लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२४

← अध्यायः ०२३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २४
[[लेखकः :|]]
अध्यायः ०२५ →

श्रीकृष्ण उवाच-
शृणु राधे तृतीयेऽस्य वर्षारंभे महोत्सवम् ।
पिता चकार विधिवत् श्रेष्ठं द्वितीयवर्षवत् ।। १ ।।
मार्गशीर्षत्रयोदश्यां चौलसंस्कारमाचरत् ।
कृत्वा तु मंगलस्नानं मातृकापूजनादिकम् ।। २ ।।
नान्दीश्राद्धं स्वस्तिपाठं होमं सभ्याऽनले तथा ।
पात्रासादनमाधत्य वह्नेस्तु दक्षिणे स्थले ।। ३ ।।
शुभैकविंशतिदर्भपिञ्जुलीर्न्यस्य वै ततः ।
वह्नेर्वामस्थले न्यस्य रक्तगोगोमयादि च ।। ४ ।।
कृशरस्थालिकापाकं न्यधात् पिता ततः परम् ।
कृत्वा व्याहृतिहोमादि क्षुरमादाय चाऽऽयसम् ।। १ ।।
दक्षिणोत्तरभागस्थस्वल्पशिखाऽवतारणम् ।
कृत्वा पिता ततो गर्भकेशानां मुण्डनं शनैः ।। ६ ।।
सशिखं कारयामास नापितेन सुतस्य च ।
गोदानादि ददौ विप्रान् भोजयामास योगिनः ।। ७ ।।
चतुर्दशभुवनानां तर्पयामास वासिनः ।
लोमशं पूजयामास भोजयामास कन्यकाः ।। ८ ।।
साधून् साध्वीश्चातिथींश्च भोजयामास तद्दिने ।
गोग्रासान् दापयामास जन्तुभ्यः पिष्टकं कणान् ।। ९ ।।
एवं वै चौलसंस्कारं चकाराऽघविनाशनम् ।
यद्यपि श्रीहरेः पापनाशकस्य कथं ह्यघम् ।। 2.24.१० ।।
तथापि लोकरक्षार्थं वेदमार्गस्य गुप्तये ।
संस्कारं तादृशं योग्यं कृतवान् वै पिता शुभम् ।। ११ ।।
राधा श्रुत्वा तदा कृष्णं पप्रच्छ विनयान्विता ।
बालानां बालिकानां वा प्रोद्भूयाऽच्छं हि वर्तताम् ।। १ २।।
विशुद्धानां नातिविदां स्वच्छदर्पणवद्धृदाम् ।
कामचारकामभक्ष्यकामविहारसञ्जुषाम् ।। १३ ।।
किन्नाम पातकं तेषां यच्चौलेन विनाश्यते ।
श्रीकृष्णः प्राह बालानां राधिके त्वमघं शृणु ।। १४।।
पूर्वकृतादि पापानि जन्मान्तरेऽभियान्ति वै ।
स्वर्गाद्वा नरकाद्वापि शेषलिप्तिः प्रयाति तम् ।। १५।।
गर्भे मूत्राशये वह्नेः पातात्मके रजोऽन्विते ।
धातौ वासश्चात्मनो यः स एवाऽघेन जायते ।। १६।।
शरीरोद्भवनं तत्र पुण्यपापेन जायते ।
मूर्छायां च जले वासः पापायैव प्रजायते ।। १७।।
जन्मदुखं महद्वै यत् पारवश्यं च पापतः ।
जीवनं दुग्धपानादि पुण्यपापेन जायते ।। १८।।
मलमूत्रादिसंसर्गा दंशादिदशनं तथा ।
अवाक्त्वं चाप्यशक्तत्वं पापमात्रेण जायते ।। १९।।
इत्येतानि तु पापानि तेन पूर्वकृतानि वै ।
जन्मभावे प्रपद्यन्ते दुःखदान्येव सर्वथा ।।2.24.२०।।
येषां पापं न वै चास्ति स चात्मा रुद्रवत् प्रिये ।
सनकादिसमः स्यान्मानसो विज्ञो न गर्भजः ।।२१ ।।
अथाऽशुद्धेः परिहारः संस्कारेणैव जायते ।
असंस्कृतशरीरस्य शुद्धिः कार्या स्वभावतः ।।२२।।
पूर्वजन्मनः पापानि ह्यशुद्ध्या सह मस्तके ।
रोहन्ति रोमरूपैस्तु कृष्णवर्णानि तानि वै ।।२३ ।।
गर्भकेशाः पापरुहस्तन्नाशे पापनाशनम् ।
तस्माद्वै बालकानां तु चौलसंस्कृतिरिष्यते ।। २४।।
चूं पापं लीयते येन चौलं तन्मुण्डनं स्मृतम् ।
अथाऽन्यच्छृणु राधे त्वं केशा वै कृतछेदनाः ।।२५।।
जटारूपाः प्रवर्धन्ते वेगादित्यस्ति कारणम् ।
नूतनेषु च केशेषु मूलानि कारणानि वै ।।२६।।
पुनश्च कर्मणा शुक्लसंज्ञेन सा जटा भवेत् ।
तस्माज्जटा सदा रक्ष्या शिखा वा शुक्लसंहिता ।।२७।।
यथा यथा च बालो वै वर्धते तु तथा तथा ।
कर्मणा जायते पुण्यं पापं वा मिश्रकर्म च ।।२८।।
आपञ्चवर्षं भोग्यं तत्पितुः सम्प्रोच्यतेऽत्र वै ।
पञ्चोत्तरं स्वभोग्यं तद् रोमस्वेव निषीदति ।।२९।।
तस्मात्केशाश्च रोमाणि पापाश्रीणि भवन्ति हि ।
कच्चरस्य पित्राः सर्वे व्यर्थकर्दमशोधकाः ।।2.24.३ ०।।
तीर्थे वै वपनं तस्मात् कारणीयं विशेषतः ।
पापाऽवतारणं तद्वै बोद्धव्यं केशकर्तनम् ।।३ १ ।।
एवं केशावपनीयास्तृतीये वत्सरे ततः ।
यथेष्टं वपनीयास्ते ब्रह्मरन्ध्रं विनाऽभितः ।।३२।।
यद्वा पुण्या जटा रक्ष्या संस्कृता शोभनाऽनघा ।
कृष्णाः केशा जनानां तु यावद् दृश्यन्त एव ते ।।३३ ।।
तावत् पापानि विषयाः कारयन्ति तु देहिनः ।
आकर्णशुक्लरोमाणो वृद्धा लिप्यन्त एव न ।।३४।।
तस्माद् वृद्धस्य नैवाऽस्ति त्वाम्नायः पुण्यपापयोः ।
मध्यावस्थस्य तत् सर्वं विशेषेण निगद्यते ।।३५।।
इत्येवं राधिके चौलसंस्कारः शोधकः कृतः ।
राधिका प्राह भगवन् पूर्वजन्माऽघसञ्चयः ।।३६।।
कथं रोमसु गर्भस्थबालकस्य प्रतिष्ठति ।
श्रीकृष्णः प्राह च राधे! शृणु तत्कथयामि ते ।।३७।।
पुरा ह्यधर्मः पुरुषो ब्रह्मपृष्ठसमुत्थितः ।
हिंसापत्नीसुसंयुक्तः पापपुत्रस्ततोऽभवत् ।।३८।।
पितृभक्तश्च पापः स्वं मातरं पितरं तथा ।
न मुञ्चति क्षणं दूरं सर्वावस्थासु सर्वदा ।।३ ९।।
यत्राऽधर्मश्च हिंसा च तत्र पापः प्रवर्तते ।
यत्राऽधर्मो न हिंसा न तत्र पापो न वर्तते ।।2.24.४०।।
आत्मानो ये तु गर्भस्था अपक्वा निष्क्रिया वशाः ।
अगुणाश्चोल्बसंवृत्तास्तेषां नाऽधर्महिंसने ।।४१ ।।
कथं पापेन वै तत्र स्थेयं पूर्वकृताधिनि ।
पापिनं चेत् परित्यज्य पापं विनाऽवमर्षणम् ।।४२।।
दूरं याति तदा तेन कुत्र स्थेयं विनाऽऽश्रयम् ।
अन्यकृतं न चान्यत्र तिष्ठत्येव च गच्छति ।।४३ ।।
येन कृतं तु तत् तस्मिन्नेव तिष्ठति सर्वथा ।
भोगोत्तरं विनाशः स्याद् यावत्त्वेन विनिर्णयः ।।४४।।
इतिन्यायात् पापसंज्ञः सुतः पित्रे न्यवेदयत् ।
यत्र गर्भे गते बाले नाऽधर्मो न च हिंसनम् ।।४५।।
ताभ्यां विना मया तत्र कथं स्थेयं तदात्मनि ।
अधर्मस्तं च पापाख्यं सुतं प्राह विचार्य वै ।।४६।।
पुत्राऽऽगच्छ मया साकं चार्थयामि पितामहम् ।
स तदा ते निवासार्थं यद् ददेत् तत्र संवस ।।४७।।
इत्युक्त्वा तं सुतं नीत्वा सहाऽधर्मो ह्यजं ययौ ।
पितरं च नमस्कृत्य निषसाद पुरस्ततः ।।४८।।
ब्रह्मा पप्रच्छ तं पुत्रं सपुत्रं चागमे कृतिम् ।
कथं किमर्थमायातः सपुत्रो वद मेऽचिरम् ।।४९।।
अधर्मः प्राह भगवन् पुत्रोऽयं पापसंज्ञकः ।
यत्र हिंसा तथा चाऽहं तत्र वासपरः सदा ।।2.24.५०।।
गर्भस्थानां तु जीवानां विद्येते न तु ताबुभौ ।
तत्र तेषां पूर्वपापैः कथं स्थेयं वदाऽत्र मे ।।५ १ ।।
ब्रह्मा विचार्य च तथा प्राह गर्भगतस्य वै ।
केशरूपेण पापेन स्थातव्यं वै ममाऽऽज्ञया ।।।५२।।
ततः पापः परां तुष्टिं जगाम स्वाश्रये स्थितः ।
विनापि पितरौ तत्र वर्षत्रयं प्रतिष्ठिते ।।५३ ।।
अथ ब्रह्मा स्वसंकल्पान् पुत्रान् षोडश पावनान् ।
संस्कारान् जनयामास पापनाशनहेतवे ।।५४।।
तत्र चौलश्च संस्कारः केशात्माऽघविनाशनः ।
विहितश्चैवमेवाऽन्ये पापनाशकराः कृताः ।।५५।।
इत्येवं राधिके सृष्टिपालनाय तु वेधसा ।
पूर्वसृष्ट्यनुरूपेणाऽनुष्ठितं वर्णितं तथा ।।५६।।
तथारीत्यैव लोकानां शिक्षणार्थं हरेरपि ।
पित्रा चौलाख्यसंस्कारः सम्पादितः शुभावहः ।।५७।।
अथ तत्र चमत्कारस्तदा जातो वदामि ते ।
अदृष्टश्चाऽप्यश्रुतश्च पूर्वैः पूर्वतरैस्तथा ।।५८।।
मया गतवता राधे तदानीं तत्र वीक्षितः ।
नापितेन तु ये केशा मस्तकादवतारिताः ।।५९।।
ते सर्वेऽश्वपट्टसरोजले क्षिप्ता यदा तदा ।
दिव्याः सहस्रशो नारायणाश्चतुर्भुजाः शुभाः ।।2.24.६० ।।
शंखचक्रगदापद्मधरा भुकुटशोभिताः ।
सुवर्णकुण्डला वह्निवस्त्रा रमानिषेविताः ।।६ १ ।।
विनतातनुजाऽऽरूढाः कोटिसूर्यसमप्रभाः ।
सकौस्तुभाः सतिलका भगवन्तो विरेजिरे ।।६२।।
सर्वे समानाः सदृशास्तेऽदृश्यन्त तदा ततः ।
अष्टभुजास्तत एव ततः षोडशबाहवः ।।६३।।
द्वात्रिंशद्बाहवः पश्चाच्छतसाहस्रबाहवः ।
सहस्रशो दिव्यरूपा अदृश्यन्त नरायणाः ।।६४।।
एवं लक्षं शिरोरोम्णां नारायणात्मकं हि तत् ।
अदृश्यत तदा ह्रस्वाः केशाश्चतुर्भुजा हि ते ।।६५।।
अदृश्यन्त ततो लम्बा अष्टभुजा नरायणाः ।
ततो लम्बतराः केशा ये ते षोडशबाहवः ।।६६।।
ततो लम्बतमाः केशा द्वात्रिंशद्बाहवो हि ते ।
एवं दीर्घातिदीर्घाश्च केशाः शतादिबाहवः ।।६७।।
सहस्रबाहवश्चेति व्यदृश्यन्त नरायणाः ।
तैः सह याः श्रियस्ताश्च व्यदृश्यन्त तथाभुजाः ।।६८।।
युगलास्ते लक्षसंख्यास्तुष्टुवुः परमेश्वरम् ।
तव मूर्तौ स्थिता नारायणा वयं शिरोरुहाः ।।६९।।
अनादिश्रीकृष्णनारायणः परेश्वरो भवान् ।
अप्रसंख्यावताराणामवतारी परात्परः ।।2.24.७०।।
वयं लीनास्तव मूर्तौ वसामस्तव वाच्छया ।
निर्गच्छामश्च वै काले काले ब्रह्माण्डरक्षकाः ।।७१ ।।
भवामो भगवन्तश्च यावत्तव निदेशनम् ।
लयेच्छया च ते कृष्ण ह्युपसंहारमाप्नुमः ।।।७२।।
पूजयामो नमामस्त्वां वहामस्ते निदेशनम् ।
पृथग् जाता वयं कृष्ण तव मूर्तिरतः प्रभो ।।७३ ।।
क्व गन्तव्यं चोषितव्यमस्माभिर्देहि देशनाम् ।
तथा कुर्मो हरे कृष्णनारायणाऽक्षराधिप ।।७४।।
तव मूर्तौ च ये त्वन्ये ह्यपि रोमगणा हि ते ।
अनादिनो हि ते मुक्तास्तथा चागन्तुका अपि ।।७५।।
मुक्ता भवन्ति मुक्तान्यो ब्रह्माण्यो ब्रह्मपूरुषाः ।
तव मूर्तौ च ये दिव्या गुणा वसन्ति ते हरे ।।७६ ।।
सर्वे च विष्णवः सन्ति लक्ष्मीदासीनिषेविताः ।
तव मूर्तौ च ये भूषाः सन्ति ते तव शक्तयः ।।७७।।
राधारमाजयालक्ष्मीपार्वतीललिताप्रभाः ।
माणिकीमञ्जुलाद्यास्ताः प्रेमरूपा वसन्ति हि ।।७८।।
आभूषणस्वरूपास्ता मुक्ता मुक्तान्य एव ह ।
तव शृंगारतत्त्वानि वासुदेवादयश्च ते ।।७९।।
व्यूहाः सन्ति हरे कृष्ण नखाद्या ईश्वरेश्वराः ।
त्वदभिन्ना अवतार्यपृथगसिद्धविशेषणाः ।।2.24.८० ।।
तव मूर्त्यात्मकाः सर्वे निगूढा निवसन्ति ते ।
वयं केशस्वरूपास्ते पृथग्भूतास्तवेच्छया ।।८ १ ।।
चौलसंस्कारमासाद्य तेऽवतारस्वरूपिणः ।
तत आज्ञां निवासाय देहि नः कुर्महे तथा ।।८२।।
अनादिश्रीकृष्णनारायणश्चैवं प्रभाषितः ।
प्रार्थितश्चाज्ञयाऽर्थं च प्रसन्नस्तान्निजान्तिके ।।८३ ।।
समाहूय च तिलकान् बिन्दून् कुंकुमकैसरान् ।
तेषां भालेषु कृत्वैव समुवाचाऽक्षरेशिता ।।८४।।
यूयं ममाऽवताराश्च ममैश्वर्यभराः शुभाः ।
निबोधत मया नित्यमुत्पाद्यन्तेऽण्डराशयः ।।८५।।
अद्योत्पादितगोलेषु लक्षेषु चैकदेशिषु ।
यात मदाज्ञया तत्र भवत श्रीनरायणाः ।।८६।।
चतुर्दशतलाण्डेषु तथा यात चतुर्भुजाः ।
अष्टाविंशतिभूगोलेषु तथा याताऽष्टबाहवः ।।८७।।
षटपञ्चाशत्स्तराण्डेषु यात षोडशबाहवः ।
शताष्ट्रभूमिकाण्डेषु यात द्वात्रिंशबाहवः ।।८८।।
शतादिबाहवो यात पञ्चशतस्तराण्डके ।
सहस्रबाहवो यात सहस्रभूमिकाण्डके ।।८९।।
एकैकाण्डे मया चैकैक एवाऽत्राऽधिक्रियते ।
तथा तथा नवं नूत्नं ब्रह्माण्डं यात चैकशः ।।2.24.९० ।।
पश्यत स्वकरेदक्षे यस्य यद् दृश्यतेऽण्डकम् ।
स च तत्तद् विशत्वेव मम योगप्रतापतः ।।९१ ।।
इत्युक्तास्ते ययुर्नत्वा श्रीनारायणमूर्तयः ।
स्वस्वब्रह्माण्डमालोक्य यावदायुर्विशश्रमुः ।।९२।।
तेषु गतेषु सर्वेषु लोमशः प्राह केशवम् ।
मह्यं दर्शय तान्येव ब्रह्माण्डानि च येषु ते ।।९३।।
श्रुत्वा विहस्य च हरिर्लोमशं नेत्रयोस्तदा ।
अंगुल्या जलयोगेनाऽस्पृशद् दिव्योऽभवत्तदा ।। ९४।।
दिव्यनेत्रो ददर्शैतानवताराँश्च गोलकान् ।
परमाश्चर्यमापन्नो महिमानं विवेद ह ।।९५।।
अनादिश्रीकृष्णनारायणस्य यादृशं ततः ।
चौलाख्यसंस्कारविधेः परिहारं चकार सः ।।९६।।
दत्वा दानानि बहूनि प्रासादं हरिराययौ ।
पिता माता चमत्कारं दृष्ट्वोपाययतुर्मुदम् ।।९७।।
लोमशः कन्यकावृन्दसहितश्चाश्रमं ययौ ।
इत्येवं कथितं राधेऽनादिकृष्णस्य चेष्टितम् ।। ९८।।
अगम्यं सर्वथा लोकैर्दिव्यानुग्रहवेद्यकम् ।
पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिप्रदायकम् ।।९९।।
पशुपुत्रप्रदं धान्यधनदं पापनाशकम् ।
कृष्णभक्तिप्रदं नारायणपदप्रदं तथा ।। 2.24.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीबालकृष्णस्य प्रभोश्चौलसंस्कारे रोमसु पापानां कथानकं हरेः रोम्णां तु नारायणरूपतेत्यादिनिरूपणनामा चतुर्विंशतितमोऽध्यायः ।। २४ ।।