प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५२० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२१
[[लेखकः :|]]
अध्यायः ५२२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चेन्द्रद्युम्नः पप्रच्छ लोमशम् ऋषिम् ।
ऋषे! शान्तिकरं ज्ञानं कथं जायेत तद्वद ।। १ ।।
आत्मशान्तिं विना सर्वं जालं चोद्वेजकं मतम् ।
आत्मशान्तिसमो लाभो नान्यः कश्चिच्च तं वद ।। २ ।।
लोमशः श्रीकृष्णनारायणं स्मृत्वा जगाद तम् ।
शृणु राजन् प्रवक्ष्यामि श्रीहरेः स्मरणं कुरु ।। ३ ।।
अक्षरं ब्रह्म परमं धाम व्यापकमुत्तमम् ।
शाश्वतं यत्र वित्यैस्तु मुक्तैः सेव्यः परात्परः ।। ४ ।।
श्रीहरी राजते श्रीमत्कृष्णनारायणो हरिः ।
दिव्यो युवाऽतिबलवान् रूपरूपानुशेवधिः ।। ५ ।।
कोटिकोट्यर्कतेजांसि सदा यस्याऽणुभागतः ।
प्रकाशन्ते सर्वसूृष्टिगतो मुक्ताभिसेवितः ।। ६ ।।
अनन्तरूपधृक् श्रीमत्पुरुषोत्तम एव सः ।
अक्षरादिसमस्तानां स्वामी नारायणश्च सः ।। ७ ।।
अक्षरातीत एवाऽसौ द्विभुजो दिव्यविग्रहः ।
श्रोतव्यश्चापि मन्तव्यो ध्येयश्च श्रीपतिः प्रभुः ।। ८ ।।
नेत्रे कज्जलसंशोभे पद्मपत्रायतेऽरुणे ।
प्रेम्णा च निभृते शश्वद्भावगर्भेऽतिकर्षणे ।। ९ ।।
स्वर्णरोम्णां राजिभिश्च विराजितेऽतिमञ्जुले ।
हृदयस्य तु सर्वस्वं निवेदयत आदरात् ।। १.५२१.१ ०।।
भ्रूकुटिभ्यां कामकोटिशरवेधनकारके ।
आत्मानन्दभृते स्निग्धे रसिकानां रसान्विते ।। ११ ।।
तारकापानपीयूषप्रदे मीनसुचञ्चले ।
आकर्णान्तगतप्रान्ते कोणकौशल्यसंभृते ।। १ २।।
रक्तरेखान्विते श्वेते परितः स्फटिकोज्ज्वले ।
सर्वदृश्यप्रतिबिम्बान्विते ध्येये मनोहरे ।। १३।।
नासिकां तिलपुष्पाभां पक्वबिम्बसमौष्टकौ ।
तनुरेखाचमत्कारकरश्मश्रुविभूषितौ ।। १४।।
स्वल्पनिम्नं ततः सम्यगुच्छ्रायं चिबुकं स्मरेत् ।
कपोलौ सूर्यचन्द्राभौ भालं बिन्दुविराजितम् ।। १५।।
स्मरेत् सतिलकं चातिप्रोज्ज्वलं चैकरेखकम् ।
केशांश्च मञ्जुलान् स्निग्धान् वक्रान् कृष्णाँश्च पिंगलान् ।। १६।।
स्मरेत् मुकुटप्रभया प्रोज्ज्वलान् दीर्घरश्मिकान् ।
कर्णौ शष्कुलिकाशोभौ रत्नहीरककुण्डलौ ।। १७।।
ध्यायेत् स्वामिनि परिधिव्याप्तं मुखं च तेजसाम् ।
कोटिकन्दर्पकान्त्यादिराजितं हृदयंगमम् ।। १८।।
कम्बुकण्ठं दृढपुष्टस्कन्धौ ध्यायेन्मनोहरौ ।
भोगिभोगसमौ बाहू स्वर्णचम्पकसूज्ज्वलौ ।। १९।।
करिहस्ताभकरभौ पद्माभे हस्तयोस्तले ।
नखचन्द्राँश्च धवलान् योग्यरक्तान् समुन्नतान् ।।१.५२१.२०।।
सरेखाङ्गुलिकाः सर्वा अङ्गुष्ठौ च प्रकोष्ठकौ ।
ध्यायेद् वक्षःस्थले लक्ष्मीचिह्नयुक्तं समुन्नतम् ।।२१।।
विशालं श्रीवत्सचिह्नं रोम्णां दक्षिणवर्तनम् ।
स्तनं द्वयं तथा ध्यायेदुदरं त्रिवलिश्रितम् ।।२२।।
निम्ननाभिं जघनं च पार्श्वद्वयं समुज्ज्वलम् ।
कटिं सिंहकटितुल्यां ध्यायेल्लिंगं नितम्बकौ ।।२३।।
उरू ध्यायेद् गजहस्तसमौ जानू सुवर्तुलौ ।
जंघे रम्ये पत्तले च पद्मपत्राभपाण्डुरे ।।२४।।
अंगुलीर्नखचन्द्राढ्या ध्यायेद् भूषाम्बराणि च ।
हारराजीन् दन्तपक्तिं हृदयं मानसं स्मरेत् ।।२५।।
भावनां च गुणान् सर्वैश्वर्याणि च क्रियां स्मरेत् ।
एवं वै श्रीकृष्णनारायणमूर्तेर्हि चिन्तनात् ।।२६ ।।
शान्तिर्वै शाश्वती राजन् जायेतैव न संशयः ।
ततो ध्यायेद्धरौ तस्मिन् श्रीकृष्णं राधिकां तथा ।।२७।।
ध्यायेन्नारायणं लक्ष्मीं ब्रह्माणं च सरस्वतीम् ।
सावित्रीं चापि गायत्रीं शिवं दुर्गां च पार्वतीम् ।।२८।।
ध्यायेद् गंगां च विष्णुं च लक्ष्मीं वृन्दां च तूलसीम् ।
ध्यायेत्तत्राऽक्षराऽतीते व्यूहाँश्च विभवाँस्तथा ।।२९।।
अर्चा अंशकलावेशान् विभूतीश्च हरौ स्मरेत् ।
क्षीरस्थं श्वेतभूसंस्थं हिमस्थं स्वगतं स्मरेत् ।।१.५२१.३ ० ।।
सर्वदेहिगतं तं वै विष्णुं ध्यायेज्जनार्दनम् ।
नरे नार्यां सदा तं वै पश्येत् कृष्णनरायणम् ।।३ १।।
सत्ये स्वर्गे क्षितौ व्योम्नि पाताले हृदयाम्बरे ।
पुत्रे पत्न्यां पशौ कान्ते जडे चेतनवर्गके ।।३२।।
दृश्येऽदृश्ये प्रिये ग्राह्ये विप्रिये वर्ज्यवस्तुनि ।
ध्यायेद् वै श्रीकृष्णनारायणं गोपालबालकम् ।।३३।।
कम्भरालालितं दिव्यं त्वश्वपट्टसरोऽन्तिकम् ।
लोमशेन सदा ध्यातं ब्रह्मरुद्रादिवन्दितम् ।।३४।।
राधालक्ष्मीरमापद्माप्रभापद्मावतीश्वरम् ।
माणिकीपार्वतीनाथं जयेशं ललितापतिम् ।।३५।।
मुक्तेशं चावतारेशं सच्चिदानन्दविग्रहम् ।
श्रीकृष्णवल्लभं नाथं जगज्जन्मादिकारणम् ।।३६।।
सिद्धिसंसेवितं ज्ञानानन्दसम्पत्प्रशेवधिम् ।
ध्यायेत् कान्तस्वरूपं तं स्वामिनं हृदयाम्बुजे ।।३७।।
एकतानतया ध्यायेन्नरो नारी पतिं प्रभुम् ।
कुंकुमवापिकातीर्थप्रसेवितं परेश्वरम् ।।३८।।
ध्यायेत्स्मरेज्जपेन्नित्यं नमेत् संसेवयेत्तथा ।
पूजयेदर्चयेत्पादपद्मे धृतामृतं पिबेत् ।।३९।।
प्रसादं संग्रसेत्तस्य सुगन्ध्यादि समावहेत् ।
प्रदक्षिणां स्तुतिं कुर्याद्दीपं नैवेद्यमर्पयेत् ।।१.५२१.४०।।
आरार्त्रिकं प्रकुर्याश्च सर्वस्वार्पणमाचरेत् ।
एवमात्मा समर्प्यश्चार्पणीयः सर्वदा हरौ ।।४१ ।।
कामः क्रोधः सुखं स्नेहो लोभो मोहादयस्तथा ।
दया दानं च दाक्षिण्यं दमनं दोषमण्डलम् ।।४२।।
सर्वं समर्पयेत् तस्मै तत्र क्षिपेन्निरन्तरम् ।।।
तेन वह्नौ यथा धातुस्तथा शुद्ध्यति मानवः ।।४३।।
इन्द्रद्युम्न! फलं हित्वा कुर्याद् दास्यं सदा हरेः ।
अहं श्रीमत्कृष्णनारायणदास्येन दिव्यताम् ।।४४।।
अलभं चिरजीवित्वं ब्रह्मतुल्यं वपुस्तथा ।
जीवन्मुक्तिं तथैश्वर्यसिद्धीर्वैराग्यसम्पदम् ।।४५।।
सन्तोषं चाऽलभं तृष्णाक्षयं मायाविवर्जितम् ।
मायालेपादिराहित्यं तथाऽऽवरणहीनताम् ।।४६।।
क्लेशान् कर्माशयान् दग्ध्वा विचरामि हरिर्यथा ।
लोष्ठं काष्ठस्य योगेन तरत्येव जलार्णवम् ।।४७।।
कृष्णनारायणसंगाल्लोमशो लेपशातनः ।
ब्रह्ममुक्तो वर्ततेऽत्र कल्पानां कालशातनः ।।४८।।
ब्रह्मादिस्तम्बपर्यन्तमसंख्यं विश्वमेव यत् ।
सर्वे चराऽचराधारं यः सृजत्येव लीलया ।।४९।।
ब्रह्मेशशेषधर्माश्च दिनेशश्च गणेश्वरः ।
मुनीन्द्रवर्गो देवेन्द्रो ध्यायति यमहर्निशम् ।।१.५२१.५०।।
वेदाः स्तुवन्ति यं कृष्णनारायणं जगत्प्रभुम् ।
स्तौति यं प्रकृतिर्हृष्टा स्तौति भीता सरस्वती ।।५१ ।।
षण्मुखश्चतुरास्यश्च पञ्चास्यः स्तौति यं हरिम् ।
सहस्रास्यश्च वेदास्या अनलास्याः स्तुवन्ति यम् ।।५२।।
स्वेच्छामयं निरीहं च निर्गुणं च निरञ्जनम् ।
परात्परतरं ब्रह्म परमात्मानमीश्वरम् ।।५३।।
नित्यं ज्योतिरभिव्याप्तं भक्तानुग्रहविग्रहम् ।
नित्यानन्दं च नित्यं च नित्यमक्षरविग्रहम् ।।५४।।
भज नित्यं गुरुं कृष्णनारायणं प्रभुं पतिम् ।
सोऽवतीर्णोऽत्र भगवान् भूभाराद्यपनुत्तये ।।५५।।
गोपालबालवेषश्च वल्लभो मायया प्रभुः ।
स एव रक्षिता पोष्टा संहर्ता तं सदा भज ।।५६ ।।
पितरं मातरं विद्यामन्त्रदं सद्गुरुं पतिम् ।
तमेव श्रीकृष्णनारायणं भज महीपते ।।५७।।
इन्द्रद्युम्न! निबोधेदं ज्ञानं मत्तः परात्परम् ।
त्यज सर्वं विघ्नकरं मुदं लभ हरेः परम् ।।५८।।
किं राज्यं किं यशो ग्रामः कः स्वदेशोऽपरश्च कः ।
कः कस्य पुत्रः कस्तातः का माता कस्यचित् कुतः ।।५९।।
आयान्ति यान्ति संसारं परं स्वकृतकर्मभिः ।
कर्मानुसाराज्जन्तुश्च जायते स्थानभेदतः ।।१.५२१.६०।।
कर्मणा जायते कश्चिद् विप्राण्यां वा नृपस्त्रियाम् ।
वैश्यायां वा शूद्रनार्यां पशौ पक्षिणि वृक्षके ।।६ १ ।।
नारायणप्रदत्तेषु सानन्दा विषयेषु ते ।
देहत्यागे विषण्णाश्च वियोगे बान्धवस्य च ।।६२।।
मायया तत्कृतं सर्वं कन्या वधूर्विरागिणी ।
अवस्थास्ता विभिन्ना वै एकस्या एव योषितः ।।६३।।
प्रजाभूमिधनादिनां विच्छेदो मरणाधिकः ।
नित्यं भवति मूढस्य विदुषो न कदाचन ।।६४।।
कृष्णनारायणभक्तस्तद्याजी तत्परायणः ।
कृष्णमन्त्रोपासकश्च कृष्णसेवारतो भव ।।६५।।
यद्भयाद् वाति वातोऽयं रविर्भाति च नित्यशः ।
भाति चन्द्रो महेन्द्रश्च कालभेदे प्रवर्षति ।।६६।।
वह्निर्दहति मृत्युश्च चरत्येव तु जन्तुषु ।
बिभर्ति वृक्षः कालेन पुष्पाणि च फलानि च ।।६७।।
व्योमाधारोऽपि वायुश्च वाय्वाधारं जलादिकम् ।
जलाधारः कच्छपश्च तदाधारो ह्यनन्तकः ।।६८।।
अनन्तशेषभोगेषु ब्रह्माण्डानि च पर्वताः ।
निश्चलं च जलं तस्माज्जलस्थेयं वसुन्धरा ।।६९।।
सप्तस्वर्गं धराधारं ज्योतिश्चक्रं ग्रहाश्रयम् ।
अष्टावरणयुक्तानां ब्रह्माण्डानां महाविराट् ।।१.५२१.७०।।
आधारस्तस्य वै भूमा महाविष्णुः सदाशिवः ।
तस्याधारश्च वैकुण्ठो गोलोकश्च तदाश्रयः ।।७१ ।।
गोलोकस्याऽऽश्रयोऽनन्ताऽक्षरधाम परं शुभम् ।
ब्रह्मलोकः परात् परः परमं धाम तत्परम् ।।७२।।
दिव्यं सर्वत्र संव्याप्तं सीमवर्जितमेव तत् ।
यत्र वै सर्वधामानि त्रिपादस्याऽमृतं दिवि ।।७३।।
पादोऽस्य विश्वा भूतानि परं ततो न विद्यते ।
तत्रस्थं श्रीकृष्णनारायणं गोपालबालकम् ।।७४।।
कम्भरानन्दनं राजन् भजाऽक्षरपतिं हरिम् ।
परमे धामनि सोऽयं कृष्णनारायणो हरिः ।।७५।।
अनन्त मुक्तमध्यस्थो वर्तते पुरुषोत्तमः ।
अक्षरे च तथा धाम्नि वर्ततेऽक्षरपूरुषः ।।७६।।
राधाकृष्णश्च गोलोके वैकुण्ठे श्रीपतिः प्रभुः ।
शिवलोके शिवरूपः सत्ये ब्रह्मा हरिर्मतः ।।७७।।
तेजस्विनां च वै सूर्यः पवित्राणां तथाऽनलः ।
द्रवाणां स हरिर्वारि चेन्द्रियाणां मनः स च ।।७८।।
शीघ्रगानां समीरः स दण्डदानां यमो हि सः ।
कालः कलयतां सोऽपि चाक्षराणामवर्णकः ।।७९।।
साम्नां साम सुराणां स इन्द्रो राज्ञां प्रतापकः ।
ईशानः सं दिगीशानां कुबेरो धनिनां हि सः ।।१.५२१.८० ।।
व्यापकानां नमः सोऽपि साक्षी चापि स एव हि ।
तैजसानां सुवर्णं स रत्नं धनेषु चैव सः ।।८१ ।।
मणीनां कौस्तुभः कृष्णनारायणः स्वयं प्रभुः ।
शालग्रामस्तथाऽर्च्यानां पत्राणां तुलसी च सा ।।८२।।
पुष्पाणां पारिजातः सः तीर्थानां पुष्करः स च ।
वैष्णवानां कुमारः स योगीन्द्राणां गणाधिपः ।।८३ ।।
सेनापतीनां स्कन्दः सः नरो धनुष्मतां हि सः ।
नक्षत्राणां शशी सोऽयं रामः शस्त्रभृतां हि सः ।।८४।।
मासानां मार्गशीर्षः सः वसन्तः सः क्रतूत्तमः ।
राजेन्द्राणां च रामः सोऽवताराणां नरायणः ।।८५।।
श्रीकृष्णः स भगवतां वारेषु रविवासरः ।
तिथिष्वेकादशीरूपः पृथ्वी क्षमावतां हि सः ।।८६।।
अपत्यानां स वै माता भक्ष्याणां त्वमृतं हि सः ।
गव्येष्वाज्यं स वै प्रोक्तो द्रुषु कल्पद्रुमो हि सः ।।८७।।
सुरभिः कामधेनूनां गंगा सः सरितां हरिः ।
पण्डितानां वाणीरूपो मन्त्राणां प्रणवश्च सः ।।८८।।
परा विद्या च विद्यानां सस्यानां धान्यमेव सः ।
अश्वत्थः फलिनां कृष्णो गुरूणां मन्त्रदश्च सः ।।८९।।
कश्यपः सः प्रजेशानां गरुडः पक्षिणां हि सः ।
अनन्तः स च नागानां नराणां नृपतिः स हि ।। १.५२१.९०।।
ब्रह्मर्षीणां भृगुः सोऽयं देवर्षीणां च नारदः ।
राजर्षीणां जनकः स महर्षीणां शुकः स च ।।९१ ।।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलः स च ।
लोमशश्चिरजीवानां गुरुर्बुद्धिमतां स वै ।।९२।।
शुक्रः कविवराणां स ग्रहाणां च शनिः स वै ।
शिल्पिनां विश्वकर्मा सः मृगाणां मृगराट् स वै ।।९३ ।।
वाहानां शिववाहः स ऐरावतश्च हस्तिषु ।
गायत्री छन्दसां सोऽपि शास्त्राणां वेद एव सः ।।९४।।
यादसां वरुणः कृष्ण ऊर्वश्यप्सरसां हि सः ।
जलाशयानां चाऽब्धिः सः सुमेरुर्भूधरेषु सः ।।९५ ।।
हिमाद्रिः स रत्नवतां राधिका प्रकृतिष्वपि ।
देवीनां कमला कृष्णः शतरूपा च योषिताम् ।।९६ ।।
सन्तः प्रियाणां कृष्णः स सावित्री सुशिलासु सः ।
प्रह्लादः सोऽपि दैत्यानां बलिष्ठानां बलिः स च ।।९७।।
नारायणर्षिर्भगवान् ज्ञानिनां ब्रह्मचारिणाम् ।
हनुमान् वानराणां स वीराणां च नरः स्वयम् ।।९८
मनसा नागकन्यानां वसूनां द्रोण एव सः ।
कामिनां कामरूपः स रंभा सः कामुकीषु वै ।।९९।।
गोलोकः स च लोकानां धाम्नां चाऽऽक्षरधाम सः ।
वासानां श्रीरमावासो वैकुण्ठो भगवान् हि सः ।।१.५२१.१ ० ०।।
शान्तिर्मातृकवर्गे सः रतिः स सुन्दरीषु वै ।
धर्मः साक्षिगणे सोऽस्ति सन्ध्या वै वासरेषु सः ।।१ ०१ ।।
देवेष्विन्द्रो राक्षसेषु विभीषणो हरिः स्वयम् ।
कालाग्निरुद्रो रुद्राणां संहारो भैरवेषु सः ।। १ ०२।।
शंखेषु पाञ्चजन्यः सः शरीरे मस्तकं च सः ।
लक्ष्मीनारायणसंहितात्मकः स्वकथासु सः ।। १ ०३।।
स्वायंभुवो मनूनां स व्यासो विद्वत्सु माधवः ।
स्वधा सः पितृपत्नीषु स्वाहा वह्निप्रियासु सः ।। १ ०४।।
यज्ञानां राजसूयः सः यज्ञपत्नीषु दक्षिणा ।
नीतिवत्स्वंगीरा सूतः कथकेषु हरिर्हि सः ।। १ ०५।।
शस्त्रास्त्रज्ञेषु च पर्शुरामो दैवं बलेषु च ।
व्रतानां श्रीकृष्णनारायणस्वामिव्रतं हि सः ।। १ ०६।।
दातॄणामिन्द्रद्युम्नः स दूर्वा स ओषधिष्वपि ।
तृणानां दर्भरूपः सः सत्यं व्रतेषु धार्मिषु ।। १ ०७।।
स्नेहपात्रेषु पुत्रः सः स व्याधिः शत्रुमण्डले ।
सेवासु दास्यमेव श्रीहरिर्वरो वरेषु च ।। १ ०८।।
आश्रमेषु गृहस्थः सः सन्न्यासश्च विवेकिषु ।
सुदर्शनं सः शस्त्राणां कुशलं सः शुभाशिषाम् ।। १ ०९।।
ऐश्वर्याणां महाज्ञानं वैराग्यं च सुखेषु सः ।
मिष्टवाक्यं प्रीतिदेषु दानेषु चात्मदानकम् ।। १.५२१.११ ०।।
सञ्चयेषु धर्मकार्यं कर्मणां चार्चनं हि सः ।
कठोरेषु तपः कृष्णः फलेषु मोक्ष एव सः ।। १११ ।।
नारीषु चानुवृत्तिः सः नरेषु वीर्यमेव सः ।
अष्टसिद्धिषु प्राकाम्यं काशी कृष्णः पुरीषु च ।। १ १२।।
नगरेषु कृष्णनारायणस्य नगरं हि सः ।
देशेषु वैष्णवक्षेत्रं विराट् तथाऽऽश्रयेषु सः ।। ११३ ।।
सूक्ष्मेषु परमाणुः स ह्यौषध्यादौ रसायनम् ।
वैद्यानामश्विनीपुत्रौ विषादः क्षयकारिणाम् ।। १ १४।।
धन्वन्तरिर्मन्त्रविदां मिष्टानां च क्षुधा हि सः ।
रागाणां मेघमल्लारः श्रीदामा पार्षदेषु सः ।। १ १५।।
पशुजन्तुषु धेनुः सः वृक्षेषु चन्दनं हि सः ।
वैष्णवः सर्वपूतेषु कृष्णनारायणो हि सः ।। ११६ ।।
वृक्षेष्वंकुररूपः सः वस्तुषु चाकरो हि सः ।
सर्वभूतेषु वै कृष्णनारायणोऽस्ति सर्वदा ।। १ १७।।
यथा वृक्षे फलान्येव फले बीजे तथाऽङ्कुरः ।
सर्वकारणरूपः सः नान्यद्वै कारणान्तरम् ।। १ १८।।
सर्वेशः श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
तन्मायामोहमापन्नास्तं न जानन्ति दुर्धियः ।। ११ ९।।
तमोग्रस्तेन दुर्बुद्ध्या विधिना वञ्चितेन च ।
स्वात्मा सः सर्वजन्तूनां स्वामी वै सर्वदेहिनाम् ।। १.५२१.१२० ।।
भज तं श्रीकृष्णनारायणं राजन् प्रभापतिम् ।
स्वर्गं मोक्षं लभस्वापि भजित्वा पार्वतीपतिम् ।। १२१ ।।
इमं विभूतियोगं यो ज्ञानविज्ञानकारकम् ।
पठेद्वा शृणुयात्तस्योपस्थितः श्रीहरिर्भवेत् ।। १ २२।।
मंजुला मञ्जुषा चेयं मुनीनां मनसां स्थिरा ।
हंसा परमहंसानां मानसी सगुणा हरेः ।। १ २३।।।
यामभ्यस्य भवेद् योगी धर्ममेघसमाधिमान् ।
सर्वसिद्धिप्रमाज्ञप्तिबोधानन्दमयो भवेत् ।। १ २४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नाय लोमशोक्तज्ञानविज्ञानविभूतिसंभृतभगवन्महिमादिनिरूपणनामैकविंशत्यधिकपञ्चशततमोऽध्यायः ।।५२१ ।।