← अध्यायः १३८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३९
[[लेखकः :|]]
अध्यायः १४० →

श्री नारायण उवाच-
प्रह्लादः प्राह तान्दैत्यार्भकान् ज्ञानानुरागिणः ।
मन्दराद्रौ मे पितरि तपति धूम्र उत्थिते ।। १ ।।
वल्मीकवंशकाष्ठादिच्छन्ने दैत्या निराशकाः ।
मृतौ दैत्यप्रमूर्धन्य इति मत्वा च दुःखिताः ।। २ ।।
तदा तान्निर्बलान् ज्ञात्वा चक्रुर्युद्धमतिं सुराः ।
हता दैत्याः सुरसैन्यैर्दुद्रुवुः सर्वतोदिशम् ।। ३ ।।
स्त्रीपुत्रदुहितृस्वसृपितृकुटुम्बजीविनः ।
धनधान्यपरिच्छदान् परित्यज्य च दुद्रुवुः ।। ४ ।।
देवाः सर्वबलोपेताः व्यलुम्पन् दैत्यसंग्रहान् ।
राजप्रासादमाच्छिद्य कल्याणीं मम मातरम् ।। ५ ।।
इन्द्रो नीत्वा यदा याति स्वर्गं तावच्च नारदः ।
मार्गे एव मिलितस्तं प्राह क्व नयसि द्रुतम् ।। ६ ।।
सतीं नेतुमयोग्यस्त्वं मुञ्चैनां वै निरागसम् ।
इन्द्रः प्राह तदाऽस्यास्तु गर्भे दैत्यस्य बालकः ।। ७ ।।
अप्रसह्योऽस्ति तस्माद्वै यावत्प्रसव रक्षय ।
कृतार्थेन परित्याज्या नान्यन्मेऽस्ति प्रयोजनम् ।। ८ ।।
नारदः प्राह चेन्द्राय गर्भो महान् स वैष्णवः ।
देवविष्णुगवां भक्तो विप्रसात्त्वतसेवकः ।। ९ ।।
यद्भयं तेऽस्ति तन्नैव शंकनीयं परित्यज ।
नारदोक्तं तदा हीन्द्रः स्वीकृत्यैनां विहाय च ।। 1.139.१० ।।
नमस्कृत्य गतः स्वर्गं नारदोऽपि महान्प्रभुः ।
मातरं मे सह नीत्वा जगाम स्वाश्रमं प्रति ।। ११ ।।
आश्वासनेन सम्बोध्य यावत्तपसस्ते पतिः ।
आगच्छेत् तावदत्रैव सुखं वत्से समुष्यताम् ।। १ २।।
इत्याश्रयं शुभं लब्ध्वा सत्यवात्सीच्च निर्भया ।
नित्यं परमया भक्त्या ऋषिं पर्यचरन्मुदा ।। १३।।
ऋषिः सकरुणस्तस्यै प्रादात् ज्ञानं तु मोक्षदम् ।
तत्सर्वं तु मया गर्भगतेनाऽऽसादितं स्थिरम् ।। १४।।
तन्मातुर्मे लयं यातं ममैव दृढतां गतम् ।
दृढसंस्कारकं सर्वं स्मरामि च यथोदितम् ।। १५।।
ज्ञानं रोचयमानानां बालानां भवतां मुदा ।
श्रेयस्करं परं नोऽस्ति श्रद्धाग्राह्यं हि तद्यतः ।। १६।।
वच्मि किञ्चिच्च तज्ज्ञानं सारमाकृष्य सर्वतः ।
आदर्शस्वच्छहृदये द्राग्लग्नं मोक्षदं भवेत् ।। १७।।
स्त्रीबालानां कृते येन लाभः सारल्यतो भवेत् ।
तद्यथावन्मनो दत्वा श्रोतव्यं सारमात्मनः ।। १८।।
पूर्वकर्मानुसारेण तेजस्व्यात्माऽतिसूक्ष्मकः ।
पितुर्धातौ विशत्येव वीर्य गर्भे निषिच्यते ।। १ ९।।
वीर्यं तद्भौतिकं वस्तु जीवः सच्चित्सुखात्मकः ।
अणुः प्रकाशो नित्यश्च ज्ञाता ज्ञानघनात्मकः ।।।1.139.२० ।।
जीवात्मनाऽन्वितं वीर्यं रजोयुक्तं भवत्यथ ।
रजोवीर्यात्मभिः सर्वा सूष्टिर्भवति चेतना ।।२ १ ।।
व्यात्मकोऽयं भवेद् देहः पुरुषः प्रमदाऽथवा ।
नपुंसको वा जायेत षट्कोशात्मात्रिधाऽपि वै ।।२२।।
पितृतः स्नाय्वस्थिमज्जा मांसरोमाऽस्रजः स्त्रियाः ।
षट्कोशास्ते शरीरस्थाः षट्स्वात्मा संप्रतिष्ठति ।।२३।।
स्थूले बालशरीरे वै पृथ्व्यप्तेजोऽनिलाऽम्बरम् ।
भूतपंचकमस्त्येव तत्र विषयपंचकम् ।।२४।।
स्थूलं गन्धरसरूपस्पर्शशब्दात्मकं तथा ।
घ्राणजिह्वानयनत्वक्श्रोत्रग्राह्यं क्रमाद्धि तत् ।।२५।।
वाग्धस्तपादपायूपस्थेन्द्रियाणि पराणि च ।
वाण्यादानविहरणमलमूत्रविसर्जनम् ।
कार्यं क्रमाद्धि बोधव्यं मनश्चित्तमहंमतिः ।।२६।।
अन्तःकरणमित्युक्तं तत्परं प्रकृतिर्मता ।
सत्त्वरजस्तमोयुक्ता समावस्था हि कारणम् ।
विषमावस्थिका सैव संसारस्तत्त्वविग्रहः ।।२७।।
मायायास्तु विकारा ये नाशवन्तस्तु ते मताः ।
आत्माऽस्त्यमायिकः शुद्धो नाशो नास्य कदाचन ।।२८।।
देहस्तु जायते पश्चाद् वर्धते बहुभोजनैः ।
विपरिणमते चैव क्षीयते नश्यते मृषा ।।२९।।
आत्मा च तत्र सर्वत्र वर्ततेऽस्ति ह्यतः स सन् ।
देहादि जडमित्येव चात्मा चेतन एव हि ।।1.139.३०।।
देहादि दुःखरूपं वै ह्यात्माऽऽनन्दमयः सदा ।
सच्चिदानन्द इत्युक्तो न दैत्यो न च दानवः ।।३ १।।
न सुरो नाऽसुरश्चात्मा न नारी न पुमान् हि सः ।
नपुंसको न रागी न न द्वेषी शुद्ध एव सः ।।३२।।
अज्ञस्तु बाधहीनो वै क्वचित्सात्त्विकभावनः ।
क्वचित्तु राजसोभावः क्वचित्तामसभावनः ।।३ ३।।
सत्त्वं सुखकरं मन्ये रजो रागकरं भवेत् ।
तमः पीडाकरं प्रोक्तं तस्मात् सत्त्वगुणं भजेत् ।।३४।।
सत्त्वमप्यात्मनो लाभकरं हितदमिष्यते ।
यद्यहितं मोक्षदं न तदा तदपि त्यज्यते ।।।३५।।।
स्वात्मन्यवस्थिते नारायणे या सात्त्विकी मतिः ।
सा वै सदा भवेल्लाभकरी मोक्षप्रदापि च ।।३६।।।
जाग्रत्स्वप्नं सुषुप्तिश्च देहादौ नात्मनि क्वचित् ।
स्थौल्यं सौक्ष्म्यं कारणत्वं देहादौ नात्मनि क्वचित्। ।।।३७।।
पापं पुण्यं चोभयं च जन्मपुष्टिर्मृतिस्तथा ।
देवदैत्यमानवत्वं देहादौ नात्मनि क्वचित् ।।३८।।
न गृहं गृहमित्युक्तं शरीरं गृहमुच्यते ।
क्षणभंगुरकं तच्च तेन मोक्षं प्रसाधयेत् ।।३९।।
आत्मा ह्यसंगः सर्वत्र जनसंगी भवेद्यदि ।
शुद्धे संगः कुलजातेरभिमानकरो भवेत् ।।1.139.४० ।।
तेन द्वेषो भवेत् तत्तद्विपरीते ऋतार्थके ।
अहं दैत्य इत्यहंकारेण चात्मा यदि वृतः ।।४१।।
तदा द्वेषो भवेद्देवे नारायणे तु सर्वथा ।
पतनं मुक्तिमार्गाच्च द्वेषान्नारायणे तथा ।।४२।।
तस्माद् बाला वयं शुद्धा यावन्न बुद्धिभेदकाः ।
शब्दाः पक्षानुगा लब्धास्तावन्मोक्षं प्रसाधयेत् ।।४३।।
चतुर्विशतितत्त्वेषु पंचविंशं तु मार्गयेत् ।
स्वयं स्वं मार्गयित्वैव षड्विंशे तं समर्पयेत् ।।४४।।
तावत्पर्यन्तमेवाऽयं संसारो वासनात्मकः ।
आत्मतदात्मनोर्यावत् संविवेकोऽत्र नो कृतः ।।४५।।
शान्तं घोरं च मूढं च तत्त्वजालं विबुध्य च ।
तत्परं स्वं परिज्ञाय परात्परं समाश्रयेत् ।।४६।।
न माता न पिता पुत्रो भगिनी बान्धवास्तथा ।
परलोके सहायाः स्युः हरिः साहाय्यदो भवेत् ।।४७।।
स च सर्वत्र भूतेषु वर्तमानोऽपि देहिना ।
विना साधनसम्पत्त्या नोपलभ्यत एव सः ।।४८।।
प्रभुप्राप्तेः साधनानि गुरोः शुश्रूषणं तथा ।
प्रेमभक्तिः सदा सेवा सर्वलब्धार्पणं तथा ।।४९।।
साधुसाध्वीप्रसंगश्च विष्णोराराधनं परम् ।
तत्कथाश्रवणं तस्य कीर्तनं गुणवर्णनम् ।।1.139.५० ।।
तन्मूर्तेर्ध्यानमत्यर्थं दर्शनं स्मरणादिकम् ।
सर्वभूतेषु तद्भानं भक्तानां तत्समार्हणम् ।।५१।।
सर्वं समर्प्यते तत्र रतिः सर्वापि तत्र च ।
क्रियाः सर्वाश्च तन्मय्यस्ततोऽन्यन्नावबुध्यते ।।५२।।
ध्याने वा धारणायां वा समाधौ चापि तन्मयः ।
जाग्रति वा तथा स्वप्ने सुषुप्तावपि तन्मयः ।।५३।।।
प्रवृत्तौ वा निवृत्तौ वा सर्वावस्थासु तन्मयः ।
हसनं रोदनं गानं नर्तनं क्रन्दनं स्वपिः ।।५४।।
छिक्कनं वर्तनं पानं भोजनं रमणं गतिः ।
सदनं मार्गणं यद्वा दर्शनं स्पर्शनं श्रुतिः ।।५५।।
क्षुवनं चिन्तनं निर्णायनमध्यासनं तथा ।
मननं तन्मयं हर्षोत्पुलकाश्रुसगद्गदम् ।।।५६।।
भवेत्तदा हरिश्चात्र भक्तियोगेन दृश्यते ।
तस्य कथाश्रवं कृत्वा मननं कार्यमेव यत्। ।।५७।।
तस्य मूर्तेश्चिन्तनेन कल्मषं क्षालितं भवेत् ।
निर्मलात्मा तद्वा स्वस्मिन्नन्यत्रापि च सर्वथा ।।५८।।
नारायणं प्रपश्येत् संभजध्वं वै ततोच्युतम् ।
प्राज्ञेनाऽऽप्यं ध्रुवं तत्त्वं त्याज्यमध्रुवमेव यत् ।।५९।।
ध्रुवेण चात्मना प्राप्तव्यो ध्रुवो हरिरेव वै ।
स वै सर्वत्र संपोष्टा सुखदो मोक्षदस्तथा ।।1.139.६०।।
सुखं सातिशयं त्याज्यं क्षयिष्णु त्याज्यमेव च ।
अविशुद्धं सदा त्याज्यं ग्राह्यं तद्दोषवर्जितम् ।।६१।।
तत्तु नारायणादेव नाऽन्यस्मान्मिलति क्वचित् ।
तस्मान्नारायणो ध्येयः स्वात्मन्याराध्य एव सः ।।।६२।।
दृष्टानुश्रवदोषाप्तं सर्वं मायामयं जगत् ।
तच्छून्यं सुखसंस्थानं नारायणो भवत्यतः ।।६३।।
तद्भक्त्या शाश्वतानन्दः प्राप्तव्योऽस्माभिरर्भकाः ।
अशाश्वतं सुखं यत्र पुत्रदारगृहादिषु ।।६४।।
धने राज्ये तथाऽमात्ये गजाश्वेषु जनादिषु ।
प्रासादे वा सुहृद्वर्गे तुच्छे शाश्वतिकेषु यत् ।।६५।।
क्षण दृश्येत सुभगं सह देहेन नश्वरम् ।
अनर्थदं क्षणादर्थाभासं दुःखातिकृत्तथा ।।६६।।
को वाऽस्त्यत्राऽऽत्मनः स्वार्थः शाश्वतस्तन्निरूप्यताम् ।
देहे दैहिकसंघाते वस्तुन्यपि च यत्प्रियम् । ।६७।।
तत्तु विर्ष्णोर्निवासाद्यत् हरिः सर्वप्रियात्मकः ।
यत्र क्वापि गतो जीवो दैत्यो यक्षोऽथवाऽसुरः ।।६८।।
सुरो वा मानवो वापि गन्धर्वो वापि राक्षसः ।
भजन्नारायणं देवं स्वस्तिमान् स्यान्न तदृते ।।६९।।
मुकुन्दप्रीणने नैव व्रतदानतपःक्रियाः ।
बहुज्ञतावयोरूपेज्याशौचातिकुलार्थिताः ।।1.139.७०।।
कारणं निर्मला भक्तिर्भावनार्द्रात्मनि प्रभा ।
एवंविधां परां भक्तिं हरौ कुर्वन्तु बालकाः ।।७१।।
मया सदा कृता भक्त्या यया पश्यामि केशवम् ।
ऋषयः पितरो देवा मुनयो मानवास्तथा ।।७२।।
दानवा राक्षसा दैत्या यक्षाः किंपुरुषाश्च ये ।
किन्नराश्चैव गान्धर्वाश्चारणाः सिद्धपूरुषाः ।।७३।।
विद्याधराः पिशाचा वा भूतप्रेताश्च येऽपरे ।
साध्या विश्वाश्च कूष्माण्डा वैनायकाश्च भैरवाः ।।७४।।
वेतालाश्च गणाश्चैव याम्या नागाः सरीसृपाः ।
खगा मृगा जलवासा भूवासाः पवनाश्रयाः ।।७५।।
अन्तरीक्षगता ये च ग्रहाः स्थावरजङ्गमाः ।
बाला वृद्धाः स्त्रियः शूद्राः संकराः पापयोनयः ।।७६।।
हित्वा पापं गता मुक्तिं श्रीमन्नारायणाश्रयात् ।
तस्मादस्माभिरप्यत्र दुर्लभे नरजन्मनि ।।७७।।
भजनीयो हरिः साक्षात् तदन्यत्तु विडम्बनम् ।
इत्यादेशो मया गर्भगतेनाऽऽप्तस्तु नारदात् ।।७८।।
नारायण हरे कृष्ण श्रीपते कमलापते ।
पार्वतीशेश मुक्तेश प्रभेशेश च ते नमः ।।७९।।
एवं भजँश्च वर्तेऽहं यूयं कुरुत तत्तथा ।
श्रुत्वैवं बालकाः सर्वे जगृहुस्तद्यथातथम् ।
शालायां ते जगृहुर्न गुरुशिक्षितमण्वपि ।।1.139.८०।।
तदाचार्यसुतः खिन्नो भयभीतश्च भूभृते ।
निवेदयामास सर्वं बालास्तु कुपथंगताः ।
श्रुत्वा स्वपुत्रकर्तव्यमतिक्रोधेन कम्पितः ।।८ १।।
पुत्रस्य निधनं कर्तुं पिता दैत्यो मनो दधे ।
प्रह्लादं च समाहूय वाचा परुषया क्षिपन् ।।८२।।
पापेन चक्षुषा पश्यन् तिरश्चीनेन रोषतः ।
प्राह शान्तं कुलोद्धारयोग्यं भागवतं सुतम् ।।८३।।
रे बुद्ध्याऽधम मे विद्याभेदकाऽन्यकृताश्रय ।
मन्यसे न स्वयं शिक्षामन्याँश्च नयसेऽपथम् ।।८४।।
अभीत इव लोकानां शासितुः शासनं मम ।
न गणयसि दुष्टात्मन् प्रेषयिष्ये यमालयम् ।।८५।।
चतुर्दशानां लोकानां राज्ञोऽनादृत्य मे वचः ।
बलं कस्य समाश्रित्य स्तब्धो भवसि रेऽधम ।।८६।।
प्रह्लादः प्राह तच्छ्रुत्वा पितस्ते चास्ति यद्बलम् ।
बलं तस्यापि मे चास्ति यद्बलात् बलवज्जगत् ।।८७।।
व्रह्मरुद्रादयः सर्वे यत्सहौजोबलादिभिः ।
राजाधिराजा राजन्ते तद्बलं चावयोः सदा ।।८८।।
द्वेषभावं परित्यज्य पितस्त्वं धत्स्व मानसे ।
प्रह्वीभावेन तद्ध्यानं मनुते स समर्हणम् ।।८९।।
तावताऽप्युद्धरेदात्मा नान्यथा तु कदाचन ।
दिग्जेतारोऽपि मोहस्य क्रोधस्य क्षुद्रवेगिनः ।।1.139.९०।।
आपन्ना वशमेवेति मा याहि तद्वशं पितः ।
नैवमात्मा पातितव्यस्त्रिलोकेशेन भूभृता ।।९१।।
भक्त्या त्वारोहयितव्यो हरेर्धाम परं पदम् ।
कथं पापं चार्जयसे सर्वनाशकरं पितः ।।९२।।
श्रुत्वैतत्स्वसुतोक्तं स हिरण्यकशिपुस्तदा ।
मुमूर्षुरसहमानोऽविषह्यवेदनानलम् ।।९३।।
प्राह पुत्रं तव मृत्युर्व्यक्तं चात्र समागतः ।
अस्थाने कत्थसे दुष्ट क्वास्ति ते परमेश्वरः ।।९४।।
नान्यो मदन्य ईशोऽस्ति चेदस्ति त्वां स रक्षयेत् ।
सर्वत्राऽस्ति यदि चासौ यदि सर्वगतो भवेत् ।।९५।।
स्तम्भे दर्शय तं विष्णुमन्यथा वधमर्हसि ।
इत्युक्त्वा खड्गमादाय सहसा दितिजेश्वरः ।।९६।।
प्रचक्रमे सुतं हन्तुं तावत् स्तम्भो द्विधाऽभवत् ।
जातो भयंकरः शब्दः स्तंभाद्व्याप्तो दिगम्बरम् ।।९७।।
संवर्तनाशसंरावैः खमिव स्फुटितान्तरम् ।
तेन शब्देन महता दैत्यश्रोत्रविघातिना ।।९८।।
सर्वे निपातिता भूमौ दैत्यास्तु मेनिरे तदा ।
जगत्त्रयं विनष्टं वा प्रलयश्चागतोऽस्ति नः ।।९९।।
तावत् स्तंभे महातेजा निष्क्रान्तो वै महागिरिः ।
नृसिंहवपुरास्थाय चकार घोरनिःस्वनान् ।। 1.139.१०० ।।
अनेककोटिसूर्याग्नितेजसा प्रज्वलन् रुषा ।
मुखे पञ्चाननप्रख्यः शरीरे मानुषाकृतिः ।। १० १।।
दंष्ट्राकरालवदनः स्फुरज्जिह्वाग्रदैर्घ्यकः ।
ज्वालावलितकेशान्तस्तप्तालातेक्षणो विभुः ।। १० २।।
दिव्यमालाम्बरधरो दिव्याभरणभूषितः ।
तस्थौ नृकेसरी तत्र संहर्तुं दैत्यदानवान् ।। १ ०३।।
दृष्ट्वाऽदृष्टपूर्वरूपं विह्वलांगो महासुरः ।
हिरण्यकशिपुर्दैत्यः पपाताऽन्ये च मूर्छिताः ।। १ ०४।।
प्रह्लादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ।
जयशब्देन देवेशं नमश्चक्रे जनार्दनम् ।। १ ०५।।
नारसिंहे तदा भक्तो भुवनानि ददर्श ह ।
शृणु लक्ष्मि! प्रवक्ष्यामि यथावद्दर्शितं तु यत् ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गर्भस्थप्रह्लादस्य नारदोपदेशग्रहणसमयहिरण्यकशिपु-
विवादबालोपदेशखड्गघातनृसिंहप्रादुर्भावनिरूपणनामा एकोनचत्वारिंशदधिकशततमोऽध्यायः ।। १३९।।