← अध्यायः १८७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८८
[[लेखकः :|]]
अध्यायः १८९ →

श्रीनारायण उवाच-
शृणु सुप्रीतितो लक्ष्मि यज्जातं तदनन्तरम् ।
पार्वत्यागमनं श्रुत्वा मेनायुक्तो हिमाचलः ।। १ ।।
योजयित्वा सुयानानि प्रययौ हर्षविह्वलः ।
पुरोहितश्च पौराश्च सख्यश्चापि कुमारिकाः ।। २ ।।
सम्बन्धिनस्तथा चान्ये भ्रातरो हर्षविह्वलाः ।
जयशब्दं प्रकुर्वन्तो जग्मुस्तां तापसीं प्रति ।। ३ ।।
सुमंगलघटान् न्यस्य राजमार्गे समीकृते ।
चन्दनाऽगुरुकस्तूरीफलशाखादिशोभिते ।। ४ ।।
पुरोधोविप्रमुनिभिर्ब्रह्मर्षिभिश्च संकुले ।
नारीभिर्नर्तकीभिश्च गायिकाभिश्च घोषिते ।। ।५ ।।
गजेन्द्राश्वमहाहंसयानवाहनपूरिते ।
अशोकचूतपत्रादितोरणैः समलंकृते ।। ६ ।।
रंभास्तंभादिसंक्लृप्तमण्डपादिविभासिते ।
पतिपुत्रवतीयोषित्समूहैश्च निनादिते ।। ७ ।।
शतसहस्रदीपानां प्रकाशैर्धवलीकृते ।
मंगलध्वनिकर्तृभिर्द्विजवृन्दैर्विलासिते - ।। ८ ।।
नानावाद्यध्वनिव्याप्ते स्वागतलक्षणांकिते ।
देशाभिजनवृन्दाश्च ययुर्वै पार्वतीं प्रति । । ९ । ।
एतस्मिन्नन्तरे दुर्गाऽऽजगाम गोपुरान्तिकम् ।
विशमाना नगरं प्राक् ददर्श पितरौ हृदा ।। 1.188.१० । ।
सुप्रसन्नौ साश्रुनेत्रौ हर्षविह्वलमानसौ ।
पुत्रीं दृष्ट्ववा प्रधावन्तौ ननाम साऽऽलिभिः सती । । ११ । ।
तौ सुतां वक्षसि कृत्वा युयुजतुः शुभाशिषः ।
भ्रातृस्त्रीप्रभतिनार्यो दृढालिंगनमादधुः । । १ २। ।
साधितस्तपसा कुलतारकः पाविता वयम् ।
इति प्रशंस्य नेमुस्तामानर्चुः पुष्पचन्दनैः ।। १३ ।।
व्योमदेवाः पुष्पवृष्टिं चक्रुर्नेमुश्च तुष्टुवुः ।
पुरं प्रवेशयामासुर्बहुवाद्यमहोत्सवैः ।। १४।।
अथ विप्राः पुरोधाश्च सख्योऽन्याश्च स्त्रियः सतीम् ।
गृहं प्रवेशयामासुर्बहुमानपुरःसरम् ।। १५।।
सख्यो निर्मञ्च्छनं चक्रुर्वृद्धा युयुजुराशिषः ।
मेनिरे सफलं जन्म कुपुत्रात् पुत्रिकां वराम् ।। १६।।
साधुब्राह्मणबन्दिभ्यो हिमाद्रिरूपदा ददौ ।
मंगलानि विविधानि गापयामास सोत्सवः । । १७। ।
सवाद्यगायने प्रवर्तिते वृद्धाश्च जामयः ।
भ्रातरो ज्ञातयः पौराः समूषुर्मण्डपे प्रिये । । १८।।
नार्यो वृद्धाश्च युवत्यश्च कन्या बालास्तथाऽपरा ।
शृण्वन्ति स्म शुभं गानं पश्यन्ति स्म च नृत्यकम् ।। १ ९।।
एतस्मिन्नन्तरे तत्र स्वेच्छया शंकरः स्वयम् ।
सुनर्तकनटो भूत्वा मण्डपं प्रविवेश सः ।।1.188.२० । ।
शृंगं वामे करे धृत्वा दक्षिणे डमरुं तथा ।
पृष्ठे नटीयचित्राढ्यां सकंचुकां पटीं दधन् । ।२१ । ।
रक्तवस्त्रो नृत्यगानकुशलः सन्ननर्त ह ।
चक्रे मनोहरं गानं प्रेमरसप्रचूरकम् ।।।२१ ।
अंगं च डमरू तत्र वादयामास घुर्घुरान् ।
किंकिणीः ठम्मयामास नर्तयामास कल्गिनम् । ।२३। ।
नारीराकर्षयामास भावयामास पार्वतीम् ।
नरान्सन्दर्शयामास नृत्यचातुर्थमेकलम् ।।।२४।।
मेनकां ज्ञापयामास तापसी लग्नमानसम् ।
नागरान्बोधयामास पात्रं महोत्सवस्य सः । २५। ।
तं च विलक्षणं द्रष्टुमाजग्मुर्नागराः परे ।
मुमुहुश्च नरा नार्यः पार्वतीमुदमाप च ।।९६।।
हृाएद ददर्श शंभुं तं त्रिशूलादिसमन्वितम् ।
विभूतिभूषितं चास्थिमालं त्रिलोचनं हरम् ।।२७।।
सचन्द्रं कृतनागोपवीतं व्याघ्रगजाजिनम् ।
सजटं धवलं पुष्टं युवानं षोडशाब्दकम् ।। २८।।
वरं वृण्वित्युक्तवन्तं दृष्ट्वा सा प्रणनाम तम् ।
वरं वव्रे मानसं सा पतिर्मे त्वं भवेति च ।।२९।।
वरं दत्वा तिरोभूय बहिर्ननर्त भिक्षुकः।
मेना ददौ तु रत्नानि पारितोषिकसंज्ञया ।।1.188.३ ०।।
तानि न स्वीचकाराऽसौ भिक्षां याचे तु पार्वतीम् ।
मेना चुकोप चात्युग्रं भर्त्सयामास भिक्षुकम् ।। ३ १।।
ततः स दर्शयामास चमत्कारं हिमाद्रये ।
विष्णुरूपधरं शैलो ददर्श वनमालिनम् । । ३ २। ।
किरीटकुण्डलोपेतं पीतवस्त्रं चतुर्भुजम् ।
यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते ।। । ३३ । ।
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ।
ततो ददर्श तत्रैव ब्रह्माणं स चतुर्भुजम् ।ः ३४। ।
पठन्तं श्रुतिसूक्तानि सवेद्ं सकमण्डलुम् ।
ततः सूर्यस्वरूपं च जगच्चक्षुःस्वरूपकम् । । ३५। ।
ततो ददर्श शंभुं तं पार्वतीसहितं प्रभुम् ।
ततस्तेजःस्वरूपं च ज्योतिर्लिंगस्वरूपकम् । । ३६ । ।
पुना रूपाणि संक्षिप्य ननर्त बहुधा जगौ ।
दत्तेषु बहुरत्नेषु न जग्राह सतीं विना । । ३७।।
ययाचे पार्वतीं भिक्षां न ददौ हिमवाँश्च ताम् ।
ततः शिवां मनाक् वीक्ष्य तत्रैवाऽन्तर्दधे हरः । । ३८ । ।
ततश्चेन्द्रादयश्चिन्तां चक्रिरे बहुधा तदा ।
ययाचे शंकरो भिक्षां न ददौ पर्वतस्तु ताम् । । ३९ । ।
मेनयाऽपि न दत्ताऽहो हानिर्वै समयच्युतिः ।
जानाति मेनका चापि जानाति च हिमाचलः । ।1.188.४० । ।
पुत्रीयं शंभवे देया विस्मृतं तद्धि सर्वथा ।
पात्रे रुद्रे यन्न दत्तं हानिश्चेयं महत्यपि । ।४ १ । ।
अहो माया शंकरस्य मोहो वितन्यतेऽनया ।
देयेति प्रतिश्रुत्याऽपि न ददाम्यभिमन्यते ।।४२ । ।
भूतं यद्भूतमेवैतदथ किं नु भविष्यति ।
पुनः कालः प्रतीक्ष्यः स्यादस्मत्पुण्याऽबलान्ननु । ।४३ । ।
विचार्येति मासकालं विनिर्गमय्य ते सुराः ।
ययुः कैलासमानम्य शंभुं तुष्टुवुरुत्सुकाः । ।४४। ।
देवदेव महादेव वयं ते शरणागताः ।
दीनोद्धार कृपासिन्धो कृपां कुरु नमोऽस्तु ते । ।४५ । ।
एकान्तभक्त्या शैलश्चेत्कन्यां ते स प्रदास्यति ।
पुण्यात् पृथ्वीं परित्यज्य शैलो मोक्षमवाप्स्यति । । ४६ । ।
अनन्तरत्नाढ्यशैलशून्या पृथ्वी भविष्यति ।
वयं रन्तुं वसितुं च क्व गमिष्याम ईश्वराः । । ४७। ।
तवापि शंभो! कैलासं शिखरं मोक्षगं भवेत् ।
तस्मादेवं न कर्तव्यं कर्तव्यं लाभदं तु यत् । ४८ । ।
शैलः पृथ्व्यां सदा तिष्ठेत् पार्वती च हरोऽर्जयेत् ।
अस्मल्लाभो भवेन्नित्यस्तथा कुरु त्रिलोचन । । ४९ । ।
देवनिन्दाश्रवणेन पुण्यं सर्वं विनश्यति ।
कुरु निन्दां स्वकीयां त्वं तत्र गत्वा महेश्वर । ।1.188.५ ० । ।
परनिन्दा पुण्यहा स्यात् स्वनिन्दा यशसे भवेत् ।
तव निन्दां स संश्रुत्वाऽनिच्छुः पुत्रीसमर्पणे ।।५ १।।
भविष्यति ततः कन्या त्वां प्रसह्य वरिष्यति ।
त्वां विहाय सती दुर्गा वरं नान्यं वरिष्यति ।।५२।।
एतत्तु निश्चितं सर्वं तस्माद्गच्छ महेश्वर ।
कन्यादाने तथाऽनिच्छोर्नैव पुण्यं भविष्यति ।।५३।।
तादृक् येन स निर्वाणं ध्रुवं यायाद्धिमाचलः ।
लप्स्यते भूमिजीवित्वं यशः पूज्यत्वमित्यपि । ।५४।।
तथास्त्विति हरः प्रोक्त्वा जगाम हिमभूभृतम् ।
दण्डी छत्री स्वर्णवासा बिभ्रन्पुंड्रं समूर्ध्वगम् ।।५५।।
करे तुलसीसन्मालां शालग्रामं गले दधन् ।
जपन्नारायणकृष्णहरिनामानि भक्तितः ।।५६।।
साधुवेषधरं दृष्ट्वा शैलः सत्वरमुत्थितः ।
ननाम दण्डवद्भूमौ भक्त्याऽतिथिमपूर्वकम् ।।५७।।
ननाम पार्वती ज्ञात्वा तपोबलात्तु शंकरम् ।
मधुपर्कादिकं शैलार्पितं जग्राह वैष्णवः ।।५८।।
आशिषं युयुजे विप्रः पप्रच्छ कुशलं नगः ।
स्थानासनादिकं चापि प्रयोजनं निरामयम् ।।५९।।
प्रत्युवाच तदा विप्रो वैष्णवोऽहं तु वृत्तये ।
भ्रमामि यजमानेषु सर्वज्ञोऽस्मि गुरोर्बलात् ।।1.188.६० ।।
मया ज्ञातं हराय त्वं स्वपुत्रीं दातुमिच्छसि ।
इमां पद्मसमां दिव्यां किंजल्ककोमलांगुलीम् ।।६ १ ।।
गृहद्वारविहीनाय धनहीनाय रोषिणे ।
श्मशानव्यवसायाय सर्पमित्राय लोभिने । ।६२। ।
विवस्त्राय कुगात्राय कुशीलाय च भस्मिने ।
अज्ञातकुलगोत्रार्थवयोनाम्ने जटालवे । ।६३।।
कुमार्गगामिने व्यसनिने भ्रमत्प्रभिक्षवे ।
एतादृशाय कस्माद्वै ज्ञानिना दीयते सुता । ।६४। ।
क्व ते कुलं धनयशःख्यातं क्व सः श्मशानलुठ् ।
यदि महाजनः कश्चित् श्रोष्यति स हसिष्यति । ।६५। ।
बान्धवान् मेनकां वृद्धान् पृच्छ त्वं पार्वतीं विना ।
पिताऽभिजनमन्विच्छेन्माता चेच्छेद्गृहं स्मृद्धम् । ।६६।।
कन्या त्विच्छेद्वरं रूपं मिष्टान्नमितरो जनः ।
शैल! शंभोर्नाभिजनो मेने! शंभोर्न वै स्मृद्धिः । ।६७। ।
सति! शंभुः कुरूपोऽस्ति मिष्टान्नाशा कथं मम ।
त्यजतामीदृशो मूर्तो ग्रावाणसदृशः खलः ।।६८। ।
रोगिणो औषधं पथ्यं रोचते किन्त्वपथ्यकृत् ।
इत्युक्त्वा भोजनं लब्ध्वा निर्जगाम हरो द्विजः ।।६९।।
मेना प्राह पतिं देव! श्रुतं शंभोर्विचेष्टितम् ।
न तादृशे मया देया खाते क्षेप्या न पुत्रिका ।।1.188.७०।।
न मन्यसे वचश्चेन्मे मरिष्यामि न संशयः ।
त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ।।७१ । ।
गले बध्वा मम पुत्रीं यास्यामि गहनं वनम् ।
महाम्बुधौ निमंक्ष्यामि तस्मै दास्यामि नो सुताम् । ।७२।।
शैलोऽमन्यत योग्यं तन्न क्षेप्या निर्गुणे सुता ।
किं करोमि क्व गच्छामि पुत्र्याग्रहं करोति वै । ।७३ ।।
विवाह्या शंकरेणैव नान्येन केनचित्त्वहम् ।
अन्यथा तु मरिष्यामि वा जीविष्यामि वन्यका । ।७४।।
यच्च भावि तद्भवतु न मे रुचिस्तु विद्यते ।
शंकराय प्रदातुं वै यथाभाग्यं प्रयातु सा ।।७५ ।।
इत्युदासीनतां प्राप्तौ मेनाशैलौ हरं प्रति ।
इष्टं जातमिति मत्वा हृष्टा ह्यासन्सुरादयः । ।७६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तपोनिवृत्तपार्वतीस्वागतम्, मण्डपे शंभोर्नटवेषेण नर्तनम्, पार्वत्या याञ्चा, मेनाशैलाभ्यां सा नाङ्गीकृता, पुनः शंभोर्वैष्णववेषेणागमनम्, शिवाय न देयेति निन्दनम्, मेनाशैलयोरभावाविर्भाव इत्यादिनिरूपणनामाऽष्टाशीत्यधिकशत-
तमोऽध्यायः । । १८८। ।