← अध्यायः १६४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६५
[[लेखकः :|]]
अध्यायः १६६ →

श्रीनारायण उवाच-
श्रूयतां कथयिष्यामि भूयोऽस्याः संभवं प्रिये ।
शुंभनिशुंभप्रभृतिध्वंसाय त्वादितः शृणु ।। १ । ।
वैराजात् कमले जातो ब्रह्मा सृष्टिं विना स्थितः ।
सृष्ट्यर्थं किं विधेयं च मयाऽत्र कमलेन्वितः । । २ ।।
तावत्तस्याऽभवत्पूर्वभवीयस्मरणं तदा ।
बीजं विना न तूत्पत्तिस्तस्माद् बीजं जुहोम्यहम् । । ३ ।।
स्वशरीरस्थितं शुक्रं जुहावाऽग्नौ प्रजापतिः ।
ब्रह्मणो जुह्वतुः शुक्रमग्नौ पूर्वं प्रजेप्सया ।। ४ ।।
ऋषयो जज्ञिरे वह्नावष्टौ तान्नामतः शृणु ।
भृग्वंगिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।। ५ ।।
अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ।
ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः ।। ६ । ।
हुते चाऽग्नौ सकृच्छुक्रे ज्वालां भित्त्वा तु संगतः ।
भृगुस्त्वं चेति तन्नाम चकार स प्रजापतिः ।। ७ ।।
शिवेनाऽभ्यर्थितः पुत्रेच्छया दत्तश्च वेधसा ।
वरणाद् वारुणः शैवश्चाग्नेयो ब्रह्मणो भृगुः । । ८ । ।
द्वितीयं च निजं शुक्रमंगारेष्वजुहोत्प्रभुः ।
अंगारेष्वंगिरोंऽगानि संहतानि ततोंऽगिराः । । ९ । ।
आग्नेयो ह्यंगिरा नाम्ना द्वितीयो ब्रह्मणः सुतः ।
षट्कृत्वा तु पुनः शुक्रे हते षडभवन् सुताः । । 1.165.१० ।।
मरीचिभ्यः समुत्पन्नो मरीचिस्तु तृतीयकः ।
होमे क्रतौ यतो जज्ञे ऋतुः सोऽयं चतुर्थकः ।। १ १।।
अेन तु विष्णुना त्रातः पुत्रत्वेऽत्रिस्तु पंचमः ।
पुभिः केशैर्लसितो यो देहे पुलस्त्य इत्ययम् ।। १२।।
केशैर्लम्बैः समुद्भूतः पुलहः सप्तमो मतः ।
वसुरग्निस्तदुत्पन्नो वशी वसिष्ठ उच्यते ।। १ ३।।
ब्रह्मणः प्रथमे ह्येते पुत्राः सबीजमानवाः ।
सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः ।। १४।।
तेष्वथर्वविज्ञात्रंगिरसः पुत्रा दशाऽभवन् ।
सुरूपायां च ते नाम्ना ह्याधार्युरायुरित्यपि ।। १५।।
दनुर्दक्षो दमः प्राणो हविष्यान् हविष्णुस्तथा ।
ऋतः सत्यश्च तत्राऽयं दक्षो बोध्यः सतीपिता ।। १६।।
दक्षो मैथुनभावेन सिसृक्षुर्विविधाः प्रजाः ।
असिक्नीमावहद्भार्यां वीरणाख्यप्रजापतेः ।। १७।।
सुतां तस्यां समुत्पन्नाश्चतुर्विंशतिपुत्रिकाः ।
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ।। १८।।
श्रद्धा लक्ष्मीर्वृतिस्तुष्टि पुष्टिर्मेधा तथा क्रिया ।
बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ।। १९।।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिः सती च संभूतिः स्मृति प्रीतिः क्षमा तथा ।।1.165.२० ।।
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ।। २१।।
पुलस्त्यः पुलहश्चैव क्रतुरत्रिर्वशिष्ठकः ।
वह्निश्च पितरश्चैते दक्षजामातरः क्रमात् ।।।२२।।
पूर्वशापवशाच्चैव ब्रह्माऽऽज्ञाप्रबलादपि ।
तारकादिविनाशार्थपुत्रोत्पत्तिसकारणात् ।।२३।।
भाविनो नियतत्वाच्च सती दक्षगृहेऽभवत् ।
शृणु देव्याः पूर्वशापः कथं जात इति प्रिये! ।। २४।।
महिषासुरनाशाय सर्वदेवैस्तु निर्मिता ।
कात्यायनी महामाया विनाश्याऽऽसुरपुंगवम् ।।२५।।।
पुनरदृश्यतां प्राप्ता देवेषु विलयंगता ।
यदा तदा त्रिशूलाग्रे रुद्रेण रक्षिता तु सा ।।२६।।
सती नाम्ना त्रिशूलाग्रे सदा रुद्रेण रक्षिता ।
जन्मान्तरसहस्रेषु शिवान्नहि वियुज्यते ।।२७।।
तया यदा माहिषाख्यो ह्यसुरो विनिपातितः ।
तदा पतिव्रता तस्य पत्नी कुण्ढीति विश्रुता ।।२८।।
विलप्य च मुहुर्देव्यै शशापाऽऽर्तिहृदा यथा ।
यथाऽपत्यादिरहिता पतिनाशात्सुदुःखिता ।।२९।।
प्रज्वलामि चिताग्नौ च तथा त्वं चापि दुःखिता ।
तव भर्तुर्मरणाच्च तथाऽनपत्यदुःखिता ।।1.165.३ ०।।
प्रज्वलिष्यसि कालाग्नौ जडा च दुःखिनी भव ।
इति शापस्तदा देव्यै महिष्या विहितस्ततः ।।३ १ ।।
कात्यायनी सती देवी म्लानास्या ह्यभवत् क्षणम् ।
ब्रह्मादयस्तदा दृष्ट्वा देवीं प्राहुः शुभानने ।। ३२।।
मा खिदस्ते पतिर्नैव मरिष्यति कदाचन ।
वयं देवाः शुभाशीर्भिर्वर्धयिष्यामहे हरम् ।।३ ३ ।।
किन्तु मृत्युसमं दुःखं तव पत्युर्भविष्यति ।
महतां मानहानिस्तु मृत्युरेव मतो बुधैः ।। ३४।।
कामदेवनिमित्तेन भाविपूजाबलेन च ।
लिंगोत्पत्तिनिमित्तेन कामोत्पत्तौ च शंकरे ।। ३५।।
ऋषिपत्नीसमाजे वै यदा शंभुर्विवस्त्रकः ।
यास्यति लिंगमुत्थाप्य चेष्टां कुर्वंश्च कामगाम् ।। ३६।।
तदा तु ब्राह्मणास्तत्र मन्त्रज्ञा ऋषयोऽमलाः ।
दृष्ट्वा तं कामिनं नग्नं प्रोत्थलिंगं हरं तु ते ।।।३७।।।
दर्भशलाकया मन्त्रद्वारा लिंगं तु मूलतः ।
पातयिष्यन्त्यवमानं करिष्यन्ति मुहुर्मुहुः ।। ३८।।
पुंस्त्वनाशो लिंगनाशः पुंसो नाशः प्रकीर्त्यते ।
इत्येतन्मृत्युतुल्यं वै दुःखं यास्यति शंकरः ।। ३९।।
ततो लिंगं त्वयि स्थाले स्थापयिष्यन्ति भूसुराः ।
पूजयिष्यन्ति तद्वाणं लोके ख्यातिं गमिष्यति ।।1.165.४० ।।
ज्योतिर्लिंगमितिप्रख्यं भविष्यति ततो हरः ।
कर्तितं लिंगमादाय सन्धिं स्थाने करिष्यन्ति ।।४१ ।।
पुनः सलिंगः पुरुषस्तव योग्यो भविष्यति ।
इति निमित्तमेवैतज्जातं शोकं च मा कुरु ।।४२।।
परब्रह्मस्वरूपेऽत्र शोकस्थानं कुतो भवेत् ।
शृणु देव्यपरं चापि दक्षो यज्ञं करिष्यति ।।४३ ।।
शंकरस्य तत्र यज्ञे स्थानं नैव करिष्यति ।
इत्येषा मानहानिश्च दक्षाच्छंभोर्भविष्यति ।।४४।।
तन्निमित्तं तदा ते च वह्नौ प्रज्वलनं भवेत् ।
अनपत्या दुःखिता च शापादिफलसम्मुखी ।।४५।।
दग्धा त्वं च जडा काली शैलपुत्री भविष्यसि ।
शंकरेण विवाहस्ते पुनस्तत्र भविष्यति ।।४६।।
इति मा कुरु शोकं त्वं भावि भवति नाऽन्यथा ।
ततो दक्षगृहं गच्छ दक्षस्य दुहिता भव ।।४७।।
तारकासुरमुख्यास्तु दानवा वै महाबलाः ।
जनिष्यन्ते च तेषां तु वरदानानुरूपतः ।।४८।।
पुत्रस्योत्पादनार्थं त्वं दक्षस्य दुहिता भव ।
तत्र रुद्रेण पुत्रस्ते कार्तिकेयो भविष्यति ।।४९।।
तद्द्वाराऽसुरनाशोऽपि भविष्यतीति तत्कृते ।
गच्छ दक्षगृहे देवि दक्षस्य दुहिता भव ।।1.165.५० ।।
एवं नियोगमासाद्य प्रादुरासीत्प्रजापतेः ।
नियोगाद् ब्रह्मणो देवी जाता पुत्री प्रजापतेः ।।५१ ।।
नियोगाद् ब्रह्मणो दक्षो ददौ रुद्राय तां सतीम् ।
दाक्षीं रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ।।५२।।
दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा ।
देवी संहृत्य दैत्यौघान् दक्षकन्या बभूव ह ।।५३ ।।
साऽत्र नाम्ना सती देवी स्वामिनो निन्दया ततः ।
देहं सन्त्यज्य योगेन पार्वती संभविष्यति ।।५४।।
शृणु लक्ष्मि! दक्षगृहे पुत्रा जाताः सहस्रशः ।
सर्वे ते भ्रातरः सत्यास्तपोभिर्धौतकिल्बिषाः ।।५५।।
नियुतमेकसहस्रं च नारदस्योपदेशतः ।
गता ब्रह्मपदं धामाऽपुनरावृत्तिलक्षणम् ।।५६।।
हर्यश्वेषु विमुक्तेषु तदन्ये शबलाश्वकाः ।
पञ्चसहस्रं पञ्चशतं पुत्रा जाताश्च तेऽपि वै ।।५७।।
नारदस्योपदेशेन गता मुक्तिपदं ध्रुवम् ।
पित्रा तु योजिताः सृष्टौ नारदेन प्रव्राजिताः ।।५८।।
अतो दक्षः सुकोपः सन् शशाप नारदं तदा ।
नाशमेहि गर्भवासं वस त्वं ब्राह्म नारद ।।५९।।
ततोऽभिसन्धिं चक्रे वै दक्षस्तु कश्यपेन हि ।
नारदो मम कन्यायां तव पुत्रो भवेदिति ।।1.165.६० ।।
शशाप तं नारदोऽपि दक्षं चांगिरसं तदा ।
यथाऽहं ब्रह्मणः पुत्रः शापात्ते काश्यपो यदा ।।६ १ ।।
भवेयं च तदा त्वं मानुषो राजा भवाऽऽदितः ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ।।६२।।
दक्ष! त्वं मारिषां पत्नीं वृक्षकन्यां गृहीष्यसि ।
तस्यां दुहितरः षष्टिः श्रद्धाप्रभृतयस्तव ।।६३ ।।
भविष्यन्ति दश तासां धर्माय वितरिष्यसि ।
सप्तविंशतिं शशिने कश्यपाय त्रयोदश ।।६४।।
चतस्रः पररूपाय तार्क्ष्याय वितरिष्यसि ।
भग्वंगिरःकृशाश्वेभ्यो द्वे द्वे च वितरिष्यसि ।।६५ ।।
इति शापानुसारेण काले प्राप्ते प्रजापतिः ।
दक्षः स्वस्य सुताः प्रादात् कश्यपाय त्रयोदश ।।६६।।
तस्मात् स नारदो जज्ञे पुनः शापबलादृषिः ।
इति ब्राह्मो नारदोऽपि काश्यपोऽजायताऽत्र वै ।।६७।।
एवमांगिरसो दक्षः प्राचेतसो ह्यजायत ।
तस्य गृहे महामाया जन्म जग्राह यावता ।।६८ ।।
तावता समयेनापि मध्ये दैत्यौ महाबलौ ।
निशुंभशुंभौ लोकानां दुःखदौ संबभूवतुः ।।६९।।
कश्यपस्य दनुर्नाम्ना भार्या या दक्षपुत्रिका ।
तस्यां पुत्रत्रयं जातं महाबलपराक्रमम् । ।1.165.७० ।।
ज्येष्ठः शुंभ इति ख्यातो निशुंभश्चापरोऽसुरः ।
तृतीयो नमुचिर्नाम देवदुःखकरः सदा ।।७ १ ।।
नमुचिं दुःखदं हन्तुमिन्द्रो वज्रमुपाददे ।
भयात् तावन्नमुचिस्तु प्रविवेश रथं रवेः ।।।७२ ।।
बहिर्नाऽऽयाति सूर्यस्य रथाद्वै ताडितोऽपि सः ।
सूर्येण च मुहुः क्षिप्तस्ताडितः पादलत्तया ।।७३ ।।
बहिस्तथापि नाऽऽयात् स इन्द्रवज्रभयात्तदा ।
तं शरणागतं मत्वा सूर्यो ररक्ष वासवात् ।।७४।।
ततः स समयं चक्रे रविणा वासवेन च ।
नाऽहं स्थास्यामि वै पृथ्व्यां स्वर्गे नैव कदाचन ।।७५।।
पाताले तु निवत्स्यामि मुच्यतां जीवदानतः ।
ततो मुक्तः सुरेन्द्रेण ततो वव्रे वरं यथा ।।७६।।
अवध्यत्वं वरं देहि शस्त्रैरस्त्रैः सुरेश्वर ।
इन्द्रस्तथास्त्विति प्राह वरमादाय दानवः ।।७७ ।।
स्वस्याऽवध्यत्वमाज्ञाय शस्त्रैरस्त्रैः स दानवः ।
भास्करस्य रथं त्यक्त्वा समुद्रं प्राविशद्द्रुतम् ।।७८ ।।
स निमज्जन्नपि वार्धौ सामुद्रफेनमुत्तमम् ।
अपश्यद् दानवपतिस्तं प्रगृह्य स्थितो जले ।।७९ ।।
मुखनासादिकर्णादीन् समापूर्य स्थितो जले ।
तस्मिन् शक्रोऽसृजद् वज्रमन्तर्हितमथाऽपि तम् ।।1.165.८ ० ।।
फेनात्मवज्रप्रहतः स पपात ममार च ।
फेनात्मवज्रसंरुद्धनासाऽऽस्यः स ममार वै ।।८ १ ।।
ततोऽस्य भ्रातरौ वीरौ क्रुद्धौ शुंभनिशुंभकौ ।
उद्योगं तु परं कृत्वा देवनाशार्थमागतौ ।।८ २ ।।
देवा अपि च युद्धार्थं निर्ययुरिन्द्रमाश्रिताः ।
युद्धं सुतुमुलं जातं जितास्त्वाक्रम्य देवताः ।।८३ ।।
अग्रेसराश्च दैत्याभ्यां जिताः सबलवाहनाः ।
शक्रस्य त्वाहृतो हस्तीयाम्यश्च माहिषो हृतः ।।८४।।
जलेशस्य मणिच्छत्रे हृते हृता गदा हरेः ।
निधयः शंखपद्माद्याः कुबेरस्य हृता बलात् ।।८५।।
कृताः त्रिलोका वशगाः स्वाराज्यं वशीकृतम् ।
दिशांपाला लोकपालाः प्रायशश्च वशीकृताः ।।८६।।
भुवं चागत्य राजानः प्रायशश्च वशीकृताः ।
तत्र रेवातटे राज्यं कुर्वन्तं प्राप्य तावुभौ ।।८७ ।।
प्राहतुः रक्तबीजाख्यं को भवानिति सोऽब्रवीत् ।
महिषस्य सचिवोऽहं दैत्योऽस्मि रक्तबीजकः ।।८८ ।।
करोमि राज्यं प्रच्छन्नं देव्या भीतिवशादिह ।
सचिवौ द्वौ महिषस्य चण्डमुण्डौ तु नामतः ।।८ ९ ।।
वर्तेते सलिले मग्नौ भयाद्देव्या महाभुजौ ।
इत्यस्माकं स्थितिस्तूक्ता ज्ञातव्या भवतोरपि ।। 1.165.९० ।।
इति पृष्ठौ च तौ शुंभनिशुंभावूचतुश्च तम् ।
अहं शुंभ इति ज्येष्ठो निशुंभोऽयं कनिष्ठकः ।। ९१ ।।
दनोः पुत्रौ काश्यपौ स्वो जितवन्तौ सुरादिकान् ।
अन्यानपि महापालान् जितवन्तौ भुवंगतान् ।। ९२ ।।
इत्थं तयोस्तु वदतोर्नर्मदायास्तटे तदा ।
जलावासाद्विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ ।। ९३ ।।
परस्परं सहायास्ते मिलिताः पञ्च दानवाः ।
महिषस्य नमुचेश्च वैरनिर्यातनाय ते ।। ९४।।
मन्त्रणां कृतवन्तस्ते सत्याः पराजयाय वै ।
वयं विवाहयिष्यामो रत्नभूतां सतीं तु ताम् ।। ९५।।
इत्यामन्त्र्य सतीं मार्गयितुं विन्ध्याचलं ययुः ।
अदृश्या दृश्यते सा न ततो याता हिमालयम् ।। ९६ ।।
तत्र स्नानाय गच्छन्तीं दृष्ट्वा तु पार्वतीं सतीम् ।
प्राहुर्वरय चास्मान् वै पार्वती प्राह ताँस्तदा ।। ९७।।
अहं विन्ध्याचली देवी तीर्थार्थमिह चागता ।
मैवं वाच्यं तु सत्तीर्थे गच्छन्त्वितो यथागताः ।। ९८ ।।
विन्ध्याद्रौ मे निवासोऽस्ति तत्र वाच्यं हृदि स्थितम् ।
तीर्थे कृत्वा गमिष्यामि यूयं गच्छत तत्र वै ।। ९९ ।।
इति दैत्याँश्च शुंभादीन् प्रेषयित्वा च पार्वती ।
स्नानार्थं देवगंगायां यावदग्रे प्रगच्छति ।। 1.165.१०० ।।
तावत् तत्र समागत्य संगत्य च सुरेश्वराः ।
प्रथमतोऽस्तुवन् देवीं स्वदुःख्रविनिवृत्तये ।। १०१ ।।
त्वयाऽस्माकं वरो दत्तो ह्यापत्काले स्मृता सती ।
दुःखं वै नाशयिष्यामि ह्यापत्काल उपस्थितः ।। १०२ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वेधसा स्ववीर्यहोमेनाऽष्टमहर्षिसमुत्पत्तिः, आंगिरसदक्षगृहे देव्याः सतीजन्मकारणम्, प्राचेतसदक्षोद्भवनकारणम्, ब्राह्म-नारदस्य काश्यपनारदोद्भवनकारणम्, दक्षस्य पुत्राः पुत्र्यः, शुंभनिशुंभादिदनुपुत्रोत्पत्तिः, देवानां पराजयः, देवीप्रार्थना चेत्यादिनिरूपणनामा पञ्चषष्ट्यधिकशततमोऽध्यायः ।। १ ६५ ।।