लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२३

← अध्यायः ०२२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २३
[[लेखकः :|]]
अध्यायः ०२४ →

श्रीकृष्ण उवाच-
अथ ते दानवाः कृष्णं द्रष्टुमिच्छन्ति सत्वरम् ।
अनादिश्रीकृष्णनारायणं बालं हि राधिके ।। १ ।।
यत्प्रतापादयं दैत्येश्वरो जिग्ये हरिं प्रभुम् ।
तां भक्तिं कर्तुमिच्छन्ति प्रह्लादेनोपबोधिताः ।। २ ।।
शृणु राधे कथां तां च यथा ते दानवेश्वराः ।
समागता हरेर्भक्ता जाताश्चाराधनान्विताः ।। ३ ।।
अन्धकस्य च वंशीयाः प्रह्लादस्य च वंशजाः ।
कुजम्भस्य च जम्भस्य शंकुकर्णस्य वंशजाः ।। ४ ।।
मयस्य वंशजाश्चापि दुन्दुभेः शम्बरस्य च ।
अयःशंकोश्च वृत्रस्य वंशजा दानवादयः ।। ५ ।।
सस्मरुश्च्यवनं विप्रं प्रह्लादमार्गदर्शकम् ।
च्यवनः शीघ्रमेवैषां पुरतः समुपस्थितः ।। ६ ।।
वन्दितः पूजितश्चापि पृष्टश्च श्रेयसं प्रति ।
विद्युत्केशिसुतो ज्येष्ठः सुकेशिः समुवाच तम् ।। ७ ।।
प्रष्टुमिच्छामि भवतः संशयोऽयं हृदि स्थितः ।
किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तम ।। ८ ।।
केन पूज्यो भवेत् सत्सु केनाऽसौ सुखमेधते ।
इति पृष्टश्च्यवनस्तान् दैत्यसन्तानजाँस्तदा ।। ९ ।।
विमृश्योवाच श्रेयोऽर्थमिह लोके परत्र च ।
श्रेयः पुण्यं तथा धर्मः परत्रेह च सर्वथा ।। 2.23.१० ।।
धर्मे समाश्रिते सत्सु पूज्यः सुखी सदा भवेत् ।
धर्मः स्वस्य सदाचारः परात्मशान्तिदः सुखः ।। ११ ।।
स्वात्मशान्तिप्रदश्चापि पुण्यं तत्सुखदं सदा ।
मानवानां परो धर्मः सदा यज्ञादिकाः क्रियाः ।। १ २।।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजनमित्यपि ।
केनाऽर्जितेन मनुजाः सुखिनोऽमुत्र चेह च ।। १३ ।।
देवानां भक्तरक्षा च पूजाग्रहणमित्यपि ।
प्रजापालनमित्यादि तेनाऽर्जितेन ते सुखाः ।। १४।।
दैत्यानां बाहुशालित्वं युद्धं वन्दनमित्यपि ।
नीतिर्भक्तिः प्रपत्तिश्च तेनाऽर्जितेन ते सुखाः ।। १५।।
सिद्धानां योगसिद्धिश्च स्वाध्यायो ब्रह्मचिन्तनम् ।
भक्तिश्चोपासना शान्तिस्तेनाऽर्जितेन ते सुखाः ।। १६।।
गान्धर्वाणां गीतनृत्ये वाद्यं वाणी मधुस्रवा ।
उपासनं च महतां तेनाऽर्जितेन ते सुखाः ।। १७।।
विद्याध्राणां शुभा विद्या विज्ञानं पौरुषं मतिः ।
नारायण्यां सदा भक्तिस्तेनार्जितेन ते सुखाः ।। १८।।
किन्नराणां सूर्यभक्तीर्गान्धर्वं गायनादिकम् ।
कौशल्यं हास्यभावादौ तेनार्जितेन ते सुखाः ।। १९।।
शिल्पिनां शिल्पकौशल्यं नारायणाऽभिचिन्तनम् ।
परोपकारशालित्वं तेनाऽर्जितेन ते सुखाः ।।2.23.२०।।
पितॄणां चेन्द्रियवृत्तिनिग्रहो मानहीनता ।
परमेशे सदा भक्तिस्तेनाऽर्जितेन ते सुखाः ।।२ १।।
ऋषीणां शीलता सत्यं जप्यं ज्ञानं क्षमा दया ।
निर्मलाऽन्तःकरणं च तेनाऽर्जितेन ते सुखाः ।।२२।।
त्यागिनां च सतीनां च साध्वीनां स्वामिसेवनम् ।
अनादिश्रीकृष्णनारायणार्पणमरागिता ।।२३।।
हरेर्भक्तिः सदा कार्या तेनाऽर्जितेन ते सुखाः ।
धनरक्षा भोगदानं सेवकत्वं परार्थकम् ।।२४।।
हरौ भक्तिर्गुह्यकानां तेनाऽर्जितेन तै सुखाः ।
परावमर्षिता पारक्यार्थे लौल्यं हि रक्षसाम् ।।२५।।।
हरौ भक्ते च वा भक्तिस्तेनाऽर्जितेन ते सुखाः ।
अविवेकः पिशाचानां शौचहानिरसत्यता ।।२६।।
भक्तप्रसादिभक्ष्यं च तेनाऽर्जितेन ते सुखाः ।
तिरश्चां परसेवित्वं तेनाऽर्जितेन ते सुखाः ।।२७।।
इत्येवं कथिताः पुण्या धर्माः षोडश मोक्षदाः ।
स्वस्वजात्यनुसारेण धर्मस्थाः सुखिनः सदा ।।२८।।
सर्वधर्मेषु चोत्कृष्टाः सर्वसाधारणा वृषाः ।
तीर्थयानं प्रभोः पूजा परोपकरणं तपः ।।२९।।
अहिंसनं च सन्तोषो नीतिलभ्ये जपो हरेः ।
एतान् धर्मान् समाश्रित्य ये केऽपि स्युश्च देहिनः ।।2.23.३ ०।।
अवश्यं ब्रह्मशरणा मुक्तिमायान्ति शाश्वतीम् ।
न्याय्यचरणाः सुखिनो दुःखिनस्वपनीतयः ।।३ १।।
श्रुत्वैवं च्यवनस्याऽऽर्थी वाचं दैत्याः सुखार्थिनः ।
प्रह्लादपादसरणास्तीर्थं श्रेयो हि मेनिरे ।।३ २।।
च्यवनं ते पप्रच्छुश्च सर्वतीर्थोत्तमोत्तमम् ।
च्यवनस्ताँस्तदा प्राह तीर्थं श्रीहाटकेश्वरम् ।।३३।।
तीर्थोत्तमं च बदरीवनं श्रीपुरुषोत्तमम् ।
क्षेत्रं श्रीगण्डकीतीर्थं माथुरं पुष्करं तथा ।।३४।।
तीर्थोत्तमोत्तमं त्वास्ते चाश्वपट्टसरोवरम् ।
कुंकुमवापिकाक्षेत्रं लोमशस्याऽऽश्रमस्तथा ।। ३५।।
सौराष्ट्रं सर्वतः श्रेष्ठं परमेश्वरशोभितम् ।
अनादिश्रीकृष्णनारायणो बालस्वरूपवान् ।।३६।।
वर्तते भगवान् यत्र परमेशः पुमुत्तमः ।
सर्वधामाऽधिपस्वामी सर्वकारणकारणम् ।।३७।।
सर्वाऽवतारनाथश्च सर्वलक्ष्म्यादिसत्पतिः ।
सर्वमोक्षर्द्धिदाता च सर्वतुल्यदयालयः ।।३८।।
तत्तीर्थं सर्वतीर्थानां तीर्थात्तमोत्तमोत्तमम् ।
यत्कृत्वा स्वेष्टमासाद्य मोदते सर्वशान्तिषु ।।३९।।
एतच्छ्रुत्वा च्यवनस्य दैत्यास्तीर्थेच्छवस्तदा ।
च्यवनं सह नीत्वैव चाश्वपट्टसरो ययुः ।।2.23.४०।।
दैत्याश्च दानवाश्चापि तेषां नार्यः सुतादयः ।
कुंकुमवापिकाक्षेत्रे तीर्थार्थं प्रययुर्मुदा ।।४१।।
च्यवनस्य प्रसंगेन प्रह्लादाद्युपदेशतः ।
अनादिश्रीकृष्णनारायणं द्रष्टुमुपागताः ।।४२।।
लोमशस्याऽऽश्रमं व्योम्नश्चावतीर्य च दानवाः ।
च्यवनेन समं नेमुर्लोमशं ते कुटुम्बिनः ।।४३।।
दानवानां परां भक्तिं संवीक्ष्य लोमशो मुनिः ।
च्यवनेन सह तेषां स्वागतं कृतवान् परम् ।।४४।।
मधुपर्कं चासनादि जलपानादिकं ददौ ।
आवासान् प्रददौ रम्यान् कल्पितान् कल्पवृक्षजान् ।।४५।।
अश्मकाख्यनगर्याश्च शतोत्तरान् सुशोभनान् ।
सुस्मृद्धान् सर्ववस्त्वाढ्यान् प्रासादान् चन्द्रमोनिभान् ।।४६।।
स्नानभोजनशय्याढ्यान् सभाशालाविराजितान् ।
उद्यानकुंजसंव्याप्तान् शीतरम्यसुखानिलान् ।।४७।।
चन्दनागुरुकस्तूरीगन्धामोदप्रमोदितान् ।
सर्वोपकरणाद्युक्तान् सेवाभक्तान् ददौ मुनिः ।।४८।।
च्यवनः सुप्रसन्नोऽभूल्लोमशस्याऽर्तिभावतः ।
दैत्याँश्च दानवानाह ऋषयस्त्वपरिग्रहाः ।।४९।।
पक्षपातादिशून्याश्च रागद्वेषविवर्जिताः ।
सर्वजीवहिताः शान्ता मोचयन्ति ह्यघाज्जनान् ।।2.23.५०।।
यस्य शत्रौ च मित्रे च समभावो विलोक्यते ।
स एव मोक्षदो बोध्यः पावनं तीर्थमुत्तमम् ।।५१।।
लोमशस्य प्रसादेन वारिणा पूर्वजन्मजाः ।
घोरपातकपुञ्जा वै लयमेष्यन्ति वोऽखिलाः ।।।५२।।
तस्माच्छ्रीलोमशं विप्रं प्रसेवध्वं मुदान्विताः ।
कंचित्कालं वसताऽत्र समर्जयत देशनाम् ।।५३।।
स्थावरेभ्यस्तु तीर्थेभ्यो जंगमं द्राग् विशोधकम् ।
साधवः परमं तीर्थॆ स्पर्शनात् पापनाशकम् ।।५४।।
वन्दनात् सेवनात् पादसंम्मर्दनात् प्रतोषणात् ।
ययेष्टवस्तुदानाच्च तारयन्त्यपि पापिनः ।।५५।।
महापापातिपापानां दाहकं साधुसेवनम् ।
भोजनीया वन्दनीया दर्शनीया हि साधवः ।।।५६।।
स्पर्शनीया नमनीयास्तोषणीया हि साधवः ।
सर्वार्पणेन च परिचरणीया हि साधवः ।।५७।।
संगतिः सुलभा सर्वा दुर्लभा साधुसंगतिः ।
कायेन मनसा वैचा तोषणीया हि साधवः ।।५८।।
ध्याननिष्ठापराः पुण्यशेवधयस्तपःप्रभाः ।
परब्रह्मपराः शिष्यश्रेयःपरायणाः प्रियाः ।।५९।।
सर्वकल्याणदाः सन्तः सेवनीयाः स्वमुक्तये ।
दानवत्वं च दैत्यत्वं मानवत्वं सुरेशता ।।2.23.६०।।
न नैत्यिकी चात्मनां वै देहजन्मादिजं हि तत् ।
देहस्य विगमे सर्वं चागन्तुकं विनश्यति ।।६१।।
ममेदं च कुटुम्बादि राज्यं मे मम बान्धवाः ।
सुताः पत्नी पतिश्चेति चाहंकारकृतं मृषा ।।६२।।
अहंकारात्मके बीजे याते यास्यति वासना ।
कर्माशयविनाशे च क्व दैत्यत्वं क्व शिष्यता ।।६३।।
आत्मा तु मायिकवर्ष्मयोगान्नामनिरुक्तिमान् ।
दितेर्जातो यतो दैत्यो दनोर्जातस्तु दानवः ।।६४।।
अजातो यश्चेतनः स जातेन जात उच्यते ।
जातं देहं न वै चात्मा ततश्चात्मा न नामभाक ।।६५।।
यत्र स्थाने तु यो जातस्तत्रैवाऽस्य प्रजायते ।
मूषा त्वभिनिवेशोऽत्र मायायां ममतावशात् ।।६ ६ ।।
तस्माद् यूयं न पातालरसातलादिवासिनः ।
न च दैत्या न वै शूरास्तत्सर्वं देहभाग् यतः ।।६७।।
सतां योगेन च सन्तो जाताश्चात्र सरोवरे ।
स्नात्वा पीत्वा जलं चात्र लोमशस्य रजोधराः ।।६८।।
पूताः स्थ तीर्थयोगेन मनुं गृह्णत चोत्तमम् ।
पूजयत गुरुं चैनं पश्चात् कृष्णनरायणम् ।।६९।।
यास्यामो दर्शनार्थं वै श्रेयः प्राप्स्यथ निश्चितम् ।
इत्युक्ता दानवा दैत्या दशसाहस्रसंख्यकाः ।।2.23.७०।।
अश्वपट्टसरस्तीर्थे स्नात्वा प्राह्लादिकं स्थलम् ।
नत्वा च लोमशं विप्रं पूजयामासुरादरात् ।।७ १ ।।
पादपूजाजलं पीत्वा नेमुस्तं लोमशं मुनिम् ।
चन्दनाद्यैः पुष्पहारैरर्चयामासुरादरात् ।।७२।।
जगृहुश्च महामन्त्रं पावनं सर्वसौख्यदम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।७३ ।।
एनं गृहीत्वा मन्त्रं च गृणन्तो वैष्णवाश्च ते ।
मालां च तौलसीं भाले सबिन्दुं तिलकं तथा ।।७४।।
गृहीत्वा पंक्तिशो भूत्वा लोमशाऽर्पितमुत्तमम् ।
भक्ष्यं भोज्यं च लेह्यं च चोष्यं भोजनमुत्तमम् ।।७५ ।।
पानं मिष्टं ताम्बूलकं जगृहुर्लोमशाश्रमे ।
च्यवनोऽपि कृतसन्ध्यावन्दनो बुभुजे मुदा ।।७६ ।।
ततः सर्वे निजावासान् ययुर्विश्रान्तिलब्धये ।
अथ सायं तु ते सर्वे गृहीत्वोपायनानि वै ।।७७।।
अनादिश्रीकृष्णनारायणदर्शनकांक्षिणः ।
ययुः श्रीकम्भरालक्ष्मीप्रासादं सप्तभूमिकम् ।।७८।।
यत्र श्रीबालकृष्णोऽसौ दोलायां राजते प्रभुः ।
श्रीमद्गोपालकृष्णश्च पिता पुत्रं करे स्वके ।।७९।।
धृत्वा सिंहासने चायात् निषसाद तदोचितः ।
लोमशश्च्यवनश्चोभौ शिष्यदैत्यगणान्वितौ ।।2.23.८०।।
आययतुश्च ताभ्यां वै दत्तासनः पिता स्वयम् ।
दैत्यानामपि सत्कारं स्वागतं कृतवाँस्तदा ।।८१ ।।
दत्तासनास्तु ते दैत्याः प्रह्वीभावपरिप्लुताः ।
आत्मनो मेनिरे दृष्ट्वा कृतकृत्यान् प्रभुं हरिम् ।।८२।।
क्षणं स्थैर्यं प्रजग्मुस्ते स्थिरनेत्राः स्थवृत्तयः ।
आश्चर्यं परमं ते च लोकयामासुरैश्वरम् ।।८३।।
क्षणं दृष्ट्वा बालकृष्णं ततः किशोररूपिणम् ।
दिव्यरूपानुरूपाभिरूपमुज्ज्वलमुत्तमम् ।।८४।।
तत्र मूर्तौ च प्रह्लादं शुक्राचार्यं ततः परम् ।
ततश्च कश्यपं दितिं दानु दक्षं प्रजापतिम् ।।८५ ।।
हिरण्याक्षं च हिरण्यकशिपुं च पितामहान् ।
ब्रह्माणं च तथा रुद्रं विष्णुं ततश्चतुर्भुजम् ।।८६।।
ततो वैराजरूपं च चतुर्दश च भूमिकाः ।
तत्र रसातलं तत्राऽश्मकपत्तनमुत्तमम् ।।८७।।
तत्र नैजनिवासाँश्च तत्र नैजकुटुम्बिनः ।
नैजरूपाणि च सर्वे लोकयामासुरडुतम् ।।८८।।
तत्र पञ्चसहस्राणि कन्यानां भावितात्मनाम् ।
वरं श्रीबालकृष्णं च किशोरं वव्रिरे पतिम् ।।८९।।
एवं विलोकयामासुस्ततश्च बालरूपधृक् ।
हरिर्जातः पुनश्चात्र कैशोरं रूपमाप्तवान् ।। 2.23.९० ।।
इत्येवं ते विलोक्यैव परमाश्चर्यसंप्लुताः ।
पुपूजुः श्रीहरिं कृष्णनारायणं जगत्पतिम् । । ९१ ।।
उपदाः सन्न्यधुस्त्वग्रे पादप्रक्षालनाम्बु च ।
पपुः सर्वे तदा दैत्यदानवास्तत्स्त्रियोऽपि च ।। ९२ ।।
तेषां कन्या दिव्यरूपाः पञ्चसाहस्रसंख्यकाः ।
मुमुहुः श्रीहरौ लग्ना ध्यानमग्नास्तदा स्थिराः ।। ९३ । ।
बभूवुश्च ततः कृष्णं वरयामासुरिच्छया ।
तव पादाम्बुजे देहि भक्तिं देहि जगत्प्रभो ।। ९४।।
मुक्तिं देहि शाश्वतं च सुखं देहि जगत्प्रभो ।
अनादिश्रीकृष्णनारायणः प्राह तथाऽस्तु वः ।। ९५।।
दत्तं पदं प्रदत्ता च भक्तिर्मुक्तिः सुखं तथा ।
इत्युक्तस्ता दिव्यरूपास्तदा जाता हि तत्क्षणम् ।। ९६।।
पञ्चसाहस्रसंख्यास्ता पत्न्यो जाता द्रुतं हरेः ।
पादौ धृत्वा तत्र तस्थुः पतिं प्राप्य प्रभुं हरिम् ।। ९७।।
लोमशस्याऽऽश्रमे तस्थुः श्रीकान्तरक्षिता हि ताः ।
लोमशश्च्यवनश्चोभौ सम्पूज्य श्रीहरिं ततः ।। ९८ ।।
कन्याः संरक्षयामासतुर्वै नैजाश्रमे मुदा ।
श्रीहरेराज्ञया ताश्चाऽर्बुदकन्यासु संस्थिताः ।। ९९ ।
दैत्या दशाधिसाहस्राः श्रीहरेः कृपया द्रुतम् ।
वैकुण्ठं गन्तुमिच्छन्तो वव्रिरे धाम तत्र च । । 2.23.१०० ।
हरिणा प्रापितास्ते तु वैकुण्ठं दिव्यरूपिणः ।
अथोपदाः समस्ता याः कन्याभ्यः प्रददौ प्रभुः । । १०१ ।।
ऋषिभ्यां च ददौ योग्यवस्तूनि श्रीहरिः स्वयम् ।
ततो बालस्वरूपः स भूत्वा दतेलागतोऽभवत् ।। १०२ ।
च्यवनो लोमशं नत्वा कन्याभ्यश्च शुभाशिषः ।
दत्वा ययौ तीर्थयात्रां पुष्करारण्यमुत्तमम् ।। १०३ ।
प्रह्लादश्चिरजीवी वै रसातलमुपाययौ ।
इत्येवं राधिके तस्य परेशस्य जगत्कृतः ।। १ ०४।
अतीव दिव्यमावेद्यं चरितं श्रावणेऽभवत् ।
वर्षे द्वितीयके पाठाच्छ्रवणान्मोक्षदं परम् ।। १०५ ।
स्मृद्धिदं चायुष्यदं च पुत्रपौत्रधनप्रदम् ।
अखण्डसौभाग्यकरं कृपासाध्यो यतो हरिः ।। १०६ ।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रसातलादिस्थितदशसाहस्रदैत्यदानवानां मोक्षणं पञ्चसाहस्रकन्यकानां बालकृष्णवरणं चेत्यादिनिरूपणनामा त्रयोविंशतितमोऽध्यायः ।। २३ ।।