← अध्यायः १७८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७९
[[लेखकः :|]]
अध्यायः १८० →

श्रीनारायण उवाच-
श्रूयतां च महालक्ष्मि विधुरः शंकरः क्वचित् ।
हिमालये विचचार शैलपत्नीं ददर्श सः ।। १ ।।
साधुस्वरूपः सौम्यश्च प्रसन्नतां प्रकाशयन् ।
शंभुरुवाच मातर्मे भिक्षां देह्येकलाय मे ।। २ ।।
मेना पक्वान्नमादाय यावद्ददाति शंभवे ।
शंभुः प्राह तदा मेनां भिक्षां देह्येकलाय मे ।। २ ।।
इयं पक्वान्नभिक्षा तु नैकस्यैव कृते भवेत् ।
तत्रान्येषां विभागोऽस्तित भिक्षां देह्येकलाय मे ।। ४ ।।
यत्र नान्यस्य भागोऽस्ति वृणे भिक्षां तु तादृशीम् ।
मेना प्राह तदा साधुं साधो किमिच्छसि प्रियम् ।। ५ ।।
यथेच्छसि तथा दास्ये स्फुटं वद ददाम्यहम् ।
मेनां शंभुस्तदा प्राह ददामीत्युच्यते यदि ।। ६ ।।
प्राप्नोमीत्येव च प्राप्ता प्राप्स्याम्यवसराऽऽगमे ।
मातस्तदाऽऽगमिष्यामि भिक्षां देह्येकलाय मे ।। ७ ।।
मेना त्वाश्चर्यमालोक्य पतिता पादयोस्तदा ।
उवाच दास्येऽवश्यं ते यदि योग्या कृते तव ।। ८ ।।
शंभुः प्राह तथास्त्वेव मातः पश्य तया विना ।
विचरामि महारण्ये प्रियया शिवया विना ।। ९ ।।
तव गेहे सती दक्षपुत्री जन्म ग्रहीष्यति ।
सा मत्कृते भवेद्भिक्षा शंकरोऽहं समागतः ।। 1.179.१ ०।।
मेना श्रुत्वा त्वत्यतीव प्रसन्नाऽभूद् हृदन्तरे ।
भोजितः पूजितः शंभुर्जगाम च यथेच्छया ।। १ १।।
तत आरभ्य मेना सा सस्मार भाविपुत्रिकाम् ।
शंभुं जामातरं चैव मुमोद हृदयाम्बरे ।। १२।।
प्राग्भवीयभक्तिवशात् शिवे भक्तिर्व्यवर्धत ।
शिवां ध्यात्वा शिवामाता भविष्यति समुद्रजे ।। १ ३।।
लक्ष्मीरुवाच-
मेनका सा शिवामाता काऽऽसीत्तच्छ्रीहरे वद ।
हरिः प्राह शृणु लक्ष्मि! कथयामि समासतः ।। १४।।
वेधःपुत्रस्य दक्षस्य कन्याः षष्टिः प्रकीर्तिताः ।
तासां विवाहमकरोत् स वरैः कश्यपादिभिः ।। १५।।
तासां मध्ये स्वधानाम्नी पितृभ्यो दत्तवान् सुताम् ।
तिस्रोऽभवन् सुतास्तस्याः सुभगाः धर्मसंभृताः ।। १६ ।।
ज्येष्ठा मध्या कनिष्ठा च मेना धन्या कलावती ।
एताः पितृमानसोत्थास्तिस्रश्चाऽयोनिजा हि ताः ।। १७।।
अव्याहतगतिकास्ता योगिन्यः कामरूपगाः ।
एकस्मिन् समये तिस्रो भगिन्यस्तीर्थवाञ्च्छया ।। १८।।
श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे ।
दिव्यं विमानमारुह्य गतास्ताः कामगं शुभम् ।। १ ९।।
विमानादवतीर्यैव चक्रुर्विष्णोः स्तुतिं नतिम् ।
तस्थुस्तदाज्ञया श्वेते सुसमाजो महानभूत् ।।।1.179.२ ० ।।
समाजे तत्र पञ्चहायना ब्रह्मसुतास्तदा ।
सनकाद्याः समाजग्मुः स्तुत्वा नत्वा हरिं ततः ।।२ १ ।।
समाजे विष्णुवचनात् तस्थुस्ते सनकादयः ।
समाजश्च तदोत्तस्थौ मुनिस्वागतमाचरन् ।।२२।।
देवीसतीयोगिनीनां समाजोऽप्युत्थितस्तदा ।
तिस्रो भगिन्यः पश्चात्स्था नोत्तस्थुर्मोहतो यथा ।।२३।।
तास्तिस्रो योगिनीनां मध्यपृष्ठे संस्थिता यतः ।
पाश्चात्या नैव पश्यन्ति पौर्वास्तेऽपि च ताँस्तथा ।।२४।।
नः तिस्र नैव पश्यन्ति समाजाग्रस्थिता यतः ।
किमुत्थाय च कर्तव्यं मत्वैवं नोत्थिता यतः ।।२५।।
सैषा मायाऽऽलस्यरूपा प्रमादात्मकमोहिनी ।
भूत्वा तद्वशगास्ता वै न चक्रुर्योग्यमर्हणम् ।।२६।।
यद्यपि ज्ञानिनः सन्तो न क्रोधवशगा ननु ।
किन्तु भाविप्रबलेन प्रेरिताः क्रोधरश्मिना ।।२७।।
तासां तात्कालिकीं दृष्ट्वा शान्तोपि योगीशः कृतिम् ।
सनत्कुमारो मुक्तात्मा शापं दण्डकरं ददौ ।।२८।।
यूयं तिस्रो भगिन्यो वै पितृकन्या अपि ध्रुवम् ।
शिष्टाचारविहीनाः स्थाऽभ्युत्थाननतिवर्जिताः ।।२९।।
क्षुद्रमानवकृत्याढ्याः दूरा भवतु वै दिवः ।
नरस्त्रियः संभवतु लभध्वं स्वकृतेः फलम् ।।1.179.३ ०।।
तिस्र आकर्ण्य साध्व्यस्ताः पतित्वा पादयोर्मुनेः ।
प्राहुर्मुने दयासिन्धो प्रसन्नो भव सर्वथा ।।३ १ ।।
त्वादृशानां सतां भावो हृदयेऽस्माकमस्ति वै ।
प्रमादान्न नतिरभ्युत्थानादिसत्क्रियाः कृताः ।।३२।।।
फलं लब्धं कृतेः स्वस्याः कुरुष्वानुग्रहं मुने ।
तवैव वचनाद् ब्रह्मन् लभेम स्वर्गतिं पुनः ।।।३३ ।।
कृपां कृत्वा ऋषिस्तत्र प्रोवाच प्रीतमानसः ।
शापोद्धारं करोम्येव महत्कार्यं भविष्यति ।।३४।।
त्वन्निमित्तं च सुखदं यत्राऽऽश्लेषो हरेर्भवेत् ।
ज्येष्ठा मेना हरेरंशभूतस्य हिमभूभृतः ।। ३५।।
पत्नी भवतु ते कन्या पार्वती संभविष्यति ।
यां शंभवे प्रदायैव प्राप्स्यसि सुखमुत्तमम् ।।३६।।
अन्ते शिवाऽशिवाऽऽशीर्भिर्मुक्तिं कैलासमाप्स्यसि ।
मध्या धन्या सिरध्वजजनकस्य प्रियांऽगना ।।३७।।
भवतु ते सुता महालक्ष्मीः सीता भविष्यति ।
यां रामाय प्रदायैव प्राप्स्यसि सुखमुत्तमम् ।।३८।।
अन्ते सीतारामस्य कृपया वैकुण्ठमाप्स्यसि ।
कलावती कनिष्ठा च वृषभानुविशो गृहे ।।३९।।
पत्नी भवतु ते कन्या राधिका संभविष्यति ।
यां कृष्णाय प्रदत्वा त्वं प्राप्स्यसि सुखमुत्तमम् ।।1.179.४०।।
अन्ते च राधाकृष्णकृपया गोलोकमाप्स्यसि ।
सुकर्मिणां गते दुःखे प्रभवेद् दुर्लभं सुखम् ।।४१।।
यूयं पितृसुताः सर्वाः सदा स्वर्गविलासिकाः ।
एतन्निमित्तमालम्ब्य मोक्षगाः संभविष्यथ ।।४२।।
पश्चात्सनत्कुमाराद्याः समाजात्स्वालयं गताः ।
मेनादिकास्तिस्र ईयुः स्वपितृभवनं ततः ।।४३।।
अथैकदा कुरुक्षेत्रे स्नात्वा हीन्द्रादयः सुराः ।
आषाढे मासि मार्गर्क्षे चन्द्रक्षयतिथिर्हि सा ।।४४।।
ददुरिन्द्रादयस्तस्यां पिण्डान् पितृभ्य आदरात् ।
तिलान्मधु सुपक्वान्नं मिष्टं हविष्यमित्यपि ।।४५।।
ततः प्रीतास्तु पितरो देवानाह सुतृप्तितः ।
वृणुत किं वितरामो देवाः प्राहुस्तदा पितॄन् ।।४६।।
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।
कर्तव्यं तत्तथैवाऽऽशु देवकार्येप्सवो यदि ।।४७।।
यूयं स्मरथ कन्यानां श्वेतद्वीपे वृतं च यत् ।
सनत्कुमारशापं तं स्मरताऽथोचितं मतम् ।।४८।।
मेना नाम सुता या वो ज्येष्ठा मंगलकारिणी ।
तां विवाह्य च सुप्रीत्या हिमाख्येन तु भूभृता ।।४९।।
सर्वे भवन्तु सुखिनो लाभवन्तः पदे पदे ।
युष्माकममराणां च दुःखहानिर्भविष्यति ।।1.179.५० ।।
सुराणां वचनं श्रुत्वा स्मृत्वा शापं पुरा भवम् ।
ओमिति प्रोचुः पितरो ददुर्मेनां हिमाद्रये ।।५१।।।
हिमाद्रिः पर्वतो दिव्यो महातेजाः समृद्धिमान् ।
द्विरूपो वर्तते लोके जंगमस्थिरभेदतः ।।५२।।
पूर्वापरौ तोयनिधी सुविगाह्य स्थितः स्थिरः ।
तुषारविधिरत्युग्रो देवर्षिसिद्धसंश्रितः ।।५३।।
तपः सिद्धिप्रदं शीघ्रं पावनश्च महात्मनाम् ।
स एव दिव्यरूपो हि रम्यः सर्वांगसुन्दरः ।।५४।।
विष्ण्वंशश्च महाभक्तः शैलराजः सुमूर्तिमान् ।
स एव स्वकुलस्थित्यै धर्मवर्धनहेतवे ।।५५।।
स्वविवाहं कर्तुमना पितृदेवहितेच्छुकः ।
मेनापाणिं च जग्राह विवाहविधिना तदा ।।।५६।।
समुत्सवो महानासीत् तद्विवाहे सुमंगले ।
हर्यादयोऽपि ते देवा ऋषयो मुनयोऽद्रयः ।।५७।।
आजग्मुस्तत्र वैवाहे प्रशशंसुर्हिमाचलम् ।
उत्सवं कारयामासुर्ददुर्दानानि भूरिशः ।।५८।।
महामोदान्विता देवाः पितॄन्दिव्यान्प्रशस्य च ।
संजग्मुः स्वस्वधामानि प्राप्य सत्कारपूजनम् ।।५९।।
मेनां तु युवतीं प्राप्य हिमवान् गृहधर्मतः ।
प्रीतिमानभवत्तत्र रेमे कामाद् यथेच्छया ।।1.179.६०।।
अथ दक्षसुता काले सती तु हिमपर्वते ।
यदाऽऽसीच्छंभुना सार्धं तदैव तां तु मेनका ।।६१।।
मम गेहे कृतावासा मत्सुता वै सती मता ।
इति सुतासमां ज्ञात्वा सिषेवे मातृवर्चसा ।।६२।।
एवं नित्यं ध्यायमाना सेवते मेनका सतीम् ।
सती च दक्षयज्ञे स्वतनुं त्यक्त्वाऽस्मरत्प्रसूम् ।।६२।।
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।
समयं प्राप्य प्रीत्या सा मेनकापुत्रिकाऽभवत् ।।६४।।
पार्वती सा तपः कृत्वा पतिं प्राप शिवं पुनः ।
मेनायां कन्यकास्तिस्रो जाता रूपगुणान्विताः ।।६५।।
रागिणी कुटिला काली तिस्रः कन्या यथाक्रमम् ।
रक्तांगी रक्तनेत्रा च रक्ताम्बरविभूषिता ।।६६।।
रागिणी नाम संजाता ज्येष्ठा मेनासुता प्रिये ।
शुभांगी पद्मपत्राक्षी नीलकुंचितमूर्धजा ।।६७।।
श्वेतमाल्याम्बरधरा कुटिला नाम मध्यमा ।
नीलांजनचयप्रख्या नीलेन्दीवरलोचना ।।६८।।
रूपेणाऽनुपमा काली जघन्या मेनकासुता ।
सुनाभ इति च ख्यातश्चतुर्थतनयोऽभवत् ।।६९।।
जातास्ताः कन्यकास्तिस्रः षडब्दात् पुरतः प्रिये ।
कर्तुं तपः प्रयाताश्च देवास्ता ददृशुः शुभाः ।।1.179.७०।।।
ततो दिवाकरैः सर्वैर्वसुभिश्च तपस्विनी ।
रागवती नाम कन्या दिवं नीता सुरैस्तदा ।।७१ ।।
ब्रह्मणा सा कृता सन्ध्यारागवती सुविग्रहा ।
महिषासुरनाशाय सन्ध्यासमयरूपिणी ।।७२ ।।
प्रतीच्छुकी कृत्तिकाभागे सदा तिष्ठते दिवम् ।
कुटिला ब्रह्मलोकं तु नीता देवैः शशिप्रभा ।।७३ ।।
ब्रह्मा प्राह महिषस्य विनाशार्थमियं सुता ।
शार्वं धारयितुं तेजो न वै शक्ता हि दृश्यते ।।७४।।
अतश्चेयं ब्रह्मलोके सत्ये कृतालया सदा ।
आपोमयी प्लावयन्ती नदी तिष्ठतु मद्गृहे ।।७५ ।।
इति गते कन्यके द्वे ज्ञात्वा मेना तपस्विनीम् ।
तृतीयां पुत्रिकां मेनां तपसोऽवारयद्यतः ।।७६ ।।
उ मा तपः कुरु पुत्रीत्येवमुमाऽभिधाऽभवत् ।
इत्येतत्कथितं स्वल्पं किं भूयः श्रोतुमिच्छसि ।।७७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेनायै शंभुना सतीजन्मार्थसूचनम्, मेना धन्या कलावती तिस्रः पितृकन्याः श्वेतद्वीपं जग्मुः
तत्र सनत्कुमारशापः, क्रमशो हिमगिरेः सीरध्वजजनकस्य वृषभानुवैश्यस्य च पत्न्यो जाताः, क्रमशस्तत्पुत्र्यः शिवा सीता राधेति, मेनायां सन्ध्यारागिणी कुटिलाब्रह्मनदी काली चेति पुत्रीत्रयं सुनाभपुत्रश्चेतिनिरूपणनामैकोनाऽशीत्यधिकशततमोऽध्यायः ।। १७९।।