← अध्यायः १७७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७८
[[लेखकः :|]]
अध्यायः १७९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि परेशो वा महेशो वा जनार्दनः ।
लोकरीतिश्च प्रकृतिर्बाधते तानपि क्वचित् ।। १ ।।
मानाऽवमाने देवस्य बाधेते ब्रह्मणो यदि ।
तर्हि तत्र च दक्षादेः का कथा क्षुद्रदेहिनः ।।२ ।।
सतीदेहे प्रदग्धे च शंकरो मोहमाप्तवान् ।
कलत्रशोको बलवान् स्वात्मारामं परात्परम् ।। ३ ।।
बाधते ज्ञानिनं चापि योगीन्द्राणां गुरोर्गुरुम् ।
सतीदेहस्य यद्भस्म चास्थिपुष्पाणि यानि च ।। ४ ।।
गृहीत्वा शंकरस्तानि विललापाऽश्रुनेत्रकः ।
उत्तिष्ठोत्तिष्ठ सुभगे सति प्राणेश्वरि प्रिये ।। ५ ।।
शंकरोऽहं तव स्वामी पश्य मां निकटागतम् ।
सर्वात्मानमतिदीनं शवतुल्यं त्वया विना ।। ६ ।।
यश्च शक्तिं न जानाति ज्ञानहीनश्च निन्दति ।
तं त्यक्तुमुचितं विज्ञे कथं मां त्यजसि प्रिये ।। ७ ।।
सस्मितं सकटाक्षं च वदागत्य सुधोपमम् ।
मधुराभासदृष्ट्या च मां दग्धं सिक्तमाचर ।। ८ ।।
प्राणाधिके समुत्तिष्ठ रुदन्तं मां न पश्यसि ।
परित्यज्य च नः प्राणान् गन्तुं नार्हसि सुन्दरि ।। ९ ।।
पतिव्रते समुत्तिष्ठ कथं मां नाऽद्य सेवसे ।
इत्युक्त्वा च सतीभस्म देहे शंभुरधारयत् ।। 1.178.१० ।।
गंगातटे रुरोदोच्चैः सति साध्वीत्युदीर्य च ।
त्रिनेत्रनेत्रनीरैश्च संबभूव सरः तनुः ।। ११ ।।
तद्वै नेत्रसरो नाम तीर्थं जातं तपःस्थलम् ।
सत्यस्थिमालिकां कृत्वा दधार कण्ठभूषणम् ।। १२।।
नित्यं तद्भस्म भक्त्या च चकार गात्रलेपनम् ।
सति प्राणेश्वरीत्युक्त्वा पुनर्मूर्छामवाप सः ।। १ ३।।
तदा देवाः सपार्षदो नारायणश्चतुर्भुजः ।
ब्रह्मा शेषश्च धर्मश्च सुराः सर्वे महर्षयः ।। १४।।
मूर्छितं च समुत्थाय रुदन्तं शंकरं तदा ।
उचितं बोधयामासुर्विष्णुः प्राह तदुत्तरम् ।। १ ५ ।।
शंभो मायागुणाः सर्वे हेतवः सुखदुःखयोः ।
विष्णुमाया बलवती गुणयुक्तं प्रबाधते ।। १ ६।।
दुःखं शोको भयं शंभो गुणातीते भवेन्नहि ।
मन्वते सुखदुःखानि स्वप्नानीव विपश्चितः ।। १ ७।।
ज्ञानं लभ महादेव स्वस्थो भव महेश्वर ।
चेतनां कुरु भद्रं ते सतीं प्राप्स्यसि निश्चितम् ।। १८ ।।
सुदिनं दुर्दिनं शश्वद् भवत्येव भवे भवे ।
ताभ्यां हर्षश्च शोकश्च जायते प्राकृते जने ।। १९ ।।
शुभेन चाऽशुभेन कर्मणा सुदिनदुर्दिने ।
तत्र कर्म शुभं कार्यं सदा सत्त्वस्वभावजम् ।। 1.178.२० ।।
सत्त्वं संसर्गसाध्यं च संगः पुण्यबलाद्भवेत् ।
पुण्यहेतुर्मनो बोध्यं मानऽसेहं हरिः स्थितः ।। २१ ।।
मया च हरिणा सर्वं कार्यते शोचनं त्यज ।
अथ चैकं परब्रह्म द्विविधं भवतीच्छया ।। २२ ।।
नित्यं च प्राकृतं चैव शरीरं द्विविधं हि तत् ।
नित्यं विनाशरहितं नश्वरं प्राकृतं सदा ।। २३ ।।
अहं त्वं चापि भगवान्नावयोर्नित्यविग्रहः ।
आवयोरंशभूता ये प्राकृता नष्टविग्रहाः ।। २४।।
रुद्रादयस्तदंशाश्च मदंशा विष्णुरूपिणः ।
ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम् ।। २५।।
चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह ।
गोलोके द्विभुजोऽहं च गोपीभिः सह राधया ।। २६।।
एवं स भगवानास्ते नित्यः सः पुरुषोत्तमः ।
नित्या च प्रकृतिस्तस्य ह्युत्तमा पौरुषी मता ।। २७।।
महामाया महालक्ष्मीर्महेश्वरी च सैव ह ।
सदा तौ द्वौ च संश्लिष्टौ सर्वेषां पितरौ शिव ।। २८।।
सतीमिच्छसि चेच्छंभो प्रकृतेःस्तवनं कुरु ।
शोकं त्यज स्वीयमायां भज स्मर जगत्प्रसूम् ।। २९।।
शोकनाशो जायतां ते शिवं स्याच्च ममाऽऽशिषा ।
दूरं विप्लवहेतुश्च यातुस्त्रीविरहज्वरः ।। 1.178.३० ।।
इत्युक्त्वा श्रोहरिर्मौनमाससादाथ शंकरः ।
स्नात्वा नत्वा च श्रीकृष्णं बद्धपुटांजलिस्ततः ।। ३१ ।।
स्तवनं कर्तुमारेभे ब्रह्मशक्तेः सभक्तिकः ।
'ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि ।।३२।।
परमात्मस्वरूपे च परमानन्दरूपिणि ।
ओं प्रकृत्यै नमो भद्रे मां प्रसीद भवार्णवे ।।३३।।
सर्वमंगलरूपे च प्रसीद सर्वमंगले ।
विजये शिवदे देवि मां प्रसीद जयप्रदे ।। ३४।।
वेदवेदांगरूपे च वेदमातः प्रसीद मे ।
शोकघ्ने ज्ञानरूपे च प्रसीद भक्तवत्सले ।।३५।।।
सर्वसम्पत्प्रदे माये प्रसीद जगदम्बिके ।
लक्ष्मीर्नारायणक्रोडे स्रष्टुर्वक्षसि भारती ।।३६ ।।
मम क्रोडे महामाया विप्णुमाये प्रसीद मे ।
कालरूपे कार्यरूपे प्रसीद दीनवत्सले ।। ३७।।।
कृष्णस्य राधिके भद्रे प्रसीद कृष्णपूजिते ।
समस्तकामिनीरूपे कलांशेन प्रसीद मे ।।३८।।
सर्वसम्पत्स्वरूपे त्वं प्रसीद सम्पदां प्रदे ।
यशस्विभिः पूजिते त्वं प्रसीद यशसां निधे ।। ३९ ।।
चराचरस्वरूपे च प्रसीद मम मा चिरम् ।
मम योगप्रदे देवि प्रसीद सिद्धयोगिनि ।।1.178.४० ।।
सर्वसिद्धिस्वरूपे च प्रसीद सिद्धिदायिनि ।
अधुना रक्ष मामीशे प्रदग्धं विरहाग्निना ।। ४१ ।।
स्वात्मदर्शनपुण्येन क्रीणीहि परमेश्वरि ।
इत्युक्त्वा विरतः शंभुर्ददर्श गगनस्थिताम् ।।४२।।
तप्तकांचनवर्णाभां रत्नाभरणभूषिताम् ।
ईषद्धास्यप्रसन्नास्यां शतभुजां च तां सतीम् ।।४३।।
दृष्ट्वा तां विरहासक्तः पुनस्तुष्टाव सत्वरम् ।
दुःखं निवेदयामास प्ररुदन् विरहोद्भवम् ।।४४।।
दर्शयामासाऽस्थिमालां स्वांगस्थं भस्म भूषणम् ।
कृत्वा बहुपरीहारं तोषयामास सुन्दरीम् ।।४५।।
बभूव परितुष्टा सा शंभुमुवाच भावतः ।
स्थिरो भव महादेव प्राणाधिक मम प्रभो ।।४६।।
भवानात्मा च योगीशः स्वामी जन्मनि जन्मनि ।
अहं शैलेन्द्रकामिन्यां लब्ध्वा जन्म महेश्वर ।।४७।।
तव पत्नी भविष्यामि मुञ्च त्वं विरहज्वरम् ।
इत्युक्त्वा शिवमाश्वास्य चान्तर्धानं चकार सा ।।४८।।
स्वनिवासान्सुरा जग्मुः कैलासं च ययौ हरः ।
ननर्त सगणस्तूर्णं सन्त्यज्य विरहज्वरम् ।।४९।।
एतत्पठेच्छृणुयाच्च न वियोगज्वरो भवेत् ।
न भवेत्कामिनीभेदस्तस्य जन्मनि जन्मनि ।।।1.178.५ ० ।।
इत्येवं शंकरं तूक्त्वा मेनायां जन्मकामुकी ।
जगाम हिमवद्देशेऽदृश्यरूपा चचार सा ।।५१।।
कुर्वाणा च तपो दिव्यं शिवस्य व्यचरत् सखी ।
शिवं शिवं भजमाना समयं तं प्रतीक्षते ।।५२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीदाहोत्तरं भस्मास्थीनि समादाय शंकरस्य गंगातटे शोकः सतीस्तोत्रं सतीदर्शनं पार्वती-
जन्मवचनं चेत्यादिनिरूपणनामाऽष्टसप्तत्यधिकशततमोध्यायः ।। १७८ ।।