← अध्यायः ०५९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६०
[[लेखकः :|]]
अध्यायः ०६१ →

श्रीनारायण उवाच
इत्येवं प्रत्यहं लक्ष्मि ! हाटकांगदभूपतिः ।।
कथाः श्वेतव्यासमुखाच्छृणोति श्रोतृभिः सह ॥ १ ॥
ऋषेर्बालकृताच्छापात्प्रेरितः कुहकः फणी ।
समागच्छति दंशार्थं पश्चिमाशाविभागतः ॥ २ ॥
विप्ररूपं स वै धृत्वा व्रतदाख्यसरित्तटे।
विश्रान्तो वटच्छायायां यावत्तिष्ठति सर्पराट् ।। ३ ।।
तदा तत्र समायातो वैद्यवेषाऽपरो द्विजः ।।
सोऽयं धन्वन्तरिर्वैद्यो विषनाशकमौषधम् ।।४।।
आदाय गच्छति यत्र त्वस्याः पारायणं वृतम् ।।
राज्ञो विषं हरिष्येऽहं लप्स्ये स्वर्णमयं बहु ।। ५ ।।
पारितोषिकमित्येवं कृत्वा तं हाटकांगदम् ।।
रक्षितुं याति सोऽप्यत्र महावटतरोरधः ॥ ६॥
छायां सुशीतलां प्राप्य (व्रतदा) कन्कलासलिलं शुभम् ।।
पातुं विश्रमितुं तत्र निषसाद वटस्थले ॥ ७ ॥
कुहकेन परिपृष्ठः प्राह धन्वन्तरिस्तदा ।
हाटकांगदराजर्षेर्विप्रशापकृताद्भयात् II ८ II
कुहकदंशजन्याद्व गरलात्मकविघ्नतः ।
तं गच्छामि मोचयितुं पारितोषिकवाञ्च्छया ।। ९ ।।
कुहकेन तु तच्छ्रुत्वा कथितं शृणु भो द्विज । ।
कुहकस्य गरं तीव्रं कथं त्वं वारयिष्यसि ।।1.60.१०।।
कुर्वत्रैव वटे तस्य परीक्षां याहि भो ततः ।।
दशाम्येनं वट त्वं तं कुरु पल्लवितं पुनः ॥११॥
उक्त्वैवमदशद्वृक्षं न्यग्रोधं यावदेव हि ।।
तावदामूलतो वृक्षः शुष्कोऽभूद् विषयोगतः ॥१२॥
धन्वन्तरिस्तदा नद्या जलमादाय चौषधम् ।।
आप्लाव्य तस्य मूले तु यावत्करोति सेचनम् ॥१३॥
तावद्वटोऽप्यंकुरितः पत्ररसभरो यथा ।
पूर्वमासीत्तथैव द्राग्जातो हरित इत्यपि ।।१४।।
आश्चर्यमिदमालोक्य कुहकः प्राह तं द्विजम् ।
मा याहि भो द्विजश्रेष्ठ कस्त्वं मां सन्निवेदय ॥१५॥
द्रव्यं स्वर्णं परार्धं ते ददामि तत्र याहि मा ।
द्विजो धन्वन्तरिः प्राह नारायणांशजोऽस्म्यहम् ॥१६॥
हाटकांगदभक्तं मे रक्षितुं यामि मानद ।
कुहकः प्राह ते दिष्ट्या ब्रह्मशापो बभूव ह ।।१७।।
भवानेव कथं तद्वै व्यलीकं कर्तुमिच्छति ।
आयुषस्तस्य सान्तत्वात्सुकृतस्य क्षयादपि ।।१८।।
तव संकेतकार्यत्वान्नाशं यातु धरापतिः ।।
गृहाणेदं परार्धं वै स्वर्णमणिमयं धनम् ।।१९।।
परागच्छ महाराज याम्यहं दंशनाय तम् ।
कुहकस्त्वेवमाभाष्य मणिं स्वमूर्ध्न आददौ ॥1.60.२०॥
यस्मात्स्वर्णमनन्तं वै स्पर्शाद्भवति लोहतः ।
धन्वन्तरिर्धनं नीत्वा गतः स्वस्य निकेतनम् ॥२१॥
कुहकस्तु भावियोगात्कथास्थानमगाद् द्रुतम् ।।
वटोऽमृतौषधिप्राप्तेस्तूर्णं त्वमरतां गतः ।।२२।।
श्वेतहरितपर्णाढ्यो यावत्कल्पं भविष्यति ।
धन्वन्तरिवटख्यातिं लोके वै स गमिष्यति ॥२३।।
रैवतात्पर्वतान्नैर्ऋत्यायां दिशि वटोऽल्पकः ।
योजनत्रितयं दूरे वर्तते सूचयन् स्थितिम् ॥२४॥
महालयक्षितेः पश्चाद् दूरं गव्यूतिरस्ति सः ।।
तीर्थं विषहरं तद्वै स्नानमात्रात्प्रशस्यते ॥२५॥
वटस्पर्शनमात्राच्च विषं नश्यति देहिनाम् ।
मन्त्रो विषहरश्चायं धन्वन्तरिसमीरितः ॥२६॥
‘विषाऽपसर्प भद्रं ते गच्छ विष इतो द्रुतम् ।
हाटकांगदरक्षार्थं धन्वन्तरिबलं स्मर' ॥२७॥
इति मन्त्रं समुच्चार्याऽवतारयति यो विषम् ।।
द्रागेव प्रलयं याति विषमुल्बणमुल्बणम् ।।२८॥
अथ सः कुहको विप्ररूपधृक् सदसि द्रुतम् ।।
प्रच्छन्नश्च समागम्य कथां शृणोति नित्यशः ॥२९॥
प्राप्ते त्रिंशत्तमे त्वह्नि पूर्वं सायाह्न एव तु ।।
पारायणसमाप्तौ वै व्यासपूजोत्तरं तदा ॥1.60.३०॥
हाटकांगदभूपालं यजमानं यदा गुरुः ।।
व्यासो जगाम सहाशीर्वाददानाय तावता ।।३१।।
रूपान्तरं शलाकेव सूक्ष्मं कृत्वा तु सर्पराट् ।।
हारपुष्पेषु वै लीनः पुष्पवर्ण इवाऽकळः ॥३२॥
हारेण सह नृपतेः कण्ठे तिष्ठति वाञ्छया ।
यावद् राजापि वदति व्यासदेव नमोऽस्तु ते ।।३३।।
तव प्रसादाद् विघ्नो मे गत एवेति लक्षये ।
तावत्स कुहकः कण्ठे सूक्ष्मं दंशं चकार वै ।।३४।।
विषं स्वमुल्बणं तीव्रं दंष्ट्रयाऽसिञ्चदण्वपि ।
राज्ञस्तद्ब्रह्मरन्ध्रे वै गतं नाड्या तु सत्वरम् ॥३५॥
अव्याप्नोत्तावदानखशिखं हाहाध्वनिस्तदा ।
समभूच्च सदस्यानां शोकोद्विग्नधियां महान् ॥३६॥
राजा तु कृष्णसंलग्नमानसात्मेव योगिराट् ।
दिव्यविग्रहवान् भूत्वा ययौ ब्रह्मपुरं परम् ॥३७।।
कुहुकस्तु स्वकं रूपं दर्शयित्वा निगूह्य च ।
सत्वरं परिदुद्राव जगाम निजमालयम् ॥३८॥
अथ राज्ञः सुपुत्रेण स्वर्णांगदेन यज्ञराट् ।
सर्पयज्ञः कृतो यत्र सर्पाणामनले हवः ।।३९।।
स्वपितुः प्रतिकाराय कृतो रोषनिवृत्तये ।
सर्पाणां तु विनाशाय सर्पमन्त्रविदस्तदा ।।1.60.४०।।
समाहूय द्विजाँस्तूर्णं सर्पसत्रं समाचरत् ।।
अग्निं प्राज्वाल्य नामानि सर्पाणां परिहृत्य च ॥४१॥
जुहाव सुबहून् सर्पान् पेतुश्चाग्नौ च संघशः ।
कुहकस्तु तदा चेन्द्रशरणं गतवान् किल ।।४।।
प्राह रक्ष सुराधिप मृतेरस्याः दयां कुरु ।
श्रुत्वेति च तदा हीन्द्रो राजा त्रिलोकिरक्षकः ।।४३॥
सर्पं ररक्ष पार्श्वे स्वे न वै पतति सर्पराट् ।
ध्यानेन तु तदा विप्रैर्ज्ञात इन्द्रसुरक्षितः ॥४४
तदा वै ब्राह्मणास्तत्र मन्त्रानुच्चार्य वेगतः ।।
सुपर्णद्विजमुख्यास्ते प्रसह्याहूय भोगिनः ।।४५॥
जुहुवुश्चानले मुख्यान् गौणाँश्चापि समन्ततः ।।
सेन्द्रं च कुहकं मन्त्रमुच्चार्याऽप्यजुहोद् यथा ॥४६॥
‘ओमग्नये स्वाहा कुहकं सेन्द्रं जुहोमि' मन्त्रम् ।
यावदुच्चार्य सर्षपान् जुहोत्यग्नौ तदा स्वयम् ॥४७।।
इन्द्रः कुहकयुक्तो वै स्वासनात्पतितो भुवि ।।
अग्नौ ससर्पः पतितः प्रजज्ज्वालाऽऽकटि द्रुतम् ॥४८॥
ब्रह्मणा स निरुद्धो वै मैवं देवेऽतिगं कुरु ।।
तदा द्विजः सुपर्णस्तु द्विजाश्चान्ये महाबलाः ॥४९।।
पितामहवचः श्रुत्वा निवृत्ताः कर्मणस्ततः ।।
इन्द्रं धन्वन्तरिरेत्य त्वौषधेनाऽचिकित्सयत् ॥1.60.५०॥
नीरुजं तु चकारैनं जगाम स्वनिकेतनम् ।।
कुहकस्त्वर्धदग्धो वै शेषेणाऽऽगत्य मोचितः ॥५१।।
जीवितः प्राणसन्धिन्या समौषध्या ततः खलु ।
सर्पाः कुहकजातीयाः पृष्ठे देशे समन्ततः ॥५२॥
कृष्णपीतसुधूम्रादिविचित्रचन्द्रकाः सदा ।
दग्धत्वचां दर्शनानि भवन्ति त्वग्निपाशतः ।।५३।।
इत्येवं प्रथमद्वापरस्य जातं कथानकम् ।।
तदानीमिन्द्रदेवस्य त्रासोऽभून्मरणस्य वै ॥५४॥
तद्वत् त्रासो भवत्येव प्राणिनां घातकर्मणि ।।
तस्माद् घातो न कर्तव्यः केनचित्तु दयालुना ॥५५॥
इत्येवं तु कथा दिव्या प्रोक्ता कल्पादिकालजा ।
भक्त्यहिंसादिधर्माढ्या परश्रेयस्करी शुभा ॥५६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने व्रतदाननदीतटीयवटच्छायायां कुहकधन्वन्तरिबलपरीक्षण- सर्पदंशजहारकांगदनिधन-सर्पसत्राग्निमध्यसेन्द्रकुहकहोमसुपर्णद्विजादिकृतहवनग्रस्तेन्द्रकुहका दिकरुणाकृद्ब्रह्मशेषादिवचनद्वारकरक्षणादिनिरूपणनामा षष्टितमोऽध्यायः ।। ६० ।।