लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०४६

← अध्यायः ०४५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ४६
[[लेखकः :|]]
अध्यायः ०४७ →

षट्पदाः

श्रीकृष्ण उवाच--
शृणु त्वं राधिके पश्चाद् यद्वृत्तं तद्वदाम्यहम् ।
विमानं स्तंभयामास खे मात्रागस्करस्तदा ।। १ ।।
लक्ष्मणार्यस्य च रणंगमस्य सन्निधौ स्थितः ।
गदया तौ विजेतुं च कर्तुं विमानमात्मसात् ।। २ ।।
ऐच्छन्मदावलिप्तः स गर्जना बहुधा व्यधात्। ।
गलितास्तेन मेघाश्च वार्धेर्जलानि चुक्षुभुः ।। ३ ।।
सहस्रयोजनान्ते ये स्थितातेऽप्यावहन् भयम् ।
चकम्पे पृथिवी वायुर्विमानं कम्पमावहत् ।। ४ ।।
कन्यकाश्च कुमाराश्च त्रासमापुः क्षणं तदा ।
अथाऽयं भगवद्भक्तो रणंगमो महाबलः ।। ५ ।।
सान्त्वयामास सर्वांश्च सस्मार बालकृष्णकम् ।
द्रागेव तु हरिस्तत्र विमाने प्रादुरास ह ।। ६ ।।
युद्धं कुरु विजयस्ते चेत्युक्त्वा स तिरोऽभवत् ।
वैमानिकानां सर्वेषां तदा धैर्यमभून्महत् ।। ७ ।।
अथाऽसुरः पुनः प्राह वैमानिक विहंगम ।
देहि युद्धं च वा दत्वा विमानं स्वगृहं व्रज ।। ८ ।।
रणंगमस्तु तं प्राह युद्धं ददामि वीर ते ।
बाहुयुद्धं गदायुद्धं शरयुद्धं ददामि ते ।। ९ ।।
शस्त्रयुद्धं मन्त्रयुद्धं प्राणयुद्धं ददामि ते ।
ओमित्युक्त्वा राक्षसः स गदया तं रणंगमम् ।। 2.46.१० ।।
निजघान विमानस्थं मुक्तया वेगतस्तदा ।
रणंगमः समुत्प्लुत्य पद्भ्यां गदां प्रताड्य च ।। १ १।।
अधःपतन्तीं दण्डे तां बाहुभ्यां जगृहे तदा ।
तां गदां शतभारां संगृह्य रणंगमो नृपः ।। १२।।
भूत्वा व्योम्नि महाशैलनिभो जघान तं हृदि ।
उत्प्लुत्य राक्षसस्तामापतन्तीं व्योममार्गतः ।। १३ ।।
जग्राह पाणिना यावत् तावद् रणंगमेन वै ।
प्रहिता शतभारा च गदाऽन्या त्वनलान्विता ।। १४।।
लग्ना स्कन्धाग्रभागे सा कण्ठजत्रुं बभञ्ज ह ।
अथ क्रुद्धो महाशैलो भूत्वा सहस्रभारिकाम् ।। १५।।
गदां धृत्वा महावेगान्मुमोच रणगोपरि ।
रणगोऽपि महाशैलो भूत्वा सहस्रभारिकाम् ।। १६।।
कल्पवल्लीसमुत्थां च गदां धृत्वा क्षणान्तरे ।
तयाऽऽपतन्तीं शतधा चूर्णयामास वै बली ।। १७।।
अथ मात्रागस्करश्च वीक्ष्याऽऽश्चर्यमवाप ह ।
क्रुद्धो दुद्राव रणगं बाहुभ्यां धृतवाँश्च तम् ।। १८।।
रणगश्च महद्रूपं दधार तच्चतुर्गुणम् ।
बाहुभ्यां राक्षसकण्ठं दधार पाशवत्तदा ।। १ ९।।
राक्षसोऽपि तदा सूक्ष्मं रूपं कृत्वाऽप्यपासरत् ।
रणंगमस्तदा व्योम्नि स्थितोऽभून्निर्भयः क्षणम् ।। 2.46.२०।।
तावद् दैत्यो व्योममार्गान्महाशक्तिं प्रगृह्य च ।
रणंगमस्य शिरसि प्राहिणोदनलान्विताम् ।।२१ ।।
रणंगमस्तु त्वरितो लोहाकर्षणकारिणीम् ।
शक्तिं नैजां मुमोचैनां समाकृष्याऽसुरोदरे ।।२२।।
लग्नाऽभवत्तु सा भित्त्वाऽऽन्त्रेषु स्थिराऽभवत्ततः ।
असुरो बलवान् भिन्नमुदरं शृंखलादिना ।।२३।।
बद्ध्वा शक्तिं विनिष्कास्य क्षणं मूर्छामवाप ह ।
व्योम्न्येव संस्थितो विद्युन्मन्त्रेण दीर्घसायकम् ।।२४।।
अभिमन्त्र्य प्राहिणोच्च नाशयितुं रणंगमम् ।
रणगः प्रेषयामास वज्रं कल्पलतोद्भवम् ।।२५।।
शरं विनाश्य दैत्यस्य हृदि लग्नं विवेश ह ।
दैत्यो मूर्छां गतो व्योम्नो वार्धेर्जले पपात ह ।।२६।।
कटिदघ्नः समुद्रोऽस्याऽभवन्मूर्छान्वितस्य वै ।
अथ शैत्यं समासाद्य विमूर्छश्चाऽभवत्तदा ।।२७।।
नम्रास्यो लज्जया भूत्वा धिक्कारं स्वात्मने ददौ ।
ततो वै रचयामास मायां घोरां तु राक्षसीम् ।।२८।।
सहस्रधाऽभवद् दैत्यः सैन्यं रणंगमं ततः ।
अभितस्ताडयामास बाणैर्दण्डैश्च मुद्गरैः ।। २९।।
गदाभिर्मूशलैः प्रासैस्तोमरैः प्रस्तरादिभिः ।
शक्तिभिश्चाऽसिभिश्चापि हेतिभिर्बहुरूपिभिः ।। 2.46.३० ।।
रणंगमस्तदा कल्पलताबलात् क्षणान्तरे ।
अदृश्यतां गतो मध्याद् विमानाग्रे स्थितोऽभवत् ।।३ १ ।।
दैत्यो रुषान्वितो भूत्वा त्यक्त्वा रणंगमं तदा ।
धर्षयितुं विमानं लम्बयामास करौ यदा ।।३२।।
तावत्कल्पलतोत्थवह्निना दग्धौ हि तत्करौ ।
दग्धहस्तोऽसुरो यानं ग्रहीतुं न शशाक च ।।३ ३।।
हेतींश्चापि ग्रहीतुं न शशाकापि तु गर्ववान् ।
ज्वालामुखोऽभवच्छैलो वह्निदावसमाकुलः ।।३४।।
रणंगमं प्रदग्धुं स मनोऽकरोत्तथापि वै ।
कल्पलताऽमृतवर्षी रणंगमो विमानकम् ।।३५।।
ररक्ष च निजात्मानं विमानस्थान् सुधाजलैः ।
प्रज्वलत्यसुरस्तत्र विमानं नैव दह्यति ।।३६।।
लक्ष्मणः स्वीयरक्षार्थं स्वस्तिपाठान् जजाप ह ।
यत् तत्स्वस्त्ययनं पुण्यं सर्वमांगल्यमंगलम् ।।३७।।
ओं स्वस्ति कुरुतात् कृष्णनारायणः परेश्वरः ।
कृष्णो नारायणो ब्रह्मा स्वस्ति नः कुरुताऽच्युतः ।।३८।।
स्वस्ति नः शंकरश्चापि शिवायुक्तः करोत्वपि ।
ईश्वरा लोकपालाश्च ग्रहा महर्षयस्तथा ।।३९।।
विश्वेऽश्विनौ साध्यमरुद्गणाऽग्नयो दिवाकराः ।
यक्षाश्च वसवः स्वस्ति कुर्वन्तु किन्नरादयः ।।2.46.४०।।
नागाः सुपर्णाः सरितः सरांसि चाऽब्धयस्तथा ।
चक्रं सुदर्शनं मन्त्रा आयुधानि हरेस्तथा ।।४१।।
भक्ताश्च पितरो मुक्ता राधारमादिशक्तयः ।
भूतानि स्वस्ति कुर्वन्तु तेजस्विनोऽनलादयः ।।४२।।
स्वस्ति द्विपादिकेभ्यश्च चतुष्पादेभ्य इत्यपि ।
स्वस्ति नो बहुपादेभ्यस्त्वपादेभ्यस्त्वनामयम् ।।४३।।
विमानस्य स्वस्ति चाऽस्तु स्वस्ति रणंगमस्य च ।
वैमानिकानां कल्याणं स्वस्ति चाऽस्त्वपि मंगलम् ।।४४।।
ज्वालामुखेभ्यः स्वस्त्यस्तु मायाज्वालेभ्य इत्यपि ।
आसुरेभ्यस्तथा स्वस्ति चान्तरात्मा करोतु नः ।।४५।।
इत्येवं लक्ष्मणस्तत्र कृष्णनारायणं हरिम् ।
सस्मार स्वस्तिमांगल्यप्रदं श्रीपुरुषोत्तमम् ।।४६।।
प्रत्यक्षोऽभूद्बालकृष्णो विहस्याऽनलपर्वते ।
शान्तिः शैत्यं विमानस्याऽनामयं वोऽस्त्विति ब्रुवन् ।।४७।।
असुरस्य तु भस्मार्थं कृष्णनारायणः प्रभुः ।
आज्ञापयन्महातेजःपुरुषं पार्षदं निजम् ।।४८।।
महातेजःपुरुषोऽसौ ज्वालामुखं हि दानवम् ।
प्राऽज्वालयत् प्रसह्यैव पतंगं त्वनलो यथा ।।४९।।
विमानं भक्तसहितं ररक्ष भगवान् स्वयम् ।
भस्मीचकार च दैत्यं ज्वालामयं महानले ।।2.46.५०।।
दशयोजनविस्तीर्णो भस्मदेशोऽभवत्तदा ।
दैत्यस्य तत्र वै द्वीपे मात्रागस्करनामिनः ।।५१।।
एवं विनाश्य दैत्यं च विमानेन सुराष्ट्रकम् ।
आययुः श्रीहरिलक्ष्मणार्यरणंगमादयः ।।५२।।
कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरम् ।
विलोक्य लोमशं चापि नगरं स्वर्गसदृशम् ।।५३।।
अवतेरुः पृथिव्यां ते नारायणयुताः सुखात् ।
लोमशं प्रथमं नत्वा ययुर्गोपालमन्दिरम् ।।५४।।
सत्कृतास्तत्र च पित्रा बालकृष्णेन वै मुदा ।
मात्रा कम्भरया चापि मुदमापुः सुपूजिताः ।।५५।।
दत्तासनाः कृतावासा कृतभोजनविश्रमाः ।
कृताभाषाप्तवृत्तान्तास्ततो वै लक्ष्मणादयः ।।५६।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
पूजयितुं चोपदाभिराययुः कम्भरागृहम् ।।५७।।
सिंहासने हरिर्बालो व्यराजत तदिच्छया ।
प्रथमं चामृतवार्भिश्चरणौ सुखदायिनौ ।।५८।।
पुपूजुः श्रीहरिं सर्वाः कन्यका दिव्यविग्रहाः ।
लक्ष्मणस्याज्ञया ताश्च जगृहुश्चरणामृतम् ।।५९।।
पुष्पहारान् रत्नहारान् मौक्तिकीर्मालिकास्तथा ।
मुकुटं कुण्डले कल्गिं चन्दनाऽक्षतहीरकान् ।।2.46.६ ०।।
कटकान् रशना भूषाश्चाम्बराणि समार्पयन् ।
फलानि चामृतपानान्यपि पात्राणि कैसरान् ।।६ १ ।।
पदार्थान् विविधाँश्चाऽस्मै बालकृष्णाय ता ददुः ।
आरार्त्रिकं तथा चक्रुश्चक्रुः प्रदक्षिणं नमः ।।६ २ ।।
चरणौ वक्षसि कृत्वाऽऽवापुः परां सुनिर्वृत्तिम् ।
एवं कन्याः प्रसंपूज्य श्रीकान्तं हृत्सु सन्दधुः ।।६ ३ ।।
कृष्णनारायणः कान्तस्तासां हृत्सु विवेश ह ।
स्वस्मिन् जहार सर्वासां हृदयानि च माधवः ।।६४।।
ज्ञात्वा श्रीलक्ष्मणो भावं कृष्णे कान्ते तु कान्यकम् ।
अनादिश्रीकृष्णनारायणाय प्रददौ च ताः ।।६५ ।।
यौतकं बहुरत्नादि ददौ कृतार्थतामगात् ।
ततः कुमाराः सर्वे च कृष्णपूजां समाचरन् ।।६६।।
लक्ष्मणार्यस्ततः पूजां चकार पारमेश्वरीम् ।
रणंगमो मालिनी च चक्रतुर्हरिपूजनम् ।।६७।।
ततः श्रीकम्भरालक्ष्म्याः पूजनं ते प्रचक्रिरे ।
श्रीमद्गोपालकृष्णस्याऽर्चनं दिव्यं प्रचक्रिरे ।।६८।।
ययुः श्रीलोमशं विप्रं तत्पूजां च प्रचक्रिरे ।
बालकृष्णो ददौ कन्या रक्षितुं लोमशाय ह ।।६ ९।।
लोमशः स्वाश्रमेऽरक्षद् वैष्णवीः कृष्णयोषितः ।
एवं कृतार्थतां सर्वे प्रपेदिरे हरेः पुरः ।।2.46.७० ।।
पानभोजनसत्कारैरानन्दं लेभिरेऽतिगम् ।
अथ तीर्थविधिं चक्रुर्माघपूर्णाप्रगे च ते ।।७ १ ।।
ददौ दानानि दिव्यानि स्वर्णरत्नाम्बराणि च ।
परिहारं ततः कृत्वा लक्ष्मणो निजराष्ट्रकम् ।।७२।।
गन्तुमियेष च तदा रणंगमोऽवदत्तु तम् ।
लोमशोऽयं महायोगी कुमारेभ्यो ददात्यपि ।।७३ ।।
मन्त्रं मोक्षकरं राजन् प्रदापय तदग्रतः ।
लक्ष्मणार्यस्ततो मन्त्रं दापयामास पुत्रकान् ।।७४।।
लोमशः श्रीहरिं स्मृत्वा पञ्चशतकुमारकान् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।७५।।
मन्त्रपूतान् प्रसम्पाद्य चक्रे तुलसीस्रग्युतान् ।
दिव्यं ज्ञानं ददौ तेभ्यो वासनाक्षयकारकम् ।।७६ ।।
पुत्राः शृणुत लोकोऽयं कर्मबन्धनजो मतः ।
सतां सेवा शुभं कर्म श्रीहरेर्भजनं शुभम् ।।७७।।
आत्मश्रेयः शुभं श्रेष्ठं तृष्णानाशः परं सुखम् ।
देहेन्द्रियादिप्राबल्यं वासनोद्भावकं मतम् ।।७८।।
ज्ञाने बलिष्ठे गौणं तज्जायते निग्रहात्मकम् ।
निग्रहो वासनादाहकरो भवति योगिनाम् ।।७९।।
देहेन्द्रियबलं तस्याऽकिञ्चित्करं प्रजायते ।
देहो नारी तदन्तःस्थो जीवो नरो भवत्यपि ।।2.46.८० ।।
भुंक्ते देहं नरो जीवो भोगोऽस्य सुखदुःखदृक् ।
तस्माज्जीवेन वै भाव्यं ब्रह्मरूपेण सर्वथा ।।८ १ ।।
परब्रह्माश्रयश्चाऽस्य ब्रह्मतापादको मतः ।
परब्रह्म स्वयं चास्ते कृष्णनारायणोऽत्र ह ।।८२।।
तद्योगो भवतां जातः कर्तव्यं नाऽवशिष्यते ।
कोटिजन्माऽर्जितपुण्यैरयं कृष्णो ह्यवाप्यते ।।।८३ ।।
सतां समागमेनात्र तत्प्राप्तिर्जायते द्रुतम् ।
साधुरूपो ह्ययं राजा रणंगमो भवत्सुहृत् ।।८४।।
आनीयात्र च वः श्रेयः परमं प्रत्यपादयत् ।
ततो भक्तिं चास्य नारायणस्य कुरुताऽनघाः ।।८५।।
सर्वार्पणात्मकं तत्र नैष्कर्म्यं कुरुताऽनघाः ।
प्रत्यक्षं तु विना नैव सिद्ध्यन्त्यत्र पुमर्थकाः ।।८६ ।।
परः पुमर्थो युष्माकं सिद्धः प्रप्यक्षयोगतः ।
येषां कृष्णे परा भक्तिर्यथा कृष्णे तथा गुरौ ।।८७।।
तेषां सर्वे पुमर्थाश्च सिद्ध्यन्त्येव न संशयः ।
ते ब्रह्मज्ञाः परं प्रेयुर्भुक्त्वा भोगान् सुपुष्कलान् ।।८८।।
सर्वार्पणं च विश्वासो माहात्म्यं भावना स्मृतिः ।
आत्मीयस्निग्धता चेति षट् परब्रह्मदायकाः ।।८९।।
शान्तिरास्तिक्यमतृष्णाऽनुद्वेगो निर्भया स्थितिः ।
अपारवश्यं च षट् ते महानन्दप्रदायकाः ।।2.46.९० ।।
वृद्धाभिवन्दनं सेवोत्साहः कर्तव्यधर्मता ।
न्यायाभिसरणं ममताराहित्यं च मार्दवम् ।।९ १ ।।
षडेते सर्वथा लोके जनानां पुण्यवर्धकाः ।
सहनं सर्वथा रुजां देहाभिमानवर्जनम् ।।९२।।
कीर्त्याद्यननुसन्धानं चाऽपरिग्रहवर्तनम् ।
अलालसा कुत्रचिच्च रागक्रियाविवर्जनम् ।।९३ ।।
षडेते सर्वथा लोके जीवन्मुक्तिविवर्धनाः ।
देवानां दर्शनं नित्यं तथा विवेकदर्शनम् ।।९४।।
लक्ष्यबिन्दोर्दर्शन च फल्गुप्रदर्शनं तथा ।
अविघ्नदर्शनं चापि दर्शनस्य च दर्शनम् ।।९५।।
एते षट् मुक्तिदाः सन्ति विजयस्य प्रदास्तथा ।
अकामाश्च तथाऽस्वार्थाः आत्मस्वार्थाः परार्थकाः ।।९६।।
अविनष्टसदाचारा विज्ञाः षट् ते ह्यनन्धकाः ।
गुणमात्रग्रहा ये च गुणमात्रप्रदाश्च ये ।। ९७।।
गुणदृष्टिप्रयोक्तारो गुणेष्वन्यान् प्रयुञ्जते ।
तत्त्वज्ञानप्रमोदाश्च उदासते गुणेतरात् ।। ९८ ।।
त एते षट् निर्मलाश्च विदेहाः सन्ति वर्ष्मसु ।
गर्भं बाल्यं यौवनं च वार्धक्यं मरणं तथा ।। ९ ९।।
प्रेतत्वं च समं येषां ते मुक्ता गुणवर्जिताः ।
देहो गृहं धनं क्षेत्रं भूषाम्बरं च भोजनम् ।। 2.46.१०० । ।
षडेतेऽतिथिवद् यस्य तस्य पादोऽक्षरेऽस्ति वै ।
पुत्रं नारी पिता माता सुता दासी गवादयः ।। १०१ ।।
सतामर्थे प्रभोरर्थे कृता यैर्मानवैरिह ।
तेषां पादद्वयं चास्ति प्रभोश्चाक्षरधामनि ।। १०१ ।।
आत्मार्थे यत्प्रियं चास्ति तद्वै ददेत् सतां कृते ।
जीवं ददेत् पतिं ददेत् प्रियां ददेत् स मोक्षभाक् । । १०३ ।।
धनं ददेदात्मनोऽर्थे आत्मनोऽर्थे ददेत् प्रियाम् ।
आत्मनोऽर्थे ददेद् राज्यं मोक्षार्थे सर्वमर्पयेत् ।। १ ०४।।
लोमशेनेत्युपदिष्टाः कुमारा लब्धचक्षुषः ।
दिव्यज्ञानयुतास्तं च लोमशं प्रणिपत्य च । । १ ०५।।
स्वसॄः सर्वाः प्रणम्यैवाऽऽभाष्य स्नेहमयं वचः ।
विमानं च समारुह्य पित्रा श्रीलक्ष्मणेन च ।। १०६ ।।
राणंगमस्य नगरं कोटीनारं ययुर्मुदा ।
सोमेश्वरं तथा तीर्थं कृतवन्तोऽतिभावतः ।। १ ०७।।
रणंगमाऽर्पितपूजां गृहीत्वा व्योममार्गतः ।
विमानेन समं सर्वे ययुरन्तार्किवर्तुलम् ।। १०८ ।।
भूगर्भं ताँश्च प्रापय्य तद्राज्यं च रणंगमः ।
विमानेनाऽऽययौ नैजं कोटीनारपुरं पुनः ।। १० ९।।
इत्येवं कथितं राधे! भगवद्भक्तवर्तनम् ।
भुक्तिमुक्तिप्रदं श्रेष्ठं श्रोतुर्वक्तुः शुभावहम् ।। 2.46.११० । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रणंगममात्रागस्करयोर्युद्धं, रणंगमस्य विजयः, कुंकुमवापिकाऽऽगमनं, प्रभोः पूजनं, लक्ष्मणेन द्विसाहस्रकन्यार्पणं चेत्यादिनिरूपगनामा षट्चत्वारिंशोऽध्यायः ।। ४६ । ।