लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०६५

← अध्यायः ०६४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ६५
[[लेखकः :|]]
अध्यायः ०६६ →

श्रीकृष्ण उवाच-
अथापि त्वं शृणु राधे! सर्वपावनपावनम् ।
आर्षं विधानं कृष्णस्य लोकं चानुसृतस्य ह ।। १ ।।
स्वयं वेदप्रणेता यो ब्रह्माणं शास्ति वै पुरा ।
सोऽयं लोकं समाश्रित्य पालयित्वा विधिं निजम् ।। २ ।।
गृह्णाति ब्रह्मसंस्कारं प्राकृतो ब्रह्मपा यथा ।
द्विजत्वं येन सृष्ट्यादौ निर्मितं श्रेयसे सदा ।। ३ ।।
स तु सूत्रं समगृह्य द्विजो भवति चाऽद्विजः ।
यस्य संस्पर्शनान्नार्यो नरा वृक्षाश्च वल्लयः ।। ४ ।।
पशुप्रेतपिशाचाद्याः शुद्ध्यन्ति चात्मदर्शिनः ।
यस्य योगेन कामाद्या भजन्ते दिव्यतां सदा ।। ५ ।।
यद्योगं प्राप्य यक्षा वा राक्षसा म्लेच्छयोनयः ।
दिव्या भवन्ति च क्षणात् सोऽयं ब्रह्मग्रहोऽभवत् ।। ६ ।।
राधिके लोमशः प्राह पितरं मातरं हरेः ।
यज्ञोपवीतयोग्योऽयं वर्तते यज्ञपावनः ।। ७ ।।
देयं चास्मै ब्रह्मसूत्रं सूत्रयित्रे परात्मने ।
श्रुत्वैवं शोभनं वाक्यं लोमशस्य मुखात्ततः ।। ८ ।।
प्रसन्नौ पितरौ योग्यं प्रणेमतुर्मुनिं तदा ।
भक्त्या गोपालकृष्णश्च दिव्यं गजासनं ददौ ।। ९ ।।
मधुपर्कं ददौ हारान् मिष्टान्नं सलिलं ददौ ।
ताम्बूलं प्रददौ चापि फलं वस्त्रं शुभं ददौ ।। 2.65.१ ०।।
उवाच लोमशं शुभोत्सवक्षणं कुरु प्रभो ।
वैशाखोऽयं समायाति भवते रोचते यदि ।। ११ ।।
कर्तव्यश्चोत्सवस्तत्र मम भात्येव सर्वथा ।
यज्ञोपवीतयोग्यं च दिनं शस्यं प्रदर्शय ।। १२।।
लोमशस्तु ततः प्राह श्रीमद्गोपालकृष्णकम् ।
अक्षया चोत्तमा चास्ते तृतीयाऽक्षयदायिनी ।। १३।।
चन्द्रर्क्षबलशुद्ध्यादि सर्वं शुभं प्रवर्तते ।
आमन्त्रणं च त्रैलोक्ये सर्वेभ्यो देहि तत्तथा ।। १४।।
संभारान् दिव्यभोगांश्च सञ्चिनुह्यतिदुर्लभान् ।
भिन्नलोकनिवासानां योग्यान् सेव्योत्तमोत्तमान् ।। १५।।
लोमशस्य वचः श्रुत्वा श्रीमद्गोपालकृष्णकः ।
प्रेषयामास सर्वत्र दिव्या मंगलपत्रिकाः ।। १६।।
अश्वपट्टसरोवासैः पार्षदैः सेवकैस्तथा ।
विमानस्थैर्दिव्ययानैः प्रेषयामास सर्वशः ।। १७।।
जन्माऽष्टमेऽब्दे वैशाखे शुक्लेऽक्षयतिथौ मम ।
पुत्रस्य श्रीहरेर्यज्ञोपवीतं वै भविष्यति ।। १८।।
अवतारैस्तथा मुक्तैर्मुक्ताभिर्धामभिः सह ।
ब्रह्मभिः पार्षदैः पार्षदानीभिः सह सर्वथा ।। १९।।
सतीभिः सेविकाभिश्चाऽवतारिणीभिरित्यपि ।
ईशाभिरीश्वरैश्चापि ऋषिभिश्च कुटुम्बिभिः ।।2.65.२०।।
साधुभिर्यतिभिश्चापि भक्तैर्भागवतैः सह ।
भागवताभिर्भक्ताभिः समागन्तव्यमादरात् ।।२१ ।।
पितृभिः पत्निकायुक्तैर्देवैर्देवीसमन्वितैः ।
दिक्पालैर्लोकपालैश्च ग्रहनक्षत्रमण्डलैः ।।२२।।
ताराभिश्च तथा तत्त्वैर्भुवर्वासिभिरित्यपि ।
मानवैर्द्रुमवल्ल्याद्यैः कल्पपादपवंशजैः ।।२३।।
तृणैः स्तम्बैः समुद्भिज्जैरण्डजैर्गायकैर्जनैः ।
विद्याध्रैः किन्नरैश्चापि किम्पुंभिर्नृत्यवेदिभिः ।।२४।।
नर्तकीभिश्चारणैश्च धर्माऽधर्मादिवंशजैः ।
सुराऽसुरकुटुम्बैश्च दिगीश्वरैः समन्ततः ।।२५।।
आगन्तव्यं यज्ञसूत्रोत्सवे मद्बालकस्य वै ।
तीर्थैर्नदनदीभिश्चाऽरण्यैर्वनैः सरोवरैः ।।२६।।
समुद्राऽखातकूपाद्यैर्नगैः खगैः समन्ततः ।
वसुन्धरास्थितैः सर्वैरागन्तव्यं च पक्षिभिः ।।२७।।
गुणैर्गुणाश्रयैश्चापि मूर्ताऽमूर्तैः समादरात् ।
कालैः ऋतुभिराद्याभिः शक्तिभिः सहवत्सरैः ।।२८।।
कामधेनुभिरेवापि वसुभिः सिद्धिभिस्तथा ।
निधिभिर्विष्णुरुद्राद्यैर्ब्रह्माद्यैर्बहुमस्तकैः ।।२९।।
इन्द्रादिराजवर्यैश्च मानवैर्मुनिभिस्तथा ।
विप्रैः क्षत्रियवर्यैश्च वैश्यैश्च सेवकैस्तथा ।।2.65.३ ०।।
सात्त्विकैः राजसैश्चापि तामसैर्मायिकैस्तथा ।
मायाभिः प्रकृतिभिश्चाऽऽगन्तव्यं चोपवीतके ।।३ १ ।।
अतलादिस्थितैर्दैत्यैर्दानवैश्चासुरैरपि ।
नागैः सर्पैः सहबन्धुमित्रकुटुम्बिदेहिभिः ।।३ २।।
आगन्तव्यं वाहनैश्च साधनैश्च रसैस्तथा ।
दिव्याऽऽदिव्याभिरेवाऽत्र विद्याभिश्च कलादिभिः ।।३३ ।।
भवतां तेजसा सारैराशीर्भिर्मम बालकः ।
वर्धितो यज्ञवत् पुण्यराशिः सम्पत्स्यते ध्रुवम् ।।३४।।।
इत्येवं प्रेषयित्वा च पत्रिकाः सेवकैस्ततः ।
शुद्धसत्त्वविभूतेश्च यानि भोज्यानि धामसु ।।३५।।
परे ब्रह्मण्यक्षरे च गोलोके च विकुण्ठके ।
अमृते चेश्वरलोके सत्यलोकेऽमृतानि च ।।३६।।
ब्रह्मजलानि दिव्यानि लेह्यचोष्याणि यान्यपि ।
तेषां च सञ्चयाँस्तत्र कारयामास सत्वरम् ।।३७।।
भुवर्महर्जनलोकादिष्वपि यानि यानि च ।
खाद्यपेयोपकार्याणि तेषां च सञ्चयाँस्तथा ।।३८।।
स्वर्गे तपसि मेर्वादौ पृथ्व्यां पातालसप्तके ।
भोज्यखाद्यप्रपेयानि चोपकार्याणि यानि च ।। ३९।।
मृद्यसेव्योपभोग्यानि देहियोग्यानि यानि च ।
चलस्थावरयोग्यानि मूर्ताऽमूर्ताऽर्थकानि च ।।2.65.४०।।
तेषां सर्वप्रवस्तूनां सञ्चयानव्ययाँस्तथा ।
कारयामास बहुधा श्रीमद्गोपालकृष्णकः ।।४१ ।।
ब्रह्महदान् कल्पह्रदान् कल्पवृक्षरसादिकान् ।
अक्षयाणि च पात्राणि आपूरकदलाँस्तथा ।।४२।।
अव्ययान् कोशपद्माँश्च सिद्धिपात्रोत्तमानि च ।
सञ्चयामास परितः सिद्धयष्टीश्च गूटिकाः ।।४३।।
सहस्रप्रदपात्राणि चिन्तामणीन् बहूँस्तथा ।
चमत्कारकृताँश्चापि ब्रह्मपुष्पोत्तमानि च ।।४४।।
देवमायाप्रकाण्डानि देवीसूत्राणि यानि च ।
ऐन्द्रजालिकपाशाँश्च मणिकान् लक्षदाँस्तथा ।।४५।।
मन्त्रयन्त्राणि तन्त्राणि चमत्कारकणाँस्तथा ।
योगैश्वर्याऽमृतनालीः सञ्चयामास सर्वशः ।।४६।।
योगचुल्लीर्योगदर्वीर्योगकटाहवाटिकाः ।
योगस्थालीर्योगदीपान् सञ्चयामास सर्वशः ।।४७।।
योगासनानि सर्वाणि सार्वभौमाऽमृतानि च ।
कल्पर्तून् कल्पकण्ठीश्च कल्पवलयकोर्मिकाः ।।४८।।
सञ्चयामास बहुधा यावदातिथ्यहेतवे ।
भौतिकानि च भोज्यानि पेयानि भौतिकानि च ।।४९।।
सूक्ष्मभूतजभोज्यानि पेयानि सूक्ष्मजान्यपि ।
व्यक्तजन्यानि भोज्यानि पेयानि व्यक्तजानि च ।।2.65.५०।।
अव्यक्तजानि भोज्यानि पेयान्यव्यक्तजानि च ।
मायाजन्यानि सर्वाणि तथा ब्राह्माणि यानि च ।।५१।।
आक्षराण्यपि दिव्यानि आत्ममयानि यानि च ।
स्नेहजान्यपि सर्वाणि पुण्यतत्त्वोद्भवानि च ।।५२।।
सर्वाण्यपि च भोग्यानि सञ्चयामास सर्वतः ।
रसकुल्या घृतकुल्या दधिकुल्या मनोहराः ।।५३।।
मधुकुल्या गुडकुल्याः शर्कराखण्डिकाह्रदान् ।
इक्षुकुल्या अमृतानां ह्रदान् मिष्टसरांसि च ।।५४।।
सञ्चयामास परितः श्रीमद्गोपालकृष्णकः ।
उपहारसहस्राणां पर्वतान् प्रचकार सः ।।५५।।
रत्नानां च मणीनां च मौक्तिकानां समुच्छ्रयान् ।
सुवर्णानां रूप्यकाणां हीरकाणां च पर्वतान् ।।५६।।
माणिक्यानां च मुक्तानां विभूषाणां च पर्वतान् ।
वस्त्रालंकारराशींश्च कारयामास वै तदा ।।५७।।
चूर्णानां गन्धसाराणां तैलानां च सुगन्धिनाम् ।
लेपानां कज्जलानां च रंगानां सञ्चयाँस्तथा ।।।५८।।
चन्दनानां कुंकुमाना केसराणां च संचयान् ।
कस्तूरीणां चौषधानां राशीन् चकार चाव्ययान् ।।५९।।
दर्पणानां कंकतीनां शुद्धिद्रव्यमृदां तथा ।
शयनानां च दोलानामासनानां च चक्रिणाम् ।।2.65.६०।।
यानानां वाहनानां चाऽसंख्यसञ्चयकान् व्यधात् ।
एवं सर्वोपभोग्यादौ सम्पन्ने पूर्णतांगते ।।६१ ।।
अनादिश्रीकृष्णनारायणः सस्मार वै क्रमात् ।
परधामस्थमुक्ताँश्च मुक्तानीरपि सर्वशः ।।६२।।
अक्षरस्थान् मुक्तवर्गान् मुक्तानीरपि चाक्षरम् ।
अवतारानवतारिणीश्च पार्षदपुंगवान् ।।६३।।
पार्षदानीश्च वै भक्तान् भक्तानीरपि सर्वशः ।
चतुर्विंशतिविष्णूँश्च चतुर्व्यूहाँस्तथा क्रमात् ।।६४।।
परमेशानीश्वराँश्च ईश्वराणीश्च सर्वशः ।
वैराजान् ब्रह्मशंभूँश्च रुद्रान् विष्णून् ऋषींस्तथा ।।६५।।
साधून् साध्वीः सतीः पत्नीः प्रिया देवी रमादिकाः ।
राधां लक्ष्मीं पार्वतीं च प्रभां हंसां च माणिकीम् ।।६६।।
द्वादशोत्तरशतमुख्याश्च पत्नीर्निजाः पराः ।
कोटिदासीस्तथा दासान् गोलोकस्थान् गवादिकान् ।।६७।।
चतुर्वैकुण्ठसंस्थाँश्च बदर्याश्रमवासिनः ।
सत्यस्थान् स्वर्गवासाँश्च परस्वर्गगताँस्तथा ।।६८।।
पितृन् सिद्धान् चारणाँश्च मुनीन्द्रान् सुरमानवान् ।
सस्मार च दिशां पालान् नृपतीन् सुरपालकान् ।।६९।।
भुवःस्थान् पृथिवीस्थाँश्च सप्तपातालवासिनः ।
जलस्थलस्थितान् सर्वान् स्थावरान् जंगमाँस्तथा ।।2.65.७०।।
ब्रह्मसरसस्तथा चाप्सरसः कन्यकोत्तमाः ।
भाटचारणगन्धर्वान् किंपुंकिन्नरमागधान् ।।७१।।
चारणान् वादकाँश्चापि गायकान् नर्तकांस्तथा ।
नटान् नाटककर्तॄंश्च नाट्यसंघप्रदर्शकान् ।।७२।।
मल्लान् कलाकराँश्चापि महेन्द्रजालिकाँस्तथा ।
स्वादकराँस्तथा सूदान् पाकिनः परिवेषकान् ।।७३।।
यज्ञीयान् यज्ञवेतॄँश्च कर्मकाण्डपराँस्तथा ।
ब्राह्मणाँश्च महर्षींश्च क्षेत्रद्वारादिपालकान् ।।७४।।
सस्मार दिव्यतत्त्वानि दिव्याऽमूर्तिकमानवान् ।
जलस्थलनिवासाँश्च दैत्यदानवराक्षसान् ।।७५।।
दीनान् रंकान् सतः सांख्ययोगिनीश्च पतिव्रताः ।
कन्या देवीश्च कुलजाः कुलपूज्याश्च योगिनीः ।।७६।।
कैलासबदरीवासान् क्षीरश्वेतनिवासिनः ।
पृथ्वीस्थखण्डवासाँश्च सस्मार श्रीहरिस्तदा ।।७७।।
भक्तान् गोपान् गोपिकाश्च कोट्यर्बुदाब्जशेवधीन् ।
सस्मार वालखिल्याँश्च यतीन् ज्ञानाश्रयान् निजान् ।।७८।।
अनादिश्रीकृष्णनारायणः स्वामिनरायणः ।
सस्मार दिव्यमनसा भक्तांश्च भक्तवत्सलः ।।७९।।
अक्षयायां तृतीयायां प्रातः सर्वे समाययुः ।
ब्रह्मवद्गतिका यानैर्वैहायसैश्च मानसैः ।।2.65.८०।।
आत्मयानैर्योगयानैः समाधिवाहनैस्तथा ।
वायुवाहैश्चाम्बरात्मवाहनैश्च समाययुः ।।८ १ ।।
गरुडैश्च तथा हंसैः शुकैर्मयूरमूषकैः ।
विनायका गणेशाश्च विघ्नेशास्तत्र चाययुः ।।।८२।।।
गजैरश्वैरनलैश्च कुंजकैः सारसादिभिः ।
मेघैर्ग्रहैस्तथा विद्युल्लताभिः किरणैस्तथा ।।८३।।
सूर्यचन्द्रादयस्तूर्णं तेजोवाहाः समागताः ।
मनोवाहाः कल्पवाहा वेगवाहाः समाययुः ।।८४।।
मुक्ताश्चाप्यवताराश्च व्यूहाश्चापीश्वरास्तथा ।
ब्रह्मधामगताः सर्वे ईशधामगतास्तथा ।।८५।।
कृष्णनारायणो लक्ष्मीराधारमादिकास्तथा ।
कोटिकोट्यर्बुजाब्जादिशेवधिश्रीसखीयुताः ।।८६।।
कोटिकोट्यर्बुजाब्जादिसेवकैः सहितास्तथा ।
राममाधवगोविन्दा गोपाला गोपिकास्तथा ।।८७।।
विष्णवो वैष्णवीशक्तिप्रमुखा भूमदेवताः ।
वैराजा ब्रह्मरुद्राद्याः शतकोटिप्रमस्तकाः ।।८८।।
सत्यस्थाः साधवो देवा यतय ब्रह्मचारिणः ।
वेदा विद्यास्तथा मन्त्रा यज्ञा हवींषि यानि च ।।८९।।
समाययुर्दिव्यरूपा वह्नयो मरुतस्तथा ।
तेजांसि चापि सर्वाणि पितरः ऋषयोऽमराः ।।2.65.९०।।
प्रमुनीन्द्राः सत्पुरुषाः सत्यः साध्व्यः पतिव्रताः ।
ब्रह्मप्रियाः कृष्णप्रिया देवप्रियाः समन्ततः ।।९१।।
चतुर्दशभुवनानां राज्ञ्यो राजान इत्यपि ।
ब्रह्मकन्याः ऋषिकन्या जलकन्याः समुद्रजाः ।।९२।।
देवकन्या नागकन्या राजकन्याश्च कोटिशः ।
कुमारिकाश्च गान्धर्व्यो विद्याधर्यश्च सर्वशः ।।९३।।
वादिका वादकाश्चापि यशोगायाः समाययुः ।
भाण्डकाश्चारणाद्याश्च भाटा नटाश्च नर्तकाः ।।९४।।
चैष्टिका ऐतिहिकाः कथका हासका अपि ।
ब्राह्मणा भिक्षुकाः सन्यासार्था मुण्डधरास्तथा ।।९५।।
अवधूता ब्रह्मचारा योगचाराः समाययुः ।
स्वस्त्रीबान्धवबालाद्यैर्युता द्वितीयविश्रमाः ।।९६।।
पत्नीव्रतस्य वंशाश्च पतिव्रताकुटुम्बिनः ।
बन्धुबान्धवयोगाश्च तद्योगास्तत्सुयोगिनः ।।९७।।
नैकक्षित्युद्भवाः सर्वे वर्ष्मध्रा हि समाययुः ।
विष्णुगणा रुद्रगणा ब्रह्मगणा असंख्यकाः ।।९८।।
दीपावल्यो नालमेध्यः षष्ठीदेव्यस्तलाजिका ।
गोकुमार्यस्तथाऽर्जन्त्या युवत्यः शतकन्यकाः ।।९९।।
कोटिशः कन्दरा कन्यास्तथा क्रोधनिका सती ।
लक्षं च राक्षसीकन्याः कंकताल्यश्च पञ्चषः ।। 2.65.१० ०।।
कंकतालिककन्याश्च सहस्रशो ह्युपस्थिताः ।
ब्रह्मकन्या जलकन्याऽर्यमकन्याः सहस्रशः ।। १० १।।
कुबेरकन्यकाश्चेन्द्रकन्या यमसुतास्तथा ।
वायुकन्याः ऋतुकन्या विश्वकर्मसुतास्तथा ।। १ ०२।।
द्रुमकन्या दानवादिकन्यापञ्चसहस्रकम् ।
वसन्तस्य तथा पत्न्यः षोडशापि ह्युपस्थिताः ।। १ ०३।।
वह्निकन्यास्तथा सालमालकन्यासहस्रकम् ।
श्रवणकन्यकाः शावदीनकन्यासहस्रकम् ।। १ ०४।।
ऐन्द्रजालिकरौद्र्यश्च सहस्रकन्यकास्तथा ।
विद्याकन्याः किशोर्यश्च षष्टिकन्या ह्युपस्थिताः ।। १ ०५।।
सम्वत्सरस्य कन्याश्च वार्क्ष्यः कन्या असंख्यकाः ।
खनिजाः कन्यकाश्चापि सोपकुंभा ह्युपस्थिताः ।। १० ६।।
उपस्थिता लक्ष्मणस्य सहस्रद्वयपुत्रिकाः ।
उपस्थिता विश्वावसोस्तदा त्रिशतपुत्रिकाः ।। १०७ ।।
द्वासप्ततिसहस्राणि वेधःकन्या उपस्थिताः ।
जुमासेम्लानृपस्यापि तस्थुः सहस्रकन्यकाः ।। १ ०८।।
कार्ष्ण्यः कुमारिकाः शतोत्तरद्वादशसंख्यकाः ।
मागल्यार्थं हरेस्तस्य कान्तस्याऽर्थमुपस्थिताः ।। १ ०९।।
चक्रुस्ताः श्रीकृष्णनारायणस्य कीर्तनानि वै ।
आगतेभ्यश्च संघेभ्यश्चावासान् प्रददौ पिता ।। 2.65.११ ०।।
सत्कारान् मधुपर्कादि यथार्हं बहुधा ददौ ।
अथापि राधिके! तत्र समायान्ति महर्षयः ।। ११ १।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोरष्टमे वर्षे वैशाखे यज्ञोपवीतमहोत्सवे आमन्त्रणपत्रिकाद्वारा सर्वेषामागमनादिनिदर्शननामा पञ्चषष्टि-
तमोऽध्यायः ।। ६५ ।।