← अध्यायः १९३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९४
[[लेखकः :|]]
अध्यायः १९५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो दुर्गां शैलाऽन्तःपुरचारिकाः ।
बहिर्जग्मुः पूजयितुमादाय कुलदेवताम् ।। १ ।।
शंभोर्निवाससौधस्य राजमार्गेण पार्वती ।
विनिर्जगाम सा पद्भ्यां चारिणी स्पष्टदर्शना ।। २ ।।
तत्र तां ददृशुर्देवा निमेषरहितास्तदा ।
कान्तिश्चान्द्री शारदीव प्रोज्ज्वला स्वर्णभूषणा ।। ३ ।।
ताम्ररक्ता सुवर्णाभा स्थलपद्मस्वरूपणी ।
कमलकुसुममृद्वी तेजःपरिधिमण्डिता ।। ४ ।।
कोटिकोटिरतिगर्वशोभालावण्यसंभृता ।
दृश्यते च चतुर्दशाऽवरवर्षा हि कन्यका ।। ५ ।।
ब्रह्मतेजःसुसंराजत्प्रत्येकांगोत्तमोत्तमा ।
रमालक्ष्मीमहालक्ष्मीन्द्राणीतेजोऽधिकप्रभा ।। ६ ।।
दृश्यते सर्वनारीणां देवीनामुत्तमश्रिया ।
ईषद्धास्यप्रसन्नास्या सकटाक्षा मनोहरा ।। ७ ।।
सुचारुकबरीभारा भालपत्रकसत्प्रभा ।
सिन्दूरकुंकुमकस्तूरिकाबिन्दुसुमण्डिता ।। ८ ।।
मणिसद्रत्नहीरकस्फटिकस्वर्णमालिका ।
रत्नकेयूरवलयवंगिडीकंकणान्विता ।। ९ ।।
सद्रत्नकुण्डलफुल्लकर्णपूरकटान्विता ।
सुचन्द्रटपकीराजच्चारुगण्डस्थलोज्ज्वला ।। 1.194.१० ।।
स्वल्पमणिकलिकावद्दन्तराजिविराजिता ।
मधुबिम्बाधरौष्ठा सद्रत्नयावकसंयुता ।। ११ ।।
काश्मीररससक्तालक्तकाढ्यकरपत्तला ।
रत्नदर्पणहस्ता चोर्मिकाधृगंगुलीवरा ।। १२ ।।
रशनामित्रताप्राप्तश्रोणीदेशातिचंचला ।
चन्दनाऽगुरुकस्तूरीकुंकुमाऽऽवासचर्चिता ।। १३ ।।
क्वणत्किंकिणिकाराजज्झांझराढ्यप्रकोष्ठका ।
स्वर्णमञ्जिरसंशोभज्जंघाऽधोगुल्फकण्डिका ।। १ ४। ।
स्वर्णमालान्विता रंगक्रीडापद्मविभूषिता ।
सर्वसमाजनेत्राब्जविषया गतिमन्थरा ।। १५ ।।
विकसत्स्वल्पस्तनयुगीषत्प्रोद्भिन्नयौवना ।
स्वर्णतारावलिराजद्वस्त्रलज्जावगुण्ठिता ।। १६ ।।
शुशुभे स्वसखीकन्याप्रमदावर्गमध्यगा ।
ध्यानेऽधोमुखदृष्ट्याढ्या हृदि चोर्ध्वं हराभिगा ।। १७।।
चरणाभ्यां तु मार्गस्था मनोहृद्भ्यां हरान्तिका ।
स्थूलदेहेन भूमिस्था सूक्ष्मदेहेन शंभुगा ।। १८ ।।
यदा शंभोर्वाससौधपार्श्वमार्गत आगता ।
शुशुभे सुन्दरी रम्या सर्वदृष्ट्यैकपात्रिका ।। १९।।
सुराः प्रणेमुः शिरसा यान्तीं देवीं सुमेनकाम् ।
त्रिनेत्रो नेत्रकोणेन दृष्ट्वा विरहवेदनाम् ।।1.194.२० ।।
जहौ सर्वं विसस्मार हर्षाद् गौरीगलोचनः ।
अथ काली बहिः पुर्या गत्वा प्रार्च्य कुलाम्बिकाम् ।।२१ ।।
प्रपूज्याऽऽवृत्य जनकाऽऽलयं विवेश सांगना ।
ततः शैलवरः पुण्या प्रीत्या यज्ञोपवीतकम् ।।२२।।
कारयामास सोत्साहं वेदमन्त्रैः शिवस्य च ।
अथ देवाः समुनयः प्रविश्याऽन्तर्गृहं गिरेः ।।।२३।।।
श्रुत्याचार भवाचारं विधाय च यथार्थतः ।
ददुर्वस्त्रविभूषाश्च शिवाधारणहेतवे ।।२४।।
प्रथमं स्नपयित्वा तां भूषयित्वाऽथ कन्यकाः ।
नीराजयित्वा शृंगारं कारयामासुरुत्तमम् ।।।२५।।
दिव्यस्वर्णमयी मृद्वी घर्घरी संधृता तथा ।
स्वर्णरत्नान्विता दिव्या कंचुकी शाटिका शुभा ।।२६ ।।
विधृता च तथा देवी शोभते सूर्यसूज्ज्वला ।
सन्धृतः सुभगो हारो दिव्यरत्नसमन्वितः ।।।२७।।
वलयानि महार्हाणि पौरटानि धृतानि च ।
अन्यान्यानखकेशान्तं भूषणानि धृतानि च ।। २८ ।।
यथापेक्षं यथायोग्यं वस्त्रभूषणसद्द्रवैः ।
एवं शिवामलंचक्रुः शिवप्रेषितभूषणैः ।।२९।।
दानं बभूव विविधं साधुविप्रेभ्य आदरात् ।
गीतवाद्यविनोदाश्च बभूवुश्चोत्सवोत्तमाः ।। 1.194.३० ।।
अथ गर्गः सुदैवज्ञो हिमवन्तमभाषत ।
शंभुं पाणिग्रहार्थं त्वमानय स्वीयमण्डपम् ।। ३१ ।।
शैलस्तदा महाशैलान् पत्नीव्रतमुखान् द्विजान् ।
प्रेषयामास सुप्रीत्या शिवस्याऽऽनयनाय च ।। ३ २।।
सवादित्रमहाघोषैः रम्यमंगलपाणिभिः ।
शैलैर्विप्रैश्च सहितान् ब्रह्मघोषकरान् द्विजान् ।।।३ ३ ।।
दृष्ट्वा समागतान् सर्वे शंभुपक्षीयसेवकाः ।
सज्जाश्चाऽऽसन् शिवश्चापि सस्नौ सुगन्धवारिणा ।।३४।।
तावदागत्य शैलस्य मन्त्रिणः शंकरं तथा ।
विष्ण्वादीन् जनवाहाँश्च कृष्णं च वनितास्तथा ।।३५ ।।
प्रार्थयांचक्रुरादरविनीतभावनाभृताः ।
कन्यादानोचितः कालो वर्तते गम्यतामिति ।।३६ ।।
शिवो मांगलिकैर्द्रव्यैः स्नातः शृंगारितस्तथा ।
वस्त्रभूषामुकुटादिवरवेषादिशोभितः ।।३७।।
आरोपितो वृषस्कन्धे तैः सर्वै परिवारितः ।
नीतः शैलगृहं विप्रैर्जयशब्दैश्च वर्धितः ।।३८।।
पुरो वाद्यान्यवाद्यन्ताऽग्रगाश्चासन् द्विजाऽद्रयः ।
ततः कृष्णब्रह्मविष्णुदेवकोट्यो ययुः शनैः ।।३९।।
शंभुर्बभौ सुछत्रेण संधृतेन तु मूर्धनि ।
चामरैर्व्यजनैर्वीज्यमानश्च सद्वितानकः ।।1.194.४० ।।
विकीर्यमाणः कुसुमैर्ययौ शनैःशनैः शिवः
तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः ।।४१ ।।
पुनःपुनरवाद्यन्त वादित्राणि वरोत्सवे ।
तदा तु गायकाश्चाग्रे जगुः सन्मंगलानि वै ।।४२।।
नर्तक्यो ननृतुः सर्वा नानातालसमन्विताः ।
एवं समाजमध्यस्थः प्राप शैलांगणं हरः ।।४३ ।।
वृषादुत्तारयामासुर्महेशं पर्वतादयः ।
संपूजितस्ततः शंभुः प्रविष्टो यज्ञमण्डपम् ।।४४।।
निन्युर्गृहान्तरं शंभुं प्रणेमुः पुपुजुस्तथा ।
हिमालयश्च विधिवन्नीराजनमथाऽकरोत् ।।४५ ।।
सुरादीन्संप्रणम्याऽथ सम्मानमकरोन्मुदा ।
प्रांगणे स्थापयामास रत्नसिंहासनेषु तान् ।।४६।।
मेना नीराजनं चक्रे सर्वनारीसमन्विता ।
गर्गेण मधुपर्कादि यत्कृत्यं तत्कृतं तदा ।।४७।।
सुमंगलं च यत्कर्म प्रस्तावसदृशं कृतम् ।
अन्तर्वेद्यां महादेवो हिमशैलेन वेशितः ।।४८।।
हुतभुक्सहितां वेदीमारुरोह च शंकरः ।
अथ शृंगारिता स्त्रीभिः सर्वाभरणभूषिताम् ।।४९।।
भ्राता सुनाभः शंभोश्चाऽभ्याशं कालीं निनाय ताम् ।
वेदिकायां पार्वती च निषसाद ननाम तम् ।।1.194.५०।।
तत्रोपविष्टो गर्गश्च प्रतीक्षन् घटिकां तदा ।
यावच्छेषा घटी तावत्कृतवान्प्रणवस्वरम् ।।।५१ ।।
पुण्याहं प्रवदन् गर्गः समादध्रेऽक्षताञ्जलिम् ।
पार्वत्युपरि ववृषे ववृषे च शिवोपरि ।।५२।।
तया संपूजितो रुद्रो दध्यक्षतकुशांबुभिः ।
समानर्च शिवां शंभुर्लौकिकाचारसंरतः ।।५३।।
एवं परस्परं तौ तु पार्वतीपरमेश्वरौ ।
अर्चयन्तौ शुशुभाते निरीक्षन्तौ परस्परम् ।।५४। ।
नीराजितौ च लक्ष्म्यादिस्त्रीभिर्देव्यादिभिस्तदा ।
अथ स्थाल्यां महत्यां च मुक्तास्वर्णोर्मिकादिभिः ।।५५।।
रंगात्मजलमग्नैश्च रेमाते विजयाय तौ ।
अथ गुलालपुंजैश्च क्षणं चिक्रिडतुश्च तौ ।।५६ ।।
अथ गर्गेण चाज्ञप्तो हिमवान् मेनया सह ।
हैमं कलशमादाय सजलं साक्षतादिकम् । ।५७। ।
पुरोहितोक्तविधिना वस्त्रचन्दनभूषणैः ।
पाद्यार्घ्यादिभिश्च वरं वरयामास भावतः । ।५८। ।
तिथ्यादिकीर्तनं चक्रुः कालज्ञा द्विजसत्तमा ।
पत्नीव्रतस्तदा विप्रः सस्वस्तिसलिलं तदा । ।५ ९ । ।
प्रोक्षितवान् वरवध्वोः शिरसोः साक्षतं मुदा ।
हिमाचलस्तदा प्राह शंभुं गोत्रं कुलं वद ।।1.194.६ ० ।।
प्रवरं नाम वेदं च शाखां श्रावय सर्वथा ।
निरुत्तरमुखः शंभुर्मौनमाश्रित्य संस्थितः ।। ६१ ।।
तदा तु नारदः प्राह गोत्रं नादोऽस्य विद्यते ।
कुलं ब्रह्मकुलं बोध्यं वेदः सत्यसंकल्पता ।। ६२ ।।
प्रवरास्तु त्रयोऽस्याऽऽद्याः हरिर्नारायणो विराट ।
शाखा सदाशिवा बोध्या पिता कृष्णो यतो जनिः ।।६ ३ ।।
माता कृष्णमहेच्छा च नान्यज्जानामि किंचन ।
अथ हिमालयः श्रुत्वा प्रसन्नोऽभूच्छिवोपरि ।। ६ ४।।
योगिनां कुलगोत्रप्रवरैर्वा किं प्रयोजनम् ।
एवं वदन्स्वकन्यादानं चाकरोद्विधानतः ।। ६५ ।।
मत्पुत्री भगवन् कालीं पार्वतीं गिरिवंशजाम् ।
पितृणामपि दौहित्रीं प्रतीच्छेमां मयाऽर्पिताम् ।। ६६ । ।
इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।
भार्यार्थं परिगृह्णीष्व प्रसीद सकलेश्वर ।। ६७ ।।
इत्थं शिवाकरं शैलः शिवहस्ते ददौ तदा ।
तस्मै रुद्राय महते मन्त्रेणाऽनेन दत्तवान् ।। ६८ ।।
इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन् ।
प्रादात् प्रतीच्छ भगवन्निदमुच्चैरुदीरयन ।। ६९ ।।
वेढमन्त्रेण गिरिशो गिरिजाकरपंकजम् ।
जग्राह स्वकरेणाऽऽशु प्रसन्नः परमेश्वरः ।। 1.194.७० ।।
क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं ब्रुवन् ।
जग्राह शंकरः प्रीत्या दर्शयन् लौकिकीं गतिम् ।।७ १ ।।
न मे माता पिता नास्ति न ज्ञातिर्न च बान्धवाः ।
न कुलं पर्वतवासी प्रतीच्छामि सुतां तव ।।७२ ।।
इत्युक्त्वाऽपीड्यच्छैलपुत्र्याः करं करेण सः ।
संस्पृष्टौ तौ पुलकितौ सस्वेदसुप्रकोष्ठकौ । ७३ । ।
चीरदूरस्थौ द्राक्जातौ मिलितौ शाश्वताय च ।
जयशब्दा नमःशब्दास्तदाऽऽसन् भूःस्वरादिषु ।। ७४। ।
गन्धर्वाः सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ।
मुमुदिरे वरवधूपक्षगाश्च महोत्सवाः ।।७५।।
द्वयोश्च वस्त्रयोः प्रान्तग्रन्थिं विप्रो बबन्ध ह ।
सिन्दूरं प्रददौ शंभुस्तदा वध्वाः शिरस्यथ ।।७६।।
ततः शैलः शिवायाऽदात् कन्यादानस्य सांगताम् ।
बान्धवाश्च शिवां नत्वा ददुर्द्रव्यं शिवाय च ।।७७।।
हिमालयोऽपि सन्तुष्टः पार्वतीशिवप्रीतये ।
नानाविधानि द्रव्याणि रत्नानि कौतुकानि च ।।७८।।
चारुरत्नविकाराणि पात्राणि शयनानि च ।
गवां लक्षं हयानां चाऽयुतं दासीसुलक्षकम् ।।७९।।
नागानां च रथानां च शतलक्षं ददौ तदा ।
स्वर्णं रौप्यं मणींश्चापि रत्नमौक्तिकहीरकान् ।।1.194.८ ०।।
असंख्यातान् ददौ ताभ्यां प्रहृष्टो गिरिराट् तदा ।
शिरोभिषेकं पार्वत्याश्चक्रुस्ते मुनयोऽखिलाः ।।८ १।।
शिवाभिधानमुच्चार्य पर्युक्षणविधिं व्यधुः ।
अथ शिवाशिवौ तत्र मधुपर्कं समश्नुतः ।।८२।।
ब्राह्मणैः स्थापिते वह्नौ होमं चक्रतुरादरात् ।
दत्वा लाजान्कलभस्य शुक्लान् ससर्पिषा तथा ।।८ ३।।
ऋग्यजुः साममन्त्रैश्चाऽऽहुतिं ददतुरग्नये ।
लाजांजलिं ददौ कालीभ्राता मैनाकनामतः ।।८४।।
अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा ।
वह्निप्रदक्षिणं तत्र लोकाचारं विधाय च ।।८५।।
वरमालासमायुक्तौ लग्नग्रन्थिसुयोजितौ ।
गिरिजया गिरीशेन हुताशस्त्रिप्रदक्षिणम् ।।८६।।
कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ।
निषेदतुर्वधूवरौ तावत्तत्र च मालिनी ।।८७।।
जग्राह शंकरांघ्रिं वै दायस्य प्राप्तये तदा ।
किं याचसे ते प्रदास्ये मुञ्चस्वेति हरोऽब्रवीत् ।।८८।।
मालिनी प्राह मत्सख्या देहि शंकर शाश्वतम् ।
सौभाग्यं निजगोत्रीयं ततौ मोक्षमवाप्स्यसि ।।८९।।
अथोवाच महादेवो दत्तो मालिनि मुञ्च माम् ।
योऽसौ कृष्णोऽखिलनाथो गणेशाख्यः सुतस्तव ।।1.194.९० ।।
सख्या भविष्यति चैतत्सौभाग्यं चार्पितं मया ।
तदन्तरे तु पार्वत्याः उद्गृह्य मुखवस्त्रकम् ।।९ १।।
ब्रह्मणा दृष्टमास्यं तत् शशितेजोऽधिकप्रभम् ।
तद्दृष्ट्वा मोहमगमच्छुक्रं च्युतिमवाप च ।। ९२ ।।
तच्छुक्रं वालुकायां च खिलीचक्रे ससाध्वसः ।
मर्दिताच्च मुहुस्तस्मात्कणका वै सहस्रशः ।।९३।।
परोज्ज्वलाः समुत्पन्नाः शंकरः प्राह वेधसम् ।
इमे महर्षयो जाता न द्विजान् हन्तुमर्हसि ।।९४।।
जातास्ते ऋषयस्तत्र वालखिल्याभिधा द्रुतम् ।
आज्ञप्ताश्च चिरं स्थातुं गन्धमादनपर्वते ।।९५।।
गतास्तत्र तपस्तप्त्वा भविष्यन्त्यर्कसेवकाः ।
इत्येते वालखिल्याश्चोद्भूताश्चात्र पुनः प्रिये ।।९६ ।।
दृष्ट्वैतान् देवताः सर्वे चकिता ह्यभवँस्तदा ।
तयोः शिरोऽभिषेकोऽथ बभूवाऽऽदरतस्ततः ।। ९७।।
ध्रुवस्य दर्शनं विप्राः कारयामासुरादरात् ।
हृदयालंभनं कर्म बभूव तदनन्तरम् ।। ९८।।
स्वस्तिपाठश्चाभवच्च महोत्सवपुरःसरः ।
शिवाशिरसि सिन्दूरं ददौ शंभुर्द्विजाज्ञया ।।९९।।
ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।
नरैर्नारीभिराशीर्भिर्वर्धितौ मुदितौ तदा ।। 1.194.१० ०।।
मण्डपात्तौ समुत्थाय वह्निवेदीं प्रणम्य च ।
निवासस्थानमागत्य संस्रवप्राशनं ततः ।। १० १।।
चक्रतुर्विशश्रमतुर्यज्ञश्च पूर्णतां गतः ।
निवृत्तं विधिवत् सर्वं कर्म वैवाहिकं ततः ।। १०२।।
ब्रह्मणे पूर्णपात्रं च ददौ लोककृतः शिवः ।
गोदानं विधिवच्छंभुराचार्याय ददौ ततः ।। १० ३।।
महादानानि सर्वाणि मंगलादीनि यानि च ।
आचार्याय द्विगुणं तत् ददौ श्रीशंकरः स्वयम् ।। १ ०४।।
विप्रेभ्यश्च शतं स्वर्णमुद्राद्यं तु ददौ पृथक् ।
रत्नकोटिं बहुभ्यश्च पृथक्द्रव्याणि सन्ददौ ।। १ ०५।।
नृत्यं गानं वाद्यवादा जयशब्दः सुकीर्तयः ।
समभवन् शैलराजगृहे मोदप्रवर्धकाः ।। १०६।।
विष्णुप्रभृतयस्ततो भोजनार्थं हिमाद्रिणा ।
समाहूताः कोटिकोट्यर्बुदाब्जवरपक्षगाः ।। १ ०७।।
संभोजिता बहुभोज्यैस्तर्पिताः क्षीरवारिभिः ।
न कश्चित्तद्गृहे प्राणी क्षुधितः शिष्यतेऽधुना ।। १ ०८।।
अथैवं शैलनगरे स्त्रियश्च मुदिता ततः ।
वरं वधू समानीय ययुः कुहवरालयम् ।। १ ०९।।
लौकिकाचारमाजह्रुस्ता महादरसंभृताः ।
ततस्तास्तौ समानीय वासालयमगुस्ततः ।। 1.194.११० ।।
चक्रुर्दिव्यं भवाचारं पूजाचारं व्यधुश्च ताः ।
हस्तिरथं समादाय प्रमदाः कृष्णधामजम् ।। १११ ।।
संस्थाप्य दम्पती तत्र जगुर्गीतानि भावतः ।
नगरे वाहयामास महाराजपथेऽभितः ।। १ १२।।।
नागराश्च नरा नार्यो देशिकाश्च जनाः स्त्रियः ।
चक्रुर्दम्पत्यर्हणां ते स्थानिनो वै स्थले स्थले ।। ११३।।
तदा गुलालं बहुधा सिन्दूरं चापि कृत्स्नशः ।
क्षिपतो दम्पती भूमिं रक्तां चक्रे हि नागरीम् ।। १ १४।।
शीघ्रं स्वीयां प्रसृतिं च तौ प्रपूर्य परस्परम् ।
प्रक्षिप्य बहु रेमाते जनानन्दो ह्यभून्महान् ।। १ १५।।
एवं समग्रनगरं भ्रामयित्वा रथेन तौ ।
सवाद्यगीतनिददैर्जग्मुर्वरालयं तदा ।। १ १६।।
एवं शैलेन्द्रनगरीवनिता मोदनिर्भराः ।
निर्वर्त्य मंगलं कर्म प्रापयन् दम्पती गृहम् ।। १ १७।।
कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।
वासगृहं सम्प्रविश्य प्रशशंसुश्च तौ स्त्रियः ।। १ १८।।
सरस्वती तथा लक्ष्मीः सावित्री जाह्नवी शची ।
लोपामुद्राऽरुन्धती चाऽदितिस्तुलसी रोहिणी ।। ११ ९।।
शतरूपा रतिः संज्ञा स्वाहाऽहल्या वसुन्धरा ।
तौ दम्पती च संद्रष्टुमेता देव्यः समाययुः ।। 1.194.१२० ।।
मुनिकन्याः पितृकन्या देवकन्या नृकन्यकाः ।
अदेवकन्या नागानां कन्या याश्चान्यकन्यकाः ।। १२ १।।
नर्ममधुरहास्यं ताश्चक्रुः शंभोस्तदा मुदा ।
त्वया फलं नवं मिष्टं प्राप्तं भक्षय मा चिरम् ।। १ २२।।
मधुरं शीतलं पेयं पिब तृप्तिं प्रदेहि ताम् ।
स्थानं वक्षसि दत्वा संभज देवं मनोभवम् ।। १२३।।
भक्ष्यं विना क्षुधा नैव शाम्यतीमां प्रभोजय ।
स्वर्णहस्ततले विद्युत्केशान् कृत्वाऽभिमार्जय ।। १ २४।।
पूर्णिमाचन्द्रबिम्बं तत् सूर्यबिम्बेन योजय ।
नागवल्लीदलं भुक्त्वा तामालीं सफलां कुरु ।। १२५।
आत्मनश्च कृते ह्यात्मा प्रियः समर्थय श्रुतिम् ।
आनन्दाख्ये परे तत्त्वे समाधिं कुरु योगतः ।। १२६ ।।
अवग्रहमयीं भूमिं वृष्ट्या तर्पय गुप्तभुक् ।
गिरिश्रोणीप्रदेशस्थो मेघः शृंगे स्पृशत्विमे ।। १२७।।
संजीवनी भवताप्ता युनक्तु भस्मितं भवम् ।
शैलपुत्री त्वया लब्धा मृत्युपुत्री च माऽस्तु ते ।। १ २८।।
माऽति स्वपिहि निद्रालो गृहलक्ष्मीं निभालय ।
माऽतिप्रवर्तयेः स्वार्थे परार्थो मोक्षणे भव ।। १२९।
क्षुधां दशगुणां शान्त्वा ततो मोक्षमवाप्नुयात् ।
तदा स्ववसरं प्राप्य रतिः प्राह कपर्दिनम् ।। 1.194.१३० ।।
येन विनाऽस्म्यहं साध्वी तं विना किं भवेत् तव ।
विवाहिताऽद्य वर्तते ते व्यर्था जानासि किं न तत् ।। १३ १।।
तदत्र रत्याः पार्वत्याः सार्थक्यं कुरु शंकर ।
श्रुत्वैतन्मर्मवेत्ता स दयालुः शंकरस्तदा ।। १३२।।
रत्या तु रक्षितां कामभस्मपोटलिकां प्रति ।
ददर्श यावत्तावत्तु भस्मतो निर्गतः स्मरः ।। १३३ ।।
मूर्तिमान्सर्वदा कामो बभूवाऽमूर्तकोऽपि च ।
आज्ञापितः सर्वसृष्टौ स्थातुं देवादिभिस्ततः ।। १३४।।
तद्रूपवेषचिह्नात्मा यथापूर्वधनुश्शरः ।
अव्याप्नोत् सर्वतः सृष्टौ न कदापि मरिष्यति ।। १ ३५।।
देव्यो नर्म समाप्यैव गालं कृष्ट्वाऽऽगता बहिः ।
शंभुर्नैजे वासगेहे त्वंके संस्थाप्य पार्वतीम् ।। १ ३६।।
मिष्टान्नं भोजयामास तं च सापि मुदान्विता ।
मेनाद्र्यामन्त्र्य सस्त्रीशो जनावासं ययौ तदा ।। १३७।।
वाद्यानि वादयामासुर्जनाः सर्वविधानि च ।
अथ शैलो वरपक्षान् नरान् नारीश्च सर्वशः ।। १ ३८।।
भोजयामास दुग्धान्नपक्वान्नादीनि भूरिशः ।
ततः स्वपक्षान्सर्वान् भोजयामास च कृत्स्नशः ।। १३ ९।।
अथाऽशयिष्ट शर्वः सः पार्वत्या परिसेवितः ।
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ।। 1.194.१४० ।।
नानाप्रकारवाद्यानि वादयांचक्रिरे जनाः ।
अथ शंभुः स्वपक्षैश्च कैलासं गन्तुमुत्सुकः ।। १४१ ।।
मेनां शैलं समापृच्छ्य त्वरावानभवत्तदा ।
शैलः सबान्धवश्चक्रे प्रार्थनां समयोचिताम् ।। १४२।।
कियद्दिनानि सन्तिष्ठ मद्गेहे सफलैः सह ।
शंभो कृष्ण महाविष्णो विष्णो ब्रह्मन् सुरेश्वर ।। १४३।।
सूर्य चन्द्र सुरा देव्यो पितरो मुनयोऽपरे ।
ऋषयो लोकपालाश्च दिक्पाला भुवनेश्वराः ।। १४४।।
दर्शनेन च युष्माकं कृतार्थो ह्यभवं खलु ।
धन्योऽहं मद्गृहं पुण्यं कुटुम्बं श्रेष्ठतांगतम् ।। १४५।।
सर्वे मे पावनं जातं शश्वद् यशोऽभिवृद्धये ।
इत्युक्त्वाऽऽदरसत्कारपूर्वं प्रणम्य सांजलिः ।। १४६।।
हरं निमन्त्रयामास सह विष्णुसुरादिभिः ।
हरेणाऽऽज्ञापिता देवा नत्वा हिमालयं तदा ।। १४७।।
मुनयः ऋषयश्चापि प्रत्यूचुः समयंविदः ।
भूभृत्! विष्णुसमा कीर्तिस्त्रिषु लोकेषु तेऽधुना ।। १४८ ।।
नहि पुण्यतमश्चान्यस्त्वत्समो वै भविष्यति ।
यस्य द्वारि भगवन्त ईश्वरा देवकोट्यः ।। १४९।।
अनाहूता अपि शंभोर्विवाहे स्वयमागताः ।
जनवासाः कृता रम्या व्यवहारोऽपि सत्कृतः ।। 1.194.१५० ।।
सन्मानं वस्तुसामग्र्युपस्थितिर्भोजनानि च ।
पेयानि दासदास्यश्च सेवायां नियताश्च याः ।। १५१ ।।
सर्वमपूर्वमवर्ण्यमनवशेषमादृतम् ।
परिपूर्णं कृतं शैल त्वया तव च बान्धवैः ।। १५२।।
इत्थं शैलस्य पक्षस्य प्रशंसाऽभवदुत्तमा ।
स्नानसन्ध्याजपहोमस्वाध्यायतर्पणोत्तरम् ।। १५३ ।।
भोजनार्थं हरं प्रीत्याऽऽनयामास वधूयुतम् ।
प्रक्षाल्य चरणौ शंभोस्तथा भगवतामपि ।। १ ५४।।
सर्वेषां जनवाहानां कृत्वा चापि समादरम् ।
आसयामास दीर्घेषु मण्डपेषु सुपंक्तिशः ।। १५५ ।।
सुरसैर्विविधान्नैश्च मिष्टैः स्वादुतमैर्बहु ।
भक्ष्यभोज्यैर्लेह्यचोष्यैस्तिक्तकैश्च प्रवाहिभिः ।। १५६ ।।
शंकरं तर्पयामास सवधूं च जनाँस्तथा ।
लौकिकाचाररीत्या च पुरनार्यश्च भुञ्जतः । । १५७।।
वरपक्षजनवाहान् श्रावयामासुराफटान् ।
मृदुवाण्या हसन्त्यश्च गालीवाचो व्यधुर्बहु ।। १५८ । ।
ते भुक्त्वाऽऽचम्य विधिवद् गिरिमामन्त्र्य शांकराः ।
ऊषुः सुखतो दिवसे द्वितीये तृतीयके । । १५९ ।।
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।
बभूव विधिवद् येन विना खण्डित उत्सवः ।। 1.194.१६० । ।
पञ्चमे दिवसे देवा नगं यात्रार्थमूचिरे ।
तदाकर्ण्य गिरिः प्राह कृपां कुर्वन्तु मां सुराः ।। १६१ । ।
कियद्दिनानि तिष्ठन्तु सर्वं युष्माकमेव मे ।
इत्युक्त्वा वासयामास बह्वहान्येव चादरात् । । १६२ ।।
प्रत्यहं भोजनं दिव्यं नूतनं नूतनं सदा ।
पानानि नूतनान्येव सेवाः पूर्णतया तथा । । १६३ ।।
प्रत्यहं नृत्यगीतानि वाद्यानि सोत्सवानि च ।
बहुदानानि गानानि प्रत्यहं कारयत्ययम् । । १६ ४।।
प्रत्यहं मल्लयुद्धं च प्रत्यहं नटनर्तनम् ।
प्रत्यहं नाटकं दिव्य यज्ञकार्यं च नित्यदा ।। १६५ ।।
प्रत्यहं चारणीगाथा व्याख्यानानि च नित्यशः ।
नारीणां चापि रम्याश्च विलासाः प्रत्यहं तथा ।। १६६ ।।
अभवन्महीमानाना सुखार्थं गिरिकारिताः ।
न न्यूनं चाऽभवत् किंचित् काचिद्बाधा न चाऽभवत् ।। १ ६७। ।
इत्थं व्यतीयुर्दिवसा बहवो वसतां ततः ।
स्वयं निर्णयतो यात्रामर्थयामास शंकरः ।। १६८ ।।
शैलो ऽपि सुप्रसन्नः सन्नाज्ञां ददौ प्रवासने ।
सज्जाः सर्वेऽभवन् मेना शिवं प्राह सुकालिकम् । । १६९ ।।
मम पुत्रीं कृपां कृत्वा सर्वथा पालयिष्यसि ।
तव वध्वा लक्षदोषानाशुतोषः क्षमिष्यसे । । 1.194.१७० ।।
धनं चेद्ं चेतनं ते मा व्यत्येयं जडार्थवत् ।
तनुवत् सा सदा रक्ष्या न दण्ड्या विगतार्थवत् ।। १७१ ।।
त्वदर्थं मानसा वाचा कर्मणा तपसा बहु ।
कष्ट प्राप्तं फल प्राप्तस्त्वं प्राप्तां पाहि किंकरीम् । । १७२।।
यदी मां सा स्मरेत् यद्वा द्रष्टुमिच्छेदिहाऽऽनय ।
ममापि सुसुखं स्याच्च युवयोर्दर्शनात्तदा ।। १७३ ।।
समाचारश्च वृत्तान्तो दूतैर्देयो यथामुहुः ।
सुखिनौ भवतं स्वस्थौ स्मरिष्यामि सदा युवाम् ।। १७४।।
शृणु पुत्रि हितं तेऽत्र वधूभावेऽर्थदं वचः ।
पतिव्रता सदा लोके जयं प्राप्य प्रपूज्यते ।। १ ७५।।
पातिव्रत्यसमो धर्मो नास्ति सर्वार्थदः स्त्रियाः ।
सेवते सर्वभावेन सर्वथा सर्वदा पतिम् ।। १७६ ।।
सेह भुक्त्वाऽखिलान्भोगानन्ते पत्या शुभां गतिम् ।
पावनी सर्वलोकानां पूज्या धन्या विशेषतः ।। १७७।।
भुंज्याद् भुक्ते प्रिये पत्यौ तिष्ठेत् पत्यौ च तिष्ठति ।
स्वप्यात् स्वपिति पत्यौ च बुध्येद् वै प्रथमं सदा ।। १७८ ।।
सर्वथा तद्धितं कुर्यादकैतवसुवर्तना ।
अनलंकृतमात्मानं स्वामिने दर्शयेन्न वै ।। १७९ ।।
कार्यार्थं प्रोषिते पत्यौ भवेच्छृंगारवर्जिता ।
आक्रुष्टापि न चाक्रोशेत् प्रसीदेत्ताडितापि च ।। 1.194.१८० ।।
ताडयामीति चेद्ब्रूयात् स्वामिन्निति कृपां कुरु ।
आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।। १८१ ।।
चिरं तिष्ठेन्न च द्वारे तिष्ठेन्नैव परगृहे ।
गृहतत्त्वं तु नान्यस्मै कस्मैचित्त्वपि दर्शयेत् । । १८२। ।
पूजोपकरणं सेवामनुक्ताऽपि प्रसाधयेत् ।
प्रतीक्षमाणा सेवाया अवसरं च वर्तयेत्। ।। १८३ ।।
पत्युर्नाम न गृह्णीयात् गृहच्छिद्रं न दर्शयेत् ।
तीर्थयात्रां च पत्याज्ञां विना गच्छेन्न सर्वथा ।। १ ८४। ।
पतिं विना समाजादौ न च यायात्कदाचन ।
पतिपादोदकं तीर्थं सर्वतीर्थोत्तमं मतम् ।। १८५ ।।
भुंज्यात् पतिप्रसादान्नं मत्वा महाप्रसादनम् ।
अविभज्य च नाश्नीयाद् देवपित्रतिथिष्वपि ।। १८६ ।।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।
संयतोपस्करा दक्षा हृष्टा व्ययपराङमुखी ।। १ ८७।।
पत्याज्ञया व्रतं कुर्यादन्यथा निष्फलं भवेत् ।
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ।। १८८ ।।
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत् क्वचित् ।
सुप्ते पत्यौ न वै निद्राभंगं कुर्यात् कदाचन ।। १८९ । ।
क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमित्यपि ।
निर्धनं दुःखितं वापि पतिमेकं न लंघयेत् । । 1.194.१९० । ।
स्त्रीधर्मिणी त्रिरात्रं स्वमुखं नैव प्रदर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत् स्नानान्न शुद्ध्यति ।। १९१ ।।
स्नात्वा स्वपतिवदनमीक्षेतान्यस्य नैव हि ।
पत्यौ दूरे तु तं स्मृत्वा सूर्यदर्शनमाचरेत् ।। १९२।
सौभाग्योपकरणानि हरिद्रां कुंकुमं तथा ।
सिन्दूरं कज्जलं चाऽलक्तकं तैलं सुगन्धिमत् ।। १९३ ।।
कूपासिकं च ताम्बूलं तथा मंगलसूत्रकम् ।
तन्तिकां नत्थिकां कण्ठीं कर्णफुल्लीमिरीणिकान् ।। १ ९४।।
कटकं वंगिडी चैवोर्मिकां च रशनां तथा ।
शृंखलां झांझरीं केशसंस्कारकबरीं तथा ।। १९५।।
दत्यूहं दूरयेन्नैव भर्त्रायुष्येच्छुकी वधूः ।
न घर्मनाशयित्र्या वाऽटन्त्या मैत्रीं समाचरेत् ।। १ ९६। ।
पतिनिन्दां न शृणुयात् स्नायान्नग्ना नहि क्वचित् ।
विना व्यवायसमयं नैर्लज्ज्यं नाऽऽचरेत् क्वचित् । । १ ९७। ।
नोलूखले न वर्धन्यां प्रस्तरे मूशले न च ।
न पेषण्यां न मार्जन्यां देहल्यामासनं क्रियात् । । १ ९८। ।
प्रेमवत्या तत्र भाव्यं यत्र भर्तूरुचिर्भवेत् ।
हृष्टे हृष्टे विषण्णे च विषण्णा च प्रिये प्रिया । । १९९ । ।
पत्युर्हिता चैकरूपा सम्पत्सु च विपत्सु च ।
सधैर्या विकृतिं नेयात् प्रसन्नास्या सदा भवेत् । । 1.194.२०० । ।
तैलगूडाद्यसत्त्वेऽपि पतिं दुःखे न योजयेत् ।
पत्युर्भोजनकाले स्वोद्वेगं नैव प्रकाशयेत् ।। २०१ ।।
विधेर्विष्णोर्हराद्वापि पतिर्नारायणोऽधिकः ।
उक्ता प्रत्युत्तरं दद्याद् विनयेन न रोषतः ।। २०२।।
उच्चासनं न सेवेत न चोद्वेगकरं वदेत् ।
अपवादं न वै ब्रूयान्न कुर्यात्कलहं क्वचित् ।। २०३ ।।
गुरूणां सन्निधौ हास्यं न कुर्यान्नोच्चमावदेत् ।
बाह्यादायान्तमालोक्योत्थातव्यं सस्मितं तथा ।। २०४।।।
जलान्नताम्बूलवस्त्रासनपादांगमर्दनैः ।
श्रमखेदहरैर्वाक्यैः प्रीणनीयः पतिः सदा ।। २०५ ।।
ददाति पिता स्वल्पं च भ्राता स्वल्पं सुतस्तथा ।
अनल्पस्य प्रदातारं स्वामिनं संप्रसन्नयेत् ।। २०६ ।।
भर्ता देवो गुरुर्भर्ता उभलोकप्रदः पतिः ।
धर्मस्तीर्थं व्रतं भर्ता पत्न्याः सर्वं पतिर्मतः ।। २ ०७।।
पतिं विना शवतुल्या ह्यशुचिः प्रमदा मता ।
माता पिता पतिर्धन्या यद्गेहेऽस्ति पतिव्रता । । २०८ ।।
पितुर्मातुश्च पत्युश्च दिवं वंश्यास्त्रयस्त्रयः ।
यान्ति पतिव्रतापुण्यादन्यथा पातयन्ति तान् । । २०९ ।।
पतिव्रतापादरजः पावनं साधुपादवत् ।
पूयन्ते पादरजसा सूर्यचन्द्रानिलानलाः ।। 1.194.२१० ।।
जलान्यपि च पूयन्ते सा गंगातोऽधिका मता ।
पतिव्रतावलोकात्तु साधुदर्शनजं फलम् ।। २११ । ।
पत्युस्तिरस्करी नारी शृगाली सरमा भवेत् ।
भर्तुस्त्यागकरी नारी उलुकी वृक्षगा भवेत् । । २१२ । ।
भवेद्भर्तुस्ताडयित्री व्याघ्री च वृषदंशिका ।
नेत्ररोषं दर्शयित्री केकराक्षी तु सा भवेत् । । २१३ । ।
पतिं विना मिष्टभोक्त्री वल्गुर्वा शुकरी भवेत् ।
पतिं तूँकृत्यब्रूवा सा मूका संजायते जनेः । । २१४ । ।
सपत्नीं चेर्ष्यति या सा दुर्भगा रोगिणी भवेत् ।
कामतोऽभर्तृपश्या सा भवेत् काणा कुरूपिणी । । २१५ । ।
गार्हस्थ्यस्य सुखस्याथ धर्मस्य मूलमेव सा ।
देवपित्रतिथीज्यादिकर्ममूलं पतिव्रता । । २१६ । ।
सन्ति गृहे गृहे नार्यो रूपलावण्यगर्विताः ।
ग्रसन्ते पुरुषान् दुःखे क्षिप्त्वा राक्षस्य एव ताः ।।२१ ७। ।
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती
शाण्डिल्या शतरूपाऽनसूया लक्ष्मीः स्वधा सती । । २१८ । ।
संज्ञा च सुमतिः श्रद्धा मेना स्वाहा पतिव्रता ।
पातिव्रत्यवृषेणैव ता गताः सर्वपूज्यताम् ।। २१९ । ।
श्रेष्ठा मध्या कनिष्ठाऽतिकनिष्ठास्ताश्चतुर्विधाः ।
त्र्यवस्थासु भर्तृपरा श्रेष्ठा नान्यपरा क्वचित् । । 1.194.२२० ।।
स्वप्ने देहेन चान्यं न स्पृशति मध्यमा च सा ।
जाग्रत्यन्यं शरीरेण न स्पृशति कनिष्ठिका । । २२१ । ।
यं कमपि स्पृशत्यन्यं व्यभिचारं करोति न ।
पत्युर्भयाल्लोकभयात् साऽतिकन्ष्ठिका मता ।। २२२ । ।
परप्रसंगकर्त्री या सा प्रोक्ता व्यभिचारिणी ।
जगदम्बा महेशी त्वं शिवः साक्षात्पतिस्तव ।। २२३ । ।
तव स्मरणतो नार्यो भविष्यन्ति पतिव्रताः ।
किं त्वग्रे कथनेन कथितं लोकचारतः । । २२४ ।।
इत्येवं च समादिश्य प्रिये पुत्रि प्रगच्छसि! ।
आगन्तव्यं योग्यकाले इतिकृत्वाऽऽश्लिषत् सुताम् ।। २२५ । ।
किंचिदाचाररक्षार्थं सा रुरोद मनाक् ततः ।
शिवापि जननीस्नेहाद् रुरोद गद्गदा सती ।। २२६ ।।
तदा सर्वं कुटुम्बं च रुरोद प्रेमविह्वलम् ।
उभयोः पक्षयोश्चापि स्नेहबद्धहृदादिभिः ।। २२७।।
नरा नार्यः सुरा देव्यः पर्यश्चाप्सरसस्तथा ।
साश्रुनेत्राः समभवन् प्रयाणसमये जनाः । । २ २८ ।।
अथाऽऽनयामास शैलः शिबिकां पार्वतीकृते ।
शिवामारोहयामासुस्तत्र विप्रांगनाश्च ताम् ।। २२९ ।।
आशिषं प्रददुः सर्वे पिता माता द्विजादयः ।
महाराज्ञ्युपचाराँश्च ददू रत्नादि यौतकम् ।। 1.194.२३० ।।
शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा ।
द्विजान्पुरोहितं नत्वा यामीत्युक्त्वा ययौ ततः ।। २ ३१ । ।
हिमाचलादयः शंभुं गत्वाऽभिरेभिरे च ते ।
सुमण्डपजनाः सर्वे जनवाहजनास्तथा ।। २३२।।
परस्परं समाश्लिष्य नत्वाऽभिरेभिरे मुहुः ।
जयेत्युच्चारयन्तस्ते जग्मुः स्वां स्वां पुरीं प्रति ।। २३३ ।।
नार्यश्च दम्पती यात्रां कारयित्वा गृहं ययुः ।
शिवपक्षास्तथा चान्ये यात्रां प्रचक्रिरे ततः ।। २३४ ।।
यात्रापयितुं शैलस्तान् सीमान्तं सह तैर्ययौ ।
प्रशंसन्तो विवाहं च सर्वे स्वस्वगृहं ययुः ।। २ ३५ ।।
हिमालयमहीमानाश्चामन्त्र्याऽत्त्वा गृहं ययुः ।
शिवः सर्वसहितः स्वपुरीं प्राप्तो जनाँस्तदा । । २३६ ।।
भोजयामास च कृष्णनारायणपुरोगमान् ।
तथाऽन्यान्निखिलान् प्रीत्या स्वविवाहसमागतान् । । २३७ ।।
योग्यां पूजां प्रदत्वा प्रसादयामास शंकरः ।
तेऽप्यामन्त्र्य च प्रययुः स्वस्थलोकान् सुरादयः । । २३८ ।।
ब्रह्मब्राह्म्योश्च दिव्योऽयं विवाहः कथितः प्रिये ।
पठनाच्छ्रवणाच्चायं पापघ्नः स्वेष्टपूरकः ।। २३९ । ।
आयुष्यो धनदो मुक्तिप्रदो भुक्तिप्रदोऽपि च ।
विध्नव्याधिप्रशमनः सर्वथा मंगलायनः ।। 1.194.२४० ।।
सुयशस्यः स्वर्ग्योऽपत्यवंशदः कामदः परः ।
शिवोत्सवेषु सर्वत्र पठनीयो विशेषतः । । २४१ ।।
इत्येवं कथितं लक्ष्मि! चरितं लग्नमंगलम् ।
वैवाहिकं च सर्वेषां गृहस्थानां हिताय वै ।। २४२ ।।
कन्यानां च कुमाराणां पक्षयोश्चोभयोरपि ।
शिक्षाऽर्हं सर्वथा शोकनाशनं सुखदं महत् ।। २४३ ।।
विवाहे च तव लक्ष्मि! एवमेवाऽभवत्पुरा ।
वद चेत्ते समुत्साहः किमन्यच्छ्रोतुमिच्छसि ।। २४४।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुलदेवीपूजनं, पार्वत्या यज्ञोपवीतं, शिवप्रेषिताऽऽभरणादीनि, मण्डपादावागमनं, मधुपर्कादि, नामगोत्रादि,
पाणिग्रहणविधिः, दानं, वह्निप्रदक्षिणं, ब्रह्णणोऽन्ये वालखिल्या उत्पन्नाः, वेदिकाचारोलोकाचारः, व्यंग्यादि, रतिप्रार्थनया कामसजीवनता, भोज्यसत्कारादि, पतिव्रताधर्माः, दम्पती-
प्रभृतीनां कैलासाभिगमनं चेत्यादिनिरूपणनामा चतुर्नवत्यधिकशततमोऽध्यायः ।। १९४ ।।