← अध्यायः ०६० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६१
[[लेखकः :|]]
अध्यायः ०६२ →

श्रीनारायण उवाच--
शृणु लक्ष्मि ! प्रवक्ष्यामि तव प्रश्नानुसारिणीम् ।
कथां यमस्य तत्पूर्या यत्रास्ति जीवनिष्कृतिः ॥ १ ॥
द्वापरे प्राणिनां भावाः सत्यहीना यदाऽभवन् ।
पापे च कपटे बुद्धिर्यदा मुहुरवर्तत ॥ २ ॥
पक्षपातस्तदा चौर्यं स्वार्थो मिथ्याभिशंसनम् ।
प्रसह्ये च परस्वादि हर्तव्यमपि दूषणम् ।। ३ ।।
हिंसा द्रोहोऽवमानं च निन्दाऽन्याऽभिभवोऽर्दनम् ।
इत्यादिदोषसहितान् लोकान् दृष्ट्वा प्रजापतिः ॥ ४ ॥
स्वयंभूर्भगवान् ब्रह्मा दण्डार्थं तु व्यचिन्तयत् ।।
देवं नारायणं दध्यौ क्षणं तावद्धरिः स्वयम् ॥ ५ ॥
प्राविर्भूय प्रसन्नास्यः प्राह कस्मादहं स्मृतः ।।
ब्रह्मा निवेदयामास देवाय परमात्मने ।। ६ ।।
द्वापरे खलु संप्राप्ते लोकाः सत्यविवर्जिताः ।
परस्परस्वहर्तारो मिथ्यावादाश्च निर्दयाः ।। ७ ।।
तेषां कृते तु कर्तव्यं किन्नु वै भगवन् मया ।।
दण्डस्तेषामवश्यं वै कर्तव्यो भवति प्रभो ॥ ८ ॥
अन्यथा त्वव्यवस्था स्याल्लोका विनाशमाप्नुयुः ।।
भोजनाच्छादनगृहावासेष्वपि बलिष्ठकैः ।। ९ ।।
कृतादुपद्रवात्तेषां सुखं स्यान्न कदाचन ।।
तस्मात्तेषां नियमनं किमप्याधेहि शं कुरु ।।1.61.१०।।
श्रत्वैवं ब्रह्मणो वाक्यं नारायणः स्वयं हरिः ।
सस्मार धर्मं शास्तारं धर्मस्तत्राऽऽगतो द्रुतम् ।।११।।
प्रणिपत्य च संपूज्य देवदेवं जनार्दनम् ।।
ब्रह्माणं चापि पितरं नमस्कृत्याऽब्रवीदिदम् ।।१२।।
किन्नु मे कार्यमापन्नं देह्याज्ञां तत्करोम्यहम् ।।
हरिः प्राह तदा धर्मं दण्डकार्यं गृहाण वै ।।१३।।
लोकानां स्वार्जितानां तु कर्मणां फलदो भव ।।
सत्कर्मणां सत्फलदोऽसत्कर्मणामसत्प्रदः ।।१४।।
रूपद्वयं गृहीत्वा त्वं दण्डकार्यं कुरु द्विज ।
ब्रह्मणा मोदितः सोऽपि तत्कार्यं शिरसि न्यधात् ॥१५॥
पुनर्धर्मस्तदा प्राह नारायणं जगद्गुरुम् ।।
किं कार्यं केन रूपेण क्व स्थले कैश्च हेतुभिः ।।१६।।
कथं दण्डयितव्यं तच्छाधि श्रीपरमेश्वर ।
तदाह भगवान् कृष्णो गृहाण त्वं तनुद्वयम् ।।१७।।
घोररूपं तु तत्रैकं त्रासदं च भयंकरम् !
अपरं सौम्यरूपं तु सुखदं शान्तिदं सदा ॥१८॥
तदेतद्रूपलब्ध्यर्थं सूर्याऽपत्यं भवाऽचिरम् ।।
यमरूपो विकरालस्वरूपस्त्रासदो भवा ।।१९।।
द्वितीयं तु तव रूपमिदमेव भवत्वथ ।।
ततस्ते वासयोग्यं वै स्थानं दक्षिणदिग्भवम् ॥1.61.२०॥
कल्पयिष्ये विशालं तत्पुरी संयमनीति यत् ।
दण्डाख्यं पुरुषं दास्ये यमदूताँश्च कोटिशः ॥२१॥
लेखकाँश्चापि संदास्ये चित्रगुप्ताख्यमुख्यकान् ।
स्वकर्मफलभोगाय स्थानानि कर्मिणां कृते ।।२२।।
विविधानि रचयिष्ये गच्छ सूर्यसुतो भव ।।
इत्यादिश्य हरिस्तस्मात्स्थानात्तिरोऽभवत्तदा ॥२३॥
ब्रह्माणं तु नमस्कृत्य धर्मः सूर्यं विवेश ह !
सूर्योऽप्यैच्छत्तदा पत्नीं पुत्रसन्ततिहायिनीम् ॥२४॥
अथ सर्वगुणोपेता प्राप्ता संज्ञाभिधा प्रिया ।।
विश्वकर्मसुता दिव्या रविणा सा विवाहिता ॥२५॥
सूर्यस्तु तेजसा तीव्रः संज्ञा मृद्वी स्वतेजसा ।।
सूर्यतेजोऽसहमाना रवेः सेवां करोत्यपि ॥२६॥
यदा सूर्यस्तु संज्ञाया मुखं पश्यति कामतः ।।
तदा संज्ञा सूर्यतेजःप्रधृष्या भवति द्रुतम् ॥२७॥
सूर्यस्य तेजसा संज्ञा नेत्रे निमिलते सदा ।
प्रेम्णा पश्यन्त्यपि सूर्यं तेजसाऽभिभवात्तदा ॥२८॥
नहि विवृत्तनेत्रेण द्रष्टुं शक्ता भवत्यसौ ।
सूर्यः स्वयं स्वभावाद्धि देहेऽप्युष्णतमः परः ॥२९॥
संज्ञा सूर्यस्य तत्तेजो ह्युग्रं सोढुं शशाक न ।
यदा यदा तु सूर्यस्तां समाश्लिष्यति वै प्रियाम् ॥1.61.३०।।
तदा तु सूर्यं सन्तप्तं दृष्ट्वा च विवशा हि सा ।।
पतिं दृष्ट्वा मुहुः संज्ञा स्वाक्षिसंयमनं व्यधात् ।।३१।।
सूर्यस्तु प्रेमसमये प्रियां संरुद्धलोचनाम् ।।
मुहुर्दृष्ट्वा ह्यधीरः सन् रोषाद्वचनमब्रवीत् ॥३२॥
मम योगे सदा भीरु कुरुषे स्वाक्षिसंयमम् ।
तस्मान्मद्वीर्यतस्तेऽपि पुत्रो भवतु संयमः ॥३३॥
नाम्ना यमस्तु विख्यातो यमराजेति वै महान् ।
जीवानां कर्मपाकस्य दण्डदाता भविष्यति ॥३४॥
मम क्रोधवशात् सोऽपि क्रूरधर्मा भविष्यति ।
तव नेत्रसंयमनात् सोपि तादृग्भविष्यति ।।३५।।
यदा तु कर्मपाकं वै दण्डं दास्यति कर्मणे ।
तदा ह्याक्रोशतो जीवान्नैव द्रक्ष्यति नेत्रतः ॥३६॥
नेत्रे सम्मील्य दण्डं वै यथाकर्म प्रदास्यति ।
यादृग् वै संगमे पित्रोर्भावस्तादृक् तु बालके ॥३७॥
इत्येवं वदमाने तु रवौ संज्ञा यथा तथा ।।
प्रियचिकीर्षया पत्युश्चंचलाऽप्यभवत्तदा ॥३८॥
हावं भावं दर्शयन्ती स्नेहरतिं करोति वै ।।
कामभोगं रतिं रीत्या नेत्रे चोन्मील्य भावतः ॥३९॥
शं निर्वर्तयते यावत् सूर्याद्गर्भं समादधौ ।।
सूर्यः प्राह तदा संज्ञां प्रिये त्वं चञ्चला मुहुः ॥1.61.४०॥
विलोलितसुचाञ्चल्यपूर्णदृष्ट्या च मां पुनः ।।
विलोकयसि रमणाद् रंजयसि च मां मुहुः ॥४१।।
ततोऽपत्यं द्वितीयं ते चंचलं संभविष्यति ।
सापि कन्या त्वया तुल्या चंचला वै भविष्यति ।।४२॥
इत्येवं यमकं गर्भे दधार रविकाम्यया ।
अथ प्राप्ते तु समये सुषुवे यमकं तु सा ॥४३॥
पतिप्रदत्तवचनात्तस्या जज्ञे यमो यमी ।।
जातमातं तु षोडशहायनं समभूद् द्वयम् ॥४४।।
सूर्यगृहे तु रमते यमकं तद् यमो यमी ।।
पुत्रो द्वितीयः संज्ञायाः श्राद्धदेवोऽभवन्मनुः ॥४५॥
यमस्तु यमराजोऽभूत् संयमिन्यां फलप्रदः ।।
यमी तु यमुना भक्ता नदी कृष्णेच्छयाऽभवत् ।।४६॥
गोलोकात्कृष्णचन्द्रेण प्रेरिताऽत्र समागता ।।
सूर्यपुत्री स्वयं भूत्वा वृन्दावने गमिष्यति ।।४७।।
कलिन्दस्य सुता पश्चात् कालिन्दी सा भविष्यति ।
यमुना सा महादेवी दिव्या मोक्षप्रदायिनी ॥४८॥
आकल्पान्तं जलरूपा वृन्दावनविहारिणी ।।
कृष्णकेलिह्रदरम्या गोपगोपीकृताऽऽप्लवा ॥४९॥
देवदेवीमहापूज्या गोकुलाग्रे गमिष्यति ।।
एवं पुत्रद्वयं पुत्रं संज्ञा संसुषुवे रवेः । ॥1.61.५०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सूर्योत्पादितस्वपत्नीसंज्ञागर्भोत्पन्नश्राद्धदेवयमयमी
प्राविर्भावकथननामैकषष्टितमोऽध्यायः ॥ ६१ ।।