← अध्यायः १६६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६७
[[लेखकः :|]]
अध्यायः १६८ →

श्रीनारायण उवाच-
ततो लक्ष्मि! स्वयं शुंभो योद्धकामो ह्यवपस्थितः ।
रक्तबीजं प्राह दैत्यं मारयैताः खरीसमाः ।। १ ।।
रक्तबीजस्तदा त्रिंशत्कोटिसैन्यसभाजितः ।
कात्यायन्या च कौशिक्या काल्या चामुण्डया तथा ।। २ ।।
योद्धुं समागतो वीरो रक्तबीजो महासुरः ।
युद्धवादित्रशब्दाश्च दिक्षु व्याप्तास्तदाऽभवन् ।। ३ ।।
तदा चतस्रस्ता देव्यो महानादान् प्रचक्रिरे ।
तासां तु मुखभागेभ्यो ब्रह्माण्यः कोटिशोऽभवन् ।। ४ ।।
माहेश्वर्यश्च त्रिनेत्रास्त्रिशूलिन्यस्तथाऽभवन् ।
महाऽहिवलया रौद्राः कुण्डलिन्यस्तथाऽभवन् ।। ५ ।।
बर्हिपत्रयुतास्तत्र कौमार्यः कोटिशोऽभवन् ।
मयूरवाहनास्तत्र शक्तयः कोटिशोऽभवन् ।। ६ ।।
बाहुभ्यां गरुडारूढा वैष्णव्यः कोटिशोऽभवन् ।
वाराह्यः पृष्ठतो जाताः शेषयाना हि कोटिशः ।। ७ ।।
नखिन्यो नारसिंह्यस्तु हृदो जाता हि कोटिशः ।
एतासां तु महानादा ब्रह्माण्डध्वंसकारकाः ।। ८ ।।
समभवँश्च तान् श्रुत्वा त्वाजगाम हि शंकरः ।
शिवाऽपि सह चायाता दृष्टो दैत्यकृतोद्यमः ।। ९ ।।
शिवा प्राह तदा शंभुं गच्छ दैत्येन शंकर ।
ब्रूहि शुंभं निशुंभं च यदि जीवितुमिच्छथः ।। 1.167.१० ।।
तद्गच्छतं स्वकान्नीत्वा सप्तमं हि रसातलम् ।
वासवो लभतां स्वर्गं देवाः सन्तु गतव्यथाः ।। ११ ।।
देवी तदा तु नाम्नाऽतः शिवदूतीत्यजायत ।
ते च दूतवचः श्रुत्वा सर्वे गर्वसमन्विताः ।। १२ ।।
यत्र कात्यायनी काली कौशिकी तत्र दुद्रुवुः ।
अंकुशैः शक्तिभिर्बाणैस्तोमरैश्च भूशुण्डिभिः ।। १३ ।।
पट्टिशैः परिघैः प्रासैस्त्रिशूलैश्च परश्वधैः ।
कात्यायनीं ववृषुस्ते सापि चिच्छेद वेगतः ।। १४।।
समग्राणि तु शस्त्राणि तीक्ष्णधारपतत्त्रित्रभिः ।
जघान च महाबाणैः रणमत्तान्महासुरान् ।। १५ ।।
रणचण्डी तु चामुण्डा जघानाऽयुतदानवान् ।
कात्यायनी महामारी त्रिशूलैर्निजघान तान् ।। १ ६।।
कौशिकी चापि च ब्राह्मी कुमारी वैष्णवी तथा ।
खट्वांगैर्जलपाशैश्च शक्तिभिस्स्तनयित्नुभिः ।। १७।।
निजघ्नुर्वीरकर्मस्थानयुताऽयुतदानवान् ।
चण्डी वज्रैश्च वाराही तुण्डैश्चक्रैर्जघान तान् । । १८ ।।
दंष्ट्रानखैर्नारसिंही शिवदूती तु वह्निना ।
करवालैस्तथा काली जघानाऽऽसुरसैनिकान् ।। १९ ।।
एवं देवीकुलैस्तत्र हन्यमानाश्च दानवाः ।
पात्यमानाश्चासुरास्ते पेतुः प्राणान् विहाय वै ।। 1.167.२० ।।
अन्ये भयाद्रक्तबीजं जग्मुर्वै शरणं तदा ।
रक्तबीजस्तदोपेत्य वरास्त्रैर्मातृमण्डलम् ।। २१ ।।
जघान बहुधा कोपाद् विवेश मध्यभूमिकाम् ।
मातरश्च तदा सर्वा निजघ्नुस्तीक्ष्णहेतिभिः ।। २२।।
रक्तबीजस्य रक्तस्य यावन्तो बिन्दवो भुवि ।
पतन्ति समजायन्ते तावन्तो रक्तबीजकाः ।। २३ ।।
रक्तबीजशरीराद्वै तदा सैन्यानि चाऽभवन् ।
कात्यायनी तदा कालीं प्राह खादय दानवम् ।। २४।।
रक्तबीजं येन सैन्योत्पत्तिः रुद्धा भवेद् द्रुतम् ।
महाकाली मुखे द्राक् तं प्राक्षिपद् रक्तबीजकम् ।। २५।।
चर्ममुण्डा तदा शैलसमा भूत्वा दरीमुखे ।
रक्तबीजजसैन्यानि प्राक्षिपत् प्रचखाद् च । । २९६ ।।
तदा तु दानवाश्चान्ये हा भ्रातस्तात चुक्रुशुः ।
छिन्नाऽर्धदेहाऽवयवा निशुंभं शरणं ययुः ।। २७।।
निशुंभः सहसा खड्गमादाय हन्तुमिच्छति ।
किन्तु देवी स्वरूपे स मोहितः स्तंभित क्षणम् ।। २८ ।।
देवी प्राह निशुंभ त्वं मोहेन जेतुमिच्छसि ।
गच्छ जिता त्वया दैत्य मुग्धो मां न विजेष्यसि । । २९ ।।
प्राह दैत्यस्तदा देवि! सुकुमारशरीरिणी ।
कथं मया निहन्तव्या तस्मात् हन्मि न सुन्दरीम् । । 1.167.३० ।।
शस्त्रपातं विना युद्धे जेतुं शक्नोमि नैव च ।
शस्त्रपाते तु ते नाशो भवेत् कार्यं न मे भवेत् ।। ३१ ।।
इति किंकर्तव्यतया मूढत्वं तु मया धृतम् ।
शस्त्रपाते न मे लाभः शस्त्राऽपातेपि नैव च ।। ३२ ।।
तस्मात्ते मरणे कोऽयं लाभो भवति सुन्दरि! ।
निवर्तय मतिं युद्धाद् भार्या मे भव भोगदा । । ३३ ।।
श्रुत्वा देवी निशुंभं तु विहस्य प्राह दानवम् ।
नाऽजिताऽहं रणे वीर भार्या भवामि कस्यचित् । । ३४ ।।
यदि वा मरणं ते स्याद् यद्वा मे मरणं भवेत् ।
युद्धात्पलायनं चापि मरणादतिरिच्यते । । ३५ । ।
तत्रापि नारीगर्वाद् यो नरो युद्धान्निवर्तते ।
स नारीभिर्मूल्यहीनो गण्यते तु नपुंसकः । । ३ ६।।
नारीं युद्धेन जेतुं वै समीहन्ते नराधमाः ।
न युद्धजय्याः नार्यः स्युः पत्न्यः क्वापि श्रुतं न तत् ।। ३७ ।।
या नारी यस्य वै पत्नीं भवितुं नैव चेच्छति ।
सैव युद्धं तेन पुंसा समिच्छति विनाशकृत् । । ३८ । ।
युद्धे त्वेकस्य नाशोऽस्ति नाऽबला हस्तगा भवेत् ।
प्रसह्य हस्तगा स्याच्चेत् नरं नाशयति ध्रुवम् । । ३९ ।।
नाऽस्या मित्रं चाऽमनःस्थो मनःस्थः शत्रुरेव न ।
मे मनःस्थो यथा स्यास्त्वं विशाऽतलं द्रुतं कुरु । । 1.167.४० । ।
भवानिच्छति भार्यां मां ततो मां जय संयुगे ।
नपुंसकस्य मुग्धस्य भार्या नैव भवाम्यहम् ।। ४१ । ।
इत्युक्तो रोषताम्राक्षः खड्गमुद्भ्राम्य दानवः ।
प्रचिक्षेप महावेगात् सा चिच्छेदाऽसिना तु तत् । । ४२ । ।
गदां चिक्षेप दैत्यश्च यावत् तावत्तु कालिका ।
क्षुरप्रेण करौ तस्य चिच्छेदांसत एव यत् ।। ४३ ।।
अशाखस्तम्बवद्दैत्यः शिरसाऽपि पृथक्कृतः ।
निशुंभनाशे चण्डाद्याश्चक्रुः किलकिलाध्वनिम् ।।४४।।
जय देवि सुराः प्रोचुर्मुमुचुः पुष्पवर्षणम् ।
वादित्राणां निनादश्च विजयख्यापकोऽभवत् ।।४५।।
अथाऽपशकुनान्यस्य भ्रातुः शुंभस्य चाऽभवन् ।
शिवा प्रविश्य शिविरे रौति सा कुस्वरं निशि ।।४६ ।।
तिष्ठन्ति शिबिरे काका दिवारात्रं विराविणः ।
सर्पाः सर्पन्ति वासेषु कृष्णा रौद्रा भयंकराः ।।४७।।
काका गृध्रा बका भ्रान्ता भ्रमन्ति शिबिरोपरि ।
जाताश्च विमुखा गर्भाः स्त्रीषु गोषु मृगीषु च ।।४८।।
घृतं दुग्धेषु नैवास्ति तिले तैलं न विद्यते ।
जनाः स्वशिबिरे तत्र योधयन्ति परस्परम् ।।४९ ।।
कृष्णवर्णा विवदन्त दीर्घकेशाऽन्धलोचना ।
अज्ञाता रुदती याति दानवेशस्थलं प्रति ।।1.167.५ ० ।।
कोपयुक्तस्तदा कश्चित्तपस्वी भस्मगुण्ठितः ।
मौनी नग्नो यतिः कश्चित्। शिबिरे दृश्यते भ्रमन् ।।५ १ ।।
डमरूं वादयित्वा हूंकारं नग्नः करोति च ।
अकालाऽब्भ्रं जलं मुञ्चद् विद्युद्धोषं करोति च ।।५ २।।
करकाः पतिता मेघाद्गर्जना जायते मुहुः ।
समजायत भूकम्पो दिग्दाहश्चाऽप्यजायत ।।५ ३ ।।
ऊर्ध्वास्याः श्वगणा रात्रौ रुदन्ति प्रमुखे स्थिताः ।
दिवा घूकाः शब्दयन्ति दिविं केतूदयोऽभवत् ।।५४।।
आदित्यमण्डलं तत्र सचक्रं दृश्यते वृतम् ।
कबन्धा व्योम्नि दृश्यन्ते चन्द्रमा न प्रकाशते ।।२ ५ ।।
नक्षत्राणि दिवा स्वर्गे दृश्यन्ते दानवैस्तदा ।
दानवीषु तदा गर्भा दृश्यन्ते भूतजातयः ।।५ ६ ।।
ह्रेषन्तेऽश्वाः सद्भयाश्च करिणः पृष्ठपातिनः ।
मन्त्रिणो निर्मनस्काश्च दृश्यन्ते शिबिरे तदा । । ।५७ । ।
अग्निर्ज्वलति चुल्ल्यां न वातश्चण्डः प्रवाति च ।
ध्वजा ज्वलन्ति सैन्येषु नभो भवति धूसरम् । ।५८ । ।
शुंभस्य हृद्यं स्वप्ने सकम्पं समजायत ।
कबन्धान्मस्तकं स्वस्य पृथक् दृष्टं रणांगणे ।।५९ । ।
मेषयाने निषद्याऽयं दिशं याति च दक्षिणाम् ।
नग्ना च दानवी काचित् करोति तैलमर्दनम् । । 1.167.६० ।।
रक्ताम्बरं धृतवत्याश्लेष्टुं प्रयतते च सा ।
मद्यं पाने ददात्येव ददाति चूम्बनं तथा । । ६१ । ।
मुण्डं कृत्वा ततः पश्चाद् रौति याति च दक्षिणाम् ।
शिबिरं पतितं दृष्टं व्याघ्रैश्चैव विनाशितम् ।। ६२ ।।
नग्नाभिः कूर्चितं दृष्टं मर्दितं स्वस्य वर्ष्म यत् ।
स्वस्य रक्तस्य पानं च शुंभेनाऽऽस्वादितं तथा ।।६३।।
शुंभपत्न्या चितायां स्वदेहः क्षिप्तो विलोकितः ।
इत्येवं शुंभदैत्यस्य स्वप्ने जाग्रति सर्वथा ।।६४।।
दृश्यन्ते नाशचिह्नानि तेन ग्लानिमगात् स हि ।
तावन्निशुंभमरणं श्रुतवान् सैन्यमर्दनम् ।।६५।।
रुरोद बहुधा तत्र मुमोह च पुनः पुनः ।
अथापि तामसाद्भावाद्रागाच्च काममूलकात् ।।६६।।
पुनः स्मृतिं समालेभे वैरनिर्यातनाय च ।
महागजं समारुह्य प्रासपाणिः समभ्यगात् ।।६७।।
यावदभ्यागतः क्रोधाद्रणे हन्तुं च कौशिकीम् ।
रणभेर्यो डिण्डिमानि ह्यवाद्यन्त मुहुर्मुहुः ।।६८।।
सैन्यानि चतुरशीतिः कम्बूनां निर्ययुस्ततः ।
असुराणां च पंचाशत्कुलानि निर्ययुस्तदा ।।६९।।
शतं कुलानि धूम्राणां निर्ययुश्च तदाऽपरे ।
कालकानां दौर्हृतानां मौर्याणां कुलकोटयः ।।1.167.७०।।
करिस्थं शुंभमालोक्याऽऽगतं वै रणमण्डले ।
अष्टभुजं महाहेतिं देवा शंखमवादयत् ।।७१।।
धनुष्टंकारयामास वादयामास घण्टकम् ।
पूरयामास ककुभो रणशब्दैस्तदाऽम्बिका ।।७२।।
सिंहस्तु गर्जनां चक्रे त्याजितेभमहामदाम् ।
सिंहाः सहस्रशस्तत्र गर्जनाभिर्दिवस्तलम् ।।७३।।
पूरयामासुरत्युग्रप्रतिध्वनिनिनादितम् ।
देव्यः सहस्रशस्तत्र समाजग्मुः रणांगणे ।।७४।।
महादेव्याज्ञया सर्वा राज्ञ्योऽपि रणचण्डिकाः ।
या देव्यो ब्रह्मणो दास्यो याश्चेन्द्रबलदासिकाः ।।७६।।
वरुणस्य तथा दास्यो यमदास्यश्च कोटिशः ।
कुबेरदासदास्यश्च ईशानदासदासिकाः ।।७६।।
अग्निदास्योऽयुताऽयुता नैर्ऋतदासिकास्तथा ।
वायोश्च दासिकाकोटिर्दिक्पालानां च दासिकाः ।।७७।।
लोकपालसमस्ताग्र्यदास्यः सैन्यकृतश्रमाः ।
युद्धशस्त्रास्त्रकुशला अर्बुदाऽर्बुदकोटयः ।।७८।।
अनन्तशस्त्रयानादिदिव्यवाहनशोभनाः ।
चतुर्दशसु लोकेषु रत्नभूताश्च सुश्रुताः ।।७९।।
युद्धसंग्रामवेदिन्यः सैन्यनार्यः समागताः ।
असुराणां समस्तानां नाशोऽवश्यमपेक्ष्यते ।।1.167.८०।।
अन्यथा सुरकोटीनां सुखं क्वापि न संभवेत् ।
शिरसां विनिपातेन पणेन सुखमाप्यते ।।८ १ ।।
सकवचशिरस्त्राणाः सैन्यवेशसुशोभनाः ।
सयौवनपूरबला अबला बलवर्तनाः ।।८२।।
सुसज्जसर्वयुद्धांगा रणागणमुपस्थिताः ।
सर्वाभ्यः पायितं महेन्द्रेणाऽमृतं रणांगणे ।।८३।।
सन्धिनी जीवनी चैव विशल्यकरणी तथा ।
विरामदायिनी मूर्छाहारिणी रक्तरोधिनी ।।८४।।
विविधौषधयोऽश्विनीकुमारेणाहृतास्तदा ।
द्वेधा भिन्नशरीराणां खण्डानां सन्धिकारकाः ।।८५।।
द्रागेव प्राणसञ्चारा रसास्तत्राऽऽहृतास्तदा ।
अमृतानि भोजनानि पानान्यमृतकानि च ।।८६।।
रक्षितास्तत्र संग्रामे शिबिरेषु सुरादिभिः ।
नारीसैन्यप्ररक्षार्थं देवैः सम्पादितं नवम् ।।८७।।
जये युद्धे ध्रुवं स्याच्च स्यान्न रोम्णोऽपि नाशनम् ।
देवीपक्षस्य कस्यापि मृतिः क्षतिर्न वै भवेत् ।।८८।।
इत्येवं सञ्चितं सर्वं कुशलैः कार्यवेदिभिः ।
शुंभेनापि यथा रक्षा भवेत् क्लृप्तं तदन्तिके ।।८९।।
अथ युद्धसमारंभसूचकः सुमहान् ध्वनिः ।
रणशृंगस्य भेर्याश्च व्योममार्गे कृतोसुरैः ।।1.167.९०।।
ततो युद्धमतीवासीऽऽद् देव्याः शुंभस्य सैन्ययोः ।
देव्यस्तदाऽर्बुदार्बुदसंख्याका जघ्नुरासुरान् ।।९१ ।।
कोट्यर्बुदाब्जा असुरा जघ्नुर्देवीमयं वनम् ।
भेर्यश्चाऽसुरकोटीनामूचुः शृण्वन्तु भोऽसुराः ।।९२।।
दैत्यदानववंशानां नाशार्थं चाऽबलाजनः ।
समागतोऽस्ति संग्रामे युद्धं कुरुत जीवहृत् ।।९३।।
मा वै पृष्ठं निरीक्षन्तां मा कुर्वन्तु द्यां रणे ।
नारीयमिति मत्वा तां मा त्यजन्तु रणांगणे ।।९४।।
अद्य भूरासुरी स्याद्वा स्याद्वा देवमयी ध्रुवम् ।
द्वयोरेकसमस्तित्वं जायतां नोभपक्षकम् ।।९५ ।।
सुरा जीवन्तु यद्वा चाऽसुरा जीवन्तु केवलम् ।
मा सुराऽसुरमिश्रं वै सर्जनं चेष्यतेऽधुना ।।९६।।
विधुराः सन्तु देवा वा दानव्यो विधवाश्च वा ।
यद्भवतु भवत्येव मा कुरुत पलायनम् ।।९७।।
मारयन्तु नाशयन्तु घातयन्तु च चण्डिका ।
धर्षयन्तु मर्दयन्तु चूर्णयन्तु च चंचलाः ।।९८।।
इति दानवभेर्यश्च बोधयन्ति रणांगणे ।
शंखस्तदा तु देवीनां घोषयन्ति रणांगणे ।।९ ९ ।।
भक्षयन्तु जक्षयन्तु ध्वंसयन्तु च दानवान् ।
दारयन्तु पारयन्तु मारयन्तु च मोहकान् ।। 1.167.१०० ।।
असुराः सर्वथा देवान् त्रासयन्ति क्षणे क्षणे ।
त्रासयन्तु ह्रासयन्तु ग्रासयन्तु ममाग्रतः ।। १० १।।
भवतीनां सहायार्थं देवाः सर्वे उपस्थिताः ।
मा पश्चपादं कुर्वन्तु नश्यन्तु नाशयन्तु च ।। १ ०२।।
इत्येवं तु तदा जाता बोधदा व्योमगर्जनाः ।
भेरीशंखकृताः शब्दाः श्रूयन्ते कालनोदिताः ।। १ ०३।।
युद्धे मृतानां स्वर्गं च जीवितानां क्षितीशता ।
निवृत्तानां न वै किञ्चित्तस्मात् मर्तव्यमत्र हि ।। १०४।।
इत्येवं रणशृंगाणि बोधयन्ति भटान् भटोः ।
तावत्प्रवर्तिता घाताः शस्त्राणां पातनानि च ।। १ ०५।।
निशितैश्च शरैर्बाणैर्नाराचैर्जघ्नुरग्रिमान् ।
क्षुरप्रैरर्धचन्द्रैश्च शूलैर्जघ्नुः परस्परम् ।। १ ०६।।
कात्यायन्या च कौशिक्या काल्या चामुण्डया तथा ।
बाणैराच्छादितं सैन्यं दानवानां नभस्तले ।। १०७।।
कम्बुकैः कालकैर्धौम्रैः कालकेयैश्च दौर्हृतैः!
बाणैराच्छादितं सैन्यं देवीनां च नभस्तले ।। १ ०८।।
चिच्छिदुर्बाणसंघातान् बाणैर्जघ्नुस्तथाऽपरैः ।
अक्षय्यसायकास्तत्र तुणीराः क्षीणतां ययुः ।। १ ०९।।
विनष्टा ज्वलिता भग्नाः खण्डिताः सायका यदा ।
धनुषो दैत्यदेवीनां बभंजुः शूलघातनैः ।। 1.167.११० ।।
हताश्च लक्षशो दैत्याः पोथयन्ति भुवस्तले ।
छिन्नपादो छिन्नहस्ताश्छिन्नकंधरवक्षसः ।। १११ ।।
देव्यश्च लक्षशस्तत्र मूर्छयन्ति रणांगणे ।
वाहनानि विनष्टानि भग्ना मृता गजादयः ।। ११ २।।
सिंहाश्च महिषास्तत्र मयूरोष्ट्रा मृता रणे ।
देवैर्दैत्यैः प्राणरसैर्मन्त्रैश्च जीविताः पुनः ।। ११ ३।।
अथ शस्त्रैश्च भल्लैश्च त्रिशूलैश्च भूशुण्डिभिः ।
परीघैश्च गदाभिश्च प्रासैश्च तोमरैस्तथा ।। १ १४।।
खड्गैश्च शक्तिभिस्तीक्ष्णकरवालैः परश्वधैः ।
युद्धं चान्योन्यमभवन्निकन्दनकरं तदा ।। १ १५।।
छिद्यन्ते देहतस्तत्र भिद्यन्ते वक्षसस्तथा ।
कटितश्च वियुज्यन्ते खण्ड्यन्ते हस्ततस्तथा ।। १ १६।।
म्रियन्ते कण्ठतस्तत्र पात्यन्ते शक्थितस्तथा ।
आकृष्याकृष्य हन्यन्ते श्लिष्ट्वाऽऽश्लिष्याऽर्दयन्ति च ।। १ १७।।
पादं पादं समगृह्य पाटयन्ति द्विधा रणे ।
हाहाकारो महानासीत् कोऽयं केयं न बुध्यते ।। १ १८।।
यदगो चागतं वर्ष्म द्वेधा भवति तत्क्षणे ।
इत्येवमन्धवेगो वै संग्रामो मूर्छनाभरः ।। १ १९।।
जातः कोट्यब्जकोट्यश्च नष्टाः सैन्यभटास्तदा ।
पृथिवी रक्तवर्णाढ्या देवीदैत्यशवान्विता ।। 1.167.१२०।।
रक्तनदीशतैर्व्याप्ता देहारण्याऽऽगतिसृतिः ।
शैलाभदन्तिदेहाढ्या खरोष्ट्रादिशवान्विता ।। १२ १।।
मृतासंख्यशवव्याप्ता प्रालेयकालदृश्यदा ।
ये पतिताश्चार्धहताः पानं पानं वदन्ति च ।। १२२।
कबन्धास्तत्र निर्वस्त्राश्चोत्थायोत्थाय भूतले ।
विद्रवन्ति सशस्त्राश्च पुनः पतन्ति भूतले ।। १२३।।
न कश्चित् कस्यचित्तत्र तदा साहाय्यदोऽभवत् ।
कोमलाः कोटिशो देव्यो दैत्याश्च नवयौवनाः ।। १२४।।
संग्रामे स्वर्णरूपास्ते मृता दीव्यन्ति चन्द्रवत् ।
रणे विपोथिता नष्टा महाकालकृतं हि तत् ।। १२५।।
दर्शकानां हृदयानां हृत्सु त्रासोऽप्यभून्महान् ।
ततो वै ब्रह्मणा तत्र विभावर्यै निवेदितम् ।। १२६।।
निद्रास्त्रं योजय त्वं च काले तद् युज्यते प्रिये ।
विभावर्या तदा निद्रामन्त्राधिकृतदैवतम् ।। १२७।।
अस्त्रं शराग्रे संयुज्य विमुक्तं सैन्ययोस्तदा ।
देवीदानवसैन्यानि निद्राभिभववन्ति च ।। १२८।।
जातान्येव सुषुप्तौ च विश्राम्यन्ति तु सर्वथा ।
अथ दैत्यैस्तदा देवीसैन्योपरि प्रवर्षणम् ।। १२९।।
अमृतस्य कृतं चैवौषधीनां जीवदायिनाम् ।
देव्यः सिंहा वाहनानि चेतनानि च यानि वै ।। 1.167.१३ ०।।
तानि सर्वाण्यमृतस्य वृष्ट्या संजीवितानि हि ।
दैत्याश्चापि तदा मन्त्रैर्दैत्यान् प्राजीवयँस्तदा ।। १३ १।।
संजीवन्या च सन्धिन्या विशल्यया विरामया ।
मूर्छानाशिकया रक्तरोधिन्या प्राणदैः रसैः ।। १३२।।
यथा चिकित्सितं सैन्यं जीवितं नीरुजीकृतम् ।
सर्वं स्वस्थं तदा जातं स्वापात् यथोत्थितं भवेत् ।। १३३।।
तथा देवीमहासैन्यं पुनः सज्जं बभूव ह ।
दैत्यानामपि तादृग्वै पुनः सज्जं बभूव ह ।। १ ३४।।
ब्रह्मणा च तदाऽऽज्ञप्ता स्वके सैन्ये विभावरी ।
निद्रास्त्रं चाऽऽहृतवती सुखं सैन्योभयेऽभवत् ।। १३५।।
ब्रह्मा प्राह तदा शंभुं दानवानां विनाशनम् ।
अस्त्रैरेव प्रकर्तव्यं युद्ध्यन्तां चण्डिकादिकाः ।। १ ३६।।
शस्त्रं फुत्कृत्य रोषेण शत्रून् ध्यात्वा प्रयोजयेत् ।
कालकवलमन्त्रोऽयं देवीभ्यो दीयतां त्वया ।। १३७।।
ओ मृतेर्मृत्योर्महामृत्यो मृत्या सह स्थिरो भव ।
ओ मृतिमृत्यो महामृत्यौ स्वमृत्या सन्तिरो भव ।। १३८।।
इति फुत्कारपूर्वं वै शस्त्रं शरादिकं च यत् ।
संप्रक्षिपेच्छत्रुदेहे मृत्वा पुनर्न जीवति ।। १३९।।
बहुभिरौषधिभिश्च मन्त्रैश्चिकित्सनैरपि ।
न पुनर्जीवति मृत्योर्महाकालप्रभावतः ।। 1.167.१४०।।
महाकालाख्यरुद्रेण ब्रह्मणश्चाज्ञया तदा ।
उपदिष्टश्च देवीभ्यः कालकवलमन्त्रकः ।। १४१।।
क्षणमात्रेण सिद्धोऽयं महाकालप्रतापतः ।
ब्रह्मणो वांछया चैव मूर्तिमाँस्तत्र संस्थितः ।। १४२।।
विकरालः कालकालः सशस्त्राऽसुरभक्षकः ।
जीवनानि भक्षयन्स दृष्टो देवीभिरुत्थितः ।। १४३।।
क्षणादनन्तरूपश्चाऽभवद्देवीषु तत्क्षणे ।
सुस्थितश्चाऽभवत्तासां जिह्वासु कार्यसम्मुखः ।। १४४।।
दैत्यैरेतन्न विज्ञातं ब्रह्मरुद्रविचेष्टितम् ।
उत्थिताः स्वाऽमृतत्वं सम्मन्वाना युद्धमाचरन् ।। १४५।।
इतिश्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने रक्तबीजदैत्ययुद्धेऽनन्तदेवीरक्तबीजोत्पत्तिः, मूलरक्तबीजनाशो निशुंभनाशः शुंभाऽपशकुनानि, दानवसमारोहः, चतुर्दशभुवनीयदेवीसैन्यागमः, संजीवन्याद्युपस्थितिः, सवादित्रशस्त्रादितुमुलयुद्धकृन्महाविनाशे विभावरीमुक्तनिद्रास्त्रं सैन्यजीवनं देवीनां
कालकवलमन्त्रप्राप्तिश्चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकशततमोऽध्यायः ।। १६७।।