← अध्यायः १३७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३८
[[लेखकः :|]]
अध्यायः १३९ →

श्रीनारायण उवाच-
ततो लक्ष्मि! मम भक्तं नैर्ऋताः शूलपाणयः ।
तीक्ष्णदंष्ट्राः करालास्यास्ताम्रश्मश्रुकुमूर्धजाः ।। १ ।।
कुर्वन्तो भैरवान्नादान छिन्धि भिन्धीतिवादिनः ।
परिवार्य च तं जघ्नुः शूलतोमरशक्तिभिः ।। १ ।।
प्रह्लादस्य वपुस्तत्र हरेः संस्मरणाच्छुभे ।
वज्रभूतमभूत्तत्र ह्यासन् घातास्तु निष्फलाः ।। ३ ।।
संप्राप्याऽज्ञस्पृश्य तद्देहं महास्राणि तु रक्षसाम् ।
भग्नानि च क्षितौ पेतुः पद्मशुष्कदलादिवत् ।। ४ ।।
स्वल्पमप्यस्य तद्गात्रं भेत्तुं दैत्याः क्षमा नहि ।
विस्मिताऽवाङ्मुखास्तस्थुर्दैत्यराजान्तिके भटाः ।। ५ ।।
परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।
युक्तात्मनि महाभक्ते कस्याऽस्त्रं सफलं भवेत् ।। ६ ।।
प्रयासे निष्फले जाते दृष्ट्वा पुत्रं तमव्रणम् ।
विस्मयं परमं प्राप्तो हिरण्यकशिपुस्तदा ।। ७ ।।
महादुःखैर्हृदि चान्धो मूर्छित इव रोषतः ।
चकार तद्वधोपायानभिचारावपातनैः ।। ८ ।।
मायाभिः सन्निरोधैश्चाऽभोजनैर्गलबन्धनैः ।
सर्वत्र श्रीहरिस्तस्य रक्षां चकार मातृवत् ।। ९ ।।
एवं कृतेऽपि निर्विघ्ने पुत्रे दैत्यस्तु शंकितः ।
म्रियेत वा न म्रियेत मारयेत वा किं क्रियात् ।। 1.138.१० ।।
शत्रुस्तथापि हन्तव्यो यावद्बुद्धिबलोदयः ।
आदिदेश ततः सर्पान् दन्दशूकान्महाविषान् ।। ११ ।।
वासुकितक्षकादींश्च खादयन्त्विति संब्रुवन् ।
एवमादेशमाप्तास्ते नागा विषोल्बणास्तदा ।। १२।।
ज्वलितास्या महाभीमास्तं चखदुर्महाबलम् ।
गरुडध्वजदासं तं विदश्य गरलायुधाः ।। १३ ।।
निर्विषाश्छिन्नदशना बभूवुरनिलाशनाः ।
विष्णुप्रेरितगरुडच्छिन्नमर्मादिगात्रकाः ।। १४।।
दुद्रुवुस्तत्स्थलात् तूर्णमपृष्ठदर्शिनः पुनः ।
वमन्तो रुधिरं भग्ना मृताश्च किंचनाऽभवत् ।। १५।।
महासर्पानपि पुत्रे निष्फलाँश्च विलोक्य सः ।
आदिदेश महाक्रुद्धो दिग्गजाननिवार्यकान् ।। १६।।
मदोद्धता महाक्रुद्धा दन्तिनः परिवार्य तम् ।
जघ्नुर्दन्तैः पृथुतमैस्तथापि वज्रदेहवान् ।। १७।।
मम कृपावशो रोम्णि मनागपि न वै क्षतः ।
प्रत्युत हस्तिनां दन्ता मूलात् छिन्ना अधोऽपतन् ।। १८।।
दन्तैर्विना कृता नागाः प्रदुद्रुवः सुदुःखिनाः ।
दृष्ट्वैवं तु चमत्कारं विरराम तथापि न ।। १९।।
अहो माया हरेः सुभ्रु! पातयत्यधमाधमम् ।
महानागैरथाऽच्छिन्नं पुत्रं दृष्ट्वा स रोषतः ।। 1.138.२०।।
प्रज्वालिते महावह्नौ चिक्षेप सुतमात्मनः ।
हाहाकारो महानासीद् ग्रामे खेटे च राष्ट्रके ।।२१ ।।
अग्निर्देवोऽपि भक्तन्तं जलशायिहरिप्रियम् ।
मत्वा नैव ददाहाऽऽस्ते शान्तो वह्निः शशीव सः ।।२२।।
मूढस्तथापि नो वेत्ति रक्षकश्चास्य वर्तते ।
पश्चाद् विषं महाघोरं दत्तवान् पानभोजने ।।।२३।।
अर्चने वस्त्रसंग्राहे प्रयुक्तमपि नाऽस्पृशत् ।
विषमप्यमृतं जातं नारायणप्रभावतः ।।२४।।
अथापि चाक्षतं पुत्रं यथापूर्वं प्रपश्य सः ।
खनिं महत्तरां भूमौ खनयामास तत्र तम् ।।२२।।
प्रक्षिप्य च महाग्राव्णैर्महीमापूरयत् समाम् ।
नारायणेन प्रह्लादो राजसौधे सुकर्षितः ।।२६।।
यत्राऽसुरो महासिंहासने वैराजतेऽत्र तम् ।
जीवन्तं देवसदृशं दृष्ट्वाऽऽगतं भयान्वितः ।।२७।।
ममायं मारकश्चास्ति निश्चिकायाऽऽह दैत्यराट् ।
उन्नीत्वा राक्षसा एनं क्षिपन्तु जलधौ द्रुतम् ।।।२८।।
कृतं तथैव तैः सर्वैस्तेभ्यः पूर्वं गृहागतः ।
दृष्ट्वैवं तं हिमाद्रौ तु महाग्निं ततोऽक्षिपन् ।।२९।।
नरनारायणस्तं चाऽरक्षयद् हिमवारणात् ।
अप्रापयत् तु दैत्यस्य सौधं दृष्टः स राक्षसैः ।।1.138.३० ।।
मृतेरुपायाः सन्त्येव परं नात्र फलन्ति ते ।
किं कर्तव्यं क्व गन्तव्यं मृत्युर्नास्त्यस्य मे यथा ।।३ १।।
मया वरो मम कृते प्राप्तः स फलितोऽत्र किम् ।
पिता पुत्रः समौ श्लाघ्यौ परं वैष्णवताऽऽर्तिदा ।।३२।।।
भावि दत्स्यात् तेन भाव्यं मम स्वित् मृत्युरस्त्ययम् ।
तथापि निर्णयं कुर्वे भक्तौ काष्ठाऽस्य किंबला ।।३३।।
विचार्येत्थं सुतं प्राह त्वया चोक्तं मयाग्रतः ।
व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधा यतः ।।३४।।
तस्य सर्वत्र चास्तित्वे प्रत्यक्षं दर्शयस्व मे ।
यश्च सर्वगतो देवः स एव परमेश्वरः ।।३५।।
तस्यैश्वर्यशक्तितेजोज्ञानवीर्यबलानि च ।
रूपस्मृद्धिविभूतिसद्गणचारित्र्यकाणि च ।।।३६।।
दृष्ट्वा सम्यक् ततो मन्ये तव विष्णुं सुराधिपम् ।
मत्तो यदि स ज्येष्ठोऽस्ति जित्वा मां बलवीर्यतः ।।।३७।।
ईश्वरत्वं लभत्वत्र नान्यया तु कदाचन ।
मम प्रतिबलो नास्ति लोके देवेषु कश्चन ।।।३८ ।।
रुद्रस्य वरदानेन ह्यवध्यो दुर्जयोऽस्म्यहम् ।
इतिपितुर्वचः श्रुत्वा प्रह्लादः प्रहसँस्तदा ।।।३९ ।।
हरेः प्रभावं दैत्यस्य कथयामास सर्वथा ।
यो वै नारायणः श्रीशः परमात्मा परात्परः ।।1.138.४०।।
नृषु नारेषु अयनान्नारायणः स उच्यते ।
वसनात्सर्वभूतेषु वासुदेवः स एव सः ।।४१।।
सर्वस्य जगतः पोष्टा विष्णुरित्यपि वेशनात् ।
न चाऽनेन विना किंचिज्जगत्स्थावरजंगमम् ।।४२।।
सर्वचिदचितोर्मध्ये रूपमस्यैव वर्तते ।
त्रिपाद्व्याप्तिः परे धाम्नि पादव्याप्तिस्तु मायिकी ।।४२ ।।
सोऽयं चक्रगदापाणिर्भक्तिदृश्योऽस्ति सर्वथा ।
रोषमत्सरमानादिदुर्गुणैर्नहि दृश्यते ।।४४।।
देवतिर्यङ्मनुष्येषु स्थावरेषु च जन्तुषु ।
व्याप्य तिष्ठति सर्वेषु क्षुद्रेषु च महत्सु च ।।४५।।
यावदेवं कथयति प्रह्लादे तावदेव तु ।
हिरण्यकशिपोर्वामनेत्रोष्ठांऽसादयोऽस्फुरन् ।।४६।।
काको रुरोद नृपतेर्ध्वजदण्डे मुहुर्मुहुः ।
ध्वजभंगोऽभवत्तावदपतत् स्खलनात् स्वयम् ।।४७।।
चकम्पे हृद्यं तस्य जानतोऽशकुनानि यत् ।
धूम्रकेतुः सकल्गिश्च व्योममार्गे ह्यदृश्यत ।।४८ ।।
कृष्णाऽजशकटी दृष्टा याम्यां दिशं प्रयाति या ।
रक्तैकवस्त्रा स्वपत्नीर्दृष्टा स्वश्लेषिता क्षणम् ।।४९।।
दृष्टं स्वमस्तकं देहात् पृथक् स्वहस्तगं क्षणम् ।
दिवा शुक्रस्तदा दृष्टः स्वर्गे दिशः सधूलिकाः ।।।1.138.५ ० ।।
दृष्टा दृष्ट्वैव मृत्युर्मे भवितैतद्विरोधतः ।
ज्ञातवानथ तं किंचिन्म्लानश्रियमधोमुखम् ।।५ १ ।।
शण्डामर्कौ शुक्रपुत्रौ सान्त्वनायेति होचतुः ।
मा खेदं कुरु राजेन्द्र! जगज्जेता त्वमेव हि ।।५ २।।
आवां तं शिक्षयिष्यावो यथा स्यात् कुलधर्मगः ।
बद्ध्वा वरुणपाशैस्तं रक्षिष्यावो निजे गृहे ।।५३ ।।
वयसः पक्वभावे तु बुद्धिः सुज्ञा भविष्यति ।
इति संगृह्य तद्वाचं शोकम च परित्यज वै ।।५४।।
अर्पयामास पुत्रं तौ राजधर्माद्यधीतये ।
गृहधर्मोपदेशाय धर्मार्थकामलब्धये ।।५५।।
गुरुपुत्रावपि योग्यानुक्तान्धर्मान् यथायथम् ।
शिक्षयामासतुस्तान् स नोपाजग्राह चात्मनि ।।५६ ।।
यया द्वन्द्वानि जायन्ते न सा विद्या तु मुक्तये ।
मत्वैवं रिक्तसमये बालानाह्वय सदृशान् ।।५७।।
उपादिदेश मोक्षाख्यान् धर्मानासुरताऽतिगान् ।
स्वच्छात्मानश्च ते बाला सुमिष्टानिव मोक्षदान ।।५८।।
आत्मानन्दप्रदान् स्वच्छान् धर्मान् जगृहुरादरात् ।
तानाह भोः स्वच्छबाला विष्णुः सर्वत्र तिष्ठति ।।।५९।।
स्वच्छात्मसु च बालेषु विशेषेण च तिष्ठति ।
बालैरभ्यर्हितं सर्वं भक्त्याऽर्पयति केशवः ।।1.138.६०।।
अभ्यर्थितेषु सर्वेषु मोक्षोऽस्त्यभ्यर्थिताग्र्यगः ।
स एवाऽभ्यर्थनीयोऽत्राऽध्रुवमानुषजन्मना ।।६१।।
आत्माऽयं बहुवारं वै सुराऽसुरादियोनिषु ।
जातो जातः समायाति भोगविलासवर्त्मना ।।६२।।।
मोक्षपथेन नाऽऽयाति मोक्षः सर्वत्र दुर्लभः ।
सर्वत्राऽऽप्तं सुखमैन्द्रियकं स्वभावसारि तत् ।।६३।।
तत्र प्रयासे स्वायुर्वै वृथैव विगतं भवेत् ।
श्रीहरिपादपाद्मं तु कुशलक्षेमकारणम् ।।६४।।
यावद्देहो न नश्येत स्वं क्षेमं साधयेद्बुधः ।
पुंसश्चायुरब्जवर्षं कोटयब्दं लक्षवत्सरम् ।।६५।।
सहस्राब्दं शताब्दं वा विंशत्यब्दमथापि वा ।
तत्रार्धं निद्रया नीतं दशांशं बालखेलने ।।६६।।
दशांशं विद्यया नीतं दशांशं वृद्धताहृतम् ।
दशांशश्चावशिष्येत विषये वा धनार्जने ।।६७।।
तस्य व्ययो भवेच्चेद्भो कदाऽऽत्मार्थं कृतं भवेत् ।
मोक्षार्थं न कृतं किञ्चित्तदा सर्वं कृतं नहि ।।६८।।
मोक्षार्थं चेत्कृतं किंचित्तदा सर्व कृतं भवेत् ।
विचार्यैवं सदा बालाः कर्तव्यं मोक्षसाधनम् ।।६९।।
साधनीयः स्वयं स्वामी हारे सर्वान्तरस्थितः ।
स्त्रीस्नेहः पुत्रकृत्स्नेहः सुहृत्स्नेहः कुटुम्बिनाम् ।।1.138.७०।।
भ्रातृस्वसृदुहितॄणां स्नेहो निगडबन्धनम् ।
औपस्थ्यजैह्व्यविषयान् बहुमत्वाऽत्र सज्जते ।।७१।।
दुःखे कुटुम्बपुष्टौ च क्लिष्टे च विषयार्जने ।
तापत्रयेणाऽऽर्दितोऽपि यत्नं नैव जहाति वै ।।७२।।
द्रव्यचित्तो द्रव्यहर्ताऽशान्तकामो विनश्यति ।
ज्ञाताऽपि नैव कैवल्यं विन्दते विशति मृतिम् ।।७३।।
कामनानिगडप्राप्तः क्रीडामृगो न मुच्यते ।
तस्माद् बाला मृषा त्यक्त्वा हरिं भजत भावतः ।।७४।।
द्रागेव हृष्यति देवो ददात्यानन्दमात्मजम् ।
स्थूलसूक्ष्मप्रभूतेष्विन्द्रियप्राणान्तरेषु च ।।७९।।
विकृताऽविकृताऽवस्थमायायामपि माधवः ।
एक एव हि चान्विष्टो व्यतिरिक्तोऽपि चैव सः ।। ७६।।
दृश्यात्मा च प्रद्रष्टात्मा व्याप्यव्यापक एव सः ।
आनन्दपूर्णचरणबाहूदरमुखादिकः ।।७७।।
सुराऽसुरादिसर्वात्मा हृदि तिष्ठति केशवः ।
ऋतं सत्यं हितं कार्यमिति वक्ति हृदि प्रभुः ।।७८।।
मृषा मिथ्या हतं त्याज्यमिति वक्ति स एव सः ।
असत्यर्थे नेति वक्ति सत्येर्थे वक्ति ओ हि सः ।।७९।।
आसुरं भावमुत्सृज्य येन तुष्यति माधवः ।
तेन सौहृदभावेन वर्तध्वं भजताऽच्युतम् ।।1.138.८० ।।
धर्मादयो हरिरेव यमाश्च नियमा हरिः ।
साधनानि हरिरेव विद्याः सर्वाः कला हरिः ।।८ १ ।।
यावत्कृत्यफलं विष्णौ सर्वात्मार्पणमुच्यते ।
हरौ हरेर्दासदासीभक्तेषु विमला मतिः ।।।८२।।
तेषां पादरजःस्नानं सारं मोक्षप्रदं महत् ।
मह्यं नारददेवेन गर्भेऽध्यापितमेव यत् ।।८३।।
हरिस्तत्साधवः सेव्यास्तदन्यज्जन्मदं यतः ।
मायादमभिमानं वे हरेः सन्तस्तु मुक्तिदाः ।।८४।।
श्रुत्वैतद्दैत्यपुत्रास्तं पप्रच्छुर्नारदः कदा ।
आलम्ब्य समये गर्भेऽकरोद् बोधमसंभवम् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिरण्यकशिपुकारितप्रह्लादमारणोपायनैष्फल्यगुरुकृतोपदेश-
प्रहादकृतदैत्यबालकोपदेशनिरूपणनाम्नाऽष्टत्रिंशदधिकशततमोऽध्यायः ।। १ ३८।।