← अध्यायः १४४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४५
[[लेखकः :|]]
अध्यायः १४६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! वामनोऽपि तीर्थानि व्यचरद्भुवि ।
ययौ सः प्रथमं हरिहरक्षेत्रं ततः पुरीम् ।। १ ।।
कपिलाश्रममासाद्य ब्रह्मपुत्रानद्ं ययौ ।
कामरूपस्य कामाक्षीं दृष्ट्वा पशुपतिं तथा ।। २ ।।
केदारेश्वरमासाद्य ययौ बदरिकाश्रमम् ।
हनुमत्तीर्थमासाद्य कैलासाद्रिमुपाययौ ।। ३ ।।
अगात्ततो हरिद्वारं कुरुक्षेत्रं ततः परम् ।
प्रययौ यामुनं वृदावनं गोकुलमित्यपि ।। ४ ।।
ततोऽयोध्यापुरीं गत्वा सरयूं च प्रयागकम् ।
गयां गोदावरीं गत्वा कावेरीं गतवाँस्ततः ।। ५ ।।
कांचीं गत्वा च कृष्णां च ताम्रपर्णीं कुमारिकाम् ।
सेतुबन्धं चापि जनार्दनं च मलयाचलम् ।। ६ ।।
अरुणाचलमासाद्य पद्माक्षेत्रं वराहकम् ।
भूतपुरीं ततः सिंहारण्यं च नर्मदां ततः ।। ७ ।।
तापीं सिद्धपदं पश्चात्पुष्कराख्यं सरस्ततः ।
सिन्धुं नारायणसरः सुवर्णद्वारिकां ततः ।। ८ ।।
समुद्रे गोमतीसंगे यावत् स्नाति तु वामनः ।
तावत्तत्र समायाताः स्नानार्थं मुनयोऽपि च ।। ९ ।।
गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः ।
जमदग्निर्वसिष्ठो नारदोऽपश्यन्परेश्वरम् ।। 1.145.१० ।।
वामनं लक्षणैर्ज्ञात्वा नेमुस्तं परमेश्वरम् ।
हरिः प्राह च तान्सर्वान् गच्छन्तु बलिखातकम् ।। १ १।।
ऋषयस्तत्र गच्छन्तु कारयन्तु महामखम् ।
अहं तत्राऽऽगमिष्यामि साधयिष्यामि तं बलिम् ।। १२।।
इत्युक्ताः ऋषयः सर्वे गतास्ते यज्ञमण्डपे ।
द्वादशाहो महायज्ञः प्रारब्धः सर्वदक्षिणः ।। १३।।
शुक्रेणाऽऽमन्त्रिताः सर्वे मुनयो यज्ञकर्मसु ।
पत्नीव्रतः समायातो ब्राह्मणो यज्ञकर्मणि ।। १४।।
ऋषयः पितरो देवा मुनयो यक्षराक्षसाः ।
दैत्याश्च दानवा नागाः सर्पा उरगजातयः ।। १५।।
भूताः प्रेताः पिशाचाश्च वैनायकाश्च किन्नराः ।
सूताश्च मागधाश्चैव बन्दिनश्चारणास्तथा ।। १६।।
गान्धर्वा नर्तकाश्चैव नटाश्चाटा बहिर्गृहाः ।
कूष्माण्डाश्चैव वेताला अशुद्धाः शुद्धजातयः ।। १७।।
द्यौर्ग्रहाः केतवश्चापि तत्त्वान्यपि च शक्तयः ।
सिद्धयो योगिनीचक्रं साध्व्यश्च साधवस्तथा ।। १८।।
ब्राह्मणाः क्षत्रिया वैश्यास्तथा सेवकजातयः ।
नद्यश्च पर्वताश्चापि क्षेत्रतीर्थानि सागराः ।। १९।।
सरांसि चाप्यरण्यानि चैतानि चाण्डजानि च ।
यानि कानि च दिव्यानि पुण्यरूपधराणि च ।।1.145.२०।।
चतुर्दशस्तरस्थानि बलिराज्ये स्थितानि च ।
तानि त्वाकारयामास बलिस्त्रैलोक्यराज्यकृत् ।।२ १।।
लक्षशः कोटिशस्तत्र पृथ्व्यां दिवि च पर्वते ।
समुद्रेऽरण्यदेशे च नूपुरेत्य समन्ततः ।।२२।।
सर्वेषां तु कृते राज्यसमाः सौधा विनिर्मिताः ।
अन्तरीक्षविमानानि नगर्यो जलवासिनाम् ।।२३ ।।
वायोः स्तरे च सौधानि मेघस्थभवनानि च ।
पर्वतेऽरण्यवृक्षादौ भूमौ भूम्यन्तरे तथा ।।२४।।।
यथा यथा च येषां वै वासे देहानुकूलता ।
तथा तथा च तेषां वै भवनान्यकरोन्नृपः ।।२५।।
विश्वकर्मा मयश्चाथ कारवः शिल्पिनस्तथा ।
चतुःषष्ठिकलाः सर्वाः शिल्पविद्याः सुमूर्तिकाः ।।२६।।
नगराणि तथा ग्रामा मूर्तिमन्त उपस्थिताः
कारणानि च कार्याणि ऋतवो मासवत्सराः ।।२७।।
अग्नयो मरुतः सर्वे दिक्पाला लोकपालकाः ।
मूर्तिमन्ति च तत्त्वानि भूतानि विषयास्तथा ।।।२८।।
ब्रह्मविष्णुमहेशाश्च पार्षदा दासकोटयः ।
वैष्णवाः शिवभक्ताश्च तथाऽन्ये दैवसात्त्वताः ।।।२९।।
यज्ञे त्वाकारितास्तत्र शकुनाऽशकुनानि च ।
कामदुघाश्च पशवः पक्षिणो गरुडादयः ।। 1.145.३०।।
अमृतानि च दुग्धानि विविधान्नानि सर्वशः ।
पेयान्यनेकजातीनि भक्ष्यभोजनपर्वताः ।।३ १।।
रसाश्च विविधास्तत्र मद्यपललमादकाः ।
रूक्षा आर्द्रास्तथा स्निग्धाः खेचरान्नानि भूरिशः ।।३२।।
निवाराश्च यवाश्चैव गोधूमचणकाऽक्षताः ।
तिला जवरिका माषा हवींष्यन्नानि भूरिशः ।। ३३।।
न दृष्टानि श्रुतान्येव चतुर्दशसु भूमिषु ।
यानि येषां सुभोज्यानि फलपत्रादिकानि च ।।३४।।
अब्धिजान्यग्निजान्यत्र सम्भारोत्तमजानि च ।
पात्रवस्त्रविभूषादियानवाहनपंक्तयः ।।३५।।
विद्युद्दीपाः कोटिशश्च जलयन्त्राण्यनेकशः ।
कूपा वाप्यो वस्त्रसौधा रसवत्यः सहस्रशः ।।३६।।
सूदाश्च याज्ञिकास्तत्र ऋत्विजा लक्षशः कृताः ।
जापकाः पूजकांस्तत्र गायका वैदिकास्तथा ।।३७।।
वृताश्च कोटिशः साध्या विश्वेदेवास्तथाऽपरे ।
विद्वांसो देवगुरवो दैत्यानां गुरवस्तथा ।।३८।।
यज्ञस्य विविधे कार्ये तथाऽङ्गे योजितास्तदा ।
देव्यो गङ्गादिसरितः शारदा च सरस्वती ।। ३९।।
सावित्र्याद्यास्तथा चान्या गीतकीर्तिप्रगल्भिकाः ।
ऋचो वेदाश्च शास्त्राणि मूर्तिमन्ति भवन्ति च ।।1.145.४० ।।
तत्र का न्यूनता वै स्याद् यत्र त्रैलोक्यपालकः ।
महाभागवतो राजा बलिर्वै यज्ञकारकः ।।४१ ।।
प्रवर्षन्तीच्छया यस्य सदा लोकाश्चतुर्दश ।
महायज्ञे तदाऽत्राऽभूत् सर्वं वै वामनं विना ।।४२।।।
कामो वसन्तो बाणाश्च रतिश्चापि समागताः ।
रागिण्यश्च तथा रागा ग्रामाश्च मूर्छना ययुः ।।४३।।
मन्वन्तराणि धर्मस्य वंशजाः सद्गुणादयः ।
वसवो निधयो रुद्रा दिशा आदित्यदेवताः ।।४४।।
चन्द्रमसश्च नक्षत्रा ग्रामाः खेटाश्च खर्वटाः ।
ओषध्यो जलजाश्चापि स्थलजा मूलजास्तथा ।।४५।।
अमृतवल्लिका नागवल्ल्यश्च जीववल्लिकाः ।
भूगोलज्ञाः खगोलज्ञा दैवज्ञा गणकास्तथा ।।४६।।
मुहूर्तानि तथा योगाः सर्वे ये ते समाययुः ।
मल्ला नटा बहुरूपा नाटकानि च खेलकाः ।।४७।।
प्रदर्शनानि दिव्यानि वह्निस्फोटानि भूरिशः ।
पशुयुद्धानि रम्याणि नरव्यायामकाणि च ।।४८।।
व्याख्यानानि कथकाश्च त्यागिसन्यासिसाधवः ।
ब्रह्मचारिजना बालखिल्यास्तथोर्ध्वशीलिनः ।।४९।।
यत्किंचिद्वै जगत्तत्त्वं सर्वं तत्र समागतम् ।
बलिना बहुमानेन स्वागतेनाऽऽदृतं जगत् ।।1.145.५०।।
सिंहारण्यं तदा सर्वं प्रजादेवमयं ह्यभूत् ।
अन्तरीक्षं जलं स्थानं प्राघूर्णिकसुपूरितम् ।।५ १ ।।
यथा वा नूतनं तत्र ब्रह्माण्डमिव दृश्यते ।
नेदृशस्तु समाजो वै भूतो भावी न वा पुनः ।।५२।।
यज्ञस्य मण्डपस्तत्र शतगव्यूतिमानतः ।
आ च स्वर्णद्वारिकात आ च सोमेश्वरावधि ।।५३।।
आ च मकरालयत आ च कुंकुमवापिकम् ।
भूमिस्तु मण्डपैः सा शोभते द्यौरिव नूतना ।।५४।।
यज्ञकुण्डो योजनं तु कमलाकारवत्कृतः ।
अरण्येभ्यः पिप्पलापामार्गोदुम्बरकिंशुकाः ।।।५५ ।।
होमकाष्ठानि चान्यानि समिधां पर्वताः कृताः ।
आज्यनारीकेलरंभाद्राक्षादिफलपर्वताः ।।५ ६ ।।
तिलशालियवधान्यनिवाराणां च पर्वताः ।
पुष्पपत्रमूलशाखामञ्जरीबीजपर्वताः ।।५७।।
शर्करा दुग्धपाकाश्च पायसान्नानि भूरिशः ।
हूयन्ते पुष्कलान्येव वेदघोषाश्च नाकगाः ।।५८।।
भोजनानि प्रभुज्यन्ते यज्ञशिष्टानि नित्यदा ।
मिष्टपानानि पीयन्ते यज्ञप्रासादिकानि वै ।।५९।।
ईश्वराणां च देवानामागमो गम इत्यपि ।
मण्डपे वर्तते तत्राऽव्यवच्छिन्नप्रवाहणः ।।1.145.६०।।
एकतश्च द्वितश्चापि त्रितश्चेति ऋषित्रयम् ।
तत्तद्देवादिमन्त्रैश्च नवमुत्पाद्यतेऽर्थकम् ।।६ १ ।।
अर्को द्वितीयरूपेण द्वितीयश्चन्द्रमास्तथा ।
प्रकाशेते सदा तत्र दिवारात्र्योर्न वै भिदा ।।६२।।
अव्यवच्छेद्यधाराभिर्घृतानामग्निसम्मुखैः ।
भुङक्ते हरिर्वामनोऽयं व्यापकः श्रीहरिः स्वयम् ।।६३।।
एवं सततमाग्नेयं कर्म सम्पद्यते शुभम् ।
किमु तत्र वर्णनीयं शेषोऽपि श्रममाप्तवान् ।।६४।।
श्रममापुर्दर्शका वै वर्णकानां तु का कथा ।
भगवद्भक्तियुक्तस्य सर्वं स्मृद्धं न संशयः ।।६५।।।
प्रभोर्भक्तेः प्रतापाद्वै त्वनन्ताः स्मृद्धयो बलेः ।
नित्यं होमस्य भोज्यस्य पानस्याऽर्थ्यर्पणस्य च ।।६६।।
दक्षिणायां सुवर्णस्याऽऽनन्त्यस्यान्तो न दापने ।
दीयतां दीयतां चेति भुज्यतां भुज्यतां तथा ।।६७।।
पीयतां पीयतां चेति नीयतां नीयतां तथा ।
स्वागतं स्वागतं वश्च पञ्चकं नात्र शाम्यति ।।६८।।
वेदघोषा गीतिघोषा नामवोषा हरेस्तथा ।
वाद्यघोषाः कीर्तिघोषाः पञ्चकं नात्र शाम्यति ।।६९।।
अतिहृष्टो बलिर्यज्ञे ददौ दानं परार्धकम् ।
सुवर्णानां हीरकाणां रूप्यकाणां च कोटिकाः ।।1.145.७०।।
गवां दानपरार्धाणि वस्त्रदानाऽर्बुदार्बुदम् ।
विभूषाणां रूप्यकाणां मुद्राणां त्वब्जकोटयः ।।७१ ।।
छत्राणां पादुकादीनां पात्राणां च परार्धकम् ।
यानानां वाहनानां च हस्तीनां वाजिनां तथा ।।७२।।
रथानां कन्यकानां च कोटिकोट्यर्बुदानि च ।
दानान्येवं ददौ साक्षाद् विष्णुः कृष्ण इवाऽपरः ।।७३।।
वसवो दानकार्येऽत्र मुख्याश्चैवाऽभवँस्तदा ।
लक्ष्मीः रमा महालक्ष्मीः मुख्याः स्वर्णादिदापने ।।७४।।
द्यौश्च पृथ्वी कृते मुख्ये रत्नभोज्यादिदापने ।
मेरुस्तत्र महामुख्यः पात्रपश्वादिदापने ।।७५।।
समुद्राश्च कुबेरश्च हिमाद्र्यादय इत्यपि ।
अरण्यानि विश्वकर्मा मयश्चान्ये दिवौकसः ।।७६।।
रत्नभूषाविभूत्यादियानवाहनदापने ।
मुख्याः कृताश्च ते सर्वे ददुः सर्वस्वमेव यत् ।।७७।।
उद्धोषोऽभूच्चतुर्दशलोकेषु सर्वतो दिशि ।
त्रिलोकेशो बलिर्यज्ञे ददौ दानानि कोटिशः ।।७८।।
स्वर्णपात्रेषु सर्वेभ्यो दीयते भोजनं बहु ।
अतिथिर्ब्राह्मणो विद्वान् सर्वस्वेनापि पूज्यते ।।७९।।
सर्वलोकनिवासिन्यः प्रजास्तत्राऽऽययुर्मखे ।
गच्छन्तु प्रतिगृह्णन्तु दानं भुञ्जन्तु भोजनम् ।।1.145.८० ।।
पश्यन्तु कीदृशो यज्ञो न भूतो न भविष्यति ।
सौराष्ट्रदेशे विख्यातो रैवताचलसन्निधौ ।।८ १।।
क्षेत्रं वस्त्रापथं ख्यातं तत्राऽयं वैष्णवो मखः ।
पश्चिमाद् दक्षिणे भागे बलेरस्ति महामखः ।।८२।।
इत्युद्धोषं परं श्रुत्वा वामनोऽपि महाप्रभुः ।
सर्वज्ञोऽप्यसर्वज्ञवत् एवं चेद्यामि लब्धये ।।८३।।
इति कुर्वन् चतुर्वेदी ब्राह्मणस्तीर्थयात्रया ।
रैवताद्रौ समायातो लोकैरज्ञातचेष्टितः ।।८४।।
महोदरो ह्रस्वभुजो ह्रस्वपादो महाशिराः ।
महाहनुः स्थूलकण्ठः स्थूलजंघोऽतिलालसः ।।८५।।
बद्धशिखो धृतवस्त्रच्छत्रोपानत्कमण्डलुः ।
वस्त्रापथे समायातः स्वर्णरक्षानदीतटे ।।८६।।
वामनश्चिन्तयामास सोमनाथं भवेश्वरम् ।
दामोदरं तथा दत्तात्रेयं रैवतकं गिरिम् ।।८७।।
दृष्ट्वा दत्तं ततो यामि बलेर्यज्ञस्थलं खलु ।
इति कृत्वा गतः सोमेश्वरं शंभुं ददर्श च ।।८८।।
सोमनाथो महादेवो विष्णुं प्रोवाच वामनम् ।
सिद्धस्त्वं सर्वथा विष्णो कार्यसिद्धिर्भविष्यति ।।८९।।
तं नत्वा च ययौ यत्र हरस्त्वास्ते भवेश्वरः ।
सम्प्राप्तस्तद्वनं दिव्यं रम्यं रैवतके गिरौ ।।1.145.९० ।।
यत्र वृक्षा नैकविधा दीर्घशाखाः फलान्विताः ।
वटोदुम्बरबिल्वाश्च सर्जाऽर्जुनकदम्बकाः ।।९ १ ।।
पलाशाश्वत्थजम्ब्वश्च धवाद्या वारुणद्रुमाः ।
शमीकंकोलनिम्बाश्च बीजपूराश्च दाडिमाः ।।९ १ ।।
बदर्यश्च बकाः पूगा शिवाः कमलशल्यकाः ।
हिन्तालाश्च शिरीषाश्च बीजका वंशखादिराः ।।१३।।
अजमोदा निकुंभाश्च इङ्गुद्यश्च करीरकाः ।
धामार्गवाः कुरबकाः करंजाश्च पुनर्नवाः ।।९४।।
अंकोलाः पारिभद्राश्च कम्बल्यः पनसास्तथा ।
उत्पलाश्च हरिद्राश्च गण्डीरा वायसीद्रुमाः ।।९५।।
तमालका रसालाश्च खर्जूर्यः करमर्दकाः ।
सेवतीशाल्मलीशाला मधूकाश्च बिभीतकाः ।।९६ ।।
हरीतक्यः कन्दराला वटाश्चैवाटरूषकाः ।
विकंकताः कपित्थाश्च रोहिणीवेत्रपाटलाः ।।९७।।
मदनाश्चैव निर्गुण्ड्यः कदल्यः शिंशपादयः ।
एलालवंगलवलीसरलागुरुपादपाः ।।९८।।
श्रीखण्डकरवीराश्च कल्पवृक्षा महोत्तमाः ।
वामनेन तदा दृष्टाः छायावृक्षाः सुरार्चिताः ।।९९।।
उदयास्तमने येषां छाया न प्रतिहन्यते ।
दृष्ट्वा वृक्षाँस्तडागे च स्नात्वा मूलं गिरेर्ययौ ।। 1.145.१० ०।।
वापिकाया जलं पीत्वा यावद्विश्रान्तिमिच्छति ।
क्षेत्रपालाः पञ्च तावद् दर्शनाय समागताः ।। १०१ ।।
एकपादभिधो गिरेस्तटे वसति सर्वदा।
गिरिदारुणनामाऽसौ द्वितीयो वर्तते गिरौ ।। १ ०२।।
ऊर्जयन्तगिरेर्मूर्ध्नि मेघनादस्तृतीयकः ।
भवानीशिखरे रम्ये सिंहनादश्चतुर्थकः ।। १०३।।
स्वर्णरक्षानदीतीरे कालमेघो वसत्यपि ।
वामनस्य दर्शनं च कृत्वा ते स्वस्थलं गताः ।। १०४।।
एकादशीं समारभ्य यावद्वै पूर्णिमातिथिः ।
तद्भीष्मपंचकं श्रेष्ठं कार्तिके मोक्षकृद्धि तत् ।। १ ०५।।
प्रदक्षिणा प्रकर्तव्या स्वर्णरक्षाप्लवस्तथा ।
दर्शनं सर्वथा कार्यं दामोदरभवेशयोः ।। १ ०६।।
अथ नृसिंहो भगवान् वामनं द्रष्टुमागतः ।
स्तुत्वा स्थितस्तदा तं वै वामनः प्राह नृहरे! ।। १ ०७।।
दामोदराग्रे भवता स्थेयं वै वचनान्मम ।
सदात्र रक्षा कर्तव्या सर्वेषां तीर्थवासिनाम् ।। १०८।।
देवस्याऽग्रे सदा स्थेयं यावदिन्द्राश्चतुर्दश ।
एवमस्त्विति तत्रैषस्तीर्थरक्षां करोति वै ।। १०९।।
ततो वै वामनो देवो भवानीं स्कन्दमातरम् ।
द्रष्टुं स च हरिर्यातो शिखरे गगनाश्रिते ।। ११० ।।
दृष्ट्वा भवानीं तामम्बामूर्ध्वबाहुर्व्यवस्थितः ।
निरीक्ष्य मेदिनीं सर्वां पश्चिमे सागराम्बराम् ।। ११ १।।
ततो गतौ गोरक्षस्य शिखरे स्वयमच्युतः ।
ततस्तृतीये शिखरे दत्तात्रेयं व्यलोकयत् ।। ११२।।
उडुीय पूर्वस्यामश्वपट्टसरोवरम् ।
कुकुमवापीं गत्वा कंभरागोपालदर्शनम् ।। १ १३।।
कृत्वा पत्नीव्रततीर्थमायादुड्डीय रैवतम् ।
ततो मणिपुरं चायात् ततः स वामनं पुरम् ।। १ १४।।
आसुरेऽत्र पुरे तत्र वामनस्तु गृहाद् गृहम् ।
ब्राह्मणानां शुभं गत्वा नित्यं भिक्षां तु याचते ।। १ १५।।
चतुष्पथेषु रम्येषु देवतायतनेषु च ।
आस्ते परिवृतो लोकैश्चालयन् स्थूलयष्टिकाम् ।। १ १६।।
विधुनोति शिरः स्थूलं नृत्यति बाललीलया ।
क्वचिद्याति ह्रस्वपादैर्गायत्यतिमनोहरम् ।। १ १७।।
वेदानधीते चतुरो घनच्छटाविभूषितान् ।
दैत्यानां तनुजाः सर्वे ब्राह्मणानां तथैव च ।। १ १८।।
वामनं परितो यान्ति दिवारात्रं तु नर्मभिः ।
विचित्रं वामनं रूपं द्रष्टुमायान्ति मानवाः ।। १ १९।।
कुमारैर्बहुभिर्नीतो वामनो यज्ञमण्डपे ।
यत्रास्ति दानकर्ता वै यजमानो बलिर्नृपः ।। १२०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वामनस्य तीर्थयात्रा, बलियज्ञे चतुर्दशभवानां कोट्यब्जादिसमाजैकत्रीभवनं, यज्ञमण्डपकुण्डहोमदानानि, वामनस्य रैवताचलयात्रा, वामनपुरस्थितिस्ततो
यज्ञमण्डपे बलिं प्रत्यागमनमिति निरूपणनामा पञ्चचत्वारिंशदधिकशततमोऽध्यायः।। १४५।।