लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६८

← अध्यायः ०६७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६८
[[लेखकः :|]]
अध्यायः ०६९ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! प्रवक्ष्यामि जनं शारीरचिह्नकम् ।
कीदृग्रूपो जनः कीदृक्कर्मा कीदृग्गुणो भवेत् ॥ १॥
संक्षेपात्तत्प्रवक्ष्यामि लोकविज्ञान हेतवे ।
शरीराणि समान्येव नरनारीदिवौकसाम् ।। २ ।।
आकृतेर्भेदभावो वै परिचायक एव ह ।
चिह्नानां भेदभावस्तु कर्मणां परिचायकः ॥ ३ ॥
धनहीनस्य तु पादौ शूर्पाकारौ शिरालकौ ।
वक्रौ रुक्षौ च संशुष्कौ पाण्डुनखौदरांगुली ।। ४ ।।
वंशस्य नाशकौ पादावुत्कमठौ कषायकौ ।
ब्रह्मघ्नस्य भवेतां तु चरणौ शंकुसन्निधौ ।।५।।
निर्धनस्य रोमकूपे एकैक एव रोमकः ।
नृपस्य श्रोत्रियस्यापि द्वौ द्वौ श्रीधीमतां तथा ।। ६ ।।
त्र्याद्यैर्निःस्वा दुःखभाजो निन्दिताश्च भवन्ति हि ।
यस्य केशाः कुंचिताः स्युः स प्रवासे म्रियेत वै ।। ७ ।।
यस्य जानू तु निर्मांसौ सौभाग्यः स भवेज्जनः ।
निम्नाऽल्पजानुमान् बोध्यः सर्वदा स्त्रीरतो जनः ।।८।।
दरिद्रो विषमजानुः पुष्टजानुर्नृपो भवेत् ।
महज्ज़ानुर्दीर्घजीवी वक्रजानुस्तु कामुकः ॥ ९ ॥
यस्य पादौ मृदुतलौ कमलोदरसन्निभौ ।
श्लिष्टांगुली ताम्रनखौ सुपार्ष्णी व शिरोज्झितौ ॥1.68.१०॥
उष्णौ कूर्मोन्नतौ गूढगुल्फौ स नृपतिर्भवेत् ।
यो नरो ह्यल्पलिंगः स्यादपत्यरहितस्तु सः ॥११॥
यस्तु भवेत् स्थूललिंगः सापत्योऽपि धनोज्झितः ।
मेढ्रं वामनतं यस्य तस्य पुत्रार्थहीनता ॥१२॥
लिंगमधोनतं यस्य दारिद्र्यं तस्य सर्वदा ।
दक्षवक्रं यस्य मेढ्रं पुत्रवान्स मतौ जनः ॥१३॥
स्थूलग्रन्थियुते लिंगे शिराले बहुपुत्रकः ।
कोषगूढे प्रजनने नृपः स्याद्बहुपुत्रकः ॥१४॥
दीर्घकाषो भुग्नकोषो धनहीनः सदा भवेत् ।
दुर्बलत्वेकवृषणो विषमवृषणश्चलः ॥१५॥
समाभ्यां नृपतिः प्रोक्तः प्रलम्बेन शताब्दवान् ।
भवेत् सिंहकटी राजा निःस्वः कपिकटिर्नरः ॥१६॥
सर्पोदरा दरिद्राः स्युर्धनिनः स्थूलपार्श्वकाः ।
समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः ।।१७।।
नृपाश्चोन्नतकक्षाः स्युर्जिह्मा विषमकक्षकाः ।
अशीघ्रमैथुन्यल्पायुर्दीर्घायुः शीघ्रमैथुनी ॥१८॥
सुखी स्याद्विस्तीर्णनाभिर्दुःख्यतिनिम्ननाभिकः ।
वलिमध्यगतो नाभिः शूलपीडां करोति वै ।।१९॥
मेधावी दक्षिणावर्तो वामावर्तो वशी नरः ।
पार्श्वायता चिरायुः स्यादुपरिष्ठाद्धनेश्वरः ॥1.68.२०॥
एकवलिः शतायुः स्यात् श्रीभोगी द्विवलिर्नरः ।
त्रिवलिः क्ष्मेश आचार्य ऋजुभिर्वलिभिः सुखी ॥२१॥
दक्षिणावर्तरोमा स्याच्छासकः सुमहान् जनः ।
वामावर्ताऽन्यथावर्तरोमा प्रेष्यश्च दुःखितः ॥२२॥
अनुद्धतैश्चुचुकैश्च भवन्ति सुभगा जनाः ।
उद्धतैर्विषमैर्दीर्घैः पीताग्रैर्निर्धना नराः ॥२३॥
समोन्नतं च हृदयमकम्पं मांसलं पृथु ।
नृपाणामधमानां च खररोमशिरालकम् ॥२४॥
समवक्षास्तु धनवान् पीनवक्षाः रमापतिः ।
निर्धनो विषमवक्षाः शस्त्रेण मृत्युमाप्नुयात् ॥२५॥
विषमजत्रुको निःस्वः पीनजत्रुर्धनाधिपः ।
निर्धनश्चिपिटकण्ठः शिराशुष्कगलः सुखी ॥२६॥
शूरः स्यान्महिषग्रीवः शास्त्रान्तो मृगकण्ठकः ।
कम्बुग्रीवश्च नृपतिर्लम्बकण्ठोऽतिभक्षकः ॥२७॥
कक्षाऽश्वत्थदला श्रेष्ठा सुगन्धिर्मगरोमिका ।।
अन्यथा त्वर्थहीनानां दारिद्र्यस्य च कारणम् ॥२८॥
समांसौ विपुलौ श्लिष्टौ भुग्नाल्पौ पीवरौ तथा ।
वृत्तावाजानुलम्बौ च भुजौ दैवौ च राजकौ ॥२९॥
निःस्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकरप्रभौ ।
हस्तांगुलय एव स्युः स्वर्णवर्णा धनेशितुः ॥1.68.३०॥
ताश्च मेधाविनां सूक्ष्मा भृत्यानां चिपिटाः स्मृताः ।
सुस्थूलांगुलयो निःस्वाः कपितुल्यकरास्तथा ॥३१॥
पितृद्रव्यविनाशी स्यान्निम्नकरतलो जनः ।
मणिबन्धो निगूढः स्याद् राज्यदो धनदो वृतः ।।३।।
करैः करतलैश्चैव लाक्षाभै रक्तकोमलैः ।
गुरवः स्युः पीतरुक्षैर्निधना एव सर्वदा ।।३३।।
तुषतुल्यनखाः क्लीबा निःस्वाः स्फुटितवक्रकैः ।
कुनखैश्च विवर्णैश्च परतर्ककरा मताः ॥३४॥
ताम्रैश्च वर्तुलैर्देवा मध्योन्नतनखैर्मताः ।
सयवांऽगुष्ठको राजा पुत्री पर्वप्रपूर्णकः ॥३५॥
युगमीनांकितकरो भवेत्सत्रप्रदो नरः ।
वज्रचिह्नं तु धनिनां विदुषो मत्स्यपुच्छकम् ॥३६॥
शंखाऽऽतपत्रशिबिकागजपद्मानि भूभ्रति ।
कुंभांऽकुशपताकाश्च मृणालश्च निधीश्वरे ॥३७॥
दामरेखा गवाढ्ये वै स्वस्तिकश्च नृपेश्वरे ।
चक्राऽसितोमरधनुर्दन्तरेखा नृपेश्वरे ॥३८॥
उलूखलसमा रेखा याज्ञिकस्य करे मता ।
चक्राणि बहूनि चैव वेदीरेखाऽग्निहोत्रिणि ।।३९।।
वापीदैवीनदीरेखास्त्रिकोणो धार्मिके करे ।
अंगुष्ठमूलगा रेखाः सुखकृत्सुतबोधिकाः ॥1.68.४०॥
कनिष्ठामूलतः प्रदेशिनीमूलगता च या ।
शतायुर्बाधिका रेखा छिन्ना चेत् तरुतो भयम् ॥४१॥
निःस्वाश्च बहुरेखाः स्युर्निधनाश्चिबुकैः कृशैः ।
मांसलैः रक्तवर्णैश्च ह्यधरैर्धनवान्भवेत् ।।४२॥
बिम्बोपमैश्च स्फुटितै रूक्षैर्विषमखण्डितैः ।
ओष्ठैर्धनरहिताः स्युर्दन्ताः स्निग्धा घना शुभाः ।।४३॥
तीक्ष्णा दन्ताः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ।
श्लक्ष्णा दीर्घा तु विज्ञेया तालुः श्वेतो धनक्षयः ।।४४॥
कृष्णा तु परुषा जिह्वा रक्ताग्रा रोगिणी मता ।
वक्त्रं सौम्यं समं श्लक्ष्णं संवृतं नृपतेः स्मृतम् ॥४५॥
विपरीतं तु दुःखानां दुर्भगाणामलोककम् ।
आढ्यानां वर्तुलं वक्त्रं निर्द्रव्याणां तु दीर्घकम् ॥४६॥
भीरुवक्त्रः पापकारी धूर्तानां चतुरस्रकम् ।
निम्नं वक्त्रं त्वपुत्राणां कृपणानां च ह्रस्वकम् ॥४७॥
सम्पूर्णं भोगिनां कान्तं श्मश्रुस्निग्धं शुभं मृदु ।
संहतं चाऽस्फुटिताग्रं रक्तश्मश्रु च चौरकम् ।।४८।।
शंकुकर्णास्तु राजानो रोमकर्णा गतायुषः ।
बृहत्कर्णा धनिनृपाः कृपणा ह्रस्वकर्णकाः ॥४९॥
भोगी वै निम्नगण्डः स्यान्मन्त्री सम्पूर्णगण्डकः ।
शुकनासः सुखी प्रोक्तः शुकनासोऽतिजीवनः ॥1.68.५०॥
छिन्नाग्रकूपनासस्तु बहुनारीव्यवायकः ।।
दीर्घनासः सौभगः स्याच्चौरः कुञ्चितनासिकः ॥५१॥
चिपिटनासः क्रूरः स्यात्तथा भाग्यविहीनकः ।
स्वल्पछिद्रा सुपुटा चाऽवक्रा सा नृपतेर्मता ।।५।।
क्रूरे दक्षिणवक्रा स्याद् वामवक्रा ह्यनिष्टदा ।
वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः ॥५३॥
मार्जारलोचनैः पाप्मा दुरात्मा मधुपिंगलैः ।।
क्रूराः केकरनेत्राश्च हरिताक्षाः सकल्मषाः ॥५४॥
जिह्मैश्च लोचनैः शूराः सेनान्यो गजलोचनाः ।
गंभीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः ।।५५।।
नीलोत्पलाक्षा विद्वांसः सौभगाः श्यामचक्षुषः ।।
स्युरुत्पाटनकर्तारः कृष्णतारकचक्षुषः ॥५६॥
मण्डलाक्षाश्च पापाः स्युर्निःस्वा स्युर्दीनलोचनाः ।।
धनी दीर्घसंसक्तभ्रूर्दरिद्रा विषमभ्रुवः ॥५७।।
विशालोन्नतबालेन्दून्नतभ्रुवः सुखाढ्यकाः ।
निःस्वो भवति खण्डभूर्दारकभ्रूश्च निर्धनः ॥५८!!
निर्धना विपुलैः शंखैर्ललाटैर्विषमैस्तथा ।
अर्धेन्दुसमभालैस्तु धनवन्तो मता जनाः ॥५९॥
शुक्तिविशालैराचार्याः शिरालैः पापकारिणः ।
उन्नताभिः शिराभिश्च स्वस्तिकाभिर्नरेश्वराः ॥1.68.६०।।
निम्नैर्भालैर्वधार्हाश्च क्रूरकर्मारतास्तथा ।
संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः ॥६१।।
अकम्पं हसितं श्रेष्ठं निमीलितमघावहम् ।
असकृद्धसितं दुष्टं सदर्पं घातकं भवेत् ॥६२।।
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ।
नृपः स स्याच्चतसृभिः पंचनवतिर्जीवति ॥६३॥
अरेखेनाऽऽयुर्नवतिर्विच्छिन्नाभिस्तदर्धकम् ।
केशान्तोपगताभिश्च ह्यशीत्यायुर्नरो भवेत् ॥६४॥
पंचभिः सप्तभिः षड्भिः पंचाशत् बहुभिस्तथा ।
चत्वारिंशच्च रक्ताभिस्त्रिंशद् भ्रूलग्नगामिभिः ॥६५॥
विंशतिर्वामवक्राभिरायुः क्षुद्राभिरल्पकम् ।
छत्राकारैः शिरोभिस्तु नृपो बाणसमो धनी ॥६६॥
घटमूर्धा पापरुचिः पितुर्मृत्युश्चिपीटकः ।
कृष्णाऽऽकुंचितस्निग्धाग्राऽभिन्नान्तकेशवान् नृपः ॥६७।।
राज्ञ्याः पादौ मृदुतलौ मत्स्यांकुशध्वजांऽचितौ ।
वज्राब्जहलचिह्नौ च निगूढगुल्फकौ मतौ ॥६८।।
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ।
गूढः शुकश्व शुभदो मांसलं वर्तुलं मुखम् ।।६९।।
नाभिः प्रदक्षिणावर्ता मध्यं त्रिवलिशोभितम् ।
आरक्तावधरौ श्रेष्ठौ मांसलं वर्तुलं मुखम् ।।1.68.७०।।
स्निग्धनीलाश्च मृदवो मूर्धजाः कुंचिताः शुभाः ।
स्त्रीणां पादतले यद्वा पाणिद्वयतले इमाः ।।७१॥
वाजिकुंजरश्रीवृक्षयूपेषुयवतोमराः ।
ध्वजचामरमालाश्च शैलकुण्डलवेदिकाः ॥७२॥
शंखातपत्रकमलमत्स्यस्वस्तिकसद्रथाः ।
अंकुशाद्याश्च रेखाः स्युर्देव्यस्ता राजवल्लभाः ॥७३॥
हर्यंशाः स्वस्तिकधनुस्त्रिशूलध्वजमत्स्यकाः ।
रेखा या मणिबन्धोत्था गता मध्यांगुलीकरे ।।७४।।
ऊर्ध्वरेखा तु सा प्रोक्ता हस्ते पादेऽथवा भवेत् ।
स्त्रीणां पुंसां तथा सा स्याद् राज्याय च सुखाय च ।।७५।।
नरचिह्नवती नारी नरश्च स्त्रीस्वरूपकः ।
न मंगलकृतौ स्यातां वैपरीत्यकरावुभौ ।।७६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नरनारीदैवीशारीरचिह्नप्रदर्शननामाऽष्टषष्टितमोऽध्यायः ॥६८।।