← अध्यायः ०९१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९२
[[लेखकः :|]]
अध्यायः ०९३ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! त्वया तुल्यास्तन्व्यो द्वादशहायनाः ।
अप्सरसः सुरूपाश्च शशिशीतलमध्यमाः ।। १ ।।
स्वर्गं जग्मुः स्वकं स्थानं त्वाज्ञया श्रीहरेस्ततः ।।
पश्यतां दैत्यवर्याणां दानवादिप्रमाथिनाम् ।। २ ।।
धन्वन्तरिं तदा प्राह दानवेन्द्रो बलिः स्वयम् ।
भगवन् किं धृतं हस्ते कलशेऽत्र प्रपूरितम् ।। ३ ।।
स्वकं वा सार्वजनिकं सुधा नोत्पद्यते कुतः ।
धन्वन्तरिर्बलिं प्राह सुधाऽत्र कलशे स्थिता ॥ ४ ॥
नातः परा समुद्रे वै सुधा स्वल्पापि शिष्यते ।।
तावत्तु दैत्यधौरेया हर्तुकामाद् बलाद् ययुः ॥ ५ ॥
वृषपर्वा महादैत्यो घटं नीत्वा पलायितः ।।
असुरास्तु तदा सर्वे जगर्जुरितिभीषणम् ॥ ६ ॥
मन्दरं वासुकिं त्यक्त्वा लब्धकार्याः स्वमानिनः ।
स्वार्थमात्रपरास्तत्राऽमृतं लब्ध्वातिचुक्रुशुः ।। ७ ।।।
नारायणो गरुडेन मन्दरं नीतवान् स्थले ।
अन्यरूपाणि संहृत्य संस्थितोऽब्धितरे प्रभुः ॥ ८ ॥
दैत्याः सुधाधरं नीत्वा पलायन्ते पयोऽर्णवात् ।
रत्नान्यन्यानि देवैस्तु गृहीतान्येव केवलम् ।। ९ ।।
तस्मात्सुधां ग्रहीष्यामोऽन्येभ्यो दास्याम एव न ।
इत्युच्चार्य सुधां नीत्वा पलायन्ते तु यावता ॥1.92.१०॥
तावद्विष्णुः स्वयं कन्या बभूव मोहिनी शुभा ।
श्वेततेजः पूरितांगा समंकुरितयौवना ।।११।।
मितहास्या कंजनेत्रा हावभावविलासिनी ।
अनंगपूर्णा नेत्राभ्यामाह्वयन्ती विलासिनः ॥१२॥
नेत्रापांगैः सुधायुक्तं दैत्यं चान्यान् विमोहितुम् ।।
तेषां पालायने मार्गे समीपे समुपस्थिता ॥१३॥
श्लथयन्ती शनैर्नीवीं वस्त्रं हस्तेन बिभ्रती ।।
सक्थिस्तनौ दर्शयन्ती कामव्याप्तेव कामिनी ॥१४॥
दैत्या अयत्नलभ्यां तां परिरब्धुं प्रपेदिरे ।
अहं पूर्वमहं पूर्वं मम भार्या न वै तव ।।१५।।
मया नेत्रेण पूर्वं वै दृष्टा च द्योतिता मया ।
न त्वयेति मुहुर्मुग्धाः सुधां त्यक्त्वा परस्परम् ॥१६
तदा विवदिरे देवी सुधायाः कलशं करे ।
धृत्वा प्राह च तान्दैत्यान् मत्कृते विवदन्तु मा ॥१७॥
सुधापानं कारयित्वा नो भजिष्ये सदाऽमृतान् ।
ये वै मयोक्तं गृह्णीयुस्तान्पास्यामि सुधामृतम् ॥१८॥
तेषां दासी भवाम्येव भुज्यतां प्रमदामृतम् ।
धन्या यूयं महाभागा विना यत्नेन चागतम् ॥१९॥
प्राप्स्यथ प्रमदारत्नं सुधापानोत्तर ध्रुवम् ।
अहो मयाऽत्र संसारे नराः सर्वेऽवलोकिताः ॥1.92.२०॥
भवतां सदृशा नैव ज्ञातारो भद्रकारिणः ।
शान्ता विभज्य भोक्तारो विश्वस्ता निर्मलान्तराः ॥२१॥
परोपकारधर्मज्ञाः स्त्रीवचोन्यस्तनिर्णयाः ।
स्त्रीणां सुखेन सुखिनः स्त्रीकृच्छासनमार्दवाः ॥२६॥
स्त्रीप्रदत्तप्रभोक्तारो धन्या यूयं भवादृशाः ।
विद्वांसो नैव कुर्वन्ति विश्वासं प्रमदाजने ॥२३॥
वृथा दोषान्कल्पयन्ति मायासाहसमनृतम् ।
अतिलोभोऽतिमूर्खत्वमशौचं निर्दयालुता ॥२४॥
अस्नेहो धूर्तता स्वार्थः प्रच्छन्नकारितादयः ।।
ममास्ति यदि विश्वासस्तदा पिबन्तु मत्करात् ॥२५॥
सर्व तिष्ठन्तु पंक्त्या वै नाऽपांक्तोऽमृतमश्नुते !
वामे देवाः प्रतिष्ठन्तु दक्षिणे दैत्यदानवाः ॥२६॥
द्वयोः परिवेषयित्री भवामि न्यायतः क्रमात् ।
एषा घटं च गृह्णामि दधत्वग्रे प्रपापुटम् ॥२७॥
मोहिनी चेत्यभिधाय तूष्णीमासीत् क्षणं हृदि ।
पश्चाद्विचार्य प्रोवाच हृद्यं सर्वाभिसम्मतम् ॥२८॥
शृण्वन्तु चासुराः सर्वे भवन्तो ज्येष्ठपूर्वजाः ।।
अविभज्य न भोक्तव्यं यल्लब्धं सार्वयत्निकम् ॥२९॥
सुरासुराणां यत्नस्तु समानोऽस्त्यब्धिमन्थने ।
किञ्चिदपि प्रमाथिभ्यो न्याय्यं देयं सुधामृतम् ॥1.92.३०॥
महद्भ्यश्चाधिकं देयं स्वल्पेभ्यो न्यूनमेव च ।
बलाबले परिज्ञायाऽवश्यं देयं प्रमाथिने ॥३१॥
यत्ने ये तु सहार्थाः स्युः फले तु पक्षपातिनः ।।
तेषां पातः सदा भावी लब्धार्थोऽपि विनश्यति ।।३२॥
असुराणां यदि मान्यं मदुक्तं न्यायतो भवेत् ।।
तदा सुरेभ्यो दातव्यममृतं भागशः कृतम् ॥३३॥
पुच्छे सुरा मुखे यूयं मध्ये देवो जनार्दनः ।।
तस्मादर्धं सुरेभ्यश्चाऽसुरेभ्योऽर्धं प्रदीयते ।।३४॥
बलिस्तत्र प्रमाणं वै कार्याकार्यविचक्षणः ।।
एवमेव बलिः प्राह सर्वे प्राहुश्च ओमिति ॥३५॥
अथामृतविभागार्थं घटोऽन्योऽप्यर्थितस्त्वया ।।
दैत्यैस्तु संभ्रमात् तूर्णं घटो रिक्तोऽत्र यो भवेत् ॥३६॥
दातव्य इति कृत्वैव मदिराया घटश्च यः ।।
मदिरापातृभिः पीत्वा मदिरां तु विसर्जितः ॥३७॥
रिक्तो घटः प्रदत्तः स मोहिन्या संधृतस्ततः ।।
मदिराया घटे तस्मिँश्चानमय्य सुधाघटम् ॥३८॥
यथाऽर्धममृतं तत्र दीयते धारया तथा ।।
मृषैव दर्शितं सर्वं मोहिन्या स्वप्रभावतः ॥३९॥
दृश्यते चामृतं क्षिप्तं जायते मदिरा तु सा ।।
सापि मृषैव मदिरा मिष्टा चाऽमृतसदृशी ।।1.92.४०॥
संक्लृप्ता मदिरा मिथ्या मोहिन्या मायया स्वया ।।
अमृतं चेति वै तत्राऽसुराणां निश्चयोऽभवत् ।।४१॥
सत्यामृतघटं वामे मिथ्यामृतं तु दक्षिणे ।
करे धृत्वा मोहिनी सा पंक्तिमध्ये चचार वै ॥४२॥
सा मिथ्यामदिरादानं करोत्यसुरपात्रके।
सत्यामृतप्रदानं तु करोति सुरपात्रके ॥४३॥
प्रददाति समस्ताँश्च मोहयत्यपि नर्मणा ।
अग्रे त्वग्रे गता तुष्टा दत्वा दत्वाऽसुरान्सुरान् ॥४४॥
प्रशंसन्तः पिबन्ति स्म देवा दैत्यादयस्तथा ।
घटुकं घटुकं पीत्वा डकारयन्ति तृप्तितः ॥४५॥
मोहिन्यपि तदा देवान् पिबताऽमृतमुत्सवात् ।
दैत्यान् प्राहाऽऽस्वादयन्तु मिष्टं परममुत्सवात् ॥४६॥
अहो सुराणां परमो भाग्योदय उपस्थितः।
यदमृतं प्राप्यतेऽद्याऽऽस्वादयन्तु मुहुर्मुहुः ॥४७॥
अहो देवा पिबन्त्वत्राऽमृतं भाग्याऽवलम्बितम् ।।
इन्द्र सूर्य शशिन्नग्रे जलेश यम निर्ऋत ! ॥४८॥
कुबेरेशान वायो मंगल चान्द्र बृहस्पते ।
धर्म वसवो रुद्राश्च ब्रह्मविष्णुमहेश्वराः ॥४९॥
निधयः ऋषयः साध्या नक्षत्रा मरुतोऽपि च ।
गन्धर्वाः किन्नराः किंपुरुषा विद्याध्रविश्विनः ॥1.92.५०॥
संवत्सराः पावकाः पितरो देव्यश्च पार्षदाः ।
पिबन्त्वमृतमाकण्ठं दिव्यभाण्डात्प्रदीयते ॥५१॥
अथ दैत्यान्प्रसंबोध्य मोहिनी प्राह वै शठा ।।
बले राजन् वृषपर्वन् नमुचे शंखबुद्बुदौ ।।५२।।
सुदंष्ट्र शृणु संह्लाद कालनेमे विभीषण ।।
वातापे चेल्वल कुंभ निकुंभ प्रघस शृणु ।।५३॥
उपसुन्द भो निशुंभ शुंभ भो सुन्द संशृणु ।
मातंग माहिष महिष बिडालास्य च चिक्षुर ॥५४॥
बहुबाहो जृंभ वृष विबाहो घोरदर्शन ।
घोराक्ष भो महादैत्याः शृण्वन्तु पानकालिकम् ॥५५॥
नाऽयं लाभो भवेत्क्वापि मम हस्तात्सुकोमलात् ।
कुमारिकाकरात् प्राप्तं स्वादानन्दं भजन्त्विह ॥५६॥
नासा नेत्रे तु सम्मील्य गृह्णन्तु घुटकान् बहून् ।
दास्ये पुनः पुनः पेयं मृषा देहोऽयमित्यतः ।।५७॥
संपिबन्तु महाभागा नाम्नाऽप्यमृतवत्सुखम् ।।
प्राप्तं यस्य तु सत्यं स जायते त्वमृतः सदा ।।५८॥
वदमाना ददाना च रम्याऽग्रे याति मोहिनी ।।
वाक्यार्थज्ञो राहुनामा जानन्वै स्वामृतं मृषा ॥५९॥
सत्यामृतप्रपानाय देवानां रूपधारकः ।।
उपविष्टो देवपंक्तौ मध्ये चन्द्रार्कयोः क्रमात् ॥1.92.६०॥
मोहिनी प्रददाना चाऽऽगता तत्र क्रमागतम् ।।
सूर्यं राहुं तथा चन्द्रं देवं दृष्ट्वा ददौ सुधाम् ।।६१॥
तावत्सूर्येण संदिष्टो राहुः पंक्तौ प्रवेशितः ।।
शशिनाऽपि स आदिष्टो देवो नाऽयं सुरारिराट् ॥६२॥
मोहिनी तु निजं कार्यं करोत्यग्रे प्रगच्छति ।।
विष्णुरूपः स्वयं राहोः शिरश्चिच्छेद चक्रतः ॥६३॥
गलोर्ध्वं सुधया व्याप्तं कबन्धः क्लिनतां गतः ।।
एकस्मात्तु सुधायोगाद् राहुकेतू बभूवतुः ॥६४॥
द्वौ तौ चामरतां प्राप्तौ ग्रहावभवतां ततः ।।
शिरः केतुः कबन्धस्तु राहुर्ग्रहोऽस्ति दैत्यराट् ॥६५॥
सूर्यं पर्वणि ग्रसति क्वचिच्चन्द्रं स राहुकः ।।
तौ द्वौ तदा सुधां त्यक्त्वा पंक्तितो वै पलायितौ ॥६६॥
धूम्ररूपोऽभवत्पूर्वं धूम्ररूपौ बभूवतुः ।।
आकाशे भ्रमति सोऽयं धूम्रकेतुर्ग्रहो हि सः ॥६७॥
दितेः पुत्रास्तथा चान्ये व्योम्नि वै धूम्रकेतवः ।
न सूर्यं न च चन्द्रं ते ग्रसन्ते न ग्रहा यतः ॥६८॥
अथैतत् कौतुकं वीक्ष्य शंकमाना तु मोहिनी ।।
तदानीं त्वरिता पंक्तौ देवानपाययत्सुधाम् ॥६९॥
राहुणा द्विस्वरूपेण दैत्येभ्यस्तत्र सूचितम् ।
युष्माभिर्नाऽमृतं पीतं पीता या मदिरा तु सा ।।1.92.७०॥
नार्या पंक्तिविभेदस्तु कृतो नाशकरो महान् ।।
तस्माद्युद्धं प्रकुर्वन्तु मारयन्तु सुरान्द्रुतम् ॥७१॥
कापट्येन तया दत्ता मदिराऽपि मृषात्मिका ।।
विष्णुना स्त्रीस्वरूपेण देवेभ्यश्चार्पिता सुधा ॥७२॥
यौगपद्येन सर्वैस्तु क्षीराब्धेर्मथनं कृतम् ।।
सिद्धिर्जाता हि देवानामसिद्धिस्तु सुरारिणाम् ।।७३॥
विना दैवेन जानीध्वमुद्यमं हि निरर्थकम् ।।
ततः कोपानलो मायामोहिताऽसुरमण्डले ॥७४॥
प्रोद्भूतस्तेन शस्त्रास्त्रैर्युता युद्धाय निर्ययुः ।।
देवाश्चापि तथा सज्जा बभूवुर्भयवर्जिताः ।।७५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने असुराणा प्रतारणाय मोहिनीरूप विष्णुना देवेभ्यः सुधा दैत्येभ्यो मृषामदिरा पायिता राहुशिरच्छेदः केतुग्रहश्च कृत इत्यादि निरूपणनामा द्विनवतित
मोऽध्यायः ।। ९२ ।।