← अध्यायः ०९० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९१
[[लेखकः :|]]
अध्यायः ०९२ →

श्रीनारायण उवाच--
पश्य लक्ष्मि ! पर्वतोद्वाहने कष्टं तु कीदृशम् ।।
असाध्ये तु महाकार्ये दुःखं पूर्व ततः सुखम् ॥ १॥
विष्णुः स्वयं तदा देवान् दैत्यान् प्राह हितं वचः ।।
एष आयामि गृह्णामि चोत्तोलयामि पर्वतम् ।। २ ।।
मृता भवन्तु सप्राणाः स्वस्थाश्च सुबलास्तथा ।
मा हृद्बलं परित्याज्यं मा कार्या हास्यपात्रता ॥ ३ ॥
इत्येवं प्रोच्य पक्षीन्द्रं गरुडं प्राह चोन्नय ।
लीलया तोलयित्वैव चञ्च्वा तं गरुडस्ततः ॥ ४ ॥
क्षीरोदधेरुत्तरे तु तटे निक्षिप्य तत्स्थलात् ।
गतो वैकुण्ठमेवेति देवा दैत्यादयस्तदा ।। ५ ।।
वासुकिं वरयामासू रज्ज्वर्थं सोऽपि चागतः ।
मन्थनं मन्दरं कृत्वा वासुकिं रज्जुमेव च ॥ ६ ॥
कृत्वा सुरासुराः सर्वे ममन्थुः क्षीरसागरम् ।
देवा मुखं परिगृह्य यदा तु संस्थितास्तदा ॥ ७ ॥
दैत्याः प्राहुर्वयं पुच्छे न स्थास्यामोऽतिमानिताः ।।
कृत्वा देवान् हरिः पुच्छे मुखे दैत्याँश्चकार ह ॥ ८ ॥
क्षीराब्धौ मथ्यमाने च वासुक्यस्थ्नां वियोजनाम् ।
तदा जातं वासुकिश्च मृत एवोपदृश्यते ॥ ९ ॥
अथ विष्णुः स्वयं तत्र प्रविष्टो रज्जुरूपतः ।।
वासुकिश्च तदा पुष्टो बलमासाद्य संस्थितः ॥1.91.१०॥
अथापि मथ्यमानेऽथ पर्वतोऽपि गुरुत्वतः ।।
विमग्नोऽगात्तले नीत्वा देवान्दैत्यान्प्रमन्थकान् ॥११॥
तदा विष्णुरभूत्कूर्मो गत्वा वार्धितलां स्वयम् ।।
ऊढ्वा तं निजपृष्ठे स दधारेति तदद्भुतम ॥१२॥
अथापि मथ्यमानेऽथ पार्श्वे नमति मन्दरः ।।
तं तु स्थिरं तदा कर्तुं मध्ये मूर्धानमास्थितः ॥१३॥
विष्णुः स्वयं चतुर्भ्यां वै दोर्भ्यां धृत्वा व्यवस्थितः ।।
तदा सुरासुराः सर्वे ममन्थुः क्षीरसागरम् ॥१४॥
कठोरं कमठपृष्ठं कठोरो मन्दराचलः ।।
द्वयोः संघर्षजो वह्निरभूत् तत्र भयंकरः ॥१५॥
ज्वालामालामहाव्याप्तो दिधक्षन्निव सागरम् ।।
देवा दैत्याश्च तं दृष्ट्वा प्रदुद्रुवुरितस्ततः ॥१६॥
प्राह विष्णुस्तदा सर्वान् मा भयं गच्छतोऽखिलाः ।।
प्रशाम्यामि क्षणादेनं पश्यन्तु मम पौरुषम् ॥१७॥
संकर्षणस्तदा भूत्वा विष्णुर्मुखं विवृत्य च ।
श्वासमेकं जगृहेऽथ वह्निरुदरमाविशत् ॥१८॥
अथापि मथ्यमानेऽपि विषं हालाहलं ह्यभूत् ।।
महोल्बणं महाधूम्रं महाबाष्पतनूल्बणम् ।।१९।।
व्योम्नि सर्वत्र चाऽव्याप्नोद् बाष्परूपं विनाशकम् ।।
यत्र यत्र गतं तत्र प्राणिनोऽनाशयत्क्षणात् ॥1.91.२०॥
श्वासं नीत्वा तदा सर्वे मूर्छिताः शून्यतां गताः ।
महद्विषं तले चासीद् यावद्वहिर्न चागतम् ॥२१॥
तावन्तु तत्स्थलं त्यक्त्वा विष्णुनारदबोधिताः ।
अमूर्छिता देवदैत्याः शंकरं प्रति चाययुः ॥२२॥
बहुधा प्रार्थयामासुः विषनाशाय शंकरम् ।।
मांगल्यं मंगलानां च देवं पशुपतिं विभुम् ।।२३॥
सञ्जीवय महादेव त्वं त्राता त्रिपुरान्तक ! ।
रक्षोल्बणाद्गरलात् त्वं कालकूटान्मृतीश्वर ! ॥२४॥
एवमभ्यर्थितः शंभुः प्राह सर्वान्सुरासुरान् ।।
मत्पुत्रं विघ्नहर्तारं श्रीगणेशं तु ये जनाः ॥२५।।
न पूजयन्ति चारंभे कार्यसिद्धिर्न संभवेत् ।।
प्रत्युत जायते विघ्नो नाऽत्र कार्या विचारणा ॥२६॥
अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये ।।
यूयं सर्वे महामग्नाः पाण्डित्यकाण्डकत्थनाः ॥२७॥
गणेशं नाऽभिसंपूज्य कार्यारंभकरा यतः ।।
कालकूटं विषं तस्माद् विघ्नार्थं समुपस्थितम् ॥२८॥
तस्मान्नमन्तु तं देवं पूजयन्त्वद्य एव हि ।
विघ्नं नष्टं भवेत् सद्यो माऽत्र विलम्बयन्तु वै ॥२९॥
अन्यथा हि कृते ह्यर्थेऽन्यथात्वं संभवेत् किल ।
यदि देवो न पूज्येत कार्यसिद्धिकरः सुतः ॥1.91.३०॥
कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा ।।
द्रागेव शंभुवचनं गृहीत्वा ते सुरादयः ॥३१॥
पूजयन्ति गणेशं स्म कैलासे शंकरगृहे ।।
आवाहनं चासनं च पाद्यमाचमनार्घके ॥३२॥
पञ्चामृतकृतस्नानमभिषेकाप्लवस्तथा
वस्त्रेण मार्जनं वस्त्रं यज्ञोपवीतमेव च ॥३३॥
अबीरं च गुलालं च सिन्दूरकं च कुंकुमम् ।।
अक्षताश्च तथा दूर्वांकुराणि धूपदीपकौ ॥३४॥
चन्दनं पुष्पहारश्चाऽऽभूषणानि प्रभोजनम् ।।
जलपानं लड्डुकाश्च ताम्बूलाऽऽरार्त्रिके तथा ॥३५॥
प्रदक्षिणं दण्डवच्च नमस्कारः स्तुतिस्तथा ।।
फलानि च क्षमायाञ्चा वन्दनं कुसुमाञ्जलिः ।।३६।।
द्वात्रिंशदुपचारैः सः पूजितस्तेजसा ज्वलन् ।
सन्तुष्टः सन् गणाध्यक्षो देवानां वरदोऽभवत् ॥३७॥
सगणेशः तदा शंभुः प्रसन्नोऽब्धिं जगाम ह ।।
बाष्पात्मकं विषं तत्र ग्रसित्वा श्वासवायुना ॥३८॥
हालाहलं महाक्ष्वेडमाकृष्याऽब्धितलात्स्वयम् ।।
पपौ ब्रह्मप्रतापेन कण्ठे ररक्ष तद्विषम् ॥३९॥
शुष्कीकृतं समाधिस्थयोगैश्वर्येण शंभुना ।।
तत्र त्वचि गले कृष्णतिलं परिणतं तु तत् ॥1.91.४०॥
कण्ठे नीलतिलात्तस्य नीलकंठाऽभिधाऽभवत् ।
विषपानस्य समये क्षूयमानस्य धूर्जटेः ॥४१॥
स्वल्पा विषकणाः श्वासाद् बहिर्ये पतिताश्च तान् ।।
गृह्णन्तो देहिनो जीवा ये ते विषाढ्यजातयः ॥४२॥
दंदशूकाश्च सर्पाश्च वृश्चिकाः कृकलासकाः ।।
गोधाश्च जळलाळाश्च खर्जनाकटुवल्लयः ॥४३॥
समभवँस्ततोऽप्येते ममन्थुर्मन्दराचलम्
जलशैत्यद्यनावस्थहिमदेहस्तु चन्द्रमाः ॥४४॥
द्वितीयायाः कलारूपः पीयूषसंभृतस्तदा ।।
अतिशीतं तु तं ज्ञात्वा जगृहुर्न सुरासुराः ॥४५॥
शंभुर्विषोष्णता व्याप्तः शीतांशुं जगृहे भ्रुवि ।।
भृगुः प्राह तदा देवान् ग्रहाः सर्वेपि चोत्तमाः ॥४६॥
कार्यसिद्धिं प्रशंसन्ति यत्नं कुरुत लीलया ।
चन्द्रं गुरुः समायातो बुधश्चैव समागतः ॥४७॥
सूर्यश्चैव तथा शुक्रः शनिर्मंगल एव च ।।
तस्माच्चन्द्रबलं श्रेष्ठं कार्यस्य सिद्धये भवेत् ॥४८॥
गोमन्तनामकोऽयं च मुहूर्तोऽस्ति जयप्रदः ।।
एतच्छ्रुत्वा बलं ते तु द्विगुणं प्राप्य गर्जिताः ॥४९॥
ममन्थुरब्धिं त्वरितास्तावत्सुरभिर्गौः सदा ।।
कामदुघा कपिला सा तूधो भारवती शनैः ॥1.91.५०॥
जलमार्गात्तीरमायात् सर्वैः संपूजिता च सा ।।
येषां दुग्धं भवेद् भोग्यं तैर्नेया सेति निर्णये ॥५१॥
ऋषिभिर्देवकार्यार्थं यज्ञार्थं च स्वकीकृता ।।
तावदन्याः सिताः पीताः कृष्णा अरुणपाण्डुराः ॥५२॥
हरिद्वर्णाश्चित्रवर्णा गावोऽनेकास्ततोऽभवन् ।
विप्रास्तु मुनयस्ता वै जगृहिरे प्रमाणतः ॥५३॥
अथ सर्वे सुसंरब्धा ममन्थुः क्षीरसागरम् ।
कल्पवृक्षस्तथा पारिजात आम्रादयो द्रुमाः ॥५४॥
जज्ञिरेऽथ च तान्सर्वान् तटेऽस्थापयदच्युतः ।
पुनः संमथ्यमानाद्वै कौस्तुभाख्यं महाप्रभम् ॥५५॥
रत्नानामुत्तमं रत्नं चिन्तामणिसमन्वितम् ।।
हीरकैश्च सहोत्पन्नं कौस्तुभं विष्णवे ददुः ॥५६॥
चिन्तामणिः सुरेशाय दैत्येभ्यो हीरकान्ददुः ।
अथापि मथ्यमानात्तदुच्चैःश्रवसमद्भुतम् ॥५७॥
बहुभिरश्वजातीयैरुत्पन्नं हरये ददुः ।।
अथापि मथ्यमानाद्वै चतुःषष्टिगजान्वितम् ।।५८॥
ऐरावतं महारत्नं चतुर्दन्तमदान्वितम् ।
पाण्डुरं शृंगिसदृशं तुराषाहेऽपि तं ददुः ॥५९॥
अन्ये गजाश्च बहवो लोकपालेभ्य आर्पिताः ।
अथापि मथ्यमानाद्वै मदिरा विजया तथा ॥1.91.६०॥
कटुशृंगी चाहिफेनं गृञ्जनं लशुनं तथा ।।
धत्तूरश्च तमालश्चोन्मादका अभवँस्तदा ।।६१।।
दैत्यैश्च तामसैस्तानि गृहीतानि प्रसह्य वै ।।
अथापि मथ्यमानाद्वै लक्ष्मीः प्रादुर्बभूव ह ॥६२।।
सुरूपा हास्यवदना वस्त्राभरणभूषिता ।।
गौरवर्णा दिव्यतन्वी यौवनांकुरसुस्तनी ॥६३।।
कराप्तवनमाला च नारायणसरूपिणी ।।
नारायणं परं विष्णुं मार्गयन्तीव मोहिका ।।६४॥
आन्वीक्षिकी ब्रह्मविद्या मूलविद्या सरस्वती ।
ऋद्धिः सिद्धिः स्मृद्धिः सम्पद्वैष्णवी प्रकृतिः परा ॥६५॥
युक्ताऽन्याभिः सुदासीभिः सुग्रीवा चारुलोचना ।
बिम्बौष्ठी सुनसा स्निग्धा सुदती च सुमध्यमा ॥६६।।
नानारत्नप्रकाशैश्च नीराजितमुखाम्बुजा ।
सौम्यप्रेमभृतनेत्रा नूपुररशनाधरा ॥६७।।
मूर्धनि ध्रियमाणेन स्वर्णछत्रेण राजिता ।
चामरैर्विज्यमाना च स्तूयमाना सखीजनैः ॥६८।
पाण्डुरंगगजारूढा वीक्षिताश्च सुरासुरैः ।।
देवांश्च दानवान् सिद्धाँश्चारणान्पन्नगान्नगान् ॥६९॥
वीक्ष्य दैत्यान्सदोषान्सा योग्यं विष्णुमचिन्तयत् ।।
सर्वे तदा विस्मिताश्च मुदमापुस्तदाऽद्भुतम् ।।1.91.७०।।
लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता ।
एवं परस्परं प्रीत्या वव्राते प्रेमतत्परौ ।।७१।।
सर्वैः सभाजितौ रत्नैर्नीराजितौ प्रपूजितौ ।
शुशुभाते तदा लक्ष्मीनारायणौ जगद्गुरू।।७२।।
प्रणम्य सच्चिदानन्दं रमायुक्तं जनार्दनम् ।।
सर्वे ममन्थुर्वेगेन जज्ञे धन्वन्तरिस्ततः ॥७३॥
सोऽयं धन्वन्तरिर्वैद्यः पूर्वं यः कथितो मया ।
तृतीयो वैद्यसामुद्रो युवा मृत्युजयोऽजितः ।।७४॥
सुधासम्पूर्णकलशं पाणिभ्यां परिगृह्य च ।
रूपेण वयसा कान्त्याऽधरीकृत्य सुराऽसुरान् ॥७५॥
समुद्रात्तीरमायान्तं दृष्ट्वा तस्तंभुरीश्वराः।
न ज्ञातवन्तो यावत्ते सुधां चास्य करस्थिताम् ॥७६॥
मथ्यमानार्णवालावलक्षमप्सरसां शुभम् ।।
समुत्पन्नं स्थितं तीरे धन्वन्तरी सुमोहितम् ।।७७॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने समुद्रे मन्दरमन्थने विष्णुरूपाणि, मन्थनोत्पन्नस्य वडवानलस्य संकर्षणकृतं पानं शंकरकृतं विषस्यपानं गणेशपूजनं विविधरत्नोत्पत्तिश्चेति निरूपणनामा एकनवतितमोऽध्यायः ॥९१।।