लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२५

← अध्यायः ०२४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २५
[[लेखकः :|]]
अध्यायः ०२६ →

श्रीकृष्ण उवाच-
शृणु राधे कृष्णनारायणकथां प्रपावनीम् ।
तृतीयवर्षे सञ्जाता फाल्गुने प्रतिपत्तिथौ ।। १ ।।
फाल्गुनस्य शुक्लपक्षे पुष्पदोलमहोत्सवम् ।
चकार कुंकुमवापीक्षेत्रे गोपालकृष्णकः ।। २ ।।
वसन्ते तत्र सम्प्राप्ते किंशुका ज्वलनप्रभाः ।
निष्पत्राः सततं रेजुः शोभयन्तो धरातलम् ।। ३ ।।
शिशिरं नाम मातंगं विदार्य नखरैरिव ।
वसन्तकेसरी प्राप्तः पलाशकुसुमैः प्रिये ।। ४ ।।
कुन्दा हसन्ति सततं कलिकादन्तकैस्तदा ।
वनानि कर्णिकाराणां पुष्पितानि विरेजिरे ।। ५ ।।
रक्ताऽशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः ।
भृङ्गवृन्दाः पिञ्जरिता राजन्ते गहने वने ।। ६ ।।
मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः ।
रक्ताऽशोककरा तन्वी राधिके किंशुकांऽघ्रिका ।। ७ ।।
नीलाशोककरा श्यामा विकासिकमलानना ।
नीलेन्दीवरनेत्रा च मध्यबिल्वफलस्तनी ।। ८ ।।
प्रोत्फुल्लकुन्ददशना मञ्जरीकरशोभिता ।
बन्धुजीवाधरा शुभ्रसिन्दुवारनवाङ्कुरा ।। ९ ।।
पुँस्कोकिलस्वना दिव्या कंकोलवसना शुभा ।
बर्हिवृन्दकलापा च सारसस्वरनूपुरा ।। 2.25.१ ०।
प्राग्वंशरशना रम्यो मत्तहंसगतिस्तथा ।
पुत्रजीवांशुकासङ्गरोमराजिविराजिता ।। १ १।।
वसन्तलक्ष्मीः सम्प्राप्ता चाश्वपट्टसरस्तटे ।
पद्मानि जलचक्षूँषि पश्यन्ति प्रेमवन्ति च ।। १ २।।
तरंगा जलहस्ताश्चाऽऽह्वयन्ति स्नायिनो मुहुः ।
जलस्य गर्जनाहास्यं वेदयन्ति प्रमोदनम् ।। १३।।
शुकाः पार्श्वचराः कृढगागमं चावेदयन्ति च ।
शीतशीकरपवनाश्चाकर्षयन्ति मानसम् ।। १४।।
जलहंसास्तारकाढ्यां निमन्त्रयन्ति द्यामपि ।
मत्स्याश्च रोहिणाः साधून् स्मारयन्ति जलप्लुतान् ।। १५।।
टिट्टिभध्वानमेवात्र बालान् स्नानाभिलाषुकान् ।
करोति रञ्जयत्यपि नृत्यं मायूरमुत्तमम् ।। १६।।
कोकिलाः पुष्पशाखासु कूजनेन मुहुर्हरिम् ।
स्नानार्थं चाह्वयन्तीव प्राप्ते वसन्तयौवने ।। १७।।
एवंविधं प्रसन्नं च वनं विकसितं च तत् ।
विलोक्य ब्राह्मणाः सर्वे चाश्वपट्टसरस्तटे ।। १८।।
सहस्रशस्तदा बाला बालिकाश्च स्त्रियस्तथा ।
पुष्पदोलोत्सवं कर्तुं ययुश्चोत्सुकमानसाः ।। १९।।
कदम्बानां च शाखासु दोला बद्ध्वा सुखावहाः ।
आन्दोलयन्ति बालांश्च बालिकाः कन्यकादिकाः ।। 2.25.२०।।
केसरैश्च तथा पालाशकैः पीतैश्च रक्तकैः ।
हरितैः कपिशै रंगैर्भृत्वा गर्गरिकादिकाः ।।२१।।
रंगैः संरेमिरे सेतौ नरा नार्यो वसन्तके ।
धूलीक्षेपैर्जलक्षेपै रंगक्षेपैर्गुलालकैः ।।२२।।
कुंकुमै रक्तचूर्णैश्च रेमिरे सरसस्तटे ।
प्रातः परस्परं धृत्वा प्रसह्य विनिपात्य च ।।२३।।
गर्गरीरंगसलिलं सिञ्चन्त्यभीक्ष्णमुत्सुकाः ।
सरसो मृत्तिकां पुण्यां लेपयन्ति मुखादिषु ।।२४।।
जलधाराः प्रसिञ्चन्ति शिरस्युपरि यन्त्रकैः ।
पुष्पगुच्छान् कर्णयोश्च धृत्वा नृत्यन्ति केचन ।। २५।।
प्रगायन्ति कृष्णगीतीः काश्चन मोदसंभृताः ।
अन्ये कदर्मितं देहं वेषं प्रक्षालयन्ति च ।। २६।।
विधुन्वन्ति शिरःकेशान् रजोधूलितधूसरान् ।
प्रमृजन्ति नेत्रधूलीः प्रविशन्ति सरोजले ।। २७।।
तरन्ति नैकतरणैः सम्भूय स्नान्ति वारिषु ।
वस्त्राणि रंगरक्तानि क्षालयन्ति नराः स्त्रियः ।। २८।।
स्तबकानां निकुञ्जेषु रमन्ते बालबालिकाः ।
नरा नार्यः स्वयूथेषु रमन्ते वर्षयन्ति च ।। २९।।
वाद्यानि वादयित्वा च वसन्तं प्रार्चयन्त्यपि ।
प्रतिमां कानकीं कृत्वा पीताम्बरविभूषिताम् ।।2.25.३ ०।।
रक्तपुष्पैरञ्चितां च सकल्गिमुकुटान्विताम् ।
रशनामञ्जीरयुतां सकञ्चुकां सुशोभनाम् ।।३ १ ।।
किशोरभावमापन्नां सकटाक्षां मनोहराम् ।
पुष्परथस्थितां सौम्यां मञ्जरीकृतशेखराम् ।।।३२।।
गुच्छस्तबककर्णाढ्यां सुगन्धद्रवचर्चिताम् ।
केशजूटलसत्स्कन्धां स्वर्णछत्रविराजिताम् ।।३३।।
नद्धसूर्यमणिप्रान्तमध्यचन्द्रोत्तरीयकाम् ।
हीररत्नसुमौक्तिकाऽञ्चितमुकुटशोभिताम् । ।३४।।
पुष्पोत्तंसां पुष्पकटिं पुष्पावरणसंभृताम् ।
कदम्बपुष्पमालाढ्यां चाम्पकेयललाटिकाम् ।।३५।।
कर्णिकारप्रकोष्ठां च पालाशबाहुशोभिताम् ।
जपापुष्पौष्ठललितामैन्दीवारश्मश्रूलिकाम् ।।३६ ।।
चित्रकुसुमनेत्रान्तां कुन्ददन्तविराजिताम् ।
तिलपुष्पसुनासाढ्यां कादम्बगण्डमण्डिताम् ।।३७।।
कदलीपुष्पभालाढ्यां कदलीस्तम्भसक्थिनीम् ।
काल्हारजघनभ्रामां कामलाभसुनाभिकाम् ।।३८।।
हस्तिशुण्ढसमजङ्घां पद्मपादतलान्विताम् ।
चन्द्रसूक्ष्माकृतिनखां पाण्डुरां मन्दहासिनीम् ।।३९।।
मूर्तिं वसन्तदेवस्य पुपूजुः सर्वमानवाः ।
सुपुष्पैः कुंकुमाद्यैश्च सस्यशुकैः सुशिग्रुभिः ।।2.25.४०।।
कुंकुमाऽबिलचूर्णैश्च गुलालैर्विमलद्युभिः ।
मञ्जरीभिः रक्तपत्रैः फलैर्विविधकैस्तथा ।।४१ ।।
दुग्धपाकैः सुद्रवैश्च पुपूजुः श्रीवसन्तकम् ।
रगैर्बहुविधैश्चापि संस्नाप्य श्रीवसन्तकम् ।।।४२।।
वासन्तिकैरम्बराद्यैर्भूषाभिः पुष्पपट्टकैः ।
पुष्पहारैश्च पुपूजुर्वसन्तं कलिकापतिम् ।।४३।।
मञ्जरीपल्लवानाथं चांकुराधिपतिं प्रभुम् ।
पुष्पाधिपं नालिकेशं काण्डिकाधिपतिम् ऋतुम् ।।४४।।
शाद्वलेशं सुकिशोरं पुपूजुः सरसस्तटे ।
वसन्तस्य प्रियाश्चान्याः कोकिलां हंसिकां तथा ।।४५।।
सारसीं सुमनां मेनां मायूरिकां च भासिकाम् ।
शुकीं च गारुडीं चैव पुपूजुः षोडशप्रियाः ।।४६।।
सर्वा लक्ष्मीस्वरूपास्ता विचित्ररंगशोभनाः ।
कन्यकाः काञ्चनभासाश्चन्द्रकान्तिभराननाः ।।४७।।
श्वेताम्बराः पिंगवस्त्रा हरिताम्बरधारिकाः ।
कपिशाम्बरयुक्ताश्च चित्राम्बरधरास्तथा ।।४८।।
कानकाभाम्बरधराः कपिशाम्बरधारिकाः ।
नीलाम्बराः पयोवस्त्राः कर्बुराम्बराधिकाः ।।।४९।।
कैसराम्बरयुक्ताश्च पाण्डुराम्बधारिकाः ।
यावच्छृंगारशोभाश्चाऽऽनर्चुर्वसन्तयोषितः ।।2.25.५०।।।
चन्दनागुरुकस्तूरीकुंकुमाक्षतवारिभिः ।
दुग्धपाकादिभिश्चापि ताम्बूलकैरपूजयन् ।।।५१ ।।
अथ श्रीभगवाँस्तत्राऽनादिकृष्णनरायणः ।
कैशोररूपमास्थाय चाश्वपट्टसरस्तटे ।।५२।।
दोलायां श्रीवसन्ताख्यं षोडशाऽऽर्यायुतम् ऋतुम् ।
संस्थापयित्वा विविधैरुपचारैरपूजयत् ।।५३ ।।
आरार्त्रिकं च कृतवान् ततस्तत्र वसन्तकः ।
भार्याषोडशयुक्तः सः प्रत्यक्षो ह्यभवत्तदा ।। ५४ ।।
यथावर्णितरूपश्च जगाद् पूजकं प्रभुम् ।
अनादिश्रीकृष्णनारायणं कान्तं मनोहरम् ।।५५।।
परमेश्वर पूजां मे लौकिकीं रीतिमाश्रितः ।
करोषि सर्वदेवाद्यैः पूज्यत्वं पुरुषोत्तमः ।।५६।।
अद्याऽहं पावनो जातः सस्त्रीकस्तव सेवकः ।
त्वामर्चयितुमिच्छामि निषीद त्वं वरासने ।।५७।।
इत्युक्त्वा श्रीवसन्तश्च सप्रियो हि निजासनात् ।
अवतीर्य भुवि स्थित्वा स्वामिनं पुरुषोत्तमम् ।।५८।।
दोलायां प्रसमारोप्य पूजयामास भावतः ।
षोडशवस्तुभिः सर्वभार्याभिः सहितः ऋतुः ।।५९।।
आनर्च श्रीहरिं तत्र कैशोरं रूपमास्थितम् ।
रूपानुरूपावयवं विलोक्य पुरुषोत्तमम् ।।2.25.६०।।
मुमुहुर्दिव्यरूपे ते वसन्ताद्या जनास्तथा ।
वसन्तयोषितः सर्वा मुग्धा बभूवुरीश्वरे ।।६ १।।
ऋषयः ऋषिपत्न्यश्च मुमुहुः परमेश्वरे ।
एवं क्षणं च निश्चेष्टाः स्तब्धाः समभवन् सुखाः ।।६२।।
श्रीकृष्णस्य कटाक्षेण हास्यप्रसन्नताभृता ।
अथ क्षणान्ते बुबुधुर्नैजात्मानं च ते तदा ।।६३ ।।
तुष्टुवुः श्रीहरिं कान्तं परमेश्वरमिष्टदम् ।
त्वमेव भगवानास्से सर्वलोकेश्वरेश्वरः ।।६४।।
सर्वैश्वर्ययुतः साक्षादनादिपुरुषोत्तमः ।
देहि पद्ं सदा नाथ सेवार्थं चरणं तव ।।६५।।
विना त्वां सर्वमेवास्ति निष्फलं सुखवर्जितम् ।
इत्युक्त्वा च जना नार्यो निपेतुश्चरणे हरेः ।।६६।।
हरिः प्राह तथास्त्वेवं भविष्यति न संशयः ।
ततः पुनश्चमत्कारं दर्शयामास केशवः ।।६७।।
वसन्तदेहे नैजं चाभिव्याप्तं रूपमैश्वरम् ।
सर्ववसन्तकान्ताभिर्दृश्यते श्रीहरिः स्वयम् ।।६८।।
वसन्ते स्वामिनि नाथे कृष्णनारायणः प्रभुः ।
तदा मुमुहुस्तं दृष्ट्वा कलिकाद्याः पतिं प्रभुम् ।।६९।।
वरयामासुरेवैनं किशोरं पुरुषोत्तमम् ।
प्रियाः षोडश एवैताः पुपूजुस्तुष्टुवुः पुनः ।।2.25.७०।।
मालाः समर्पयामासुर्विदधुश्चन्द्रकं ततः ।
आत्मार्पणं हरिर्ज्ञात्वा मानसेष्टं सुभावितम् ।।७१।।
तथास्त्विति हरिः प्राह किशोररूपधृक् प्रभुः ।
षोडशकन्यकानां श्रीप्रभुश्चैवाऽकरोत्तदा ।।७२।।
रूपद्वयं तु प्रत्येकं दिव्यं चाऽदिव्यमित्यदः ।
अदिव्यं देवतुल्यं यत् षोडशं रूपमेव तत् ।।७३।।
वसन्ताय ददौ चाथ दिव्यं षोडशरूपकम् ।
कन्यकानां सुरूपं तत् निजप्रियास्वरक्षयत् ।।७४।।
लोमशाय ददौ तत्राश्रमे कन्यासु कोटिषु ।
निवासार्थं ततः कृष्णो बालरूपो बभूव च ।।७५।।
रंगक्लिन्नं हरिं स्नापयितुं माता सरस्तटे ।
ययौ तावन्महादैत्यो मीनरूपो जलस्थितः ।।७६।।
जग्राह बालकं कृष्णं त्रिंशद्धस्तप्रमाणवान् ।
माताऽत्र विह्वला जाता पुत्रनाशाऽभिशंकया ।।७७।।
श्रीराधिकोवाच-
कोऽसौ कृष्ण! महामीनो दैत्यराट् तत्र चागतः ।
योऽनादिश्रीकृष्णनारायणं भक्षयितुं स्थितः ।।७८।।
श्रीकृष्ण उवाच-
सालमालो महादैत्यो हिरण्यकूर्चचर्मजः ।
सालेमालवने तिष्ठन्नासील्लोकभयंकरः ।।७९।।
सौराष्ट्रपूर्वदिग्भागे वन्यभक्ष्यो महासुरः ।
सप्ततालोच्छ्रयश्चैकतालायतोऽद्रिशृंगवत् ।।2.25.८० ।।
गदामुद्गरधारी च पितृवैरं स्मरन्नटन् ।
अश्वपट्टसरोमध्ये तिमिरूपोऽभवत्तदा ।।८ १ ।।
कामरूपधरो दैत्यस्त्रिंशद्धस्ततिमिः स वै ।
पुच्छेन प्रचकर्षैनं बालं स्नान्तं तटे तदा ।।८२।।
मातृपार्श्वे च सोपाने स्थितं रम्यं मनोहरम् ।
बालो ज्ञात्वा कृपावार्धिरासुरं दमनोचितम् ।।८३।।
हन्तुं समागतं शीघ्रं नयन्तं च जले तलम् ।
बालकृष्णस्तदा द्वेधाऽभवद् बालश्च नक्रकः ।।८४।।
बालो भूत्वा द्रुतं सरस्तटे सोपानमास्थितः ।
नक्रो भूत्वा जलमध्ये पञ्चाशद्धस्तमानवान् ।।८५।।
महामत्स्यं ग्रसितुं वै शीघ्रं पृष्ठे बभूव सः ।
मरणस्य भयान्मत्स्यो दुद्राव जलभूतलम् ।।८६।।
नक्रो जग्राह तं मत्स्यं मत्स्यरूपं विहाय सः ।
सालेमालो महादैत्यो नरो भूत्वा गदाकरः ।।८७।।
नक्रं जघान तरसा नक्रस्तावल्लयं गतः ।
गदाधारी तु पुरुषः सप्ततालोऽपि सोऽभवत् ।।८८।।
सालेमालस्य च नारायणस्य समरो महान् ।
बलातिबलिनोस्तत्र गदाभ्यां समजायत ।।८९।।
सालेन तु हरेर्मूर्ध्नि ताडिता बलतो गदा ।
बभंज शतखण्डा सा हरिर्वज्रदृढस्तदा ।।2.25.९०।।
प्रतिजघान तं दैत्यं गदयैव महाप्रभुः ।
वक्षस्येव हतः शीघ्रं निपपात विमूर्छितः ।। ९१।।
पुनरुत्थाय च नैजं मुद्गरं प्राहिणोद् बलात् ।
गदया हरिणा तत्तु मुष्टिदण्डे प्रभञ्जितम् ।।९२।।
अशस्त्रः सालमालोऽसौ खमुत्पपात शृंगवत् ।
मुद्गलाग्रं समादाय पातयामास के हरेः ।।९३।।
भगवांश्च स्वगदया पोथयामास मुद्गरम् ।
सुदर्शनं मुमोचैनं नाशयितुं महाप्रभुः ।। ९४।।
शतसूर्यसमं वह्निज्वालामालाकुलं भ्रमत् ।
शीघ्रं न्यपतत् शालस्य मूर्ध्नि चकर्त तच्छिरः ।।९५।।
हाहाकारोऽभवत्तत्र प्रसन्नाः सर्वदेवताः ।
सालेमालो मृतश्चायं क्रोशदेहप्रमाणवान् ।।९६।।
न्यपतद् भूतले वृक्षान् नाशयन् कम्पयन् महीम् ।
आत्मा तस्य हरेश्चक्रयोगेन मुक्ततां गतः ।।९७।।
विमानेन सुदिव्येन वैकुण्ठं प्राप सालकः ।
गरुडस्तस्य देहन्तु चाश्वपट्टसरोवरात् ।।९८।।
पद्भ्यां धृत्वा निनायैनमत्यजद् व्योममार्गतः ।
यशोदानोत्तरं शैले सालेमालाह्वये वने ।।९९।।
तत्र ये दैत्यवर्याः संवर्तन्ते तस्य जातिजाः ।
प्रापुः शोकं परं तस्य नार्योऽपि शतमिप्यपि ।। 2.25.१० ०।।
रुरुदुर्वै भृशं व्योम्नः पतितं वीक्ष्य वल्लभम् ।
और्ध्वदैहिकमेवाऽस्य चक्रुर्जात्यनुसारतः ।। १० १।।
पञ्चशतानि दैत्यानां शतं च तस्य योषिताम् ।
सहस्रं चापि पुत्राणां सुखं न लेभिरे शुचा ।। १ ०२।।
सततं चिन्तयामासुस्ते सर्वे वैरयापनम् ।
अथाऽत्र भगवान् बालो भूत्वाऽश्वपट्टसन्निधौ ।। १ ०३।।
पुष्पदोलोत्सवं कृत्वा पितृभ्यां गृहमाययौ ।
कन्यकाः श्रीलोमशस्याश्रमं ययुस्तदाज्ञया ।। १ ०४।।
ऋषयस्तल्ललनाश्च स्वस्वालयान् ययुस्ततः ।
पिता हरेः करे रक्षासूत्रं बबन्ध चौर्णकम् ।। १ ०५।।
एवं दोलोत्सवे नारायणेन परमात्मना ।
राधिके दर्शितश्चमत्कारो दैत्यो निषूदितः ।। १ ०६।।
पठनाच्छ्रवणाद्वापि सर्वसौभाग्यमाप्नुयात् ।
नरो नारी कन्यका वा बालो यतिर्युवाऽपि वा ।। १ ०७।।
प्राप्नुयात् परमं धाम श्रुत्वा भावेन तत्कथाम् ।
कृपासाध्यहरेः राधे पारवतीशितुः प्रिये ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वसन्तविकासः, पुष्पदोलोत्सवः तिमिंगिलरूपसालमालासुरस्य हरिर्नाशार्थमागतस्य हरिकृतनाशश्चेत्यादिनिरूपणनामा पञ्चविंशतितमोऽध्यायः ।। २५ ।।