← अध्यायः १९२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९३
[[लेखकः :|]]
अध्यायः १९४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा रंगे भंगोऽभून्मेनकाकृते ।
शांकरे दर्शने रौद्रे शोकाब्धिः सुलभोऽभवत् ।। १ ।।
कपालयोः करौ कृत्वा नेत्रे प्रमृज्य खेदतः ।
भग्नहृदा भावहीनवचनान्यवदन्मुहुः ।। २ ।।
यैश्च याभिश्च शर्वाय देया पुत्रीति भाषितम् ।
प्रस्तावितं ज्ञापितं च वाऽङ्गीकारितमित्यथ । । ३ ।।
अवगमितं प्रयतितं तत्तथाऽप्यनुमोदितम् ।
तान् सर्वानतिसंक्षुब्धा तिरस्करोमि वै शठान् ।। ४ ।।
नारद त्वं परिणामे क्लेशदोऽसि शठोऽसि च ।
त्वया स्वर्णसमा पुत्री कर्दमे विनिपातिता ।। ५ ।।
फलं चैतन्मया दृष्टं विपरीतमनर्थकम् ।
प्रसह्य प्रेरिता चापि सर्वथा वञ्चिता त्वया ।। ६ ।।
फलं त्वस्य तवापि स्याच्छपामि त्वां पुनःपुनः ।
सति योगेऽपि लग्नस्य मा कन्यां लभ दुर्मुख! ।। ७ ।।
अहो पुत्रि तपस्तप्त्वा त्वीदृशो वानरः कथम् ।
आराधितोऽसह्यरोषो भूतप्रेतपिशाचराट् ।। ८ ।।
किं कार्यं त्वद्य संजाते समाजे चाऽऽगते गृहम् ।
तथाप्यहं सुतामाता समर्थाऽस्मि व्यपोहितुम् ।। ९ ।।
यदि पुत्री प्रकथयेन्नाऽयं योग्योऽस्ति मे वरः ।
मया कृतेऽपि यत्ने च पुत्री न मनुते यदि ।। 1.193.१० ।।
सर्वं कृतं मम व्यर्थं किं करोमि कुपुत्रिके ।
कुलादिकं विनष्टं मे विहितं जीवनं मम ।। ११ ।।
क्व गताः ऋषयस्तेषां श्मश्रूणि त्रोटयामि वै ।
क्वाऽस्ति धूर्ताऽरुन्धती सा यया सर्वं विषीकृताम् ।। १ २।।
ईदृशाः स्वार्थकपटाः नान्यनाशं प्रचक्षते ।
तस्मात्कन्याजन्मदात्री स्वयं गत्वा विलोकयेत् ।। १३ ।।
वरं गृहं तथा स्मृद्धिं समाचरणमित्यपि ।
नान्यविश्वासमालम्ब्य कन्या देया क्वचिज्जनैः ।। १४।।
रे पुत्रि पद्मपत्रास्ये ग्रावा वै राधितस्त्वया ।
क्रीतः काचो हेम दत्वा किं त्वया गवयोऽर्थितः ।। १५ ।।
त्यक्त्वा तु चन्दनं पुत्रि ह्यर्थितः क्लेदकर्दमः ।
अदृष्ट्वा हंसवयाँश्च काकः सर्वोत्तमो मतः ।। १६ ।।
हित्वा दुग्धाब्धिकाऽऽस्वाद क्षाराब्धिस्वाद अर्थितः ।
सूर्यं हित्वा च खद्योतस्तपसोऽन्तेऽर्थितस्त्वया ।। १७।।
हित्वा बीजानि सत्पुत्रि किं कृतं तुषभक्षणम् ।
आज्यमिष्टान्नमामुक्त्वा करीषं भुक्तमादितः ।। १८।।
हरिच्छायामनादृत्य शिवाछायामधिश्रिता ।
मुक्त्वा ब्रह्ममयीं विद्यां भाण्डविद्याऽर्थिता त्वया ।। १९ ।।
यज्ञभूतिमनालम्ब्य चिताभस्माऽवलम्बितम् ।
अरे चिन्तामणिं त्यक्त्वा कथं वै कंकरो धृतः ।। 1.193.२० ।।
दुग्धपाकं परित्यज्य पीतो नीम्बरसः कथम् ।
अहो पुत्रि कुबुद्धिस्ते पञ्चवर्षसहस्रकम् ।। २१ ।।
तपस्तप्तं त्वया चाऽस्य श्मशानस्थस्य लब्धये ।
नारीबुद्धिर्न वै बुद्धिर्नारीबुद्धिः पराश्रया ।। २२।।
सगुणो वा निर्गुणो वा यः श्लिष्यति सोऽस्या महान् ।
तस्मात्कन्या न स्वबुद्ध्या संविवहेत्कदाचन ।।२ ३ ।।
विवाहयेत् पिता माता कन्यां दृष्ट्वाऽनुयुग्वरम् ।
तपो बुद्धिं च चरितं रूपं वृत्तं तवाऽस्तु धिक् ।। २४।।
नारदं च ऋषीन् पितामहं सुराँस्तथाऽस्तु धिक् ।
मत्कुलं मे क्रियादाक्ष्यं धिक्कृतं च यशस्त्वया ।। २५ ।।
कुलं दग्धं त्वया विवाहयेयं न म्रियेऽत्र वै ।
सप्तर्षयो नारदश्च हिमाद्रिश्च पितामहः ।। २६ ।।
केऽपि माऽऽयान्तु निकटे दर्शयन्तु मुखानि न ।
किमत्र साधितं श्रेष्ठं प्रत्युत घातितं कुलम् ।। २७।।
मिलित्वा कालकवले पातिता मम पुत्रिका ।
वरमस्मात्तु वन्ध्यात्वं वरं वा गर्भगालनम् ।।२८ ।।
वरं वा जन्मतो मृत्युर्वरं वा राक्षसाऽदनम् ।
कुमारीत्वं चापि वरं न श्रेष्ठं कुवराऽर्पणम् ।। २९ ।।
गृहं समागता नग्नभूतपस्य तु वाहिनी ।
दहेयं वा म्रियेयाऽत्र गच्छेयं वा क्रियेऽत्र किम् ।। 1.193.३० ।।
न दातव्या न दातव्या वरो यातु निजालयम् ।
जनवाहास्तु गच्छन्तु प्राघूणिकाः प्रयान्त्वपि ।। २१ ।।
अहं तु पुत्रिकां नीत्वा गच्छामि मम पैतृकम् ।
यान्तु सर्वे विशीर्यन्तां रिक्तं कुर्वन्तु मद्गृहम् ।। ३२।।
हिमालयो वनं यातु न देयाऽस्मै तु पार्वती ।
इति विलप्य पुत्रीं स्वां गत्वाऽऽश्लिष्य मुहुर्हृदि ।। २३ ।।
वक्षस्याकृष्य हस्ताभ्यां दृढीकृत्य स्थिता गृहे ।
हाहाकारो महानासीत् तदा प्राघूणिकेषु वै ।। ३४।।
श्रुत्वैतत्प्रथमं तत्र जगाम तु पितामहः ।
द्राक् दृष्ट्वा होलिकाशब्दान् ब्रह्माणं प्राह मेनका ।। ३५।।।
गच्छ दुष्ट मत्तबुद्धे पुष्प प्रज्वालितं त्वया ।
निर्लज्जो नस्कटो भूत्वा कन्यानाशाय यत्नितः ।। ३ ६।।
का आह्वयति त्वामत्र जरं विश्वासघातिनम् ।
ब्रह्मा स्तब्धोऽभवच्छ्रुत्वा चण्डीमाताऽपि चण्डिका ।।।३७।।।
इति विचार्य मौनोऽभूत् तावत्सप्तर्षयो ययुः ।
देवाश्चाग्रप्रपूज्याश्चाऽऽगता मेनाप्रशान्तये ।। ३८ ।।
ऊचुर्मेनां रुद्ररूपं शंभोर्नास्तीति वास्तवम् ।
लीलया संधृतं चैतत् क्षणिकं नहि शाश्वतम् ।। ३ ९।।
पश्योत्तिष्ठ हठं त्यक्त्वा देहि पुत्रीं शिवाय च ।
अयं वै परमो लाभः परंब्रह्म सदाशिवः ।।1.193.४० ।।
कृष्णपुत्रः कृष्णरूपश्चागतस्तव मन्दिरम् ।
दानपात्रं तव पुत्र्या तपसां फलमर्जितम् ।।४१ ।।
श्रुत्वैतन्मेनका प्राह शठाः सर्वे प्रपंचिताः ।
रूपमस्या जीवनं च व्यर्थीकर्तुं समुद्यताः ।।४२।।
शस्त्राद्यैर्घातयिष्येऽहं न दास्ये घोरकर्मणे ।
दूरं गच्छत सर्वेऽस्मान्नागन्तव्यं ममान्तिके ।।४३।।
वरः शठो बहुरूपी वरवाहाः शठास्तथा ।
शठैः शठाः सम्मिलिताः प्राणहाराः परस्य वै ।।४४।।
श्रुत्वा सर्वे मुखांऽगुल्योऽभवन् स्तब्धाः पतन्मुखाः ।
हिमालयस्तदा प्रायाद् बोधनाय सुताकृते ।।४५।।
बहुश्रेष्ठजनमध्ये पतिं नोवाच किंच सा ।
शुश्राव शैलराडुक्तं मृदु सामयिकं वचः ।।४६।।
शृणु प्रिये यथादृष्टस्तादृग्भवेद्वरो यदि ।
न देया दयिता पुत्री नोचेद् देया विचारय ।।४७।।
श्रीकृष्णब्रह्मविष्ण्वर्कचन्द्रसूर्येन्द्रदेवताः ।
ऋषयः पितरः साध्याः सुराणां गुरवस्तथा ।।४८।।
देव्यश्च कोटिशो महालक्ष्म्याद्याः साध्व्य आदरात् ।
लोकपाला दिशांपाला राजाधिराजकेश्वराः ।।४९।।
नागच्छेयुर्निम्नशंभोर्वाहिन्यां मेनकागृहम् ।
विचारयेति वै पत्नि यस्य वाहे त्विमे गताः ।।1.193.५०।।।
स कीदृशो भवेच्छ्रेष्ठः संपश्य हृदि सुन्दरि! ।
शिवा जानाति तं शर्वं प्राग्भवात् सहचारिणी ।।५१।।
तयोः प्रीतिः शाश्वती चेत्तत्र का वेदना तव ।
सुस्मृद्धावपि चेत्पत्न्या मनो नो रम्यते वरे ।।५२।।
विषवज्जीवनं तस्या गुणरूपाड्यकेऽपि किम् ।
मया दृष्टं तव पुत्री सुख्यस्ति स्यात् सुखी सदा ।।५३।।
यस्यास्ति देया तस्मै सा विकला मा भव प्रिये ।
केके समागता गेहं पश्य मा निन्द तान् प्रिये ।।५४।।
एनं द्वारगतं शंभुं दिव्यरूपधरं प्रिये ।
पश्य कृष्णसमं रूपे उत्तिष्ठ कीर्तिवर्धिनि ।।५५।।
विररामाऽथ शैलेन्द्रस्तं मेना प्राह तत्क्षणम् ।
मया दृष्टो यथा रुद्रस्तादृशो यदि चेद्भवेत् ।।५६।।
धृत्वा कण्ठे सुबध्वा तां कर्तास्म्यधःप्रपातनम् ।
त्वं तु पुत्रीं च मां नीत्वा दयां त्यक्त्वाऽथ सागरे ।।५७।।
निमज्ज्य सुखी स्याश्च दास्ये पुत्रीं हराय न ।
प्रसह्य दास्यसि तस्मै त्यक्ष्याम्यद्य कलेवरम् ।।५८।।
अथ सा पार्वती मातुर्दृष्ट्वा दुःखमपारगम् ।
किन्त्वकारणमौढ्योत्थं विचार्यांकस्थिता शनैः ।।५९।।
नेत्राश्रूणि प्रमृज्यैव स्नेहं कृत्वा रुदीहि मा ।
शान्तिं लभेत संप्रोच्य प्राह मिष्टं यथा भवेत् ।।1.193.६०।।
मातर्वरः सुरूपोऽस्ति सर्वेशोऽस्ति हरेः परः ।
सर्वाश्च स्मृद्धयस्तस्य सहस्रगुणिताः परात् ।।६ १।।
यथा दृष्टः स्वयं कृष्णो महाविष्णुर्विलोकितः ।
विष्णुर्यथा त्वया दृष्टः सूर्यश्चन्द्रः सुरेश्वरः ।।६२।।
तथा ततोऽप्युत्तमोऽस्ति रूपसैन्यसमृद्धिभिः ।
मया दुष्टो हि कैलासो वैकुण्ठादपि शिष्यते ।।६३।।
यौवनं षोडशवर्षं रूपं कृष्णाद्विशिष्यते ।
अत्र त्वया तु यद् दृष्टं न तद्दृष्टं मया क्वचित् ।।६४।।
न जाने दर्शितं कस्मात् रूपं ते विकृतं बहु ।
नानारूपधरश्चायं महाकालोऽपि जायते ।।६५।।
संहृत्य विश्वनेतॄँश्च दीव्यति रमते शुभः ।
धर्मावलम्बना भूत्वा मा वाग्धर्मं जहाहि यत् ।।६६ ।।
अत्राऽऽगतास्तु ये देवाः किंकरा हि शिवस्य ते ।
तव द्वारि मदर्थं सोत्सवास्ते किमतः परम् ।।६७।।।
देहि मां त्वं शिवायाऽस्मै जीवितं सफलं कुरु ।
मनोवाङ्कर्मभिर्मातर्मया वृतो वृतो हरः ।।६८।।
सिंहभागो व्रजेत् सिंहं न वृणेऽन्यमहं वरम् ।
म्रियेय दास्यसि नो चेत् यथेच्छसि तथा कुरु ।।६९।।
एवं श्रुत्वा विपरीतं पुत्र्युक्तं सर्वसन्निधौ ।
मेना धबाक् धबाक् पुत्रीं मुष्टिभिः कूर्परैस्तथा ।।1.193.७०।।
ताडयामास तां दिव्यां महारोषान्विता तदा ।
ऋषयस्तां परिच्छिद्य निन्युर्दूरं तु पार्वतीम् ।।७ १।।
मेना प्रसार्य पादौ च हस्तौ चापि शिरोरुहान् ।
उत्पाट्य क्ष्मां शिरः स्वस्या घातयामास मत्तवत् ।।७२।।
जल्पयामास बहुधा मारयिष्ये सुतां स्वकाम् ।
दास्ये वा गरलं कूपे क्षेप्स्ये छेत्स्येऽथ खण्डशः ।।७३।।
मरिष्याम्यपि कन्यां न दास्ये विकटरूपिणे ।
अनया दुष्टया चाटः कीदृशो मार्गितो वरः ।।७४।।
मातुः पितुः कुले चोग्र उपहासः प्रकारितः ।
न माता न पिता त्वस्य नाऽनुजो नाऽग्रजस्तथा ।।७५।।
न कुटुम्बं न वै गोत्रं न गृहं रूपमार्जवम् ।
न भूषा न च वस्त्राणि वाहनं स्वसमो वृषः ।।७६।।
न धनं न वयो योग्यं न विद्या च पवित्रता ।
किं विलोक्य मया पुत्री देयाऽस्मै दुःखिदेहिने ।।७७।।
ब्रह्मा सिद्धाश्च सनकादिका देवाः प्रजेश्वराः ।
व्यर्थीकुर्वन्ति मत्पुत्र्या जीवनं रुद्रकोटरे ।।७८।।
स्वहस्तैर्हन्यतां पुत्री शान्तिर्भवकृता भवेत् ।
न देया न च वै देया न दातव्या कदाचन ।।७९।।
शववाहाय घोराय दरिद्राय च भङ्गिने ।
श्मशानस्थाय नग्नाय मलिनाय न चार्प्यते ।।1.193.८० ।।
सर्वे प्रपञ्चिनः पुत्रीं मारयितुं समुद्यताः ।
वृषभाय महीषाय बहुरूपधराय च ।।८ १ ।।
पाषण्डिने न वै देया न देया सर्वखण्डिने ।
वियान्तु मे गृहद्वारात् किं ह्यनाथा विलोकिता ।।८२।।
इति प्रजल्प्य मौनाऽभूत् रुरोदोच्चैश्च विह्वला ।
पार्वत्यपि मातृवत्सा तदाऽश्रूणि व्यमुञ्चत ।।८३।।
तदा ब्रह्मादयः सर्वे चकिता विस्मयं गताः ।
निराशा अभवन्सर्वे तावद्विष्णुः समागतः ।।८४।।
प्राह मातस्त्यज शोकं कुर्महे तव सम्मतम् ।
यादृशश्च त्वया शंभुर्दृष्टो वै तादृशो भवेत् ।।८५।।
तदा पुत्री न वै देया ममास्ति सम्मतिस्तथा ।
मातः शृणु कथं तादृग्रूपं शर्वेण दर्शितम् ।।८६।।
प्रथमं यादृशं दिव्यं श्रीकृष्णसममुज्ज्वलम् ।
सुस्मृद्धं रूपमत्यर्थाऽऽनन्दसन्दोहदायकम् ।।८७।।
दृष्टं त्वयाऽस्ति चेत् तादृक् दर्शयेच्च तथा पुनः ।
तदा त्वं त्वत्पतिश्चैव प्रेमभक्तिप्रपूरितौ ।।८८ ।।
आत्मनिवेदिनौ भूत्वाऽकरिष्यतं सुतार्पणम् ।
तत्प्रदानप्रभावेण शुद्धौ भूत्वा भुवः स्थलम् ।।८९।।
परित्यज्य ब्रह्मधामाऽगमिष्यतं सुमुक्तिके ।
तदा पृथ्वी शैलहीना देवस्थानलयंकरा ।।1.193.९०।।
ओषधिनाशिनी तद्वत् कैलासनाशिनी भवेत् ।
तन्मा भूदिति कृत्वैव कारणं तु विचार्य च ।।९ १ ।।
जामातुः शंकरस्यैव द्रोहो यथा भवेत्तथा ।
रूपं तु शंभुना धार्यं सर्वं भयंकरं परम् ।।९२।।
अमनस्कतया पुत्रीदाने मोक्षो न वै फलम् ।
तदन्यत्तु फलं दशपुत्रोद्वाहकृतं भवेत् ।।९३ ।।
तत्फलं ते भवेन्मेने न वै मोक्षफलं भवेत् ।
तत्स्वावगुणदोषस्य ग्राहार्थं शंभुना तथा ।।९४।।
दर्शितं विकटं रूपं नास्ति तादृक् तु शाश्वतम् ।
एहि पश्य महादेवं महादेवगणाँस्तथा ।।९५।।
सर्वे विष्णुसमाकाराः सुस्मृद्धाः सन्ति सर्वथा ।
एवं प्रबोधिता मेना कथंचित्कोमलाऽभवत् ।।९६।।
अथापि विष्णुना निदर्शनैः संबोधिता पुनः ।
यूयं च क पर्णः- स्थो वै पाषाणरूपधारिणः।।।९७।।
तथापि कीदृशाः सौम्या देवरूपधरास्त्विह ।
क्वचित् सम्राट्स्वरूपाश्च क्वचित्पक्षधरास्तथा ।।९८।।
एवं विष्णुरहं मत्स्यवाराहसिंहरूपधृक् ।
यथा धर्मो वृषभोऽपि यमोऽपि भवति क्वचित् ।।९९।।
यथा नद्यो जलरूपा नारीरूपा भवन्ति च ।
यथा मेना पक्षिरूपा पर्वतात्मापि जायते ।। 1.193.१० ०।।
इदानीं त्वं प्रमदाऽसि तथा सर्वे भवन्ति वै ।
कामरूपधराः सर्वे भवामो देवजातयः ।। १०१ ।।
मोहस्तत्र न कर्तव्यः शोकोऽपि त्यज्यतां तथा ।
पश्य शंकरसैन्यानां रूपाणि शंकरस्य च ।। १ ०२।।
कार्यार्थं तादृशं रूपं धारयत्यखिलेश्वरः ।
मयापि शिवमोहार्थं मोहिनीरूपमाप्यते ।। १० ३।।
नरोपि प्रमदाभावं गृह्णामि कार्यसिद्धये ।
तथा विद्धि च मातस्त्वं हठ त्यक्त्वा च शं कुरु ।। १ ०४।।
पार्वत्या यत्तपस्तप्तं तद्धि योग्यं कृतं तया ।
शंकरस्तोषितो वरं ददौ योग्यं कृतं तथा ।। १ ०५।।
वाग्दानं च कृतं पुत्र्यास्तदेतद् योग्यमित्यपि ।
शंकरश्चापि गृह्णाति सुतां ते योग्यमेव तत् ।। १ ०६।।
शंकरो ह्यभवद्रौद्रो योग्यं तेनापि तत्कृतम् ।
त्वया पुत्र्यर्थमात्मा स्वस्तापितो योग्यमेव तत् ।। १०७।।
माता यदि स्वीयपुत्र्याः कृते योग्यं करोति न ।
तदाऽन्ये के करिष्यन्ति हठो योग्यः कृतस्त्वया ।। १०८ ।।
अथापि देवताः सर्वेऽधिक्षिप्ताश्च त्वया हि यत् ।
तदपि योग्यमेवैतद् वैवाहिके तु कर्मणि ।। १० ९।।
अथापि पश्य देवेशं सुरूपं शंकरं पुनः ।
यदि स्मृद्धः सुरूपश्च त्वन्मतेऽभिमतो भवेत् ।। 1.193.११ ०।।
तदा पुत्री त्वया देया नान्यथा तु कदाचन ।
यदि त्वं शंकरायैव नैव दातुं समिच्छसि ।। ११ १।।
तदाऽहं संग्रहीष्ये ते पुत्रीहस्तं शुचं त्यज ।
इतिबहुप्रकारेण बोधिता मेनका ततः ।। १ १२।।
स्वस्थाऽभवत् समुत्थाय द्रष्टुं शंभुं गता बहिः ।
उवाच च हरिं मेना यदि रम्यतनुर्हरः ।। १ १३।।
सर्वथा सपरिकरो ममाभिप्रायतो भवेत् ।
तदा सुता मया देया नाऽन्यथा कोटियत्नकैः ।। १ १४।।
एतस्मिन्नन्तरे विष्णुर्नारदं पैरयद् द्रुतम् ।
अनुकूलयितुं शंभुं गत्वा सोऽबोधयद्धरम् ।। १ १५।।
सन्देशं प्राप्य धृतवान् शंमभू रूपमलौकिकम् ।
विष्णोरप्यधिकं रूपो यौवने षोडशाब्दिकम्।। ११६।।
मृदुत्वे पार्वतीसाम्यं तनुत्वे सुघटं शुभम् ।
पुष्टत्वे योग्यसापेक्षं तैजसे कृष्णतोऽधिकम् । । १ १७।।
लावण्ये चाथ सौन्दर्ये कोटिमन्मथतोऽधिकम् ।
भूषासु वस्त्रवेषे च सर्वेभ्यश्चाधिकं परम् ।। ११८ ।।
परिकरेषु सर्वेषु सैन्येष्वपि ततोऽधिकम् ।
सर्वं भूतावलीरूपं तिरोधाय नवं नवम् । । ११९ ।।
गोलोकस्थं यथारूपं वैकुण्ठस्य यथापरम् ।
वैराजस्थं यथा श्रेष्ठं सूर्यचन्द्रेन्द्रवैभवम् ।। 1.193.१२० । ।
तत्सर्वं च ततोऽप्यति दर्शयामास शंकरः ।
तदानीं तत्र वाहिन्योरुभयोः पक्षयोरपि ।। १२१ । ।
नास्ति कश्चिच्च येनोपमीयेत शंकरं तदा ।
सन्ति केचिन्न वै यैश्चोपमीयेत च तज्जनम् ।। १२२ ।।
तावन्मेना चन्द्रशालामायाच्च सह विष्णुना ।
ददर्श शिवरूपं तत्परमानन्दसंभृतम् । । १२२ । ।
कोटिसूर्य प्रतीकाशं महत्सौन्दर्यभाजनम् ।
दिव्यवस्त्रविभूषाढ्यं हासलावण्यवर्षि यत् ।। १२४ । ।
देवीनां क्षोभकं जातं मोहिन्या अपि मोहकृत् ।
अधैर्याः स्खलितास्तत्र देव्यो मायाविडम्बिताः ।। १२५ । ।
सूर्येण छत्रितं चामरितं चन्द्रेण मस्तके ।
भूषितं च कुबेरेण धर्मेण वाहितं तदा ।। १ २६।।
व्यजितं गंगया यम्या नर्तितं सिद्धिभिस्तदा ।
उत्तेजितं तथा देवैर्जयेतिभाषितं गणैः ।। १२७ ।।
गायितं च विश्वावस्वप्सरोव्रातैः शिवाग्रतः ।
गृणितं च परंब्रह्म मुनिभिः ऋषिभिस्तथा । । १२८ । ।
नारायणायितं सर्वैर्गणैश्च सैनिकैस्तदा ।
चतुर्भुजायितं तैश्च तथा समुकुटायितम् ।। १ २ ९ । ।
भूतप्रेतपिशाचाद्यैस्तिरोभूतायितं तदा ।
यावद्भिः शंकरसैन्यैर्विष्णुजनायित तदा । । 1.193.१३० । ।
यावतीभिश्च नारीभिर्लक्ष्मीरमायितं तदा ।
वाहनैश्चापि सर्वैश्च सद्गरुडायितं तदा ।। १३१ ।।
किमहं वर्णये लक्ष्मि! सर्वं मदायितं तदा ।
दृष्ट्वा तु मेनका शोकं विसस्माराऽतिहर्षिता । । १३२ । ।
हरिः प्राह विना भानं त्वया शोकायितं वृथा ।
पश्य शर्वं वरं मेने! किं देया वा न वा सुता । । १३३ ।।
मेना प्राह प्रसन्नास्मि देया देया ध्रुवं ध्रुवम् ।
अथाऽऽजगाम त्वरिता शैलद्वार्यभिशंकरम् ।। १ ३४।।
वर्धस्वेति च संभाष्य संस्तूय शंकरं ततः ।
दुःखहान्यंजलिभिश्च समाशीर्भिः प्रयुज्य च ।। १ ३५।।।
क्षमस्वेति च संप्रार्थ्य मेना लज्जापराऽभवत् ।
पुरवासिन्य आपुस्तं दृष्ट्वा नेत्रफलं तदा ।। १ ३६।।
ऊचुश्चाहो तपत्या वै साधितः कीदृशः पतिः ।
यदीदं युगलं ब्रह्मा न युञ्ज्याच्छिवयोस्तदा ।। १ ३७।।
कृतोऽपि सफलोऽप्यस्य श्रमो निष्फलतां व्रजेत् ।
इत्थमुक्त्वा नु वनिताश्चन्दनैश्चाऽक्षतैस्तदा ।। १३८ ।।
शिवं सम्पूजयामासुर्लाजान्ववृषुरादरात् ।
अथ शंभुर्गिरेर्धाम प्रविवेश सुरैः सह ।। १३९ ।।
मेनापि चंचला शीघ्रं स्वगृहाऽऽभ्यन्तरं ययौ ।
नीराजनार्थं शंभोश्च दीपपात्रकरा सती ।। 1.193.१४० ।।
वनिताभिः सह चाभिजगाम द्वारमादरात् ।
दृष्ट्वा चम्पकवर्णाभं चैकवस्त्रं किरीटिनम् ।। १४१ ।।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ।
मालतीमालया युक्तं वलयांगदभूषितम् ।। १४२ ।।
स्वर्णचमत्कृतिदिव्यवस्त्रोत्तमातिराजितम् ।
चन्दनाऽगुरुकस्तूरीचारुकुंकुमभूषितम् ।। १४३ ।।
अतीव तरुणं साक्षाद्विष्णुतुल्यं चतुर्भुजम् ।
कामिनीकान्तचन्द्रास्यं कोटिकन्दर्पमोहनम् ।। १४४।।
दृष्ट्वा दृष्ट्वा पुनर्दृष्ट्वा मेना मेने कृतार्थताम् ।
प्रशशंस स्वकं भाग्यं पुत्रीभाग्यं गिरेः कुलम् ।। १४५।।
नीराजनं चकारादौ जहर्ष च पुनः पुनः ।
परं विस्मयमापन्ना पुनः स्वगृहमाविशत् ।। १४६।।
कन्यकाः कामयामासुरीदृशोऽस्मत्पतिर्भवेत् ।
जगुर्गन्धर्वमूर्धन्या ननृतुश्चाप्सरोगणाः ।। १४७।।
वादका बहुवाद्यानि वादयामासुरीश्वराः ।
हिमाचलस्तदा स्निग्धो द्वाराचारमथाऽकरोत् ।। १४८ ।।
मेना कृत्वा परपुच्छां मुदिता स्वगृहं ययौ ।
शर्वो निवेदिनं स्थानं जगाम जनवाहकैः ।। १४९ ।।
तदा नार्यश्च कन्याश्च वनिता द्रष्टुमीश्वरम् ।
स्थिरनेत्रा राजमार्गपार्श्वतस्तस्थुरादृताः ।। 1.193.१५० ।।
स्थानं प्राप्य विशश्राम पानताम्बूलभोजनम् ।
जग्राह योगनिद्रां च स्वीचकार हरः क्षणम् ।। १ ५ १ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेनकायाः परमोद्वेगप्रयुक्तप्रलापाः, मेनाशोकनाशाय विष्णुना सदृष्टान्तबहुरूपधरत्वं सहेतुकमित्युपदिष्टम्, हरस्य विष्णुरूपता गणानां वैष्णवरूपता परावर्तिता, मेनाशैलकृतवर्धनादिद्वाराचारश्चेत्यादिनिरूपणनामा त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।।