← अध्यायः १३४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३५
[[लेखकः :|]]
अध्यायः १३६ →

श्रीनारायण उवाच-
शृणु देवि महालक्ष्मि! हिरण्यकशिपुः स्वकम् ।
भ्रातरं निहतं श्रुत्वा पर्यतप्यद्रुषा ज्वलन् ।। १ ।।
उवाच दशनैरोष्ठं दशन् चाऽस्फोटयन्नुरू ।
नेत्रे च चूर्णयन् रक्ते क्रोधाग्निज्वालितेऽ श्वसन् ।। २ ।।
गर्जयन् विवरं भौमं निरीक्षन् धूम्रमम्बरम् ।
विकरालो महाक्रूरः कम्पयँश्च पदा महीम् ।। ३ ।।
दुष्प्रेक्ष्यभूनेत्रकुटिः स्वेदबिन्दुललाटकः ।
प्रालेयमेघवद्व्यग्रो ह्युद्गच्छद्रोषवारिधिः ।। ४ ।।
खङ्ग दीर्घं करे धृत्वा समुत्थाय तदासनात् ।
आक्रौशन्मेघवच्छीघ्रं खङ्गमुत्तोल्य चाम्बरे ।। ५ ।।
सम्बोधयन्दैत्यसभां पृथ्वीं निर्वीर्यशोभनाम् ।
मन्यते यदि वै कश्चित् स घासग्रासमत्ति वै ।। ६ ।।
निर्वीर्या नहि दैतेया न भूर्निवीर्यधारिणी ।
निर्वीर्यास्तु श्वसन्तोऽपि मृता एव विना मृतिम् ।। ७ ।।
न गणये महाविष्णुं महाविष्णोः पितामहम्।
तर्हि को नाम विष्णुर्वै पशुरूपेण सञ्चरन् ।। ८ ।।
यदि विष्णुः स्वमनसि जानाति बलगर्वितः ।
दैत्यमूर्धन्यहन्ताऽह तदाऽत्ति घासमेव सः ।। ९ ।।
न दैत्या वै मृताः सर्वे येन विष्णुः सुखी भवेत् ।
सति दैत्ये सुखी स्यात् चेद्दैत्योऽत्ति घासमेव सः ।। 1.135.१ ०।।
सति विष्णौ न वै दैत्यः सति दैत्ये न माधवः ।
विष्णुर्जीवेन्म्रियेद्दैत्यो दैत्यो जीवेन्म्रियेद्धरिः ।। ११ ।।
न द्वयोर्जीवतोः पृथ्व्या राज्यं तु स्यादकण्टकम् ।
बलेन यदि वा स्मृद्ध्या वाहनेन च हेतिभिः ।। १२।।
सैन्येन विद्ययाऽस्त्रैश्च मन्त्रेण न्यूनताऽस्ति चेत् ।
करिष्ये सुतपो घोरं येन विष्णुरभूद्धरिः ।। १३ ।।
अहं ततोऽप्यधिकं वै करिष्ये तप उल्बणम् ।
तादृशान्कोटिविष्णून् वै ग्रसिष्ये कवलेन यत् ।। १४।।
महाकालमपिग्रासं करिष्ये कोऽयमेडकः ।
मेषोऽस्ति मम साम्येऽयं विष्णुर्वैष्णवपूजितः ।। १५।।
दूरं दैत्यकुलाद्याति चान्तर्याति जलालयम् ।
तस्माद्दैत्या भवन्त्येव सुसज्जाः शस्त्रपाणयः ।। १ ६।।
अपचितिं करिष्यामो मम भ्रातुर्महात्मनः ।
मद्धेतिभिन्नदेहस्य भूरिणा रुधिरेण वै ।। १७।।
रक्तप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ।
भो नमुचे शतबाहो द्विमूर्धस्त्र्यक्ष शम्बर! ।। १८।।
भो शतारे सहस्रारे भो पुलोमन् समिल्वल ।
भो प्रमेद्य महाधूम्र भो देवारे गजासुर ।। १९ ।।
रे भो शकुन काकाक्षे शृणुताऽनन्तरं मम ।
यूयं यात भुवं सर्वे विप्रक्षत्रादिरूपतः ।।1.135.२० ।।
सूदयध्वं तपोयज्ञकारिणो ब्राह्मणान्मुहुः ।
विष्णोर्बलं ब्राह्मणैर्वै यज्ञैः संवर्धितं सदा ।।२ १ ।।
यज्ञैर्देवाः सदा पुष्टिं यान्ति स्वर्गनिवासिनः ।
पितरश्चापि यज्ञेन तृप्ता भवन्ति सर्वदा ।।२२।।
मुनयः ऋषयश्चापि विष्णुर्वैकुण्ठवासिनः ।
सर्वेऽपि यज्ञभागैर्वै पुष्टिं यान्ति मुहुर्मुहुः ।।२३ ।।
यज्ञेनेन्द्रः प्रवर्षति मेघाश्च वृष्टिसन्मुखाः ।
ब्राह्मणा दक्षिणापूर्णा यज्ञो मूलं हि जीवने ।।२४।।
ब्राह्मणानां विनाशेन यज्ञा नष्टा भवन्ति वै ।
यज्ञनाशे कुतो वृष्टिर्देवानां जीवनं कुतः ।। २५।।
विप्रयज्ञसुराणां च विनाशे सुखिनो वयम् ।
एवं तपःप्रभावेण समेधिता महर्षयः ।।२६ ।।
तस्मान्नारीः सह नीत्वा कुर्वन्तु तपसां क्षयम् ।
रूपान्तराणि कार्याणि साध्यन्ते ह्यनुरूपकैः ।। २७।।
तस्माद् भवन्तु ब्राह्मण्यो दैत्यपत्न्यः स्थले स्थले ।
दैत्या भवन्तु विप्राश्च मुनीनां सेवकास्तथा ।। २८।।।
ऊटजानि महारण्ये रचयित्वा वसन्तु वै ।
मृषाग्निहोत्रकर्तारो मृषायज्ञप्रदर्शकाः ।। २९ ।।
मृषाधर्मप्रदेष्टारो भवन्तु वनवासिनः ।
मृषा ब्राह्मणधर्मेण तेष्वाविश्य च छद्मना ।। 1.135.३ ० ।।
मारयन्तु भक्षयन्तु नाशयन्तु यथाक्षणम् ।
यत्र यत्र द्विजा यज्ञा गावो धर्माश्च सत्क्रियाः ।। ३१ ।।
तत्र तत्र यात यूयं सन्दीपयत वृश्चत ।
प्रतिज्ञां प्रकुरुताऽत्र सदस्युद्धृतहेतयः ।। ३२ ।।
सर्वैदैत्यैर्मिलित्वैव ह्येकीभूय च सर्वदा ।
ब्राह्मणानां क्रतूनां च नाशः कार्यः सदैव हि ।। ३२ ।।
अत्र ये संगता न स्युस्ते ज्ञेयाः सुरवर्धकाः ।
हन्तव्यास्ते दैत्ययूथैरन्यथा मातृघातकाः । । ३४।।
इत्याश्रुत्य हिरण्याद्यकशिपोर्विजयोऽस्तु वै ।
उच्चार्यैवं च दैत्यास्ते सशस्त्रोद्धृतपाणयः ।। ३२।।
चक्रुः प्रतिज्ञां तद्वाक्याद् याता देशान्तरं भवि ।
विप्राणां कदनं चक्रुः प्रदेहुः पत्तनानि च ।। ३६।।
बिभिदुर्नगराण्यन्ये प्रादहन् शरणार्थिनः ।
बभञ्जुर्यज्ञविस्तारान्कदनं चक्रिरे महत् ।। ३७।।
तदा देवाश्च विप्राश्च पृथ्व्यां चेरुरलक्षिताः ।
तदा लक्ष्मि! महादैत्यो हिरण्यकशिपुः स्वकान् ।। ३८ ।।
उपदिश्यैव चैकाकी जगाम मन्दराचलम् ।
भोगान्सर्वान्परित्यज्यैकाकी च निर्जने वने ।। ३९।।
तपस्तेपे महाघोरं दिव्यवर्षसहस्रकम् ।
वायुभक्षो निराहारः पादांगुष्ठोपरि स्थितः ।।1.135.४० ।।
रुद्रोपरि महादैत्यो रुद्राय नम' ईरयन् ।
पूर्णे वर्षसहस्रे तु मूर्ध्नस्तस्य महात्मनः ।।४१ ।।
धूमः समुद्भवन् घोरो व्योम्न्युत्थितो व्यवर्धयत् ।
आब्रह्मभवनं व्याप्तो महातेजोऽतितापनः ।।४२।।
यथाग्नेर्वा रवेर्वापि ज्वालामालान्वितो भवेत् ।
दावानलोऽथवा किं वा वाडवानल एव वा ।।४३ ।।
तथाऽनलो धूम्रवर्णो ह्युत्थितो व्योमपारगः ।
तेनाऽग्निना समन्ताद्वै जज्वलुश्च दिशो दश ।।४४।।
तेन तप्ताः स्वर्गदेवा ब्रह्मलोकं ययुस्तदा ।
ब्रह्मणे ज्ञापयामासुस्तपो दैत्यस्य दुःसहम् ।। ४५।।
तदुत्थवह्निशमनं विधेहि त्वरितं प्रभो ।
अन्यथा स महादैत्यो वैराजपदमिच्छति ।।४६।।
ब्रह्मविष्णुमहेशास्तु तृणयन्ते तदग्रतः ।
इतिसंकल्पबलिना तपसा जेतुमिच्छति ।।४७।।
विनाशयित्वा देवादीन् विधास्ये सुनवां सृजिम् ।
दैत्यरूपां स्वानुकूलां दैत्यमयीं स्वतेजसा ।।४८।।
महाकालं वशीकृत्य चाऽपुनर्मारकां सृजे ।
किं कालकवलापन्नान्वृथा विष्णुपदादिभिः ।।४९।।
इतिनिर्बन्धमास्थाय करोति दुश्चरं तपः ।
तद्विधत्स्व यथान्यायं त्राहि शीघ्रं सुरादिकान् ।।1.135.५० ।।
देवान्नीत्वा सह ब्रह्मा रुद्रं प्रति गतस्ततः ।
श्रावयामास रुद्राय नीत्वा च सह शंकरम् ।।।५१ ।।
जग्मुः सर्वे मन्दरस्य द्रोण्यां यत्र स दैत्यराट् ।
आकाशात्परितो दृष्टं स्थलं क्वास्ते महासुरः ।।५२।।
न स्पष्टो दृश्यते क्वापि बहुधा मार्गितोऽपि सः ।
तथापि निर्जने शुष्केऽरण्ये वल्मिकमस्तकात् ।।५३ ।।
ज्वालामालासमुच्छ्रायो घट्टधूम्रोर्ध्वमिश्रितः ।
सर्वैर्दृष्टस्तर्कितश्च दैत्यराजोऽत्र संभवेत् ।।५४।।।
यावत् त्ववतरन्तीमे ज्वालामालिप्रदेशके ।
तत्र दृष्टो महान्भूमेरुच्छ्रायो मृन्मयोत्थितः ।।।५५।।।
पिपीलिकाभिराचीर्णो वृक्षाग्र्यतृणकीचकैः ।
व्याप्तः शुष्कैर्महास्तम्बैः सुशृंगैरिव पर्वतः ।।।५६।।
विविधैः स्वल्पशृंगाढ्यैर्वल्मीकैः परिगोपितः ।
प्रच्छन्नः शुष्कमांसास्रगस्थिलम्बितजीवनः ।।५७।।
तत्र समाधिना दृष्टो ब्रह्मणा परमेष्ठिना ।
ब्रह्माऽप्याश्चर्यमग्नोऽभूदन्ये तु कम्पितास्तदा ।।५८ ।।
अहो तपःपराकाष्ठेत्यूचुर्विगलितान्तराः ।
प्राह वेधाः प्रहसन् वै प्रपौत्रं काश्यपं तदा ।।५९।।
उत्तिष्ठ पुत्र प्रोत्तिष्ठ तपःसिद्धिरभूत् तव ।
अयं रुद्रो महादेवो वरदानाय चागतः ।।1.135.६० ।।
कश्यपस्तव जनकस्तस्यापि जनकस्तथा ।
मरिचिरप्यागतोऽस्ति तस्य भ्रातर उत्तमाः ।।।६१।।
समायातास्तव कृते प्रसन्नास्तपसा तव ।
वरप्रदा इमे प्राप्ता वृणु त्वं यदभीप्सितम् ।।६२।।
पश्यामस्ते चात्मबलं तपऔग्र्यं ततोऽपि च ।
न कृतं न करिष्यन्तीदृशं चान्ये मदन्तरे ।।६३।।
निर्जलं चाऽस्थिसंघाते प्राणान् वर्षाणि वै शतम् ।
कोऽन्यस्तु धारयेदेवं यथेप्सितं वरं वृणु ।।६४।।
पुन पुनर्बोध्यमानो बहिर्नायात्स वै यदा ।
देहोऽस्य पृथ्व्या संलीनश्चात्मा लीनस्तु शंकरे ।।६५।।
कः शृणोति को जागर्ति शवकल्पसमाधिगः ।
शुष्ककाष्ठकठोरास्थिसंधयः काष्ठतां गताः ।।।६६।।।
पाषाणकल्पो दैत्येन्द्रो यदा न कम्पते मनाक् ।
तदा तु ब्रह्मणा स्वस्य कमण्डलुजलं शुभम् ।।६७।।
करे निधाय मन्त्रैश्च सजीवनविधायकैः ।
अभिमन्त्र्य प्रोक्षितस्तद्वल्मीके तावदेव सः ।।६८।।
युवा सूर्यसमो रूपे सुपुष्टो दिवि देववत्। ।
वज्रतुल्यशरीरांगः स्वर्णवर्णः समुत्थितः ।।६९।।
विधूय शरीराद् वृक्षस्तम्बपिपीलिकामृदः ।
दृष्ट्वा देवान् ब्रह्मरुद्रकश्यपादीन् ननाम च ।।1.135.७०।।
प्रहर्षितश्चकारैषामातिथ्यमश्रुचक्षुषा ।
रुद्रः प्राह तदा दैत्यं किं ते मनसि रोचते ।।७१।।
यदर्थं तप आतिष्ठो वृणु वरान्ददाम्यहम् ।
श्रुत्वा दृष्ट्वा च वरदं नत्वा गद्गदया गिरा ।।७२।।
नमः सर्वाधिभूताय सर्वान्तर्यामिणे नमः ।
तपःफलप्रदात्रे ते ब्रह्मणे शंभवे नमः ।।७३।।
नमोऽस्तु जनकायाऽत्रभवते कश्यपाय च ।
नमो मरीचये तद्वत् सर्वर्षिभ्यो नमोनमः ।।७४।।
सर्वे शुभप्रदातारो भवन्तु मम सर्वदा ।
यदि देया वरा मह्यं पात्रं चाहं मतोऽस्मि वः ।।७९।।
सुराऽसुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
पशुपक्षिमृगाणां च सिद्धानां च महात्मनाम् ।।७६।।
यक्षविद्याधराणां चोद्भिज्जानां किन्नरात्मनाम् ।
किंपुंसां सर्वरोगाणां मन्त्र्यायुधास्त्रयन्त्रिणाम् ।।७७।।
सर्वेषां दत्तशापानामवध्यत्वं च मे भवेत् ।
नाऽन्तर्बहिर्न दिवसे न रात्रौ चिज्जडैर्न च ।।७८।।
न पृथ्व्यां नाऽम्बरे मृत्युर्मम स्यादजसृष्टितः ।
युद्धे चाऽप्रतिद्वन्द्वत्वमेकपत्यं च देहिनाम् ।।७९।।
सर्वेषां लोकपालानामीश्वरत्वमखण्डितम् ।
तपोयोगप्रभावाणामविनाशो ममास्त्विति ।।1.135.८० ।।
इत्येते तु वराः स्वेष्टा दीयन्तां पितृभिश्च मे ।
ब्रह्माज्ञया तदा रुद्रः प्राह शिष्यं तपस्विनम् ।।८ १।।
शिष्य चैते वराः जन्मवतां तु दुर्लभाः सदा ।
तथापि वितरामोऽद्य कः सृष्टौ शाश्वतो जनः ।।८२।।
इति दत्त्वा वरान् रुद्रब्रह्माद्याः केतनं ययुः ।
हिरण्यकशिपुश्चापि निववृते तपःस्थलात् ।।८३।।
इतिश्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने हिरण्यकशिपुः सक्रोधो विप्रयज्ञादिनाशार्थं दैत्यानुत्तेजयन्मन्दराचले तपोऽर्थं जगाम, रुद्रब्रह्मादिभिः समागत्य तस्मै वेधसः सृष्ट्याऽमरत्वं वितरितमितिवर्णननामा पंचत्रिंशदधिकशततमोऽध्यायः ।। १ ३५।।