लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०४५

← अध्यायः ०४४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ४५
[[लेखकः :|]]
अध्यायः ०४६ →

श्रीकृष्ण उवाच-
राधिके तद्विमानं च समुद्रोपरि चोत्तराम् ।
दिशं प्रति प्रयातं कम्पयच्चानिलमण्डलम् ।। १ ।।
जलं चुक्षोभ सामुद्रं दृष्ट्वा चन्द्रनिभं तदा ।
घटिकामात्रतस्तत्तु द्वीपं कुरुजटात्मकम् ।। रे ।।
समुल्लंघ्य समायातं द्वीपं रूप्यायनाह्वयम् ।
तथा पार्श्वस्थितं द्वीपं मुरशेषं पराक्रमीत् ।। ३ ।।
श्रुत्वा तु पश्चिमे दैत्यो मात्रागस्करनामकः ।
शैलतुल्यः स्वगदया सहितः सन्मुखोऽभवत् ।। ४ ।।
क्रुद्धो म्लेच्छस्वरूपश्च कटिमात्रसमुद्रकः ।
माऽजाऽम्बिकाया राक्षस्याः पुत्रस्तिमिंगिलाशनः ।। ५ ।।
श्रीराधिकोवाच-
कथं चासीदयं मात्रागस्करो राक्षसो महान् ।
कोऽपराधः कृतस्तेन मातुर्मे वद माधव ।। ६ ।।
श्रीकृष्ण उवाच-
सौराष्ट्रे तु तलाजाया राक्षस्याः किंकरी शुभा ।
मों अजा नामतः ख्याता कामरूपधरा सती ।। ७ ।।
आसीदरण्यवासा चारण्यविहारकारिणी ।
पश्वदा च फलादा च सुरूपा दृढयौवना ।। ८ ।।
एकदा सा महारण्ये भक्ष्यार्थं समुपागता ।
पश्चिमे सोमतीर्थेऽस्या गतिर्यदृच्छयाऽभवत् ।। ९ ।।
सा हि तत्र पवित्राँश्च तैर्थिकान् वीक्ष्य शोभनान् ।
तैर्थिकैः सह संगत्य मानवीरूपधारिणी ।। 2.45.१ ०।।
समुवासैकदिवसं कथां शुश्राव पावनीम् ।
कथायां राधिके चाध्यात्मिकं तत्त्वं समागतम् ।। १ १।।
जडानां चेतनानां च रक्षकोऽस्ति परेश्वर ।
परमात्मा परे धाम्नि दिव्यैर्मुक्तैः प्रसेवितः ।। १२।।
सर्वानन्दनिधिः सर्वसौख्यसमृद्धिभाजनः ।
तस्य नारायणनाम्ना भजनेन सुखं भवेत् ।। १३ ।
स तु नारायणनाम्नो भक्त्या तुष्यति सर्वदा ।
नारायणेति सततं जपनीयं ततोऽनिशम् ।। १४।।
कीर्तनीयं च सततं नारायण हरे प्रभो ।
प्राणस्वामिन् सुखदातः सर्वसौभाग्यदो भव ।। १५।।
एवं वै भजितः सम्यक् सर्वं ददाति वाञ्छितम् ।
नार्यः सौख्यं सुसौभाग्यं राज्यं धान्यं धनादिकम् ।। १६ ।।
पतिं यशस्विनं श्रेष्ठं पुत्रपौत्रादिकं तथा ।
आप्नुवन्ति न सन्देहो विमानवाहनान्यपि ।। १७।।
जगत् सर्वं तस्य वशे स च सम्राट् विराजते ।
तस्य राज्यं हि त्रैलोक्ये तदाश्रयी सुखी भवेत् ।। १८।।
कैंकर्यं तस्य कर्तव्यं पुरुषेण विजानता ।
यदिच्छेत् परमं स्वर्गं कामभोगसमन्वितम् ।। १ ९।।
तस्याश्रयेण सद्भाग्यं वर्धते नित्यमुत्तमम् ।
दुर्भाग्या सुभगा स्याच्च राज्ञी स्याद् दासिका ह्यपि ।।2.45.२०।।
पृथ्वी च निर्मिता येन जलं येन कृतं तथा ।
अग्निर्येन कृतश्चास्ते वायुर्येन विनिर्मितः ।।२१ ।।
तेभ्यो देहाः कृता येन येनात्मा वर्ष्मणि धृतः ।
येन वृक्षफलान्यत्रोत्पादितानि च भुक्तये ।।२२।।
अन्नानि शर्करा दुग्धं रसा येन विनिर्मिताः ।
येन नारी कृता रम्या येन वै निर्मितो नरः ।। २३ ।।
इन्द्रियाणि प्रभोगार्थं कृतानि येन देहिनाम् ।
येन बुद्धिः प्रदत्ता च विचारो येन निर्मितः ।। २४।।
येन निद्रा विरामश्च कृता येन दिवा निशा ।
येन क्षुधा तृषा तृप्तिः कृता येन सरस्वती ।।२५ ।।
स्नेहः पुत्रः सुता लक्ष्मीः स्मृद्धिर्येन दिवं कृतम् ।
स्वर्गं भूस्तारकाः सूर्यश्चन्द्रो येन विनिर्मिताः ।।२६ ।।
समुद्राः ऋतवो मेघाः सुवर्णं येन निर्मिताः ।
तं भजेच्चेत् प्रसन्नः स जायेत परमेश्वरः ।। २७।।
ददाति भजते नित्यं राज्यं धनं प्रियं सुखम् ।
मुमुक्षवो भजन्त्येनं श्रीपतिं बहुधा मुहुः ।। २८।।
बुभुक्षवोऽपि नैजार्थं भजन्त्येनं प्रियं प्रभुम् ।
नारायणे भवेत् स्नेहः पुष्पैस्तु बहुजन्मनाम् ।। २९ ।।
स्नेहवन्तो भवेयुश्च देवाश्चान्ये तु राक्षसाः ।
मद्यमांसप्रिया हिंसापराः परविघातकाः ।। 2.45.३० ।।
सुखिनो न भवन्त्येते नातिहीनाः परार्तिदाः ।
आत्मा न राक्षसः कश्चिन्न वा देवो भवत्यपि ।। ३१ ।।
कर्मणा राक्षसो देवः कथ्यते विशदोऽपि सः।
नारीदेहः सदा म्लानो दुःखदः परवश्यगः ।।३ २।।
नारायणाश्रयात्पापं दुःखं तरति भामिनी ।
उदरस्य तु पोषार्थं पापं क्वचिन्न चाचरेत् ।।३३ ।।
न वै मोक्षस्य जन्मेदं पुनः पुनरवाप्यते ।
कथं तत्र समुन्नेया पापदा पाशवी क्रिया ।।३४।।
पापी चात्मा यदारभ्य परमेशं समाश्रयेत् ।
तत आरभ्य एवाऽसौ पुण्यवान् संप्रजायते ।। ३५।।
कथायाः श्रवणेनाऽस्य संकल्पश्च शुभो भवेत् ।
ततो मतिश्च सत्संगे जिज्ञासा मोक्षदायिनी ।।३६।।
ततश्चास्य दैवगुणाः सात्त्विकाः संभवन्ति वै ।
धर्मकार्यं पुण्यकार्यं परकार्यं शुभप्रदम् ।।३७।।
स्वभावाज्जायते तेन यशः कीर्तिः प्रवर्धते ।
शान्तिश्च वर्धते नित्यं भाग्यरेखा प्रकाशते ।।३८।।
परोपकारो दानं च सत्यं चाऽहिंसनं व्रतम् ।
शीलं सन्तोषणं शौचं तपो वृद्धस्य सेवनम् ।।३९।।
अन्तर्यामिश्रवणं चाऽस्तेयं चानिन्दनं तथा ।
गुणास्त्वस्य भवेयुर्वै भाग्यरेखाप्रणोदिताः ।।2.45.४०।।
तैस्तु लक्ष्मीर्धनं धान्यं गृहं क्षेत्रं सुवाहनम् ।
कुटुम्बं सुतपौत्रादि सर्वं स्वर्गं प्रवर्तते ।।४१ ।।
शाश्वतं सुसुखं लोके परे लोके प्रजायते ।
तस्माद्वै मानवं देहं लब्ध्वा मा राक्षसो भवेत् ।।४२।।
कर्मणा राक्षसः पश्चाद् देहेऽपि राक्षसो भवेत् ।
देहराक्षसकर्माऽसौ कदापि नैव मुच्यते ।।४३ ।।
राक्षसोऽपि त्यजेद्धिंसाकर्म चान्यायबृंहितम् ।
तेन शुद्धिः शनैस्तस्य जायते सत्त्वगामिनी ।।४४।।
देहः शुद्ध्यति तीर्थेन सत्समागमतस्तथा ।
अन्तः शुद्ध्यति तपसा आत्मा गुणैः सुशुद्ध्यति ।।४५।।
दैह्यं राक्षसभावं स विहाय मानसेऽपि च ।
विशारदो भवेच्छीघ्रं ततश्चात्माऽपि शुद्ध्यति ।।४६।।
नित्यशुद्धोऽप्यसत्संगपाशं त्यजति शुद्ध्यति ।
तेन दैवो भवेत्पश्चान्मोक्षमार्गे प्रयाति वै ।।४७।।
तस्मात्पापानि सन्दह्य गुर्वाश्रयं समाचरेत् ।
गुर्वाश्रयेण च हरेः प्राप्तिर्भवति नैत्यिकी ।।४८।।
तस्मान्नरोऽथवा नारी पापं त्यक्त्वा प्रभुं श्रयेत् ।
दशजन्मकृतं पापं नरदेहं ददाति वै ।।४९।।
शतजन्मकृतं पापं नारीदेहं ददाति वै ।
पुनः पापं पुनर्जन्म नारी वै नारकी व्यथा ।।2.45.५०।।
मलमूत्रभरा शश्वन्मलमूत्रक्रियागुणा ।
मलमूत्राऽपत्यवती मलमूलरजस्वला ।।५१ ।।
मलमूत्राश्रयगर्भा मलमूत्रादिवाटिका ।
मलमूत्रफलोत्पादा मलमूत्रावहा सदा ।।।५२।।
कथं पापाद् विमुच्येत यदीशं भजते न सा ।
तस्मान्नारायणः कृष्णो भजनीयः सदैव ह ।।५३।।
यदा ज्ञानं गुरोर्लब्धं तदैव गुरुमाश्रयेत् ।
गतं दिनं कृतं कर्म न चाऽऽयास्यति वै पुनः ।।५४।।
गतं कृतं सरागं यज्ज्ञाने सति ततः परम् ।
विरागाय भवत्येव शोच्यं त्यक्त्वा शुभं श्रयेत् ।।५५।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
जपेन्मन्त्रं सदा यः स पापाय नैव कल्पते ।।५६।।
गृह्णाति तुलसीमालां सर्वपापात् प्रमुच्यते ।
सेवते साधुवर्यान् स मुक्तये जायते सदा ।।५७।।
भजते श्रीहरिं यः स शाश्वतानन्दमृच्छति ।
श्वः कर्तव्यं चरेदद्य चाद्यतनं क्षणेऽत्र च ।।५८।।
कालो नैव विपश्येत्तु कार्यं यदस्य शिष्यते ।
सा हानिर्यो गतः कालश्चात्मश्रेयो विना क्षणः ।।५९।।
स लाभो यः कृतः कालः स्वात्मश्रेयोऽर्थकः क्षणः ।
शास्त्रं ददाति पन्थानं यान्तु श्रेयोऽर्थका जनाः ।।2.45.६०।।
नित्यं प्राप्तस्तथा मध्ये सायं निशि क्षणे क्षणे ।
म्रियन्ते चाथ जायन्ते कीरवन्मानवादयः ।।६ १ ।।
जीवन्तस्ते प्रपश्यन्ति गर्भे नाशं मृतोद्भवम् ।
जीवोद्भवस्य मासे वा नाशं वर्षे विनाशनम् ।।६२।।
बाल्ये कौमारके नाशं कैशोरे यौवने लयम् ।
वार्धक्ये निर्जने नाशं नष्टे किञ्चिन्न शिष्यते ।।६३ ।।
नष्टे श्रेयः कथं स्याच्च जीवन्नेव प्रसाधयेत् ।
जन्महानिं च मरणं मृत्युशून्यं च जीवनम् ।।६४।।
अर्जयन्तु महाभागाः कालं मृत्युं त्यजन्तु च ।
कालकालाधिकालं च परमेशं श्रयन्त्विह ।।६५।।
स्वार्थमात्रपरा लोकाः परलोकनिरोधकाः ।
मृषा स्नेहं प्रदर्श्यैव श्रेयोविघातकाः सदा ।।६६।।
माता मोक्षे जन्मदात्री पिता श्रेयःप्रपालकः ।
पत्नी पतितं रक्षेच्च पतिः पातीन्द्रजालतः ।।६७।।
भ्राता भासां हरेर्दद्यान्पुत्रः पूतस्तु तारयेत् ।
स्वसा सुपुण्यं दद्याच्च श्वशुरः शान्तिमर्पयेत् ।।६८।।।
यद्येते न गुणास्तेषु ते मृषास्नेहदर्शकाः ।
सम्बन्धः सर्वथा लोके प्रतारणफलोदयः ।।६९।।
ज्ञात्वा चैवं मृषा सर्वं चानिष्टफलदं तथा ।
विचार्यैव हरिं श्रित्वा भजेत कृष्णनरायणम् ।।2.45.७ ० ।।
देहेन मनसा वाचा कर्मणा स्नेहतस्तथा ।
संसेव्य श्रीहरिं कृष्णं नारायणं गतिं लभेत् ।।७ १ ।।
इत्यादिकां कथां राधे! श्रुत्वा मुमुक्षुतावती ।
माँ-अजा-राक्षसी भेजे कृष्णनारायणं ततः ।।७२ ।।
सोमनाथं परं तीर्थं कृत्वा भक्ताऽभवत्तदा ।
तस्यै सोनायनर्षिर्वै ददौ मन्त्रं च तूलसीम् ।।७३ ।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इति जग्राह मन्त्रं सा ततो याता निजालयम् ।।७४।।
तलाजायाश्च सा दास्यं सख्यं करोति नित्यदा ।
वने च पर्वते नित्यं वन्यफलार्थयायिनी ।।७५ ।।
भ्रमते निर्भया नामजपं करोति सर्वदा ।
अथ तां निर्जने दृष्ट्वा सुरूपा यौवनान्विताम् ।।७६ ।।
सामुद्रो राक्षसो निन्ये नाम्ना झांझीवरो नृपः ।
नैर्ऋत्यां वै द्विसाहस्रक्रोशेभ्योऽति मुरालये ।।७७ ।।
मुरशेषो झांझीवरो भ्रातरौ द्वौ बभूवतुः ।
द्वीपत्रये मुरस्यैव राज्यं ह्यभूत्तदाऽल्पकम् ।।७८ ।।
ततो साक्षीवरो नैजे राज्ये तस्मात्तु पश्चिमे ।
पृथ्व्यां चाब्धितटे मोऽजा निन्ये महोत्सवात् नृपः ।।७९ ।।
तस्यां जातः सुतो दैत्यश्चोतत्पन्नमात्रयौवनः ।
कामगो व्योमगश्चापि मायाछालादिवेदनः ।।2.45.८ ० ।।
सर्वनाशकरः सर्वद्वेषी लोकार्त्तिवर्धनः ।
सदोद्वेगकरो मातुः पितुवीक्ये त्वनादरः ।।८ १ ।।
परकन्याहरो नैजं राक्षसं धार्पमाश्रितः ।
परद्रव्यहरो युद्धे रुचिमान् नित्ययोधनः ।।८२ ।।
एकदा स समुद्रस्यरजलमानवपुत्रिकाम् ।
प्रसह्य चानिनायाऽथ पत्नीं तां विदधे निजाम् ।।८ ३ ।।
जलस्थायाः स्थले वासो रोगार्थ हि व्यजायत ।
रोगग्रस्तां दुर्बलां च ज्वरव्याप्तां क्षयान्विताम् ।।८४।।
इति तेनाऽरममाणां पशुमारममारयत् ।
आक्रोशनं तु सा चक्रे क्रन्दितं जननी तदा ।।८५ ।।
मीऽजा श्रुत्वा समायाता दयया भतमानसा ।
शिक्षयामास पुत्रं स्वं मा पुत्र हिंसनं कुरु ।।८६।।
अबलाया बलं नास्ति रुग्णायास्तु विशेषत ।
निर्बला ताड्यते तत्ते श्रेयो नैव भविष्यति ।।८७।।
पत्न्यां प्रतारणं पत्युस्तथा क्रोधेन ताडनम् ।
प्रसह्य भोगकरणं पत्यायुष्यविनाशकम् ।।८८।।
सगर्भायां च रुग्णायां श्रमितायां तथा सुत ।
स्कन्दितायामरक्तायां न गान्तव्यं कदाचन ।।८ ९।।
अकालगमने हानिर्लाभो नैव च नैव च ।
पत्नी स्वांगं निजात्मा च कथं तां पीडयेत् सुधीः ।। 2.45.९० ।।
अहिंसां कुरु शौचं च दयां रक्ष सुखाय वै ।
सत्ये वर्तय चास्तेये व्रते तिष्ठ सुखाय वै ।। ९१ ।।
गुणे शीले च सन्तोषे नियमे संयमे व्रज ।
परमेशे भव भक्तः श्रद्धावान् विषयाँस्त्यज ।। ९२।।
आत्मा पापैर्यदा छन्नस्तदा राक्षसतां गतः ।
परात्मदुःखकारित्वं राक्षसत्वं स्फुटं सुत ।। ९३ ।।
मद्यमांसादनं नीतिवर्ज्यं रक्षष्ट्वमेव तत् ।
नीतिः पवित्रभोज्यं च परसन्तोषवर्तनम् ।। ९४।।
व्रतं शान्तिप्रयोगश्च दैवताऽऽपादकं हि तत् ।
तस्माद् दैवो भव पुत्र! मा गुणानासुरान् व्रज ।। ९५।।
मृते देहे पुनर्नैव शुभलाभो भविष्यति ।
तस्माच्छ्रेयः परे लोके यथा स्यात्तत्प्रसाधय ।। ९६ ।।
भजाऽनादिकृष्णनारायणं स्वात्मनि संस्थितम् ।
मया कथा श्रुता पूर्वं तेनाऽहं सुखिनी सदा ।। ९७।।
राज्यसम्पत्समृद्ध्याद्यैः परिपूर्णाऽस्मि पुत्रक ।
त्वं नीत्या कृतकर्मा सन् पुण्यं वर्धय शाश्वतम् ।। ९८।।
मात्रैवं तु समादिष्टो राक्षसो दुष्टमानसः ।
क्रोधेन यष्टिमादाय मातरं चाऽप्यताडयत् ।। ९९।।
एवं नित्यं तु पुत्रेण ताड्यते जननी तथा ।
पत्नी च शात्रवी चेति मत्वा सन्ताड्यते मुहुः ।। 2.45.१०० ।।
नहि वै शर्करावारि निम्बे करोति मिष्टताम् ।
कुपात्रे सूपदेशोऽपि कालुष्यमुपगच्छति ।। १०१ ।।
जननी जलकन्यायाः पक्षं करोति नित्यशः ।
राक्षसो जननी तेन ताडयत्येव नित्यशः ।। १० २।।
अथाऽयं जनकेनापि बोधितोऽपि न चाददे ।
सूपदेशं च जनकं ताडयितुं समुद्यतः । । १०३ ।।
एकदा मातरं पत्नीं रज्जुभ्यां सुदृढं स च ।
बबन्ध चापि चिक्षेप समुद्रे पुण्यवर्जितः ।। १ ०४।।
मात्रा स्मृतस्तदा कृष्णनारायणः स्वयंप्रभुः ।
शीघ्रं तत्र समागत्य ररक्ष करयोश्च ते ।। १०९ ।।
उद्धृत्य मातरं चापि स्नुषां कृष्णनरायणः ।
भक्तां स्वगरुडे नीत्वा तद्गृहं प्रत्यपादयत् ।। १ ०६।।
तावद् देशान्तरं यातो झंझीवरः समाययौ ।
दृष्ट्वा श्रुत्वा च वृत्तान्तं क्रोधं त्ववाप दुःसहम् ।। १ ०७।।
मुरशेषं भ्रातर स समाहूय ततोऽनयम् ।
पुत्रस्याऽऽवेदयामास भ्राता बोधयितुं ययौ ।। १ ०८।।
भ्रातर्येवमनयेन वर्तनं स समाचरत् ।
ततः क्रुद्धो मुरशेषो झंझीवरस्तथाऽनुगाः ।। १ ०९।।
मत्वा दुष्टं घातनीयं घातयितुं समुद्यताः ।
मात्रागस्करदुष्टोऽयं पित्रादिद्वेषकारकः ।। 2.45.११ ०।।
मृत्युभयेन दुद्राव सामुद्रे तु जलान्तरे ।
तत्र वै धर्षयामासुः जामातारं तु तं रिपुम् ।। १११ ।।
क्रूरं दुष्टं चाऽनयस्थं सर्वेऽपि जलमानवाः ।
द्वीपे निक्षिप्य तं सर्वे पशुमारेण रोषतः ।। १ १२।।
पित्राद्यैर्मिलिता दैत्यं ताडयामासुरुल्बणाः ।
तत्यजुर्दयया तं च तत्र द्वीपे च ते जनाः ।। १ १३।।
तत्र विवासितश्चाऽयं वासं नम्रश्चकार ह ।
मात्रागस्करनामाऽऽसौ यत्र द्वीपे उवास च ।। १ १४।।
सोऽपि बली च महता वलेन चाऽनयेन च ।
अस्थापयन्निजं राज्यं ततो द्वीपः समुद्रके ।। १ १५।।
मात्रागस्करनाम्नैव ख्यातिं जगाम लौकिकीम् ।
झंझीवरस्य राज्यं च झंझीवाराभिधं ह्यभूत् ।। ११६ ।।
माँजा च रक्षिता कृष्णनारायणेन सस्नुषा ।
भक्ता सा कीर्तिमापन्ना नारायणप्रतापतः ।। १ १७।।
माँऽजाऽम्बिकेतिनाम्ना सा प्रसिद्धिमगमत्ततः ।
तन्नाम्ना राज्यभूमिश्च मांजाम्बिकेति चाऽभवत् ।। १ १८।।
तन्नाम्ना त्वालयस्तत्र देवी तत्र च राजते ।
दैत्या म्लेच्छा राक्षसाश्च दानवास्तामुपासते ।। १ १९।।
इत्येतत्कथितं राधे मात्रागस्करचेष्टितम् ।
मात्रागस्करदैत्योऽयं रणंगमविमानकम् ।। 2.45.१२० ।।
लक्ष्मणार्यकुटुम्बेन संयुक्तं व्योम्न्यरोधयत् ।
अट्टहासं मुहुः कृत्वा योद्धुं समुपचक्रमे ।। १२१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मध्ये रोधयतो मात्रागस्करराक्षसस्य स्वस्त्रीमातृप्रभृतिताडनात्मकदुष्टवृत्तान्तः, मांजाम्बिकायाः सस्नुषायाः समुद्रे क्षिप्तायाः श्रीकृष्णनारायणकृतरक्षणं चेत्यादिनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।