← अध्यायः १३९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४०
[[लेखकः :|]]
अध्यायः १४१ →

श्रीनारायण उवाच-
प्रह्लादोऽन्ये च दैतेया निश्चिक्युर्नैव वस्तु यत् ।
कुतः कस्मादयं शब्दो लोकस्फोटनकृन्महान् ।। १ ।।
दृश्यते शब्दमूलं न नाकृतिर्नाभिभावकम् ।
निशम्याऽपूर्वनिर्ह्रादं सुरभिन्ना वितत्रसुः ।। २ ।।
सत्यं प्रकुर्वन् प्रह्लादाभिहितं ब्रह्मणोदितम् ।
वरं चायं हरिः कृष्णो नृहरिः समजायत ।। ३ ।।
मूर्तेर्द्राक्सुमहत्तेज्ञोऽव्याप्नोदाब्रह्मलोकगम् ।
शनैः शनैश्च तत्तेजोऽन्तःसभायां व्यलीयत ।। ४ ।।
तावत्स्तंभान्तरे सत्त्वं महाक्रूरं व्यलोकि तत् ।
नाऽयं मृगो न मनुषः किमेतन्नृमृगेन्द्रवत् ।। ५ ।।
यावद्दैत्याश्च दैत्येशो व्यक्तं पश्यति नृहरिम् ।
भयानकं ललज्जिह्वं स्फारलोहितलोचनम् ।। ६ ।।
सूर्यवच्चाकचक्यास्यं हरीवज्जृम्भिताननम् ।
महातेजःस्फुरत्स्वर्णविद्युद्वल्लीभकेसरम् ।। ७ ।।
करालदंष्ट्रं भ्रूकुटीचण्डकोपाऽनलान्वितम् ।
स्तब्धोर्ध्वकर्णं व्यात्ताऽऽनननासं च कलासहम् ।। ८ ।।
चन्द्रांशुवालं महाखङ्गातितीक्ष्णनखायुधम् ।
तावत्तद्विवृधे सत्त्वं महाकायं महाबलम् ।। ९ ।।
दिव्यं यन्मन्दरसमं प्रासादस्तु व्यलीयत ।
दिव्ये नारायणे सिंहे नरेऽपूर्वकृताकृतौ ।। 1.140.१ ०।।
ददर्श तस्य गात्रेषु प्रह्लादो भुवनानि वै ।
लोकान् समुद्रान् सद्वीपान् सुरगन्धर्वमानुषान् ।। ११ ।।
अण्डजानि सहस्तानि सटाग्रे स ददर्श वै ।
ददर्श नेत्रयोस्तस्य सूर्यचन्द्रादिकान् गृहान् ।। १२।।
कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा ।
ललाटे ब्रह्मरुद्रौ च नभो वायुं च तन्नसि ।। १३।।
इन्द्राग्नी तस्य वक्त्रान्ते जिह्वायां च सरस्वतीम् ।
दंष्ट्रासु सिंहशार्दूलशरभाँश्च महोरगान् ।।१४।।
कण्ठे ददर्श मेर्वद्रिं स्कन्धे हिमाचलादिकान् ।
देवतिर्यङ्मनुष्याँश्च बाहुष्वपि परात्मनः ।। १५।।
नाभौ चाऽस्याऽन्तरीक्षं च पादयोः पृथिवीं तथा ।
रोमस्वस्यौषधीन् सर्वान्पादपान्नखपंक्तिषु ।। १६।।
निःश्वासेऽस्य चतुर्वेदान् सांगोपागान्ददर्श सः ।
आदित्याँश्च वसून् रुद्रान् विश्वेदेवान्मरुद्रणान् ।। १७।।
अप्सरसश्च गन्धर्वान् विद्याध्रोरगराक्षसान् ।
एवमापाललोकान्सोपस्करप्रजान्वितान् ।। १८।।
ददर्शांगेषु प्रह्लादस्ततः सौम्यं ददर्श तम् ।
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ।। १९।।
शंखचक्रगदाखड्गशार्ङ्गादिहेतिभिर्युतम् ।
सर्वोपनिषदामर्थं दृष्ट्वा ननाम दंडवत् ।।1.140.२० ।।
हर्षाश्रुजलसिक्तांगो ध्यायन्पार्श्वे ह्युपस्थितः ।
तावद्धिरण्यकशिपुः क्रोधान्मृत्युवशे स्थितः ।।।२ १।।
किंस्विदयं नु हन्ता मे हन्मि तं पुरतो जये ।
योद्धुं खड्गं समुद्यम्य नृसिंहं तमथाऽद्रवत् ।।२२।।
देवाश्च मुनयः सर्वे प्राणिनो ब्रह्मसृष्टिजाः ।
आजग्मुः श्रीहरेस्तस्य युद्धस्य दर्शनाय च ।।।२३।।
अथ दैत्यगणाः सर्वे सज्जशस्त्रा महाबलाः ।
जघ्नुर्हरिं महावेगाः पेतुर्वह्नौ पतंगवत् ।।२४।।
नृहरिणा सटोद्भूतवह्निना दानवा भृशम् ।
निर्भस्मिताः क्षणात्सर्वे सहस्राण्यायुधानि च ।।२५।।
अन्ये च राक्षसा दैत्या दानवा ह्यसुरास्तथा ।
ये चापतन् रणं कर्तुं तान् द्वेधाऽपातयद्धरिः ।।।२६।।
काँश्चिद् दंष्ट्राभिरुग्राभिः काँश्चिन्नखैः सुतीक्ष्णकैः ।
काँश्चिच्छस्त्रैर्महाघोरैर्नाशयामास केशवः ।।९७।।
प्रह्लादं सानुगं हित्वा भस्मिते रक्षसां बले ।
नाशिते दैत्यसैन्ये च कालानलशिखोपमः ।।२८।।
हिरण्यकशिपुर्यावदुद्यम्याऽसिं तु नृहरेः ।
वधाय कृतयत्नोऽभूत् तावज्जग्राह तं प्रभुः ।।२९।।
खड्गमाच्छिद्य देवेशो मोचयामास तं रिपुम् ।
गदामादाय दैत्येशश्चकार मण्डलानि च ।।1.140.३ ० ।।
गदापि पातिता यावत् चर्मखड्गान्तरं महत् ।
गृहीत्वाऽभ्यद्रवद् दैत्यस्तं हरिर्मण्डलेन वै ।।३ १ ।।
निनाय च गृहद्वारे मध्ये चोत्प्लुत्य धर्षितम् ।
बहुबलं प्रकुर्वन्तं क्षिपन्तं पत्करादिकान् ।।।३.।।
पातयामास देवेशस्तदा चैकेन पाणिना ।
गृहीत्वा पतितं भूमौ मुहुः सम्पद्य चाऽसुरम् ।।३ २।।
पादघातैश्चार्धमृत्यु कृत्वोत्संगे निधाय च ।
नखैर्विदारयामास तीक्ष्णैर्वज्रनिभैर्घनैः ।। ३४।।
विष्णुनिन्दाकृतं पापं तथा वैष्णववैरजम् ।
नृहरेः स्पर्शनादेव निर्भस्मितमभूत्तदा ।।३५।।
वक्षो दैत्येश्वरस्याऽसौ विददाराऽस्थिमण्डलम् ।
तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः ।।३६।।
आकृष्याऽऽन्त्राणि दीर्घाणि गले संसक्तवान् प्रभुः ।
स निर्मलात्मा दैत्येन्द्रः पश्यन् साक्षान्मुखं हरेः ।। ३७।।
हरिहस्ताऽऽगतमृत्युः कृतार्थो विजहावसून् ।
नाकाशे न क्षितौ मृत्युर्नान्तर्बहिर्न सृष्टिजैः ।।३८।।
न शुष्कैर्नाऽऽर्द्रतत्त्वैश्च सत्यं कर्तुं हरिः स्वयम् ।
असृष्टेः रूपमास्थाय धामाकाशं विधाय च ।।।३९।।
निधायाऽङ्के नखैः सायं मध्ये द्वारि जघान तम् ।
हरिर्जानाति यत्कर्तुं नान्यो जानाति तत्तथा ।।1.140.४० ।।
अथ दैत्येन्द्ररक्तेन किंशुकीभूतनृहरिम् ।
हन्तुमुदायुधा दैत्याः समन्तात् शस्त्रपाणयः ।।४१ ।।
अभ्यधावँस्तदा ताँश्चाऽहन् पार्ष्णिनखदोर्मुखैः ।
चक्रे च गर्जनां ब्रह्माण्डावृतीन् प्रविभिद्य या ।।४२।।।
अट्टहासान्विता व्याप्ता ब्रह्मलोके च धामसु ।
जलदाश्चापतन् व्योम्नो ग्रहाश्च कम्पिताः स्थलात् ।।४३।।
चुक्षुभुर्वारिनिधयो दिगिभाश्च विचुक्रुशुः ।
द्यौर्भ्रमिता विमानानि स्तब्धानि भूश्च कम्पिता ।।४४।।
उत्पेतुः भूभृतः शैलाः खं ककुभो न रेजिरे ।
दैत्यशून्ये च भक्ताढ्ये प्रासादे नृहरिं तदा ।।४५।।
प्रहर्षपूरिता देव्यो ववृषुः कुसुमानि वै ।
देवर्षिमुनयो दिव्यविमानस्थास्तदा हरिम् ।।४६ ।।
पश्यन्ति स्म च वादित्रान्दुन्दुभिप्रभृतीँस्तदा ।
वादयामासुराप्रेम्णाऽप्सरसो ननृतुस्तथा ।।४७।।
गन्धर्वा गायनं चक्रुर्जगुः स्वस्ति सुरस्त्रियः ।
ब्रह्माण्डवासिनस्तत्राऽऽगत्येडिरे च नृहरिम् ।।४८।।
ब्रह्मा रुद्रेन्द्रगिरीशपितृसिद्धार्षिचारणाः ।
प्रजापतयो मनवो विद्याधरमहोरगाः ।।४९।।
यक्षाः किन्नरवेतालाः गन्धर्वाऽप्सरसां गणाः ।
किम्पुरुषाः साध्यदेवा विश्वेदेवाश्च याज्ञिकाः ।।1.140.५० ।।
भूदेवाः पार्षदा नन्दसुनन्दकुमुदादयः ।
ईडिरे तं नरसिंहं महाभयकरदृशम् ।।५ १ ।।
नमोऽक्षरपररूपाक्षरान्तर्यामिणे च ते ।
नमो मुक्ताभिवन्द्याय नमो व्यूहात्मने च ते ।।५२।।
नमः प्रकृतिरूपाय प्रधानपुरुषाय ते ।
महाकालस्वरूपाय भूमरूपाय ते नमः ।।२३।।
अप्रतर्क्यस्वरूपायाऽनन्तरूपाय ते नमः ।
अभक्तानाशकर्त्रे ते भक्तरक्षणकारिणे ।।५४।।
वरदानानुरूपाय तथैव दैत्यघातिने ।
सर्वात्मने करालाय विकरालाय ते नमः ।।५५।।
यज्ञभागप्रदात्रे ते रक्षकाय नमोनमः ।
हृदि बोधाय देवानां त्रात्रे तस्मै नमोनमः ।।।५६।।
तपोमार्गप्रवृत्ताय ऋषिगम्याय ते नमः ।
श्राद्धतृप्तिप्रदायाऽत्र परत्रदायिने नमः ।।५७।।
योगगतिप्रसाराय सिद्धिस्मृद्धिगृहाय च ।
तपोबलप्रकृष्टाय धर्मात्मँस्ते नमोनमः ।।५८।।
स्तुतिस्तुत्याय विद्यायाः शुभाधिपतये नमः ।
रत्नप्रदात्रे न्यायाय नीतिधात्रे नमोनमः ।।५९।।
मनुत्वसंरक्षकाय प्रजापतित्वदायिने ।
नटनाट्यगायकानां क्रीडागीत्यात्मने नमः ।।1.140.६० ।।
वाहकत्वप्रदात्रे ते सपर्यादिप्रदायिने ।
विष्टिकार्यनियोक्त्रे ते जगदीशाय ते नमः ।।६१।।
वैष्णवानां रक्षकाय बहुरूपधराय ते ।
नारायणाय कृष्णाय श्रीहरये नमो नमः ।।।६२।।
नित्यं शान्तस्वरूपायेदानीं भयंकराय ते ।
अविस्मृतस्वरूपायाऽद्भुताय हरये नमः ।।६३।।
इत्याकाशात् तुष्टुवुस्तेऽन्तिकं केऽपि न चाययुः ।
उग्रमृत्योर्मुखे गन्तुं श्रीमृते कः पतेत् श्वसन् ।।६४।।
ते प्रसादयितुं भीता ज्वलितं विश्वतोमुखम् ।
मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् ।।६५।।
हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीम् ।
विष्णोर्नित्याऽनवद्यांगीं ध्यात्वा नारायणीं शुभाम् ।।६६।।
श्रीसूक्तं संजपन्तो वै नमश्चक्रुः परेश्वरीम् ।
चिन्त्यमाना तु सा देवी तत्रैवाऽऽविरभूत्तदा ।।६७।।
चतुर्भुजा विशालाक्षी सर्वभूषाद्यलंकृता ।
दुकूलशाटिकायुक्ता कौस्तुभस्रक्सुमंगला ।।६८।।
तां दृष्ट्वा देवदेवस्य पत्नीं मां जगतां ततः ।
ऊचुः प्रांजलयो देवाः प्रसन्नं श्रीहरिं कुरु ।।६९।।
इत्युक्ता सहसा लक्ष्मीः प्रियं दूरात्पतिं हरिम् ।
प्रणिपत्य नमस्कृत्य प्रसीदेति ह्युवाच तम् ।।1.140.७०।।
तथापि श्रीहरेस्तस्य क्रोधः शशाम नो मनाक् ।
अदृष्टाऽभूतपूर्वत्वात् सा नोपेयाय चान्तिकम् ।।७१।।
तदा ते प्रेषयामासुर्भक्तं ब्रह्ममयं शिशुम् ।
प्रह्लादं स जगामाऽशु पादयोः पतितस्तदा ।।।७२।।
ननाम दण्डवद्देवं प्रहसन् विधृतांजलिः ।
दृष्ट्वा तमर्भकं रक्ष्यं कृपालुः श्रीहरिस्तदा ।।७३।।
तमुत्थाप्याऽभयहस्तं तन्मूर्ध्न्यधान्मुहुर्मुहुः ।
आश्लिक्षद्धृदये कृत्वा ददौ स्वचरणौ हृदि ।।७४।।
तावच्छ्रीरपि देवेशं गत्वा नत्वा च संस्थिता ।
अंकमादाय तां देवीं समाश्लिष्य दयानिधिः ।।७५।।।
कृपासुधार्द्रदृष्ट्या वै निरैक्षत महाहरिः ।
ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा ।।७६।।
तद्यथादृष्टितुष्टानां सानन्दः संभ्रमोऽभवत् ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।।७७।।
ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम् ।
द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते ।।७८।।
अत्युग्रं ते नवं रूपं द्रष्टुमपि न शक्नुमः ।
कथंकारं समीपे ते स्थातु शक्नुम ईश्वराः ।।७९।।
अत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् ।
न शशाम च रौद्रं तद्रूपं प्रह्लाद ईश्वरम् ।।1.140.८० ।।
नृसिंहं हृद्ये ध्यात्वाऽस्तौषीद्धरिं समाहितः ।
नमो देवाधिदेवाय सत्त्वविलीनमूर्तये ।।८ १।।
ब्रह्मादयो बिभ्यति यद्रूपात् तद्रूपिणे नमः
घनाऽभिजनसौन्दर्यतपःश्रुतबलादिभिः ।।८२।।
स्मृद्धिवाक्पटुताभिश्चाऽतुष्यते ते नमोनमः ।
तवाऽङ्घ्रिविमुखो विप्रो यमैश्च नियमैर्युतः ।।८३।।
भक्तश्वादात् कनीयान्स भक्तहृष्टाय ते नमः ।
मानहीनाय दीनाय तुष्यते ते नमोनमः ।।८४।।
भक्तिमार्गाश्रितसौख्यकर्त्रे ते हरये नमः ।
रक्षाविभूतिसम्पत्सुसौख्यदात्रे पुनर्नमः ।।८५।।
ब्रह्मादयोऽपि देवाश्च शान्तदर्शनकांक्षिणः ।
स्तुवन्ति त्वां परात्मानं शान्तरूपं ततः कुरु ।।८६।।
नाऽहं बिभैमि देवेश क्रूरान्नृसिंहरूपणात् ।
बिभेमि कामरोषादेस्ततो रक्षां विधेहि मे ।।८७।।
असुराद्रक्षणां तत्तु देहस्य रक्षणं कृतम् ।
तद्वै मे रक्षणं नास्ति तस्मान्मद्रक्षणं कुरु ।।८८।।
क्लेशकर्मविपाकादेरजाया बन्धनात् खलु ।
रक्षणं कुरु विश्वेश तन्मतं रक्षणं भवेत् ।।८९।।
ईहाः पुत्रकलत्रादेर्धनैश्वर्यदिवस्पतेः ।
कदापि नैव पूर्यन्ते ताभ्यो मे रक्षणं कुरु ।।1.140.९० ।।
दैत्येन्द्रस्य मया दृष्टाः स्मृद्धयस्ता न रक्षिकाः ।
ऐश्वर्याणि मया दृष्टान्येतान्यवन्ति नैव हि ।।९१।।
सिद्धयश्चापि देवानां रक्षा कुर्वन्ति नैव च ।
भक्तानां त्वं रक्षणाय बहुरूपी भवस्यथ ।।९२।।
उद्धारयसि विश्वात्मन् तथोद्धारं च मे कुरु ।
राज्यं तु बन्धनं प्रोक्तं पापं पापतरं महत् ।।९३ ।।
यत् सतां सेवने विघ्नं मानसत्तादिदूषणैः ।
दीनत्वे तप आस्थाय वांच्छन्ति कामनामयान् ।।९४।।
भोगानासाद्य पश्चात् त्वां विस्मरन्तीति किल्बिषम् ।
ततो देवाधिदेवत्वं दारासत्ताधनादिषु ।।९५।।
मा योगं मे देहि नाथ देहि त्वच्चरणाम्बुजे ।
तव दासस्य दासानां मध्ये योगं प्रदेहि मे ।।९६।।
इमे दिवास्तव रूपं सौम्यं कांक्षन्ति दर्शने ।
तस्मात् सौम्यं सुखदं वै रूपं दर्शय माधव ।।९७।।
इत्यर्थितः स भगवान् तेजस्तदतिभीषणम् ।
रोषान्वितं तु संहृत्य बभूव सुखदर्शनः ।।९८।।
शरत्कोटीन्दुसंकाशः पुण्डरीकनिभेक्षणः ।
सुधामयसटापुंजविद्युत्कोटिनिभप्रभः ।।९९।।
सद्रत्नाढ्यकटककेयूरोर्मिकादिभूषितः ।
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ।। 1.140.१०० ।।
वरदाऽभयहस्ताभ्यामितराभ्यां सुशोभितः ।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।। १०१ ।।
कुण्डलहाररशनामणिस्वर्णविराजितः ।
सव्यांगस्थश्रिया युक्तोऽभवत्तदा नृकेसरी ।। १०२।।।
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः ।
आनन्दाश्रुजलैः सिक्त्वा नमश्चक्रुर्निरन्तरम् ।। १०३।।
अर्पयामासुरात्मेश दिव्यपुष्पादिपूजनम् ।
रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् ।। १०४।।
वस्त्रैराभरणैर्गन्धैः पुष्पैर्धूपैर्मनोरमैः ।
दिव्यैर्निवेदितैर्दीपैरर्चयित्वा जनार्दनम् ।। १ ०५।।
तुष्टुवुर्दिव्यसत्स्तोत्रैर्नमश्चक्रुर्मुहुर्मुहुः ।
पादयोः पतितान्सर्वान्दत्वेष्टाशीर्वचांसि सः ।। १०६।।
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् ।
वरार्थं प्रेरयामास प्रसन्नो भगवान्पुनः ।। १०७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नृसिंहस्पष्टदर्शनतत्तेजोव्यापनहिरण्यकशिपुविदारण-देवादिकृतस्तवनप्रह्लादकृतस्तुतिसौम्यदर्शन-
लक्ष्मीकृतस्तवनादिनिरूपणनामा चत्वारिंशदधिकशततमोध्यायः ।। १४०।।