← अध्यायः १६५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६६
[[लेखकः :|]]
अध्यायः १६७ →

श्रीनारायण उवाच-
ततो लक्ष्मि! स्तुतिं चक्रुर्देवा ध्यात्वा महेश्वरीम् ।
गंगातटे च संहत्य श्रूयतां कथयामि ते ।। १ ।।
नमो मात्रे महामात्रे जनन्यै ते मुहुर्नमः ।
नमो मायै महामायै मायायै ते नमोनमः ।। २ ।।
ब्रह्माण्यै चाऽक्षराण्यै ते मुक्तान्यै ते नमोनमः ।
वासुदेव्यै च प्रकृत्यै प्रधानायै नमोनमः ।। ३ ।।
भूम्नै काल्यै महाकाल्यै महालक्ष्म्यै नमोनमः ।
हिरण्यायै सुगर्भायै वैराज्यै ते नमोनमः ।। ४ ।।
वरेण्यै वररूपायै गोलोक्यै ते नमोनमः ।
नारायण्यै च कृष्णायै वैकुण्ठायै नमोनमः ।। ५ ।।
श्वेतायै च बदर्यै च मार्तण्डायै नमोनमः ।
पावन्यै पवमानायै चाऽव्याकृत्यै नमोनमः ।। ६ ।।
सावित्र्यै चापि गायत्र्यै रौद्रायै ते नमोनमः ।
धात्र्यै गौर्यै च वैष्णव्यै ज्योत्स्नायै ते नमोनमः ।। ७ ।।
ब्रह्मचारिप्रवर्यायै वीर्यायै ते नमोनमः ।
महत्यै चाभिमानायै चाकूत्यै तै नमोनमः ।। ८ ।।
चित्त्यै वृत्त्यै प्रवृत्त्यै च प्रलयायै नमोनमः ।
स्वर्गायै सत्यलोकायै लोकपायै नमोनमः ।। ९ ।।
रमायै च जयायै च विजयायै नमोनमः ।
राधायै सर्वकारिण्यै लक्ष्म्यै तेऽस्तु नमोनमः ।। 1.166.१० ।।
नैर्ऋत्यै सुखसम्पत्त्यै सौम्यायै ते नमोनमः ।
वार्क्ष्यै बीजस्वरूपायै रत्यै देव्यै नमोनमः ।। ११ ।।
या देवी सर्वसत्त्वेषु विष्णुमाया व्यवस्थिता ।
न्यासस्तस्यै नतिस्तस्यै नमस्तस्यै नमोनमः ।। १ २।।
चेतना बुद्धिरूपा या निद्रारूपा च या स्थिता ।
छायारूपा क्षुधारूपा शक्तिरूपा च या स्थिता ।। १३ ।।
तृष्णा क्षान्तिः दया प्रोक्ता तस्यै तस्यै नमोनमः ।
लज्जा शान्तिस्तथा श्रद्धा कान्तिर्वृत्तिः स्मृतिस्तथा ।। १४।।
तुष्टिः पुष्टिश्च या प्रोक्ता तस्यै तुभ्यं नमोनमः ।
धात्र्यै चैव विधात्र्यै ते मात्रे देव्यै नमोनमः ।। १५।।
आसुराणां महानद्य वर्तते समुपद्रवः ।
अन्तः स्थित्वा प्रद्रष्ट्र्यै ते वारंवारं नमोनमः ।। १६ ।।
इत्येवं स्तूयमाना सा पार्वती परमेश्वरी ।
स्नानसृत्याऽऽगता तत्र यत्र देवा स्तुवन्ति ते ।। १७।।
प्रणता च तदा देवैः प्रसन्ना प्राह तान् सुरान् ।
मम देहाद्विनिष्कृष्य कोशरूपां तु सुन्दरीम् ।। १८ ।।
ददामि देवरक्षार्थं सुरा गृह्णन्तु मामकीम् ।
सुरूपां दिव्यशोभढ्यां मूर्तिं गृह्णन्तु मामकीम् ।। १९।।
देवास्तु कौशिकीं कन्या नीत्वा विन्ध्याचलीं ययुः ।
कौशिकी च तदा विन्ध्याचल्यां देव्यां व्यवस्थिता ।।1.166.२०।।
देवाश्चासुरनाशार्थमुद्यमं चक्रिरे तदा ।
पार्वत्याः कोशरूपा सा कृष्णकान्तिमयी तनुः ।।२१।।
कृष्णवर्णाऽभवत् काली कालिका नामतः स्मृता ।
अप विन्ध्याचले दैत्या जग्मुर्देव्युक्त्यनुसृताः ।।।२२।।
मन्त्रणां कारयामासुर्दूतैः पत्न्यर्थमत्र ते ।
सुग्रीवं प्रेषयामासुर्दूतं विन्ध्याचलीं प्रति ।।२३।।
दूतः प्राह महादेवि! शुंभेन प्रेषितोऽस्म्यहम् ।
शुंभश्चास्ति महाराजस्त्रैलोक्येश्वर एकराट् ।। २४।।
त्वय्यारक्तमना राजा स यदाह शृणुष्व तत् ।
मया तु निर्जिता लोकाः सदिक्पालाश्चतुर्दश ।।२५।।
त्रैलोक्ये यानि राज्यानि मदधीनीकृतानि च ।
रत्नानि यानि त्रैलोक्ये साम्प्रतं तानि मे गृहे ।।।२६ ।।
ऐरावतादयः सन्ति द्विपास्तु मम मन्दिरे ।
उच्चैःश्रवादयश्चाश्वा वर्तन्ते मम मन्दिरे ।।२७।।
कल्पद्रुपारिजाताश्च सुगन्धयन्ति मे गृहम् ।
हंसयुक्तविमानानि देवगन्धर्वनाकिनाम् ।।।२८।।
महापद्मादिनिधयो वर्तन्ते मद्गृहे खलु ।
रत्नाकरस्य रत्नानि छत्रचामरमालिकाः ।।।२९।।
स्यन्दनानि विचित्राणि रत्नश्रेष्ठानि यानि च ।
विविधाश्च रसाः श्रेष्ठा नित्ययौवनपुष्टिदाः ।।1.166.३ ०।।
एवं दासाश्च दास्यश्च कामभूषाश्च नैकधा ।
सर्वं प्राकाम्यवशगं सिद्धयः सन्ति मे गृहे ।। ३ १।।
पर्वताः सरितः सप्ताऽब्धयोऽरण्यानि देवताः ।
प्रभूतानि द्युमणयः सन्ति मत्सेवका गृहे ।।३२।।
राज्ञ्यः सन्ति यथाकामं सेविकाश्च सहस्रशः ।
सर्वास्तास्तव दासीर्वै करिष्ये यदि मे भव ।।।३३।।
त्वं प्रख्यं सुन्दरीरत्नं वयं रत्नभुजो यतः ।
मां वा ममाऽनुजं देवि! भज रत्नोत्तमाऽसि यत् ।।३४।।
महाराज्ञीं करिष्ये त्वां मत्परिग्रहतां व्रज ।
नररत्नं च मां देवि! त्वया कस्मान्न गृह्यते ।। ३५।।
इत्युक्ता सा मन्दहास्या गभीरान्ता जगाद् तम् ।
सत्यमुक्तं तु शुंभेन त्रैलोक्यविजयेन वै ।।३६।।
किन्त्वस्माकं च देवीनां कुलागतपरम्परा ।
युद्धे जयति कन्यां यस्तस्य सा संभवेत् प्रिया ।।।३७।।
तदागच्छतु विख्यातस्तादृशः शुभ एव ह ।
निशुंभो वा रणभूमौ समागच्छतु मां जयेत् ।। ३८ ।।
किं चिरेणात्र पण्ये वै पाणिं गृह्णातु तद्विधम् ।
दूतः प्राह ततो देवीं माऽवलिप्ता भवात्र वै ।। ३ ९।।
चतुर्दशभुवां भूपा निर्जितास्तेन गर्विणा ।
सा त्वं गच्छ मया सार्धं सुस्वागतपुरःसरा ।।1.166.४० ।।
केशाऽऽकर्षणजाताऽवमानं मा गमनं तव ।
देव्युवाच यथार्थं त्वं कथयत्येव गौरवम् ।।४ १ ।।
किन्तु देवीकुलधर्मोऽन्यथाभावी न कर्हिचित्। ।
तद्वै व्याचक्ष्व शुंभाय यथायुक्तं करोतु सः ।।४२ ।।
दूतो नत्वा गतः शुंभं प्राह विस्तरतस्तु तत् ।
श्रुत्वा क्रुद्धो महागर्वः प्राह धूम्राक्षमानतः ।।४३ ।।
शीघ्रं ससैन्यो गच्छ त्वं केशाकर्षणपूर्वकम् ।
आनयाऽत्र च तां दुष्टां रक्षकान् संप्रमारय ।।४४।।
धूम्राक्षस्तद्वचः श्रुत्वा षष्टिसहस्रदानवैः ।
सहितः स जगामाशु विन्ध्याचलनिवासिनीम् ।।४५ ।।
प्राहाऽऽगच्छ ऋजुरीत्या शुभं पतिं गृहाण च ।
नो चेद् बलान्नयाम्येव यथेच्छसि तथा कुरु ।।४६ ।।
देवी प्राह तदा दैत्यं विना रणं न मे पणः ।
बलवान् बलयुक्तोऽसि यथेच्छसि तथा कुरु ।।४७।।
श्रुत्वैवं सोऽसहमानो बलाद्धर्तुं समागतः ।
देव्या तत्रैव हूंकारवह्निना भस्मसात्कृतः ।।४८ ।।
अथ सैन्यं महाक्रुद्धं देवीनाशार्थमागतम् ।
ववर्ष सायकैः शस्त्रैरस्त्रैः शक्तिपरश्वधैः ।।४९।।
देवीं ते छादयामासुर्वृष्ट्या शरविपूलया ।
देव्याज्ञया तदा सिंहो गर्जनां प्रचकार ह ।।1.166.५० ।।
गर्जनाफेनबिन्दुभ्यः सिंहाश्चान्ये सहस्रशः ।
उत्पन्नाः केसरसटाः नखदंष्ट्रायुधास्तदा ।।५ १ ।।
सबला यौवनोपेता व्योमोड्डयनशक्तयः ।
निपेतुर्धूम्रनेत्रस्य सैन्ये षष्टिसहस्रके ।।५२ ।।
काँश्चित्करप्रहारैश्च काँश्चिद्दंष्ट्राभिरित्यथ ।
लांगुलैश्च नखैः काँश्चिदाक्रमैर्जघ्नुरासुरान् ।।।५३ ।।
केषांचित्पाटयामासुरुदराणि शिरांसि च ।
रुधिरं च पपुस्तेषां जग्धुरान्त्राणि भूरिशः ।।५४।।
सैन्यं तैर्नाशितं सर्वं रक्ता भूमिर्व्यराजत ।
श्रुत्वा चुकोप शुंभः सः कोपप्रस्फुरिताऽधरः ।।।।५५।।।
प्राह चण्डं तथा मुण्डं गच्छतं शीघ्रमेव यत् ।
केशेष्वाकृष्य बद्ध्वा च सा समानीयतां मृगी ।।५६।।
यदि वः संशयः प्राणे हन्यतां सा मृडमृगी ।
हन्यन्तां केसरिणश्च सूचनां कुरुतं च माम् ।।५७ ।।
दैत्याश्चण्डादयस्त्वेवमाज्ञप्ताः समुदायुधाः ।
चतुरंगबलोपेता ययुर्विन्ध्याचलीं प्रति । ।५८ ।।
दूरात्प्राहुश्च तं देवि! समागच्छ त्वरां कुरु ।
एह्येहि शुभभर्तारं शुंभमिच्छस्व कौशिकि! । । ५९ । ।
न चेद् बलाद्धि नेष्यामः केशाकर्षणविह्वलाम् ।
तावत्कोपं चकारोग्रं कौशिकी तानरीन्प्रति ।। 1.166.६० ।।
त्रिशिखां भ्रुकुटीं चक्रे चण्डमुण्डौ विलोक्य च ।
अतिक्रोधप्लुता जाता करालवदना तदा ।।६ १ । ।
कृष्णकालनिवासाधिभ्रुकुट्या क्रोधमिश्रया ।
महाकाली समुद्भूता योगिनी शस्त्रधारिणी ।। ६२ । ।
करवालधृतहस्ता खट्वांगकरशोभना!
असिपाशांकुशगदाघण्टामुद्गरभूषिता ।। ६३ ।।
सिंहचर्मपरिधाना मुण्डमालाविभूषिता ।
स्फारनेत्रा ललज्जिह्वा बहिर्दंष्ट्रा गुहामुखा ।। ६४ । ।
सशस्त्रा सा महाकाली निजघान सुरारिणः ।
काँश्चित् खड्गेन चिच्छेद खट्वांगेनाऽपरासुरान् ।। ६५ ।।
न्यषूदयद्रणेऽश्वाँश्च गजान् रथगदानवान् ।
पर्वतप्रायरूपं सा दधाराथ रणागतान् । । ६६ । ।
उष्ट्राँश्च कुंजरान् साश्वरथान् पत्तींश्च कौशिकी ।
महाकाली स्ववदने क्षिप्त्वा चर्वयते बलम् । । ६७ । ।
काँश्चिज्जग्राह मुण्डेषु काँश्चित्कट्यां च पादयोः ।
प्राणात् वियोजयामास सैन्ययोद्धॄन् समन्ततः । ।६८ । ।
रुरुः सैन्यात्प्रदुद्राव विन्ध्याचलगुहाँ प्रति ।
अनुदुद्राव तं काली धर्षणार्थं महासुरम् ।। ६९ ।।
देवी मूर्ध्न्याजघानाति खट्वांगेन महाबलात् ।
मस्तकं कूर्चितं तस्य मृतिं जगाम तत्क्षणात् । ।1.166.७ ० ।।
काली रुरोशरीरस्य कोशमुत्कृत्य मूर्धजान् ।
निजान् बबन्ध सा देवी शुशुभे चाति किंशुका । । ७१ ।।
एकां जटा पृथक्कृत्योत्पाट्य काल्यक्षिपद्भुवि ।
सा तदा कन्यका जाता कृष्णा शुक्लाऽर्धवर्ष्मणा । ।७२ ।।
काली प्राह च तां कन्यां चण्डमुण्डाविहाऽऽनय ।
स्वयं तौ मारयिष्यामि साऽभ्यद्रवत तावुभौ ।।७३ ।।
चण्डमुण्डावपि भयात् दुद्रुवतुश्च दक्षिणाम् ।
चण्डमारी समारुह्य रासभं बहुवेगिनम् । । ७४।।
यतो गतौ तु तौ दैत्यौ तत्रैवानुययौ रुषा ।
मार्गे ददर्श महिषं पौंड्राभिधं यमस्य सा । ।७५ ।।
तस्योत्पाट्य विषाणं तु दानवानन्वगाज्जवात् ।
चण्डमुण्डौ तदा भूमिं त्यक्त्वा गगनमाश्रितौ ।। ७६।।
कर्कोटकस्तदा नागो गच्छन् देवीदृशिं गतः ।
गरुत्माँश्च तथा दृष्टः पिच्छान्यादाय तस्य सा ।। ७७।।
कर्कोटकं तथा नीत्वा वेगेनाऽभ्यपतच्च तौ ।
धर्षितौ मर्दितो बद्धौ कर्कोटकात्मरज्जुभिः ।।७८ ।।
आनीतौ सन्निधौ काल्यास्तस्यै न्यवेदयच्च तौ ।
चण्डमुण्डौ तदा देव्या विशिरस्कौ कृतावुभौ । ।७९ ।।
रुरुचर्मगुणे तत्राऽसुराणां मस्तकानि तु ।
तार्क्ष्यपत्राणि चित्राणि ग्रथितानि हि कृष्णया ।।1.166.८ ० ।।
कृत्वा स्रजमनोपम्यां चण्डिकायै न्यवेदयत् ।
रुरुचर्मकृतां चाथ घर्घरीं तां न्यवेदयत् ।।८ १ ।।
अन्यां स्रजं च तार्क्ष्यस्य पत्राणां विरचय्य च ।
काली दधे स्वशिरसि धम्मिलेऽथ तुतोष च ।।८२।
दानवानां च रुधिरं पपौ चाऽऽतृप्ति पुष्कलम् ।
चण्डमुण्डौ मृतौ देव्या शेखरौ शिरसः कृतौ ।।८ ३ ।।
शेखरौ चण्डमुण्डादेर्यस्माच्छिरसि संधृतौ ।
तस्मात्तद्गणयोगात्सा चामुण्डाख्याऽभवत् ततः ।।८४ ।।
चामुण्डा च तथा काली कौशिकी चैति तास्तदा ।
तिस्रो मिलित्वा दैत्यानां चक्रुर्निकन्दनं बहु । ।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कैलासे देवकृतपार्वतीस्तुतिः पार्वतीदेहोत्पन्ना कौशिकी विन्ध्याचलीं गता, तत्र शुंभप्रेषितसुग्रीवदूतागमनम्, धूम्राक्षनाशः, कालीप्रादुर्भावः, चण्डमुण्डादिनाशनिमित्तकचामुण्डाख्येत्यादिकथननामा षट्षष्ट्यधिकशततमोऽध्यायः ।। १६६ ।।