमज उच्यते ।।९६।।
मैथुने मादके मांसे तामसानां स्वभावजा ।
प्रवृत्तिर्भवतीति तन्निरोधाय विधिर्मतः ।।९७।।
मैथुनेच्छा यदि तीव्रा विवाहेन प्रशाम्यतु ।
यदीच्छा मांसरसने यज्ञेनैव प्रशाम्यतु ।।९८।।
यदीच्छा मादके पाने सौत्रामण्या प्रशाम्यतु ।
कथंचिदनुभूयैतान्निवृत्ताः संभवन्त्विति ।।९९।।
विधिपूर्वो निषेधः स न विधिस्तत्त्रयेऽपि वै ।
मद्यमांसमिथुनैर्यो नाऽऽक्रान्तो मुक्त एव सः ।। 1.52.१०० ।।
अहिंसा परमो धर्मो ब्रह्मचर्यं महत्तपः ।
अमादकं परा शुद्धिस्त्रिभिर्ब्रह्म सुविन्दति ।। १०१ ।।
अथापि कालवेगाश्च तामसाहारमिश्रणात् ।
अन्नादिलाभवैधुर्याद् रसनारसलोलनात् ।। १०२।।
तामसैस्तामसी रीतिर्गृह्यते तत्त्रयात्मिका ।
तेषां दण्डप्रदानार्थं धर्मो वैवस्वतो यमः ।। १ ०३।।
वर्तते न्यायकर्ता श्रीनारायणसमीहया ।
तदन्यायपरा शुद्धिर्यमलोके करोति सः ।। १ ०४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चक्रवर्तिचिह्नमहेन्द्रयज्ञसम्बन्धिहिंसाप्रतिपादकोपरिचरवसुप्रपतनादिनिरूपणनामा
द्विपंचाशत्तमोऽध्यायः ।।५२।।