लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १३६

← अध्यायः १३५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३६
[[लेखकः :|]]
अध्यायः १३७ →

श्रीनारायण उवाच-
श्रूयतां सा कथा लक्ष्मि! त्वया चैकमनीषया ।
एवं वरान्समापन्नो हिरण्यकशिपुः रिपुः ।। १ ।।
स्मृत्वा भ्रातृविनाशं वै द्वेषं करोति माधवे ।
गत्वा गत्वा दिशाः सर्वा जित्वा तथा च सागरान् ।। २ ।।
द्वीपाँस्तथोपसुद्वीपान् पातालसहितां भुवम् ।
वेधःस्थानं परित्यज्य सर्वं वशीचकार सः ।। ३ ।।
मनूनृषीन्पितृपतीन्सुरासुरान्दिवस्पतीन् ।
सिद्धचारणगान्धर्वान् विद्याध्रान्मानुषाँस्तथा ।। ४ ।।
यक्षरक्षःप्रेतभूतपिशाचोरगकिन्नरान् ।
किंपुरुषाँश्च कूष्माण्डान् वेतालाँश्च विनायकान् ।। ५ ।।
साध्यांश्च मरुतो विश्वेदेवान्सरिसृपाँस्तथा ।
नागान् सलिलकृद्वासाँस्त्रिलोकिस्थानधीश्वरान् ।। ६ ।।
जित्वा वशं परं कृत्वा विश्वजित्सोऽभवन्नथ ।
लोकपालकृता देवाः प्रासादाः स्मृद्धयस्तथा ।। ७ ।।
देवोद्यानानि सर्वाणि सामुद्रं रत्नजातकम् ।
महेन्द्रभवनं यावत् दिक्पालानां गृहाणि च ।। ८ ।।
ग्रहाणां च रथाः सर्वे देवा देव्यो नवा नवाः ।
सर्वं वशीकृतं तेन दैत्याः सर्वत्र योजिताः ।। ९ ।।
चतुर्दशभुवनानामग्र्या लक्ष्मीर्निजीकृता ।
महन्तो दिव्यसत्सौधाः प्रासादाः परमालयाः ।। 1.136.१ ०।।
यत्र विद्रुमसोपाना दिव्यस्फाटिकभित्तयः ।
महामारकतीस्थल्यो वैदूर्यस्तम्भराजयः ।। १ १।।
दिव्याम्बरवितानानि पद्मरागासनानि च ।
विमानानि महार्हाणि चन्द्रशालाः सुदीप्तयः ।। १२।।
दुग्धफेनसमाः शय्या मुक्तामणिपरिच्छिदाः ।
खानपानविलासाश्च विलासिन्योऽब्दषोडशाः ।। १३।।
स्वर्णवर्णाः सुगन्धाढ्याः मृगाक्ष्यो विदितेङ्गिताः ।
सकिंकिणीकनककृन्नूपुरशब्दितगृहाः ।। १४।।
सद्रत्नखचिताऽऽदर्शदृष्टाननसरोरुहाः ।
सुदत्यः स्वल्पमध्याश्च पद्मपत्रायतेक्षणाः ।। १५।।
सुसंकोचविकासादिशक्तिस्वातन्त्र्यसंभृत।
दृढग्रन्थ्यग्रमध्यान्तहृस्वावकाशयोनयः ।
स्वर्णवर्णचमत्कारचंचद्गात्राः सुरस्त्रियः ।। १६ ।।
विलसन्ति यत्र दैत्यं रमयन्ति च सर्वदा ।
प्रासादास्तेन ते सर्वे स्वाधिकारे वशीकृताः ।। १७।।
सर्वदेवाभिवन्दितपादपीठो महाबलः ।।
राजते च महेन्द्रस्य सिंहासनविराजितः ।
अशेषधिष्ण्यपैर्दिव्योपदाभिः परिपूजितः ।। १८।।
विश्वावसुतुम्बुरुगान्धर्वाग्र्यैरत्यभिस्तुतः ।
सिद्धर्षिमुनिविद्याध्राऽप्सरोभिः कृतसंस्तवः ।। १९।।
नारायणोऽपर इव राजते भुवनैकराट् ।
यज्ञेषु दानकार्येषु वैश्वानरविधानके ।।1.136.२० ।।
इत्याभागान् स्वयं भुंक्तेऽर्पिता ऋत्विग्भिरादरात् ।
भूस्तस्यासीद् वसुमती मेदिन्यकृष्टपाकदा ।।२ १।।
स्वर्गं कामप्रवर्ष्यभूद् वायुः शान्तिकरोऽवसत् ।
रत्नान्यर्पयते चाब्धिः सरितः सलिलानि च ।।२२।।
सप्तद्वीपाः समुद्राश्च सेवन्ते वर्धयन्ति तम् ।
शैला द्रुमा वनोद्यानाः ऋतवो गगनं तथा ।।।२३ ।।
स्वस्वपरिच्छदैस्तस्य सेवां कुर्वन्ति नित्यशः ।
अग्निस्तस्य पावकोऽभूद् वायुर्वै गृहमार्जकः ।। २४।।
पृथ्वी शय्याकरी चासीज्जलं वारिहरं ह्यभूत् ।
मेधाः शैत्याभिव्यञ्जकव्यजनाऽर्पयिणोऽभवन् ।। २५।।
चन्द्रो रतिश्रमनोदे शैत्यदोऽभूत्सदास्थितः ।
कुबेरस्तस्य भूषाधृक् गायिका च सरस्वती ।। २६।।
इन्द्रः पानप्रदाताऽभूद् यमो हाराधिपोऽभवत् ।
क्षीरमिष्टोदकाः सर्वे सागराश्चोदकुम्भयः ।। २७।।
सूर्यस्तस्य किरीटस्याऽभवन्मण्यमणिः स्वयम् ।
पातालानि च दैत्यस्य पादपीठास्तदाऽभवन् ।। २८।।
अप्सरसः सदा दास्यो देव्यश्च पादमर्दिकाः ।
नद्यः स्नानविधायिन्योऽरण्यानि फलदानि च ।।२९ ।।
किं न्यूनं कृतभक्तेश्च दासस्य पदभ्रंशने ।
तत्रापि तपसा प्राप्तप्रसादस्य सदा प्रिये ।। 1.136.३०।।
न मे भक्तस्य किञ्चिद्वै न्यूनं भोग्ये भवेदिह ।
यद्यदिच्छति तस्मादप्यधिकाधिकमुद्ददे ।। ३१ ।।
ऐश्वर्यं मदसम्पत्तिर्यौवनं चाऽविवेकिता ।
प्रत्येकं चाप्यनर्थाय किमु यत्र चतुष्टयम् ।।३२।।
तस्मात्तु सर्वदा भाव्यं निर्लेपत्वेन सर्वथा ।
स वै भोगं च मोक्षं च विन्दतेऽन्यः पतत्यधः ।।।३३।।
यथा यथा प्रभुंक्ते च मूढो विषयपर्वतान् ।
तथा तथा भवेल्लुब्धो मोहपाशप्रजालितः ।। ३४।।
यथेष्टं सः प्रभुञ्जानो विषयान् सार्वभौमजान् ।
नाऽत्यतृप्यन्महामूर्खः प्रत्युतोत्पथगोऽभवत् ।।।३५।।।
उग्रदण्डैर्लोकपालानुद्वेजयति तामसः ।
रक्षति न प्रजा दैत्यानुत्तेजयति पक्षतः ।।३६।।
दैत्यपक्षवर्धयिता सुरपक्षविनाशकः ।
निनाय कालमर्बुदमब्दानामेवमेव सः ।।।३७।।
ततो दुःखं परं प्राप्ता उद्विग्ना लोकपालिनः ।
ऋषयो मुनयश्चैव ब्राह्मणा नष्टरक्षणाः ।।३८।।
देवाश्च पितरश्चान्ये ये ये दुःखदशान्विताः ।
ते सर्वे क्षीरधेस्तीरे शरणं ययुरच्युतम् ।।।३९।।
नमः शरण्याय शान्तस्वरूपाय नमोनमः ।
दुःखावासाय दैत्यांशलक्ष्मीस्थिताय ते नमः ।।1.136.४०।।
रक्षाकर्त्रे यतिसन्यासार्थिने हरये नमः ।
परिवर्त्तनिवासाय परिवर्तात्मने नमः ।।४१।।
बहुकालं स्वभक्ताय दैत्याय सार्वभौमकम् ।
दत्तवान् साम्प्रतं दैत्यभिन्नेभ्यो दातुमर्हसि ।।४२।।
सुरादिवाञ्च्छितं चापि कृपया दातुमर्हसि ।
परावर्त्तं कुरु विष्णोत्वसह्यः समयो गतः ।।४३।।
इति प्रार्थ्य सुराः सर्वे क्षीराब्ध्युत्तरभूतले ।
समाधौ सुस्थिताश्चान्ये जपयज्ञे व्यवस्थिताः ।।४४।।
नारायणाद्वरं लब्ध्वा रक्षाया वचनं तथा ।
ततो यास्याम इति मे प्रतिपत्तिं विधाय च ।।४५।।
स्मरन्ति स्म हरिं कृष्णं नारायणमहाप्रभुम् ।
तावदाकाशशब्दाख्या वागुवाचाऽशरीरिणी ।।४६।।
भो भोः सुरादयो मुख्या युष्मत्कार्यं भविष्यति ।
आयतिः सुभगा युष्मत्कृते चायाति निश्चितम् ।।४७।।
सर्वेषां कालचक्रस्योदयस्याऽवनतेस्तथा ।
समयो भवति पश्चान्न भवत्येव सर्वथा ।।४८।।
पुण्याऽपुण्यकृतं चक्रं सर्वेषां कृतिबन्धनम् ।
प्रवर्तते यथान्यायं तदस्यास्ति प्रवर्धितः ।।४९।।
अपि महत्तरं पुण्यं हिरण्यकशिपोः खलु ।
प्रकाशते च यावत् तन्नाशोऽपि दुष्करः खलु ।।1.136.५० ।।
दौरात्म्यं पूज्यहानिश्चाऽधर्मः पत्न्यव्रतं तथा ।
आयुर्नाशं करोत्येव पुण्यनाशं तु वेगतः ।। ५१ ।।
सोऽयं लक्ष्मीमदान्धो वै समाचरति तद्बहु ।
पूर्णे नाशं करिष्यामि चेक्षन्तां कालमागतम् ।।।५२।।
द्विजदेवगवां साध्वीसाधुधर्मकृतां मम ।
विद्वेषो नाशकृद्ध्याशु मद्भक्तस्य विशेषतः ।।५३ ।।
तदस्य दिवसाः प्रायः समाप्ता एव सर्वथा ।
तदुपायं करोम्येव यात यूयं स्वकं स्थलम् ।।५४।।
इत्यभिधाय सा वाणी विरमेऽथ सुरादयः ।
तद्दिशं श्रीहरिं स्मृत्वा नत्वा सदंडवत्पुनः ।।५५।।
सर्वे याताः स्वकं स्थानं हतं दैत्यं च मेनिरे ।
हरिः प्रह्लादमालक्ष्य दैत्यनाशमचिक्लृपत् ।।५६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिरण्यकशिपुकृतसुरमुन्यादिद्वेषतद्वैभवतद्विनाशार्थ देवादिकृतविष्ण्वाराधनादिवर्णननामा षट्त्रिंशदधिकशततमोऽध्यायः ।। १३६ ।।