← अध्यायः १४५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४६
[[लेखकः :|]]
अध्यायः १४७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि ममाश्चर्यकरं वामनदर्शनम् ।
विलक्षणं तु सर्वेभ्यो दृष्ट्वा जातं कुतूहलम् ।। १ ।।
महान् कोलाहलो जातः कश्चिद्ध्रस्वः समागतः ।
रूपेण तेजसा विष्णुसमो देहेन छद्मकृत् ।। २ ।।
ब्राह्मणैर्बहुभिः सार्धं वेदानुच्चारयन् स्थितः ।
प्रविष्टैर्दैत्यबालैः स दैत्याय विनिवेदितः ।। ३ ।।
द्रष्टुं समागतोऽयं वै ब्राह्मणो वामनोऽध्वरम् ।
बलिर्हृष्टोऽब्रव्रीद्वाक्यं मम भाग्योदयो ह्ययम् ।। ४ ।।
निरीहो वामनो देवो याचते नैव किंचन ।
पूजयिष्यामि विप्रेन्द्रं दास्ये चास्य यदीप्सितम् ।। ५ ।।
अभ्यागतः स्वयं विष्णुस्तस्मै देयं यदिच्छति ।
किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् ।। ६ ।।
पात्रं सत्यं समागत्य बलिमुद्धारयिष्यति ।
यज्ञे प्रवर्तमाने तु दातव्या दक्षिणा मया ।। ७ ।।
सहस्रपूरकश्चायं यज्ञो मेऽन्तिम एव वै ।
सर्वस्वमत्र दातव्यं याचकेभ्योऽविचार्य यत् ।। ८ ।।
इन्द्रपदप्रलाभाय शतं तु क्रतवो मताः ।
पारमेष्ठिपदलाभः सहस्रक्रतुभिर्भवेत् ।। ९ ।।
तस्मादयं महायज्ञो मा भून्नकारसंकरः ।
दातव्यमेव दातव्यं दातव्यं सर्वथैव हि ।। 1.146.१०।।
नकारो नैव वक्तव्यो देहस्त्र्यपत्यवस्तुषु ।
धन्योऽस्मि कृतकृत्योऽस्मि सफलं मम जीवितम् ।। १ १।।
पूजयामास विधिना निवेश्य कुसुमासने ।
प्रणिपत्य नमस्कृत्वा प्राह गद्गदया गिरा ।। १२।।
त्वां समभ्यर्च्य विप्रेन्द्र किं करोमि तव प्रियम् ।
आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तम ।। १३।।
तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर ।
ह्रस्वः प्रहृष्टमनसा तमुवाच महीपतिम् ।। १४।।
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ।
मम त्रिविक्रममितां पृथ्वीं त्वं दातुमर्हसि ।। १५।।
सर्वेषामेव दानानां भूमिदानं महोत्तमम् ।
यो ददाति महीं राजन् विप्रायाऽकिंचनाय वै ।। १६।।
अंगुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः ।
न भूमिदानसदृशं पोषकं चेह विद्यते ।। १७।।
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ।। १८।।
तस्माद् भूमिं महाराज प्रयच्छ त्रिपदीं मम ।
एतामल्पां महीं दातुं मा विशंक महीपते ।। १ ९।।
जगत्त्रयप्रदानेन नाम भूप भविष्यति ।
ततः प्रहृष्टहृदयस्तथेत्याह महीपतिः ।।।1.146.२०।।
तस्मै महीप्रदानं तु कर्तुं मेने विधानतः ।
तावत्तस्य गुरुः शुक्रो वारयामास तं बलिम् ।।२१।।
अन्यद्वै दीयतां दान मा राजन् दीयतां मही ।
किन्त्वन्यच्छ्रूयतां राजन्नकार्यं क्रियते त्वया ।।२२।।
बहिः पूज्या द्विजा ये स्युर्दीनान्धकृपणादयः ।
बधिरा वामनाः कुब्जा वृक्णा रुग्णाश्च निष्ठुराः ।।।२२।।।
क्रतुकुण्डान्तिके नैव खाण्डास्तेऽर्हन्ति पूजनम् ।
सुवर्णरजतैर्वस्त्रैर्वामनः पूज्यता बहिः ।।२४।।
चतुर्णां तु वृथा जन्म वृथा दानानि षोडश ।
अपुत्राणां वृथा जन्म ह्यधर्मिणां वृथा जनिः ।।२५।।
पराऽन्निनां वृथा जन्म परस्त्रैणी वृथाजनिः ।
व्यर्थमब्राह्मणे दानमनूढे पतिते तथा ।।२६।।
सन्ध्याहीननामविप्रे कुटिले तस्करे तथा ।
गुरोश्चाऽप्रीतिजनके पितृमातृपराङ्मुखे ।।२७।।
ब्रह्मबन्धौ कृतघ्ने च वेदविक्रयिणि तथा ।
स्वग्रामयाचके स्त्रीनिर्जिते च वृषलीपतौ ।।२८।।।
व्यालग्राहे निन्दके च वृथादानानि षोडश ।
अत्रान्तरे बलिर्ब्रूते नैवं वाच्यं त्वया गुरो ।।२९।।
वेदानधीते यः कश्चित् स मे विष्णुसमो मतः ।
न विलम्बस्तु कर्तव्यः श्रोत्रिये गृहमागते ।।1.146.३०।।
अभ्युत्थानेन वचसा पादप्रक्षालनेन च ।
यथाशक्त्या प्रदातव्यं भोजनं गृहमेधिना ।। ३ १।।
अपूजितो यदा याति वामनो यज्ञमण्डपात् ।
तदाऽयं व्यर्थतां याति यज्ञः सर्वस्वदक्षिणः ।।३२।।
तस्मादेनं द्विजं छन्नं वामनं विष्णुरूपिणम् ।
प्रकाशमानं वपुषा पिंगलं सूर्यसन्निभम् ।। ३३।।
यथेष्टं तस्य दास्ये वै राज्यं किं न समिच्छति ।
धन्योऽहं यस्य मे यज्ञे प्राप्तो विष्णुसमो द्विजः ।।।३४।।
इति कृत्वा ददौ तस्मै षोडशोपचराणि वै ।
मधुपर्कं च गां तस्मै सत्वरं स न्यवेदयत् ।।।३५।।
आघ्राय मधुपर्कं च गौर्ह्रस्वेन नमस्कृता ।
यज्ञं यज्ञगतान् सर्वान्नमस्कृत्य च वामनः ।। ३६।।
अहमर्थी समायातो दीयतां वद किं बले ।
वासार्थं मम दैत्येन्द्र दयितां मे क्रमत्रयम् ।।३७।।
विधाय कुटिकां दिव्यां शिष्यानध्यापयाम्यहम् ।
दत्तं क्रमत्रयं तुभ्यं गृहीतं वामनोऽब्रवीत् ।।३८।।
मा देहीत्यवदच्छुक्रो विष्णुरेषः सनातनः ।
बलिः प्राह तदा शुक्रं पात्रं स्यात् किमतः परम् ।।३९।।
सव्यं कृत्वा बलिर्दर्भान् साक्षतान् दक्षिणे करे ।
प्रयोगं न गुरुश्चक्रे न मुंचति जलं करे ।।1.146.४० ।।
सभासदश्च होतारो विस्मिता ऋषयस्तथा ।
विप्राः सुरास्तथा लोका दैत्यास्तस्य कुटुम्बिनः ।।४१।।
दत्तं गृहीतमित्युक्ते कस्मात्तोयं न मुञ्चति ।
वामनाय करे तोयं कल्याणाय प्रदीयते ।।४२।।
यद् दानं वचसा दत्तं कर्मणा नोपपद्यते ।
दातारं निरये क्षिप्त्वा तत्कुटुम्बं निकृन्तति ।।।४३।।
उशनाः प्राह दैत्येन्द्रं वामनो हरिरित्ययम् ।
एष विष्णुः परेशोऽथ देवैः सम्प्रार्थितो हरिः ।।४४।।
केनापि दैवयोगेन त्वां द्रष्टुं समुपागतः ।
वञ्चयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः ।।४५।।
अप्रियं वा प्रियं वापि न जाने किं करिष्यति ।
तस्मान्मही न दातव्या तस्मै राजन्महात्मने ।।४६।।
अन्यमर्थं समादत्स्व वचनान्मम भूपते ।
ततः प्रहस्य राजाऽसौ तं गुरुं प्राह धैर्यतः ।।४७।।
जानाम्यहं दैवबलाद् विष्णोरनुग्रहात्तथा ।
यज्ञस्तु पूर्णतां चेयाद् द्विजैः पूर्णो भवत्यपि ।।४८।।
अहमिन्द्रो द्विजो विष्णुर्द्रव्यमादित्यदेवता ।
तत्कथं न मया देयं विष्णवे प्रीयतामिति ।।४९।।
इत्युक्त्वा स ददौ तोयं वामनाय करे बलिः ।
हां हां हां किमिदं राजन् क्रियते योग्यमेव न ।।1.146.५०।।
इत्युच्चार्य तदा शुक्रः संस्थितो मण्डपाद्बहिः ।
प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया ।।५१।।
अद्य धन्योऽस्म्यहं विष्णुः स्वयमेवाऽऽगतो यदि ।
तस्य प्रदेयमेवाऽद्य जीवितं च महासुखम् ।।५२ ।।
तस्मादस्मै प्रयच्छामि त्रिलोकीमपि च ध्रुवम् ।
परिणीय नमस्कृत्य पादौ प्रक्षाल्य भक्तितः ।।५३।।
चरणामृतमेवाऽऽस्ये बलिना मूर्ध्नि च धृतम् ।
प्रहृष्टेनात्मना तेन दत्वा वै दक्षिणं वसु ।।५४।।
धन्योऽस्मि कृतकृत्योऽस्मि प्राह दत्वा महीं तदा ।
यथेष्टं तव विप्रेन्द्र तद्गृहाण महीमिमाम् ।।५५।।
अपि चेदिच्छसि राज्यं स्वर्णं वा हीरकादिकम् ।
नैकधानि च रत्नानि दासदासीशतानि च ।।५६।।।
गोधनं च तदन्यच्च प्रासादा भवनानि च ।
साधनानि विमानानि ददामीच्छसि चेद् यदि ।।५७।।
अहं वा राजपत्नी मे पुत्रपौत्रादिकं च यत् ।
सर्वं ददामि देवेश त्वदर्थं मम यद् भवेत् ।।५८।।
अनन्तजन्मतपसा नाऽऽप्यतेऽपि परः पुमान् ।
कृपया स यदि प्राप्तः किं मे दाराधनादिभिः ।।५९।।
इत्युच्चार्य बलिर्भक्तोऽलुंठद् वामनपादयोः ।
वामनः प्राह भक्तेन्द्र सर्वं पदत्रये स्थितम् ।।1.146.६० ।।
तव भक्त्या प्रसन्नोऽस्मि राजँस्तव समीपतः ।
मापयामि पदेनाऽद्य पृथिवीं तव पश्यतः ।।६१।।
इत्युक्त्वा बटुरूपं तद् विहाय परमेश्वरः ।
ववृधे वामनोऽतीव कृत्वा रूपं चतुर्भुजम् ।।६२।।।
वर्धमानं हरिं दृष्ट्वा ब्राह्मणाः ऋषयः सुराः ।
तुष्टुवुर्गगने जातं भगवन्तं जनार्दनम् ।।६३।।
जय विष्णो जय विष्णो जय भक्तकृपाकर ।
जय ह्रस्व जय दीर्घ जय भिक्षुक वामन ।।६४।।
जय देवकृपाकर्तृ जय भक्तस्य गोचर ।
जय यज्ञ जय हव्य जय वह्ने जयाऽच्युत ।।६५।।
जयाऽर्थिन् दातृ नेतृ त्वं जय ब्रह्माण्डकृद्वपुः ।
जय मत्स्य नमस्तुभ्यं जय कूर्म धराधर ।।६६।।
जय वाराहरूपधृक् नृसिंहाय नमोऽस्तु ते ।
जय कृष्ण जय श्रीमन्नारायण नमोऽस्तु ते ।।६७।।
नमः कृष्णाय कम्भरागोपालाय नमो नमः ।
नमः पत्नीव्रताख्याय लक्ष्मीनाथाय ते नमः ।।६८।।
वर्णितं बहुधा शास्त्रे दृष्टं नैव कदापि यत् ।
दृश्यतेऽद्य कृपालेशाच्चतुर्दशधरास्थितैः ।।६९।।
वैराजं ते महद्रूपं दृष्ट्वा हृष्टाः स्म तारिताः ।
योगिनः सनकाद्या ये ते स्तुवन्ति जनार्दनम् ।।1.146.७०।।
गगनार्धं गते कृष्णे वर्धमाने बलेः पुरः ।
ऊर्ध्ववक्त्राः स्थिताः सर्वे निरीक्षन्ते दिवं गतम् ।।७१।।
छत्रं यष्टिर्मृगचर्म कमण्डलुश्च पादुके ।
यद् यदभूद्धरेरग्रे सर्वं वै ववृधे सह ।।७२।।
दृष्टच्छत्राकृतिस्तावत् पश्चादूर्ध्वगतो हरिः ।
चूडामणिरिवाऽऽभाति भास्करो हरिमस्तके ।।७३।।
ततः पुनर्ववृधेऽथ ललाटे तिलकायते ।
अथापि वर्धितो हरिः सूर्यः स कुण्डलायते ।।७४।।
उच्चैर्गतो हरिस्तस्मात् सूर्यः स कौस्तुभायते ।
अग्रे गत्वा महेन्द्रेण वनमाला गलेऽर्पिता ।।७५।।
पृथिवी कम्पते भारात् स्वर्गस्थं ग्रहमण्डलम् ।
नाशमेष्यति दैत्यास्ते भीताः पश्यन्ति वामनम् ।।७६।।
अथापि ववृधे कृष्णो नाभौ पद्मायते रविः ।
पञ्चाशत्कोटिविस्तीर्णां ससमुद्रमहीधराम् ।।७७।।
ससागरां सद्वीपां च सदेवासुरमानुषाम् ।
पादेनैकेन पुरुषो जग्राह मधुसूदनः ।।७८।।
तत्पदं पृथिवीं सर्वामाक्रम्य पद्मजे शुभे ।
अतिरिक्तं समभवच्छतयोजनमायतम् ।।७९।।
दिव्यं चक्षुर्ददौ तस्मै दैत्येशाय सनातनः ।
तद्विश्वरूपं देवस्य दृष्ट्वा दैत्योश्वरो बलिः ।।1.146.८० ।।
प्रहर्षमतुलं लेभे सानन्दाश्रुपरिप्लुतः ।
दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ।।८ १ ।।
प्राह गद्गदया वाचा प्रहृष्टेनाऽन्तरात्मना ।
धन्योऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरम् ।।८२।।
लोकत्रयं त्वमेवैतद् गृहाण परमेश्वर ।
अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमच्युतम् ।।८३।।
ऊर्ध्वं प्रसारयामास ब्रह्मलोकान्तमच्युतः ।
पादो न परिपूर्णोऽभूदच्युतस्य शुभानने ।।८४।।
वेगेनोत्क्षिप्य हरिणा नीतो ब्रह्माण्डमस्तके ।
ब्रह्माण्डं जर्जरं जातं पादांगुष्ठाभिधातनात् ।।८५।।
भिन्नं चास्मिन् समायातं बाह्यं तोयं जगत्त्रये ।
विष्णुपादोद्भवा गंगा तत्स्थानात् प्रसृता तदा ।।८६।।
पितामहो हरेः पादं चक्रपद्मादिचिह्नितम् ।
ज्ञात्वा कमण्डलुं भृत्वा ततस्तज्जलवारिभिः ।।८७।।
मुहुः प्रक्षालयामास श्रीहरेश्चरणाम्बुजम् ।
तत् तोयमक्षय्यमेव जातं कृष्णप्रभावतः ।।८८।।
तत्तीर्थं मेरुशिखरे पपात सलिलं शुभम् ।
जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम् ।।८९।।
पूर्वे सीता दक्षिणे साऽलकनन्देति कीर्तिता ।
पश्चिमे चक्षुरित्याख्या भद्राख्या चोत्तरे मता ।।1.146.९०।।
तत्र चालकनन्दापि त्रिधा नाम्नाऽभवत् तदा ।
ऊर्ध्वे मन्दाकिनी प्रोक्ता मध्ये गंगा प्रकीर्तिता ।। ९ १।।
पाताले सा यदा प्राप्ता ह्यजो भोगवती मता ।
स्वर्धुनी प्रोच्यते स्वर्गे गंगा तु गां गता सती ।।।९२।।
पाताले तु गता साऽभून्नाम्ना त्रिपथगाऽपि च ।
सेविता पूजिता दृष्टा स्पष्टा पीताऽवगाहिता ।।९३ ।।
प्रज्वाल्य सर्वपापानि मुक्तिं ददाति देहिने ।
तां दृष्ट्वा मेरुमध्यात्तु प्रस्रवन्तीं शुभानने ।।९४।।
अतिवेगप्रवाहैश्च पतन्तीं धारयेत्तु कः ।
महाप्रवाहवेगं भूर्दृष्ट्वा भीता विदारणात् ।।९५।।
प्रार्थयामास शंभुं तां धारयितुं जटावने ।
आत्मनः पावनार्थाय मूर्ध्ना शंभुरधारयत् ।।९६।।
दिव्यवर्षसहस्रं सा जटायामेव संस्थिता ।
ततो भागीरथी राजा गौतमश्च महातपाः ।।९७।।
प्रसाद्य तपसया शंभुं गंगार्थं समयाचत ।
सर्वलोकहितार्थाय ताभ्यां दत्ता तु शंभुना ।।९८।।
गौतमेन समानीता गौतमीति प्रकीर्तिता ।
भगीरथेन चायाता भागीरथीति चोच्यते ।।९९।।
जह्नुना पीयमाना सा जानोश्च प्रकटीकृता ।
जाह्नवीति समाख्याता समुद्रान्ता हि पावनी ।। 1.146.१० ०।।
कपिलस्याऽऽश्रमे दग्धान् सगरस्यात्मजान् बहून् ।
उद्धारयित्वा षष्टिसाहस्रानब्धाववापतत् ।। १० १।।
एवं वृद्धिं गतो विष्णुर्जगृहे च पदद्वयम् ।
स्थानं नास्ति तृतीयस्य ब्रह्माण्डं सकलं हृतम् ।। १० २।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वामनस्य यज्ञस्थले प्रवेशः, भूमियाचना, शुक्रकृन्निषेधेऽपि त्रिपदभूमिदानं, वामनवर्धनं, द्वितीयपदेनाऽण्डकटाहाद् गंगोद्भव इत्यादिनिरूपणनामा षट्चत्वारिंशदधिकशततमोऽ-
ध्यायः ।। १४६ ।।