← अध्यायः ०५० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१
[[लेखकः :|]]
अध्यायः ०५२ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! प्रजा यास्तु स्युर्वै मिथुनधर्मजाः ।
वेधसोऽभिध्यायतो वै पतिः पत्नी बभूवतुः ।। १ ।।
प्राक् च स्वायंभुवमनुः शतरूपा च तद्वधूः ।
ताभ्यां मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ।।२।।
लब्ध्वा स्वायंभुवः पत्नीं रेमे सार्धं तया मुहुः ।
प्रथमं सम्प्रयोगः सः कल्पादौ समवर्तत ।। ३ ।।
प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः ।
आकूतिश्च प्रसूतिश्च द्वे कन्ये च बभूवतुः ॥ ४ ॥
ददौ प्रसूतिं दक्षाय आकूतिं रुचये ददौ ।
आकूत्यां मिथुनं जज्ञे यज्ञश्चापि च दक्षिणा ।। ५ ।।
ताभ्यां प्रजास्तु यामाख्या देवा द्वादश जज्ञिरे।
दक्षात्प्रसूत्यां कन्यास्तु चतुर्विंशतिजज्ञिरे ।। ६ ।।
सर्वास्ता ब्रह्मवादिन्यो योगिन्यो लोकमातरः ।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥ ७ ॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।
एतास्तु प्रतिजग्राह धर्मः पत्न्यर्थमेव हि ॥ ८ ॥
ताभ्यः शिष्टा यवीर्यस्य एकादश सुलोचनाः ।
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ ९ ॥
सन्नतिश्चाऽनसूया च ऊर्जा स्वाहा स्वधा तथा ।
तास्ततः प्रत्यपद्यन्त एकादश महर्षयः ।।1.51.१०।।
भवो भृगुर्मरीचिश्च ह्यं गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वशिष्ठश्च पितरोऽग्निस्तथैव ते ॥११॥
सती भवाय प्रायच्छत्ख्यातिं च भृगवे तथा ।
मरीचये तु संभूतिं स्मृतिमंगीरसे ददौ ॥१२॥
प्रीतिं ददौ पुलस्त्याय क्षमां तु पुलहाय च ।
क्रतवे सन्नतिं चैव ह्यनसूयां तथाऽत्रये ॥१३॥
ऊर्जां ददौ वशिष्ठाय स्वाहां च ह्यग्नये ददौ ।
स्वधां चैव पितृभ्यस्तु तास्वपत्यानि मैथुनात् ।।१४।।
श्रद्धां कामं विजज्ञे वै दर्पो लक्ष्म्याः सुतः स्मृतः ।
धृतेस्तु नियमः पुत्रस्तुष्ट्याः सन्तोष उच्यते ॥१५॥
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा ।
क्रियायास्तु नयः प्रोक्तो दण्डः समय इत्यपि ॥१६॥
बुद्धेर्बोधः सुतश्चापि ह्यप्रमादश्च तावुभौ ।
लज्जाया विनयः पुत्रो व्यवसायो वपुःसुतः ।।१७॥
क्षेमः शन्तिसुतश्चापि सुख सिद्धेर्व्यजायत ।
यशः कीर्तेः सुतश्चापि हीत्येते धर्मसूनवः ॥१८॥
कामस्य हर्षः पुत्रौ वै देव्यां रत्यां व्यजायत ।
इत्येषो वै सुखोदर्कः सर्गो धर्मस्य मैथुनात् ॥१९॥
भवः सत्यामसंख्यातान् रुद्रान् रौद्रान्समसृजत् ।
ब्रह्मणा मा सृजेत्युक्ते ह्यूर्ध्वरेताः स्थितो हरः ॥1.51.२०॥
ततः प्रभृति शंभुस्तु प्रासूयत न वै प्रजाः ।
ब्रह्मचारी स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥२१॥
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
सृष्टृत्वमात्मसंबोधस्त्वधिष्ठातृत्वमेव च ॥२२॥
ऐश्वर्याणि दशैतानि नित्यं तिष्ठन्ति शंकरे ।
सर्वदा भानयुक्तत्वाद् युक्तयोगी महेश्वरः ॥२३॥
महेश्वरप्रसादाद्वै त्रीदण्डी जायते नरः ।
वाक्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ॥२४॥
यस्यैते नियता दण्डास्त्रिदण्डी मुक्त एव सः ।
अरिष्टानि स्वयं ज्ञात्वा मृत्यु पश्यति चात्मनः ॥२५॥
शृणु लक्ष्मि ! प्रसंगाद्वै तानि वक्ष्यामि कृत्स्नशः ।
विज्ञायेत यदैवं तज्ज्ञातव्यं मरणं स्वकम् ॥२६॥
अरुन्धतीं ध्रुवं चैव सोमच्छायां सितम्पथम् ।
यो न पश्येत् स नो जीवेन्नरः संवत्सरात्परम् ॥२७॥
अरश्मिवन्तमादित्यं रश्मिवन्तं च पावकम् ।
यः पश्येन्न स जीवेद्वै मासादेकादशात्परम् ॥२८॥
वमेन्मूत्रं पुरीषं वा सुवर्णं रजतं तथा ।
प्रत्यक्षमथवा स्वप्ने दशमासान् स जीवति ॥२९॥
अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत् ।
पांसुले कर्दमे वापि सप्तमासान् स जीवति ॥1.51.३०॥
काकः कपोतो गृध्रो वा निलयेद् यस्य मूर्धनि ।
क्रव्यादो वा खगः कश्चित् षण्मासान् नातिवर्तते ॥३१॥
बध्येत वायसपंक्त्यां पांशुवर्षेण वा पुनः ।
छायां वा विकृतां पश्येच्चतुः पंच स जीवति ।।३२।।
अनभ्रे विद्युतं पश्येद् दक्षिणां दिशमाश्रिताम् ।।
उदकेन्द्रधनुर्वापि त्रयो द्वौ वा स जीवति ॥३३।।
अप्सु वा यदि वाऽऽदर्शे आत्मानं यो न पश्यति ।
अशिरस्कं तथाऽऽत्मानं मासादूर्ध्वं न जीवति ॥३४॥
शवगन्धि भवेद्गात्रं वसागन्धि ह्यथापि वा ।
मृत्युर्ह्युपस्थितस्तस्य चार्धमासं सजीवति ॥३५॥
यस्य वै स्नातमात्रस्य हृत्पादौ वाऽवशुष्यतः ।
धूमं वा मस्तकात्पश्येद् दशाहं न स जीवति ॥३६॥
संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।।
अद्भिः स्पृष्टो न हृष्येच्च तस्य मृत्युरुपस्थितः ॥३७॥
ऋक्षाऽजवानरयुक्तरथेनाऽऽशां तु दक्षिणाम् ।
गत्यन्नथ व्रजेत् स्वप्ने विद्यान्मृत्युरुपस्थितः ॥३८॥
कृष्णाम्बरधरा श्यामा गायिका वाऽथ चांगना ।
यं नयेद् दक्षिणामाशां स्वप्ने सोऽपि न जीवति ।।३९।।
छिद्रं वासश्च कृष्णं च स्वप्ने यो बिभृयान्नरः ।
भग्नं वा श्रवणं दृष्ट्वा विद्यान्मृत्युरुपस्थितः ।।1.51.४०।।
आमस्तकतलाद् यस्तु निमज्जेत्पंकसागरे ।
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥४१॥
भस्मांऽगाराँश्च केशाँश्च नदीं शुष्कां भुजंगमान् ।
पश्येद् यो दशरात्रं तु न स जीवेत्तु तादृशः ॥४२॥
कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति ॥४३।।
सूर्योदये प्रत्यूषसि प्रत्यक्षं यस्य वै शिवा ।
क्रोशन्ती सम्मुखाऽभ्येति स गतायुर्भवेन्नरः ॥४४॥
यस्य वै स्नातमात्रस्य हृदयं पीड्यते भृशम् ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ।।४५॥
भूयो भूयः श्वसेद् यस्तु रात्रौ वा यदि वा दिवा ।
दीपगन्धं च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ।।४६।।
रात्रौ चेद्रायुधं पश्येद् दिवा नक्षत्रमण्डलम् ।
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥४७॥
नेत्रमेकं स्रवेद् यस्य कर्णौ च भ्रश्यतः स्थलात्।
नासा तु वक्रा भवति स ज्ञेयो गतजीवितः ॥४८॥
यस्य कृष्णा खरा जिह्वा पंकभासं च वै मुखम् ।
गण्डे चिपिटके रक्ते तस्य मृत्युरुपस्थितः ।।४९॥
मुक्ताकेशो हसंश्चैव गायन्नृत्यँश्च यो नरः ।
याम्याऽऽशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥1.51.५०॥
यस्य स्वेदसमुद्भूताः श्वेतसर्षभसन्निभाः।
स्वेदा भवन्ति ह्यसकृत् तस्य मृत्युरुपस्थितः ॥५१॥
उष्ट्रा वा रासभा वापि युक्ताः स्वप्ने रथेऽशुभाः ।
यस्य सोऽपि न जीवेद्वै दक्षिणाऽभिमुखो गतः ॥५२॥
घोषं न शृणुयात्कर्णे ज्योतिर्नेत्रे न पश्यति ।
दूरं दृष्टिर्न च याति रक्तं दृश्येत मण्डलम् ॥५३॥
मुखे चोष्माऽऽकृष्टनाभिः प्रोष्णमुत्रो न जीवति ।
श्वभ्रे यो निपतेत् स्वप्ने द्वारं चास्य न विद्यते ॥५४।।
न चोत्तिष्ठति यः श्वभ्रात् तदन्तं तस्य जीवितम् ।
दिवा वा यदि वा रात्रौ प्रत्यक्षं योऽभिहन्यते ।।५५।।
तं पश्येदथ हन्तारं स हतस्तु न जीवति ।
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः ॥५६॥
स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ।
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः ।।५७॥
रक्तं कृष्णमपि स्वप्ने तस्य मृत्युरुपस्थितः ।
रक्तैकवस्त्रां नग्नां वा स्नापयन्तीं स्त्रियं तु यः ।।५८।।
स्वप्ने पश्यत्यालिंगन्तीमथ वा स न जीवति ।
स्वप्ने करालकृष्णं तु दूतं दृष्ट्वा न जीवति ।।५९।।
छिन्नं स्वमस्तकं हस्ते नीत्वा गच्छति यो रणे ।
स्वप्ने पश्यति शूरात्मा तस्याऽवश्यं मृतिः स्मृता ।।1.51.६०।।
वातवेगे जलौघे वा ज्वालामुखे च भूतले ।
यन्त्रे वृक्षे पशौ सौधे प्रवेशः पतनं च वा ॥६१॥
मर्दनं मूर्छना वाऽपि स्वप्ने पश्येत्तु यो नरः ।।
तस्याऽऽसन्नमृतिर्बोध्या विद्यत्पाताऽभिमर्शिनः ॥६२॥
प्रवासे शकुने कृष्णसर्पसम्मुखदर्शनम् ।
मरणापादकं मृत्युसमकष्टप्रदं च वा ॥६३।।
अग्रे तु रजको याति पृष्ठे चाऽऽयाति नापितः ।
मध्ये कदा न गन्तव्यं मृतिर्वा कार्यनाशनम् ॥६४।।
स्वप्ने रौति स्वेष्टदेवः पिता माता विरौत्यपि ।
महादुःखं भवेद् यद्वा मृतिस्तत्र ह्युपस्थिता ॥६५॥
पतेत् सिंहासनाद्राजा रुदन्ति देवमूर्तयः ।
धूम्रकेतोरुदयनं त्वसंख्यजननाशकाः ॥६६॥
काकः सिंहासने रौति रौति श्वा सन्मुखं स्थितः ।
गवादीनां विह्वलता ज्ञापयन्ति भयं द्रुतम् ।।६७॥
प्रस्थाने ह्यलूकदृशिः कृष्णसर्पदृशिस्तथा ।
छिन्ननसो दृशिश्चेति ज्ञापयन्ति मृतिं मुहुः ।।६८॥
चिह्नान्येवं परिज्ञाय मृतिं निश्चित्य चात्मनः ।
आत्मानं ब्रह्मणा युज्याद् हरेर्मूर्तिपरो भवेत् ॥६९॥
भोग्यं देहं तु नार्युक्ता नर आत्मा स्वयं मतः ।
नारीं त्यक्त्वा नरो भक्त्या नारायणं समश्नुते ॥1.51.७०।
नाऽन्यमालोचयेत् किंचिन्नान्यवृत्तिं विभावयेत् ।
आत्मवृत्त्या परात्मानं स्वं निजं समभावयेत् ॥७१।।
न कस्मैचिद्भयं दद्यात्सर्वस्याऽभयकृद्भवेत् ।
भयं द्रोहश्च हिंसा च पापमेव हि सर्वथा ।।७२।।
अहिंसा परमो धर्मः परलोकसहायकृत् ।
भयं हिंसा न वै धर्मः परलोकात्प्रपातकः ।।७३॥
वसोरुत्तानपादैस्तु हिंसायज्ञस्य कीर्तनात् ।।
स्वर्गात् पातोऽभवच्छीघ्रं पृथिव्यां च लयोऽभवत् ।।७४॥
तस्माद् द्वेषं यथा तद्वद् रागं चैव परित्यजेत् ।
आत्मनाऽऽत्मानमालम्ब्य ब्रह्ममार्गं परिव्रजेत् ।।७५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मिथुनीसृष्टिमरणसूचकस्वप्नादिप्रदर्शननामैकपंचाशत्तमोऽध्यायः ।।५१॥