← अध्यायः ११९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२०
[[लेखकः :|]]
अध्यायः १२१ →

श्रीनारायण उवाच-
ततो लक्ष्मि! जगद्बन्धुः शंकरो लोकशंकरः ।
पार्वतीं कथयामास गोलोकपरिवर्णनम् ।। १ ।।
गोलोकं श्रीहरेः कृष्णभगवतो निवासनम् ।
सर्वस्मृद्धिविलासादिदासीदासाद्यनन्तवत् ।। २ ।।
अवधारय देवेशि! समाधौ दर्शितं तु मे ।
विरजाया महानद्याः पारे प्राकारवान् गिरिः ।। ३ ।।
शतशृंगश्च पंचाशत्कोटियोजनवर्तुलः ।
कोटियोजनमूर्ध्वं व्यासो दशकोटियोजनः ।। ४ ।।
तस्यैकशृंगे रासमंडलं तु दशयोजनम् ।
ततो वृन्दावनं तद्वद् द्वात्रिंशच्च वनानि वै ।। ५ ।।
ततोऽग्रे त्वक्षयवटो गोपगोप्यादिसृष्टयः ।
तत ऊर्ध्वं चिदाकाशे गोलोकं च ततोऽक्षरम् ।। ६ ।।
विचित्रं सुभगं धाम जरामृत्युहरं हि तत् ।
ब्रह्मणा धार्यमाणं च निर्मितं स्वेच्छया हरेः ।। ७ ।।
नैव वर्णयितुं शक्यं तथापि वर्णये त्वणु ।
विरजायाः पृथुतीरौ मया दृष्टौ समाधिना ।। ८ ।।
शुद्धस्फटिकसंकाशौ सुविस्तीर्णौ मनोहरौ ।
मुक्तामाणिक्यपरममणिरत्नाकरान्वितौ ।। ९ ।।
कृष्णशुभ्रहरिद्रक्तमणिराजिविराजितौ ।
सुप्रकाशप्रवालौ तौ कुत्रचित्सुमनोहरौ ।। 1.120.१०।।
परमाऽमूल्यसद्रत्नाकरराजिविभूषितौ ।
अन्यादृश्यमहाश्चर्यस्वर्णनिध्याकरान्वितौ ।।११।।
पद्मरागेन्द्रनीलानामाकरौ कुत्रचित् प्रिये ।
कुत्रचिच्च मरकताकरश्रेणीसमन्वितौ ॥१२॥
स्यमन्तकाकरौ कुत्र कुत्रचिद् रुचकाकरौ ।
अमूल्यपीतवर्णाभौ मणिश्रेण्याकरान्वितौ ॥१३॥
रत्नाकरौ कुत्रचिच्च कुत्रचित् कौस्तुभाकरौ ।
कुत्र निर्वचनीयानां मणीनामाकरौ शुभौ ॥१४||
कुत्रचिद्दिव्यसद्रम्यविहारप्रस्थलौ मतौ ।
तादृशी विरजा रम्या सरित् तीरैः सुशोभिता ।।१५।।
संवेष्टय वर्तुला चास्ते शतशृंगं तु पर्वतम् ।
दिव्यस्वर्णमयं कोटिसूर्यप्रसरदुज्ज्वलम् ॥१६॥
पारिजाततरूणां च वनैर्दीर्घैर्विराजितम् ।।
नानाकल्पतरुव्याप्तं कामधेनुसुमण्डितम् ॥१७॥
कोटियोजनमूर्ध्वं च व्यासे दशगुणोत्तरम् ।
शैलदैर्घ्यं मितं तत्र पञ्चाशत्कोटियोजनम् ॥१८॥
प्राकाराकारमस्यैकशिखरे रासमण्डलम् ।
दशयोजनविस्तीर्णं वर्तुलाकारमुत्तमम् ॥१९॥
नैकपुष्पोद्यानकोटिसुगन्धिपुष्पवासितम् ।
कामोत्तेजकवस्त्वादिराजितं रासमण्डलम् ॥1.120.२०॥
तत्र रत्यर्थसौधादिरत्नमण्डपकोटयः ।।
सोपाननिःश्रेणीमण्डिता नैकभूमयः ॥२१॥
सद्रत्नस्वर्णकलशैर्मणिस्तम्भैः सुशोभिताः ।
स्तम्भेषु खचिता हरिन्मणयश्च मनोहराः ॥२२॥
सिन्दूरवर्णमणय इन्द्रनीलाः प्रभाकराः ।।
नद्धरत्नप्रभेदाश्च मणिभेदाः सुदर्शनाः ॥२३॥
तस्य मण्डपवर्यस्य चत्वारो गोपुरास्तथा ।
दृष्टाः कपाटशोभाढ्या दिव्या गगनचुम्बिनः ॥२४॥
रज्जुग्रन्थिसमायुक्तरसालपल्लवान्विताः ।
कदलीस्तम्भनिवहा यत्र शोभन्त आदितः ॥२५॥
स्थले स्थले मण्डपेऽत्र शोभा क्लृप्ता नवा नवा ।।
शुक्लधान्यपर्णजालफलदुर्वांकुरान्विता ॥२६॥
चन्दनागुरुकस्तूरीकुंकुमद्रवचर्चिता ।
रमन्ते गोपकन्यानां समूहाः कोटिशोऽत्र वै ॥२७॥
रत्नालंकारभूषाढ्या रत्नमालाविराजिताः ।।
रत्नकंकणकेयूररत्ननूपुरभूषिताः।।२८।।
रत्नकुण्डलत्रोट्यादिगण्डस्थलविराजिताः ।
रत्नांगुलीयललितहस्तांगुलिविराजिताः ।।२९।।
रत्नपाशकभूषाढ्यपदांगुलिसुशोभिताः ।
रत्नभूषाभूषिताश्च सद्रत्नमुकुटोज्ज्वलाः ।।1.120.३० ।।
गजेन्द्रमुक्तालंकारराजितशुभनासिकाः ।
अलकाऽधःस्थलोज्ज्वलकृतसिन्दूरचन्द्रकाः ।।३ १।।
पीतचम्पकवर्णाभाश्चन्दनद्रवचर्चिताः
पीताम्बरपरीधाना बिम्बाधरमनोहराः ।।३२।।
शरत्पार्वणचन्द्रोत्थप्रभोज्ज्वलमुखाम्बुजाः ।
शरत्प्रफुल्लपद्माग्र्यदलशोभितलोचनाः ।।३३।।
नेत्रपुटद्वयलग्नप्राञ्जितकज्जलोन्मदाः ।
प्रफुल्लमालतीमालाजालकंबरशोभिताः ।।३४।।
गजहंसगतिश्रेष्ठमन्थरागतिमोहनाः ।
वक्रभ्रूभंगसंयोगश्लक्ष्णस्मितसमन्विताः ।।३५।।
पक्वदाडिमबीजाभदन्तपंक्तिविराजिताः ।
खगेन्द्रचञ्चुशोभाढ्यनासिकोन्नतिभूषिताः ।।३६।।
गजेन्द्रगण्डयुग्माभस्वर्णस्तनभराऽऽनताः ।
नितम्बकठिनश्रोणीपीनभारभराऽऽनताः ।।३७।।
कन्दर्पदर्पविलसन्मानसा मदविह्वलाः ।
दर्पणे पूर्णचन्द्रास्यसौन्दर्यदर्शनोत्सुकाः ।।३८।।
राधिकाकृष्णचरणसेवासक्तमनोरथाः ।
सुन्दर्यः षोडशवर्षा भरयौवनमार्गणाः ।।३९।।
विहरन्ति महादिव्ये रासमण्डलमण्डपे ।
क्रियासरांसि लक्षाणि पुष्पोद्यानानि कोटिशः ।।1.120.४० ।।
लोहितश्वेतरक्ताभपद्मकोट्यन्वितानि वै ।
दिव्यमधुपसन्नादगुञ्जिततीरवन्ति च ।।४१।।
पुष्पशय्यागर्भकुंजकुटीरकोटिशोभितः ।
मण्डपः परितो रत्नप्रदीपकिरणोज्ज्वलः ।।४२।।
भोगद्रव्यसकर्पूरताम्बूलवस्त्रसंयुतः ।
श्वेतचामरदर्पणविचित्रपुष्पहारकः ।।४३।।
भव्यस्तु शोभते रासमण्डपोऽथ ततः परम् ।
विचित्रशोभं रम्यं च सुदिव्यं वर्तते वनम् ।।४४।।
वनं वृन्दावनं नाम राधामाधवयोः प्रियम् ।
तयोः क्रीडाविहारार्थं कल्पद्रुममयं परम् ।।४५।।
मन्दवायुप्रकम्पेन शोभते चेतनं सदा ।
कमलस्थलपद्मादिकस्तूर्यादिसुगन्धितम् ।।४६।।
कोकिलाकूजनैर्नूत्नपल्लवैश्च मनोहरम् ।
रमणार्थं कदम्बानां कुंजैः सुकमनीयकम् ।।४७।।
बकुलकुन्दमन्दारचन्दनस्वर्णचम्पकैः ।
तत्तत्सुगन्धिसत्पुष्पैः परितः सुरभीकृतम् ।।४८।।
नागरंगपनसाऽऽम्रतालश्रीफळखर्जुरैः।
जम्बूबदरिकागुर्वाकाम्रातकसुदाडिमैः ।।४९।।
जम्बीरकदलीनारिकेलैर्युक्तं मनोरमम् ।
शाल्मल्यश्वत्थतिन्तिडीनिम्बपिप्पलिसर्जकैः ।।1.120.५० ।।
संकुलं विविधैर्वृक्षैः सर्वदा फलपुष्पधृक् ।
मल्लिकामालतीस्वर्णाकेतकीमाधवीयुतम् ।।५ १।।
यूथिकाचित्रपुष्प्यादिवल्ल्युल्लोचविराजितैः ।
चारुकुंजकुटीरैश्च पंचाशत्कोटिभिर्युतम् ।।५२।।
रत्नदीपाः कोटिकोट्यो धूपास्तत्र सुगन्धिनः ।
शृंगारद्रव्यसम्मिश्राऽनिला वान्ति समन्ततः ।।५३।।
सुगन्ध्यर्कचन्दनाक्तपुष्पशय्याः स्थले स्थले ।
दिव्यमुक्तधृतरूपद्विरेफरवनादिते ।।५४।।
रम्ये वृन्दावने गोप्यो रत्नालंकारशोभिताः ।
पंचाशत्कोटिगोप्यस्ता वसन्ति राधिकाज्ञया ।।५५।।
तत्राभ्यन्तरभूमौ द्वात्रिंशद्वनानि सन्ति वै ।
कल्पद्रुपारिजाताख्यकदम्बादिकनामभिः ।।५६।।
तत्तद्वृक्षविशेषैश्च वनानि सन्ति वर्तुले ।
ततो वृन्दारकं स्थानं गोपगोपीकृतगृहम् ।।५७।।
गोष्ठानां गोपगोपीनां नगराणि वसन्ति वै ।
पुष्पोद्यानसहस्राणां सहस्राणि भवन्ति च ।।५८।।
पञ्चाशत्कोटिगोपीनां गृहेभ्योऽप्युत्तमानि वै ।
सौधानि सन्ति प्रत्येकं श्रीकृष्णस्येव रूपतः ।।५ ९ ।।
श्रीकृष्णतुल्यरूपाश्च सर्वा द्वादशहायनाः ।
अर्बुदाऽर्बुदसंख्याका रूपरूपातिरूपणाः ।।1.120.६ ० ।।
गोप्यो गोपा ह्यसंख्याता वृन्दारके वसन्ति हि ।
रत्नहीरकमाणिक्यमणिस्वर्णादिभूमिके ।।६१ ।।
दिव्ये वृन्दारके तत्र स्मृद्धयः सन्त्यनन्तशः ।
तत आरभ्य गोलोको ब्रह्मधाम्नि स्थितोऽन्तरे ।।६२।।
तस्य वै परितो गोपगोपीनां मण्डलानि वै ।
वृन्दारके चाभितस्तु गोलोकस्याभितस्तथा ।।६३।।
वसतयो वर्तुले वै वृन्दारके वसन्ति हि ।
वृन्दारकाणां वासानां मध्ये गोलोकमुत्तमम् ।।६४।।
पूर्वे वृन्दारकं भागे तत्राऽक्षयवटोऽस्ति वै ।
पञ्चयोजनविस्तीर्णो दशयोजनमूर्ध्वगः ।।६५ ।।
सहस्रस्कन्धसंरोहशाखाकोटिसमन्वितः ।
रक्तपक्वफलाढ्यश्च नवपल्लवशोभितः ।।६६ ।।
सुघट्टछायासुरवदस्तदधो रत्नवेदिकाः ।
सन्ति तत्र कृष्णरूपा रमन्ते गोपबालकाः ।।६७।।
पीताम्बरधरा क्रीडालग्नमानससद्रसाः ।
चन्दनोत्तमसौगन्ध्यान्वितगात्रसुरूपिणः ।।६८।।
पार्षदास्ते कृष्णतुल्यरूपयौवनभासुराः ।
सर्वभूषासुशोभाढ्या रमन्ते विहरन्ति च ।।६९।।
ततः पार्श्वे द्वितीयस्तु भाण्डीरवटसंज्ञकः ।
राधया सह कृष्णस्य योगः संजायतेऽत्र वै ।।1.120.७० ।।
वटोऽस्ति पंचयोजनविस्तारो द्विगुणोच्छ्रयः ।
सहस्रस्कंधकोटिशाखाप्रशाखासुदिव्यकः ।।७१ ।।
तदधो रत्नखचितस्वर्णवेदिमयानि वै ।
गोपीनां कन्यकानां वै विहाराणि भवन्ति हि ।।७२।।
सर्वाश्च गोपकन्यास्ता राधावद्रूपभासुराः ।
विहरन्ति रमन्ते ताः सर्वा द्वादशहायनाः ।।७३ ।।
कृष्णं नित्यं प्रतीक्षन्ते चायान्ति यान्ति कोटिशः ।
कृष्णं प्राणाधिकं लब्ध्वा सेवित्वा च प्रयान्ति वै ।।७४।।
तयोस्तु वटयोर्मध्ये राजमार्गो मनोहरः ।
राधाकृष्णमहासौधं प्रति गच्छति दूरतः ।।७५।।
पार्श्वे पार्श्वे तु सिन्दूरमणिनिर्मितवेदिकाः ।
क्वचिदिन्द्रनीलक्लृप्ता रुचकैर्हीरकैस्तथा ।।७६ ।।
पद्मरागैः स्फटिकैश्च निर्मिता वेदिकाः क्वचित् ।
विश्रान्तिमण्डपा धर्मशालाश्च पार्श्वतः क्वचित् ।।७७।।
क्वचिच्चन्दनकस्तूरीकुंकुमद्रवशोभितः ।
क्वचित् लाजाफलपुष्पदधिदुर्वादिमण्डितः ।।७८।।
स्वर्णचम्पकमन्दारपारिजातादिपार्श्वकः ।
नवपल्लवपुष्पादिस्मृद्धवृक्षविराजितः ।।७९।।
रंभावनानि शोभन्ते शोभन्ते फलिशाखिनः ।
सुरत्नाञ्चितगर्गर्यो मस्तकस्थाः सुशोभनाः ।।1.120.८० ।।
जलाहरणकार्यार्था गोपीनां भान्ति वारिभिः ।
घटास्तासां कटितटे स्थापिता भान्ति पौरटाः ।।८ १ ।।
सिन्दूरकुंकुमाक्ताश्च गन्धसुगन्धवासिताः ।
भूषिताः पुष्पभूषाभिः यतो गच्छन्ति गोपिकाः ।।८२।।
मार्गान्मार्गान्तरं रथ्यारूपं गच्छन्ति कन्यकाः ।
स्वस्वसौधेषु रम्येषु रत्नसोपानवर्त्मसु ।।८३ ।।
वह्निशौचांशुकधराः स्वर्णभूषाविभूषिताः ।
श्वेतचामरदर्पणपुष्पतल्पे स्वपन्ति ताः ।।८४।।
तेन मार्गेण गोपाश्च गोप्यो यान्ति सुसुन्दरान् ।
पार्श्वस्थान्स्वीयसौधान्वै पुष्पमाल्यसुतोरणान् ।।८५।।
षोडशद्वारसंयुक्तप्राकारपरिवेष्टितान् ।
परितः परिखायुक्तान् द्वारपालैश्च रक्षितान् ।।८६।।
इत्येवं राजमार्गः सः पार्श्वद्वयसुशोभितः ।
प्राकारद्वारमाविश्य याति श्रीकृष्णमन्दिरम् ।।८७।।
प्राकारान्तर्वसतयो भवन्ति कोटिशस्तथा ।
प्राकारो वर्तुलाकारः कोटियोजनविस्तृतः ।।८८ ।।
गोलोकोऽयं महादिव्यो महागोलोकसंज्ञकः ।
निजगोलोक इत्येवं राधागोलोक इत्यपि ।।८ ९ ।।
नाम्ना परिचयस्तस्य कुर्वन्ति गोपगोपिकाः ।
अथ ते मुख्यगोलोकं कथयामि शिवे! शृणु ।। 1.120.९० ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोलोके विरजाशतशृंगरासमण्डपवृन्दावनाऽक्षयवट-
भाण्डीरवटराजमार्गवृन्दारकादिवर्णननामा विंशत्यधिकशततमोऽध्यायः ।। १२० ।।