← अध्यायः १८८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८९
[[लेखकः :|]]
अध्यायः १९० →

श्रीनारायण उवाच-
कैलासे संस्थितो रुद्रः सस्मार ज्ञानसागरान् ।
अरुन्धत्या सहिताँश्च सप्तर्षीन् कमलेक्षणे । । १ ।।
समाजग्मुश्च ते सर्वे कैलासं शंकराश्रितम् ।
तानागतान्समीक्ष्याऽभ्युत्थायाऽभिपूज्य शंकरः ।। २ ।।
स्थीयन्तां प्राह च स्वर्णवर्णमृदुबृसीष्वथ ।
कश्यपाऽत्रे वारुणेय गाधेय शृणु गौतम ।। ३ ।।
भरद्वाज शृणुष्व त्वमङ्गिरस्त्वं शृणुष्व च ।
यूयं गच्छत शैलेन्द्रं हिमाद्रिं प्रति सत्तमाः ।। ४ ।।
पार्वतीं तु मदर्थाय शैलेन्द्रो याच्यतां हिमः ।
दातुकामावभूता तौ स्वसुतां वेदरीतितः ।। ५ ।।
देवप्रेरणयाऽहं वै कृतवानस्मि निन्दनम् ।
तच्छ्रुत्वा तौ सुनिर्विण्णौ चातिदीनौ बभूवतुः ।। ६ ।।
स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ।
सप्तर्षयो नमस्कृत्य तूर्णं जग्मुर्हिमालयम् ।। ७ ।।
शंभुररुन्धतीं प्राह शैलं गच्छस्व सुन्दरि ।
पुरन्ध्र्यो हि पुरन्ध्रीणां सुकार्यस्य गतिं विदुः ।। ८ । ।
इत्याज्ञप्ता ययौ सप्तर्षिभिः सार्धमरुन्धती ।
गत्वा हिमाद्रिनगरमोषधिप्रस्थसंस्थितम् । । ९ । ।
विविशुस्ते तथा सुनाभाद्यद्रिस्त्रीगणोऽपि च ।
गन्धर्वैः किन्नरैर्यक्षैस्तथाऽन्यैस्तत्पुरःसरैः ।। 1.189.१० ।।
हिमाद्रेर्भुवनं रम्यं विशालं हाटकोज्ज्वलम् ।
हिमाचलः समुत्थाय समादायाऽर्घ्यमुत्तमम् । । ११ ।।
स्वयमभ्यागमत् द्वारि पुपूज परमेश्वरान् ।
समानीय सभास्थानं कृतासनपरिग्रहान् । । १२ । ।
साफल्यं जन्मनो ज्ञात्वा प्रोवाच स्मितसुन्दरः ।
अनभ्रवृष्टिः किमियमुताऽहोऽकुसुमं फलम् । । १३ ।।
अप्रतर्क्यमचिन्त्यं च भवदागमनं शुभम् ।
धन्योऽस्मि संपावितोऽस्मि यद् भवन्तो ममाऽजिरम् ।। १४।।
असत्संसर्गसंशुद्धं कृतवन्तो दयालवः ।
पूर्णकामाः परार्थाय विचरन्ति महीतले ।। १५।।
मम कस्यापि कार्यस्य सिद्धये समुपागतान् ।
मन्ये चाऽऽज्ञापितश्चास्मि किंकराऽर्हं तदुच्यताम् । । १६ । ।
अंगिराः प्राह शैलेन्द्रं त्रिनेत्रेण शिवेन वै ।
वयं चात्र प्रेषिताः स्म शृणु नो याच्यमेव यत् ।। १ ७। ।
इयं या त्वत्सुता काली सर्वनारीषु सुन्दरी ।
तां वै दुहितरं साक्षात् पिनाकी तव मृग्यति ।। १८ । ।
तच्छीघ्रं पावयाऽऽत्मानं कन्यका शंकरेऽर्पय ।
कार्यं हि तच्च देवानां सुचिरं परिवर्तते । । १ ९। ।
जगदुद्धारणायैषो विधातव्यः समुद्यमः ।
स एव धन्यो हि पिता यस्य पुत्री हरं पतिम् । । 1.189.२० । ।
देवदेवेश्वराधीशं प्राप्नोति तपसो बलात् ।
देवदेवेश्वराः सर्वे नमन्तु पार्वतीं हरम् ।। २१ ।।
याचितारो वयं शर्वो वरो दातात्वमप्युमा ।
वधूः सर्वजगन्माता कुरु यच्छ्रेयसे तव ।। २२ । ।
तच्छ्रुत्वाऽऽनन्दवचनं हिमाद्रिर्निजबान्धवान् ।
मेर्वाद्यान्पर्वतश्रेष्ठानाजुहाव समन्ततः ।। २३ ।।
तेऽप्याजग्मुर्विविशुश्च सौवर्णेष्वासनेषु च ।
उदयो हेमकूटश्च रम्यको मन्दरस्तथा ।। २४।।
उद्दालको वारुणश्च वराहो गरुडासनः ।
शुक्तिमान् वेगसानुश्च दृढशृंगश्च रैवतः । । २५ ।।
चित्रकूटस्त्रिकूटश्च शृंगवाँश्चान्यभूभृतः ।
ततो गिरीशः स्वां भार्यां मेनामाहूतवान् स्वयम् ।। २६ ।।
ततो हिमालयः प्राह सर्वानाभाष्य सुस्वरम् ।
इमे सर्षप्तयो याचितारः पुत्र्या ममाद्य वै ।२७।।
महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै ।
तद्वदध्वं यथान्यायं ज्ञातयो यूयमेव मे ।। २८।।
श्रुत्वा प्राहुश्च मेर्वाद्या योग्यं भवति सर्वथा ।
याचितारश्च मुनयः शंकरश्च वरः स्वयम् ।। २९।।
दीयतां शैल कालीयं जामाताऽभिमतो हि नः ।
एतद्वचनमाकर्ण्य ज्ञातीनां हिमपर्वतः ।। 1.189.३०।।
प्रणम्यर्षीन्करौ बध्वा गिरिराजोऽव्रवीदिदम् ।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् ।।३ १ ।।
तत्प्रमाणीकृतं मे हि मत्पत्न्याश्चापि सर्वथा ।
इदानीमेक आगत्य विप्रो वैषावधर्मवान् ।।३२।।
शिवोदुःखखनिरस्ति न देयेति वचोऽब्रवीत् ।
सुताविवाहं रुद्रेण नेच्छति सा न चाप्यहम् ।।३३।।
सुता सुखाय दातव्या न दुःखिभिक्षुकाय वै ।
क्षमां याचे भवद्भ्यो यत् सुता दुःखे न मे पतेत् ।। ३४।।
इत्युक्त्वा शैलराजः स तूष्णीं बभूव सर्वथा ।
मेनका तु गृहमध्यं गत्वा स्वपिति निश्चला ।।३५।।
ऋषयः प्रेषयामासुर्मेनकां प्रत्यरुन्धतीम् ।
अरुन्धतीं विलोक्यैव नत्वोवाच हि मेनका ।। ३६ ।।
अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।
पतिव्रता वशिष्ठस्य वधूर्याऽत्र समागता ।।३७।।
किमर्थमागता देवि! दास्यै मह्यं निवेद्य ।
श्रुत्वा चारुन्धती प्राह प्रिये यदर्थमागता ।।३८।।
शृणु मेने! सुसाफल्यं जन्मनो लभतां सखि ।
शिवाय पार्वतीं देहि शिवोऽस्ति ब्रह्म एव सः ।। ३९ ।।
तस्य स्मृद्धेस्तु नाऽन्तोऽस्ति केन त्वं भ्रामिता वृथा ।
भाग्यहीनस्य या भार्या सा बद्धा गवये भवेत् ।। 1.189.४०।।
सर्वभाग्यस्य या पत्नी सा भवेत् सर्ववन्दिता ।
शंकरोऽस्ति महात्यागी यावन्नास्ति गृहे वधूः ।।४१ ।।
सवधूत्वे रचयेत्स वैकुण्ठान्नगरोत्तमम् ।
तव पुत्र्याश्चरणौ तु यत्र स्पृष्टौ स्थले वने ।।४२।।
तत्र सुस्मृद्धयः सन्ति शिवोऽपि स्मृद्धिमान् भवेत् ।
केनाऽनुत्साहिता मेने! मा शुचः सुस्थिरा भव ।।४३ ।।
जगत्पूज्यस्य पूज्या त्वं श्वश्रूर्भव सुशाश्वती ।
इत्युक्त्वा तां समादाय सप्तर्षीन् प्रति चाययौ ।।४४।।
सप्तर्षयोऽपि शैलेन्द्रं प्राहुर्हितकरं तदा ।
शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ।।४५ ।।
विधेः प्रार्थनया शंभुस्तव कन्यां ग्रहीष्यति ।
शैलः प्राह न पश्यामि शंभोर्वै राजवैभवम् ।।४६।।
कंचिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ।
वरायाऽननुरूपाय पिता कन्यां ददाति चेत् ।।४७।।
कामान्मोहाद्भयाल्लोभात् स नष्टो नरकं व्रजेत् ।
कन्यापि दुःखिता शापं ददात्याजीवनं तदा ।।४८।।।
वशिष्ठः प्राह शैलेन्द्र वचनं त्रिविधं मतम् ।
अहितं सर्वथा चाऽऽद्यं सुखान्तं तु द्वितीयकम् ।।४९।।
आद्यन्तसुखं तृतीयं गृह्णीयात् संविचार्य वै ।
असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम् । ।1.189.५० ।।
सुबुद्धिशत्रुर्वक्ति तत्। हितं नैव कदाचन ।
आदावप्रीतिजनकं परिणामे सुखावहम् । ।५१ ।।
दयालुर्धर्मशीलो हि बोधयत्येव बान्धवः ।
श्रुतिमात्रात् सुधातुल्यं सर्वकालसुखावहम् । ।५२।।
सत्यसारं हितकर्तुं वचनं श्रेष्ठमीरितम् ।
गृही ददाति पुत्रीं स्वां राज्यसम्पत्तिशालिने ।।५३। ।
कन्यकां दुःखिने दत्वा कन्याघाती भवेत् पिता ।
को वेद शंकरो दुःखी कुबेरो यस्य किंकरः । ।५४। ।
भ्रूभंगलीलया सृष्टिं स्रष्टुं हर्तुं क्षमो हि सः ।
ब्रह्म यत्परमं प्रोक्तं स एवास्ति तु शकरः ।।५५। ।
तस्य च त्रिविधा मूर्तिर्ब्रह्मविष्णुमहेश्वराः ।
ब्रह्मा तु सर्जकः सत्ये विष्णुः पोष्टा विकुण्ठके । ।५६। ।
हरो हर्ता च कैलासे स्मृद्धा ब्रह्मविभूतयः ।
ब्रह्मणः प्रकृतिस्त्रेधा वाणी लक्ष्मीश्च पार्वती ।।५ ७। ।
पार्वती हरपत्नीयं शैल! जन्मनि जन्मनि ।
दक्षपुत्री सती दग्धा धत्ते तद्भस्म शंकरः ।।५८।।
अतस्त्वं स्वेच्छया कन्यां देहि नित्यवराय वै ।
अथवा सा स्वयं कान्तस्थाने यास्यति दास्यतः । ।५९। ।
दुहितुस्ते तपःस्थानं गत्वा चाश्वास्य पार्वतीम् ।
भूत्वा तु भिक्षुकश्चात्र ययाचे त्वां च पार्वतीम् ।।1.189.६० ।।
प्रस्थापिता वय तेन सह नीत्वाऽप्यरुन्धतीम् ।
शिक्षयामो वयं त्वां वै देहि रुद्राय पार्वतीम् ।।६ १ ।।
भविता तद्विवाहोऽत्र भवितव्यबलेन वै ।
वरं ददौ स पार्वत्यै तपत्यै शंकरः स्वयम् ।।६२।।
नहीश्वरप्रतिज्ञातं विपरीताय कल्पते ।
एकं दत्त्वा हि शैलेन्द्र रक्ष्याः सर्वा हि सम्पद् ।।६३।।
एकाऽदाने तु शैलेन्द्र नाश्याः स्युः सर्वसम्पदः ।
पार्वत्यदाने संहर्ता सर्वे भस्मीकरिष्यति ।।६४।।
किं बहुना देहि पुत्रीं शंकराय सुखं भवेत् ।
अद्य वाऽब्ददिनान्ते वा दातव्या कन्यका भवेत् ।।६५ ।।
वरपात्राय चाऽन्यस्मै कस्मैचिद्वा विशेषतः ।
बुध्वा ब्रह्म सुतां देहि पार्वतीमीश्वराय च ।।६६ ।।
कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ।
मेना प्राह तदा सर्वान् पार्वत्यां शंकरात्तु यः ।।६७।।
पुत्रश्चोत्पत्स्यते सेनस्तारकं स हनिष्यति ।
दातव्या शंभवे योग्या योग्याय सुखलब्धये ।।६८।।
अथ पुत्रीं पिता शैलः प्रोवाच श्रवणाऽऽतुराम् ।
पुत्रि दत्ताऽसि शर्वाय त्वं मया मेनया तथा ।।६९।।
ऋषीनुवाच वः काली स्तौति शंभुवधूर्मुदा ।
अरुन्धती तदा कालीमाश्वास्याऽऽशिष आददौ ।।1.189.७० ।।
सप्तर्षयस्ततः प्राहुः शैलराज निशामय ।
जामित्रगुणसंयुक्तां तिथिं पुण्यां सुमंगलाम् ।।७ १ ।।
सप्ताहे समतीते तु दुर्लभेऽतिशुभे क्षणे ।
लग्नाधिपे च लग्नस्थे चन्द्रे स्वतनयान्विते ।।७२ ।।
मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।
मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ।।७३ ।।
सर्वसद्ग्रहसंसृष्टेऽसद्ग्रहदृष्टिवर्जिते ।
सदपत्यप्रदे जीवे पतिसौभाग्यदायिनीम् ।।७४।।
कन्या प्रदाय शर्वाय कृती त्वं भव पर्वत ।
तस्थां तिथौ हरः पाणिं ग्रहीष्यति समन्त्रकम् ।। ७५।।
अन्ये च पर्वताश्चापि प्रोचुः शैल तथा कुरु ।
अथ मेना पार्वतीं तु शिवानीत्याह हार्दतः ।।७६ ।।
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ।
पार्वतीं भूषयित्वा च ऋष्युत्संगे न्यषादयत् ।।७७।।
अयं भागः शंकराय दातव्य इति निश्चितम् ।
शंकरो भिक्षुको ब्रह्म स्वयं दाता हिमालयः ।।७८ ।।
भैक्ष्यं च पार्वती ब्राह्मी किमतः परमुत्तमम् ।
अथ महर्षयस्तस्यै दत्तवन्तः शुभाशिषः ।।७९।।
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।
सौभाग्यं सर्वदा ते स्यादखण्डितमथोज्ज्वलम् ।।1.189.८ ० ।।
इत्युक्त्वा मुनयः सर्वे दत्त्वा हिमाचलाय तु ।
फलयुक्तानि पुष्पाणि प्रत्ययं चक्रिरे तदा ।।८ १ ।।
अरुन्धती शंभुगुणैर्लोभयामास मेनकाम् ।
हरिद्राकुंकुमैः शैलश्मश्रूणि प्रत्यमार्जयत् ।।८२।।
लौकिकाचारमाधाय मंगलायनमुत्तमम् ।
ततश्च ते चतुर्थेऽह्नि सन्धार्य लग्नमुत्तमम् ।।८ ३ ।।
परस्परं च सन्तुष्य संजग्मुः शिवसन्निधिम् ।
प्राहुश्च सफलं सर्वं वाक्दत्ता तेन ते सुता ।।८४।।
उद्वाहाय प्रगच्छ त्वं हिमाचलशुभालयम् ।
विवाहय यथा रीतिः पार्वतीमात्मने हर ।।८५ ।।
शिवः प्राह विवाहो नैवाऽभ्यस्तः प्राग् विलोकितः ।
आरंभादितिपर्यन्तं विधिः कार्यो महर्षिभिः ।।८६।।
प्रत्यूचुः ऋषयो विष्णुं ससमाजं च वेधसम् ।
इन्द्रमुषिगणान्यक्षगन्धर्वसिद्धकिन्नरान् ।।८७।।
विद्याध्राँश्च सुरान्साध्यदेवादीन्समरुद्गणान् ।
अप्सरसां गणानानयस्व ब्रह्मसरोगणान् ।।८८ ।।
सर्वे व्यवहृतिसुज्ञाः सस्त्रीका गृहिधर्मिणः ।
योग्यं संसाधयिष्यन्ति त्वत्कार्यं त्वक्षतं यथा ।।८ ९ ।।
इत्युक्त्वा ऋषयो नत्वा ययुः पूजां प्रगृह्य च ।
शंभुः प्राह विवाहे मे समागन्तव्यमादरात् ।। 1.189.९० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शिवप्रेरितसप्तर्षीणां हिमालयगृहगमनम्, पर्वतानामाह्वानं, पार्वत्या वाक्दानार्थं मन्त्रणा, वाक्दानं लग्नदिननिर्णयश्चेत्यादिनिरूपणनामैकोननवत्यधिक शततमोऽध्यायः ।। १८ ९।।