लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १२१

← अध्यायः १२० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२१
[[लेखकः :|]]
अध्यायः १२२ →

श्रीनारायण उवाच-
ततो लक्ष्मि! महादेवः पार्वती प्राह शोभनम् ।
सप्राकारं तु गोलोकं मन्दिरादिस्थलान्वितम् । । १ । ।
तस्य प्राकारविस्तारः कोटियोजनमुच्यते ।
चतुर्द्वारान्वितश्चैवाकाशविमानसंश्रितः ।। २ ।।
गोपसमूहरक्षाढ्यो द्वारपालसमन्वितः ।
प्रासादा रत्नखचिता बहुभोग्यार्थसंभृताः ।। ३ । ।
कृष्णार्थकृतसर्वस्वपंचाशत्कोटिगोपिकाः ।
सन्ति वसन्ति तत्रत्यप्रासादेषु च ताः प्रियाः ।। ४ ।।
तत्राश्रमाश्च भक्तानां गोपानां शतकोटयः ।
वृक्षवल्लीभोग्यजातप्रपूरितसुखप्रदाः ।। ५ ।।
ततोऽप्यधिकविस्तारा रत्नमणिचमत्कृताः ।
आश्रमाः पार्षदानां च भवन्ति दशकोटयः । । ६ । ।
,सर्वसिद्धिप्रपूर्णाश्च न न्यूनं विद्यतेऽप्यणु ।
द्वादशहायनाः कन्याः कुमाराः षोडशाब्दिकाः ।। ७ । ।
ततोऽपि पार्षदवराः श्रीकृष्णरूपधारिणः ।
प्रासादकृतवासास्ते वर्तन्ते कोटिशोऽपरे । । ८ । ।
नैतेषां श्रीकृष्णवासान्निवासे न्यूनताऽल्पिका ।
प्रासादादा राधिकाशुद्धभक्तगोपीजनैर्युताः ।। ९ ।।
रत्नमणिस्वर्णकृता द्वात्रिंशत्कोटयोऽपरे ।
राधाभक्तप्रगोपीणां किंकरीणां तथा गृहाः ।। 1.121.१० । ।
भवनानि विचित्राणि सन्ति वै दशकोटयः ।
दिव्याः स्वर्णमया रत्नमणिहीरकनिर्मिताः ।। ११ ।।
गोलोकान्तर्गताः सर्वे प्रासादाः सन्ति कामदाः ।
शतजन्मतपःपूता हरिभक्तिरताश्च ये ।। १२।।
कृष्णार्थकृतसर्वस्वा राधाकृष्णेतिजापकाः ।
यान्ति गोलोकधामैते प्राकारे प्रवसन्ति च ।। १ ३।।
तेषां निवासाः सद्रत्नमणिमाणिक्यनिर्मिताः ।
पुष्पशय्यापुष्पमालाश्वेतचामरशोभिताः ।। १४।।
रत्नदर्पणशोभाढ्या हरिन्मणिप्रशोभिताः ।
अमूल्यरत्नकलशव्रातप्रान्वितशेखराः ।। १५।।
अमोघवीर्यसंभृतदिव्यपुष्टशररिकाः ।
गोपगोपीगणा भक्ताः सूक्ष्मवस्त्रविभूषणाः ।। १६।।
विविधाऽमृतभोगाश्च वसन्ति कोटिकोटयः ।
ततो मध्ये महोद्याने रासेश्वर्याः परो महान् ।। १७।।
आश्रमो वर्तते व्यस्तो राधायाः स्मृतिसंभृतः ।
देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितः ।। १८।।
प्राणाधिकायाः कृष्णस्य रम्यद्रव्यमनोहरः ।
सुचारुवर्तुलाकारः षड्गव्यूतिप्रमाणकः ।। १९।।
शतमन्दिरसंयुक्तो ज्वलितो रत्नतेजसा ।
अमूल्यरत्नसाराणां चयैर्विरचितो वरः ।।1.121.२०।।
दुर्लंघ्याभिर्गभीराभिः परिखाभिः सुशोभितः ।
कल्पवृक्षैः परिवृताः पुष्पोद्यानशतान्तरः ।।।२ १ ।।
सुमूल्यरत्नखचितप्राकारेण सुवेष्टितः ।
सद्रत्नवेदिकागर्भसप्तद्वारैः सुशोभितः ।।२२।।
वर्तुलः सुमहाँस्तत्र तूद्यानो वर्ततेऽभितः ।
सर्वतस्तत्र तत्रापि वृक्षवल्लीसमन्वितः ।।२३ ।।
आन्तरोद्यानमध्येऽत्र प्राकारो वर्ततेऽपरः ।
सर्वतस्तत्र तत्रापि षोडशद्वारसंयुतः ।। २४।।
सहस्रधनुरूर्ध्वोत्थः कलशशृंगमण्डितः ।
तेजसा प्रज्वलन् रम्यो विमानशतमण्डितः ।।२५।।
प्राकारं परितस्तं च कृष्णप्रासादसदृशाः ।
गोपानां गोपिकानां च शतसौधमिताश्रमाः ।।२६।।
प्राकारान्तर्गतस्तत्रोद्यानो दिव्यफलान्वितः ।
दिव्यपुष्पान्वितश्चैव दिव्यवारिसुकुण्डकः ।।२७।।
दिव्यं सरोवरं रम्यं वर्तते तत्र दक्षिणे ।
तत्तीरे नृपसौधोऽस्ति यत्र नृत्यन्ति नर्तकाः ।। २०।।
सुतानं चारुसंगीतं राधाकृष्णगुणान्वितम् ।
गायन्ति गीतपीयूषं वादका गायकास्तथा ।।२९।।
नानावेषधरास्तत्र गोपिकाश्च मनोहराः ।
स्थाने स्थाने प्रदृश्यन्ते कृष्णप्रसादलालसाः ।।1.121.३ ०।।
काश्चिन्मृदंगहस्ताश्च काश्चिद्वीणाकरास्तथा ।
काश्चिच्चामरहस्ताश्च करतालकराः पराः ।।३ १ ।।
काश्चिद् वादित्रहस्ताश्च काश्चिन्नूपुरशोभिताः ।
किंकिणीभूषणैः काश्चिच्छब्दयन्ति तु मण्डपम् ।।३२।।
काश्चित्कुंभान् गृहीत्वा तु करयोर्मस्तके तथा ।
पुंवेशनायिकास्तत्र नृत्यन्ति बहुवेधतः ।।३३।।
कुष्णवेशधराः काश्चिद् राधावेशधराः पराः ।
काश्चिद्दूरं स्थिताः काश्चित् कृष्णालिंगनतत्पराः ।।३४।।
क्रीडासक्ताश्च गोप्यस्ताः कृष्णं भजन्त इत्यपि ।
तत्पार्श्वे सरसस्तीरे सौधाः सन्ति वरा वराः ।।३५।।
राधासखीनां ते गेहा वर्तन्ते भव्यदर्शनाः ।
त्रयस्त्रिंशद्वयस्यास्ता राधायाः पूरयौवनाः ।।३६।।
रूपेणैव गुणेनैव वेषेण यौवनेन च ।
सौभाग्येनैव वयसा सदृश्यो राधया च ताः ।।३७।।
नामानि शृणु गिरिजे त्रयस्त्रिंशत्तु मुख्यतः ।
चन्द्रकला सुशीला च यमुना माधवी रतिः ।।३८।।
कदम्बमाला सुकुन्ती जाह्नवी च स्वयंप्रभा ।
पद्ममुखी च सावित्री गायत्री सुमुखी सुधा ।।३९।।
पद्मालया पारिजाता सुगौरी सर्वमंगला ।
कालिका कमला दुर्गा भारती च सरस्वती ।।1.121.४० ।।
गंगाऽम्बिका मधुमती चम्पाऽपर्णा च सुन्दरी ।
कृष्णप्रिया ब्रह्मसती नन्दिनी नन्दना तथा ।।४१।।
एतासां तानि सौधानि कृष्णसौधसमानि हि ।
रत्नधातुभोग्यवस्तुस्वर्णकलशवन्ति वै ।।४२।।
यत्र यत्र कन्यकाश्च गोप्यः सख्यश्च गोपकाः ।
कृष्णार्थकृतसर्वस्वास्तत्र तत्र गृहे गृहे ।।४२ ।।
नैकरूपधरः कृष्णो वर्तते रमते तया ।
तया तया च प्रेयस्या तेन तेन च सर्वथा ।।४४।।
राधाकृष्णस्य सौधस्य ये प्राकारे तु षोडश ।
गोपुराः सन्ति तत्रादिर्गोपुरो मणिरत्नजः ।।४५।।
वेदिकायुग्मसंयुक्तो वज्ररत्नकपाटकः ।
वर्तते द्वारपस्तत्र वीरभानुः सुयौवनः ।।४६ ।।
रत्नसिंहासनस्थश्च रत्नभूषणभूषितः ।
पीताम्बरधरो रत्नमुकुटोज्ज्वलमस्तकः ।।४७।।
यस्याज्ञायां सार्धद्वयलक्षगोपा भवन्ति हि ।
द्वितीये गोपुरे तत्र ततोऽप्यधिकसुन्दरे ।।४८।।
द्वारपालश्चन्द्रभानुः किशोरः श्यामलोऽस्ति हि ।
स्वर्णवेत्रधरो रत्नसिंहासनसमस्थितः ।।४९ ।।
यस्याज्ञायां पंचलक्षगोपा वर्तन्त ईश्वराः ।
तृतीये गोपुरे तत्र ततोऽतिमणितैजसे ।।1.121.५०।।
द्वारपालः सूर्यभानुः किशोरो मुरलीधरः ।
रत्नदण्डकरः स्वर्णमणिकुण्डलराजितः ।।५१ ।।
यस्याज्ञायां नवलक्षगोपाः श्यामलसुन्दराः ।
चतुर्थे गोपुरे तेभ्यो विलक्षणविभूषिते ।।५२।।
वसुभानुर्द्वारपालः किशोरोऽस्ति व्रजेश्वरः ।
मणिदण्डधरो रत्नसिंहासनकृतासनः ।।५३ ।।
पक्वबिम्बाधरौष्ठश्च सर्वभूषाविभूषितः ।
यस्याज्ञायां नवलक्षगोपाः सन्ति मनोहराः ।।५४।।
पंचमे गोपुरे वज्रभित्तिचित्रप्रचित्रके ।
द्वारपालो देवभानुश्चारुसिंहासनस्थितः ।।५५।।
मयूरपिच्छचूडश्च रत्नमालासुकुण्डलः ।
यस्याज्ञायां दशलक्षगोपाः सन्ति व्यवस्थिताः ।।५६।।
षष्ठे तु गोपुरे वज्रभित्तिकपाटशोभिते ।
द्वारपालः शुक्रभानुः सर्वाभरणभूषितः ।।५७।।
यस्याज्ञायां दशलक्षगोपाः सन्ति व्यवस्थिताः ।
सप्तमे गोपुरे षड्भ्यश्चातिशोभे विलक्षणे ।।५८।।
द्वारपो रत्नभानुः श्रीहरेः प्रियतमो युवा ।
पुष्पचन्दनभूषाढ्यो सिंहासनस्थवेत्रधृक् ।।५९।।
यस्याज्ञायां तु वर्तन्ते गोपा द्वादशलक्षकाः ।
अष्टमे गोपुरे तेभ्यः सप्तभ्योऽपि विलक्षणे ।।1.121.६ ०।।
द्वारपालः सुपार्श्वोऽस्ति रत्नदण्डसुभूषणः ।
रत्नकुण्डलशोभाढ्यो बन्धुजीवाऽधरौष्ठकः ।।६१ ।।
यस्याज्ञायां सदा सन्ति गोपा द्वादशलक्षकाः ।
नवमे गोपुरे वज्ररत्नाढ्ये चित्रमालके ।।६२।।।
दौवारिकः सुबलोऽस्ति ललिताकृतिभूषणः ।
यस्याज्ञायां तथा सन्ति गोपा द्वादशलक्षकाः ।।६३।।
दशमे गोपुरे रम्येऽनिर्वाच्यवर्णने परे ।
द्वारपस्तु सुदामाऽस्ति कृष्णतुल्यमनोहरः ।।६४।।
दण्डहस्तो यदाज्ञायां गोपा विंशतिलक्षकाः ।
एकादशे गोपुरे सुचित्ररम्ये तथाद्भुते ।।६५।।
द्वारपालः श्रीदामाऽस्ति रत्नसिंहासनस्थितः ।
पीतवस्त्रधरोऽमूल्यभूषाचन्दनशोभितः ।।६६ ।।
कुण्डलकटकपुष्पमालामुकुटसूज्ज्वलः ।
यस्याज्ञायां कोटिगोपास्तेन राजेन्द्रसदृशः ।।६७।।
द्वादशे गोपुरेऽमूल्यरत्नवेदिचतुष्टये ।
विचित्रचित्रसद्वज्रभित्तिचित्रमनोहरे ।।६८।।
द्वारपास्तत्र गोप्यो वै सन्त्याभरणभूषिताः ।
नवयौवनसम्पन्नाः कबरीभारभूषिताः ।।६९।।
पीतरक्ताद्यम्बरास्ताः सुगन्धिपुष्पधम्मिलाः ।
रत्नस्वर्णमणिभूषाभूषिताः स्वर्णकंकणाः ।।1.121.७० ।।
केयूरनूपुरकुण्डल्याग्र्यशोभितविग्रहाः ।
पीनश्रोणीभरानम्रा नितम्बभारमन्थराः ।। ७१ ।।
शतगोप्यो हरेः प्रेष्ठाः श्रेष्ठास्तिष्ठन्ति गोपुरे ।
तासां तु सेविकाः कोटिगोप्यः सन्ति हरिप्रियाः ।।७२।।
त्रयोदशे चतुर्दशे पंचदशे च गोपुरे ।
गोप्यस्तु द्वारपाः सन्ति प्रोद्भिन्ननवयौवनाः ।।।७३ ।।
श्रेष्ठा मनोहरा रम्या वरा धन्याः सुशोभनाः ।
राधाप्रियाः सुभूषाढ्याः कृष्णसौभाग्यमंगलाः ।।७४।।
कोट्यब्जगोपिकास्तासामाज्ञाकर्यो भवन्ति हि ।
षोडशे गोपुरे मुख्यास्त्रयस्त्रिंशत्तु गोपिकाः ।।७५।।
सन्ति तु द्वारपास्तासां रूपं वक्तुं न शक्यते ।
न पार्वती न वै लक्ष्मीर्नोर्वशी राधिका किमु ।।७६ ।।
तादृश्यस्ता रत्नभूषाभूषिता दृढयौवनाः ।
रत्नकंकणकेयूरस्वर्णनूपुरभूषिताः ।।७७।।
सकिंकिणीरशनाभिर्मध्यदेशे सुभूषिताः ।
रत्नकुण्डलतेजोभिर्गण्डस्थलसमुज्ज्वलाः ।।७८ ।।
प्रफुल्लमालतीमालामणिहारादिशोभिताः ।
शरत्पार्वणचन्द्रार्हमुखमण्डलमण्डिताः ।।७९।।
पारिजातप्रसूनादिमालाहारलसत्स्तनाः ।
पक्वबिम्बाधरौष्ठ्यश्च स्मेराननसरोरुहाः ।।1.121.८ ० ।।
पक्वदाडिमबीजाग्र्यकुन्ददन्तसुपंक्तयः ।
स्वर्णचम्पकसद्वर्णास्तनूदर्यः कटिकृशाः ।।८ १ ।।
गजमौक्तिकसंसक्तस्वर्णवालिकनासिकाः ।
शुकचञ्चुनिम्ननासाः कठिनस्तनबन्धनाः ।।८२।।
-पीनश्रोणीभराः कृष्णचरणासक्तमानसाः ।
स्वर्णताराञ्चितदीर्घपटकपाटतोरणे ।।।८३ ।।
गोपुरे वेदिकायुक्ते तास्तिष्ठन्ति हरिप्रियाः ।
गोपुरान्तःस्थलं सर्वं मणिरत्नादिभूषितम् ।।८४।।
हरित्सिन्दूरमणिभिर्भित्तिद्वयविराजितम् ।
पारिजातप्रसूनानां मालाभिश्च सुवासितम् ।।८५।।
तदन्तस्तत्र पुष्पाणामुद्यानो वर्तते महान् ।
तत्र राधामहासौधः कृष्णमन्दिरमेव सः ।।८६ ।।
मन्दिराणां च मध्यस्थः शतशालो मनोहरः ।
विमानैः सप्तकैः काम्यैः शालासु गम्यते तु सः ।।८७। ।
केवलैः रत्नसारैश्च रचितो दिव्य एव सः ।
नानारत्नमणिस्तम्भैर्वज्रयुक्तैश्च भूषितः ।।८८।।
पारिजातप्रसूनानां मालाजालैश्च राजितः ।
मुक्तामाणिक्यहीरककृतभित्तिमनोहरः ।।८९।।
श्वेतचामरदर्पणव्यजनैः कलशैर्युतः ।
पट्टसूत्रग्रन्थियुक्तश्रीखण्डपल्लवान्वितः ।।1.121.९०।।
मणिस्तंभसमूहैश्च रम्यप्रांगणभूषितः ।।
चन्दनागुरुकस्तूरीकुंकुमद्रवसंयुतः ।।९ १ ।।
शुष्कधान्यशुक्लपुष्पप्रवालफलतण्डुलैः ।
पर्णदुर्वाऽक्षतलाजाकुंभहारविराजितः ।।९२।।
विविधगन्धसंसक्तपवनैः सुरभीकृतः ।
अदृष्टाऽश्रुतमग्र्यं यद् ब्रह्माण्डे दुर्लभं च यत् ।।९३।।
तत्तद्वस्तुशोभितश्च प्रासादो राधिकाकृते ।
रत्नमंचाः सुललिताः सूक्ष्मवस्त्रपरिच्छदाः ।।९४।।
कोटिशो रत्नकुभाश्च रत्नपात्राणि सन्ति वै ।
अमूल्यचारुविविधतत्तद्वस्तुविभूषितः ।।९५।।
नानाप्रकारवाद्यानां मिष्टनादैर्निनादितः ।
स्वरयन्त्रैश्च वीणाभिर्गोपीसंगितसुश्रुतः ।।९६।।
मोहनो वाद्यशब्दैश्च गायिकागीतिभिस्तथा ।
गोपानां कृष्णतुल्यानां समूहैः परिवारितः ।।९७।।
राधासखीनां गोपीनां बहुवृन्दैर्विराजितः ।
राधाकृष्णगुणोद्रेकपदसंगीतसुश्रुतः ।।९८।।
श्रूयते मधुरं गीतं दृश्यते नृत्यमुत्तमम् ।
आप्यते परमानन्दः कृष्णलीलारसोऽद्रिजे! ।।९९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोलोकप्राकारप्रासादोद्यानान्तःपुरप्राकारप्रासादोद्यानषोडशगोपुरद्वारपालादिवर्णननामैकविंशत्यधिक-
शततमोऽध्यायः ।। १२१ ।।