लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०८५

← अध्यायः ०८४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ८५
[[लेखकः :|]]
अध्यायः ०८६ →

श्रीकृष्ण उवाच-
ऐलविला पुलस्त्यस्य पत्नी तपश्चचार ह ।
दुस्तरं पुत्रपुत्रार्थं चतुर्युगवृषान्वितम् ।। १ ।।
अनादिश्रीस्वामिनारायणकृष्णनरायणः ।
सह्याद्रिशिखरे तस्या आश्रमे विप्ररूपधृक् ।। २ ।।
जटावल्कलभस्माढ्यो मालाजपपरायणः ।
तस्थावागत्य निकटे द्रुमाऽधश्छायिते स्थले ।। ३ ।।
कन्दमूलफलाहारो नित्यं त्रिषवणस्तथा ।
बालरूपः ऋषिपुत्रो यथा कश्चिन् मनोहरः ।। ४ ।।
आगत्य तिष्ठति तत्र क्वचित् प्रयाति लीनताम् ।
क्वचिद् वृक्षे शुको भूत्वा भूत्वा कोकिलकस्तथा ।। ५ ।।
मयूरश्चापि हंसश्च हरिणः क्वचिदेव वा ।
क्वचिद्रूपमगस्त्यस्य धृत्वा पश्यति तत्तपः ।। ६ ।।
क्वचिद् भूत्वा विश्रवाश्च क्वचित् पुलस्प्ययोषिताम् ।
पुलस्त्यस्य सुतानां च धृत्वा रूपाणि वै क्वचित् ।। ७ ।।
तपो निरीक्षते स्वामिकृष्णनारायणो मुहुः ।
राधिकोवाच हे कृष्ण किं पुण्यं योषितां तथा ।। ८ ।।
कथं वै भगवाँस्तस्याः सन्निधौ विविधानि च ।
रूपाणि धृतवान् स्वामिकृष्णनारायणः प्रभुः ।। ९ ।।
श्रीकृष्णः प्राह वै राधे! ब्रह्मा पुत्रं पुलस्त्यकम् ।
'ओं नमः श्रीस्वामिकृष्णनारायणाय ते स्वाहा' ।। 2.85.१ ०।।
इत्यार्पयन्महामन्त्रं ततः सोऽपि निजां प्रियाम् ।
ऐलविलां चार्पयत्तं मन्त्रं जजाप साऽनिशम् ।। १ १।।
तज्जापाऽऽकृष्टहृदयः स्वामिकृष्णनरायणः ।
भक्तिवश्यः समीपेऽस्यास्तथारूपोऽभवद्धरिः ।। १२।।
राधिके स मया दृष्टस्तदा कृष्णमृगात्मकः ।
अटमानो हरिकृष्णो वल्लभः श्रीपतिः पतिः ।। १ ३।।
ऐलविलातपः पश्यन् शृण्वन् जापं विराजते ।
सापि पुलस्त्यपत्नी वै जटावल्कलधारिणी ।। १४।।
परमेश्वरलब्ध्यर्थं यतते तापसी सती ।
आकाशवासिनी पृथ्व्यां कृत्वा तु वेदिकां मृदः ।। १५।।
वह्निं तत्र निधायैव प्रातः पूजां करोति सा ।
ततो रुद्रं सतीं कृष्णं लक्ष्मीं चाजं सवितृजाम् ।। १६।।
सूर्यं प्रभां गणेशं च साध्वीं सद्वस्तुभिः सुरान् ।
नित्यं प्रपूज्य च मालाजपं करोति वै शतम् ।। १७।।
ततः फलादि चाहृत्य मध्याह्ने हरये स्वयम् ।
नैवेद्यं सजलं चार्प्य तपः करोति तिष्ठति ।। १८।।
एकपादेन वै सूर्यं दृष्ट्वा स्थिरा प्रतिष्ठति ।
आसायं च ततश्चारार्त्रिकं स्नात्वा करोति च ।। १९।।
रात्रौ करोति भजनं कृष्णनारायणेति च ।
अर्धरात्रोत्तरं निद्रां घटिकामात्रमृच्छति ।।2.85.२०।।
समुत्थाय हरिं ध्यात्वा ब्राह्मे स्नात्वाऽर्चनं हरे ।
नित्यवत् प्रकरोत्येव कन्दमूलफलाशना ।।२१ ।।
वर्षमात्रं तथा कृत्वा ततो वार्यशनाऽभवत् ।
सूर्योदयं समारभ्याऽऽसायं तिष्ठति नित्यदा ।।२२।।
अङ्गुष्ठैकस्थिरा चैवं वर्षमात्रं तपोऽकरोत् ।
ततो दिवानिशं स्थैर्यं समालम्ब्य स्थिताऽभवत् ।।२३।।
वाय्वाहारा हृदयेन पूजिका श्रीहरेस्तदा ।
शरीरं वर्षमात्रेण जडवत् काष्ठतां गतम् ।। २४।।
पक्षिणो यत्र तिष्ठन्ति कीटाः कुर्वन्ति मृद्गृहम् ।
एवं वल्मीकछन्ना सा वर्षे चतुष्टयेऽभवत् ।।२५।।
वर्षे तु पञ्चमे तस्या मस्तके स्तम्बरोहणम् ।
तृणोद्गमश्च सञ्जातो दृश्यते सा न मानवी ।।२६।।
ततो ब्रह्मा हरो विष्णुः सूर्यो गणपतिः स्त्रियः ।
आययुर्देवदेव्याद्याः सतीतपःप्रकर्षिताः ।।२७।।
देव्यः स्तम्बतृणादीनि दूरीचक्रुर्मृदां चयात् ।
गणेशश्चापि सूर्यश्च मृदो दूरीप्रचक्रतुः ।।२८।।।
ब्रह्मा जलं ददौ तत्राऽञ्जलिना प्रोक्षणं शुभम् ।
रुद्रः प्राणप्रचारं चाऽकारयत् प्रोक्षणेन तु ।।२९।।
विष्णुस्तस्याश्चेतनं चाऽऽवाह्यत् सर्ववर्ष्मणि ।
ततः सा तूत्थिता बोधं प्राप्ताऽनमत् सुरान् पुरः ।।2.85.३ ०।।
'ओं नमः श्रीस्वामिकृष्णनारायणाय ते स्वाहा' ।
उवाच साध्वी चाऽव्यग्रा रक्षन्तं स्वां निजं प्रभुम् ।।३ १ ।।
सस्मार देवदेवेशं श्रीमत्कृष्णनरायणम् ।
देवा ऊचुर्वद साध्वि किं ते मनसि वर्तते ।।३२।।
दद्मस्तेऽभीष्टमत्रैव वरं वृण्वद्य मा चिरम् ।
इत्युक्ता सा प्रजगाद वरं कृष्णनरायणात् ।।३३।।
वृणोम्येव न चान्यस्माद् देवाः स्वस्त्यस्तु वः सदा ।
भवन्तः पूजिता नित्यं मया धर्मो यतो हि सः ।।३४।।
लोकसंग्रहरक्षार्थं स्वति वोऽस्तु यदागताः ।
देव्यः स्वस्ति च युष्माकं सदाऽस्तु कुशलं तथा ।।३५।।
इत्युक्त्वा स्वागतं चक्रे हृदयेन सुतुष्यता ।
जजाप श्रीस्वामिकृष्णनारायणं श्रियः पतिम् ।।३६।।
तावच्छ्रीभगवाँस्तत्र य आसीत् स्तम्बसंस्थितः ।
वृक्षरूपः स वल्मीके प्राविरास हरिः स्वयम् ।।३७।।
द्विभुजश्चम्पकवर्णः स्वर्णभूषाविराजितः ।
कोटिकोट्यर्कतेजोभिर्व्याप्तो दिव्याकृतिः पतिः ।।३८।।
दिव्यसौवर्णभूषाढ्यो दिव्याम्बरविराजितः ।
दिव्यरत्नालिमालाभिः शोभमानः श्रीवल्लभः ।।३९।।
दिव्यकटकशोभाढ्यो दिव्यमुकुटकुण्डलः ।
दिव्यकौस्तुभरशनोर्मिकायष्टिविराजितः ।।2.85.४०।।
राधारमाप्रभापार्वतीहंसामञ्जुलाऽर्चितः ।
सगुणामाणिकीशान्ताविजयाललितार्चितः ।।४१ ।।
हेमन्तभगवद्देवप्रकाशकेशवादिभिः ।
पार्षदैः सहितस्तत्र सुयुवा संस्थितोऽभवत् ।।४२।।
रूपानुरूपाऽवयवः करे नक्तकमादधन् ।
ताम्बूलचर्वणं कुर्वन् हसन् हरिः स्थितोऽभवत् ।।४३।।
कराभ्यां स स्पृशँस्तस्या मस्तके चाशिषं वदन् ।
वरार्थं च प्रयुञ्जँस्तां देवान् प्रति व्यलोकयत् ।।४४।।
देवैः साक्षाद्धरिर्दृष्टः स्तुतः स्तोत्रैस्तु सामगैः ।
पूजितः परया भक्त्या ततस्तस्थुः सुरेश्वराः ।।४५।।
पुपूज सा स्वामिकृष्णपरब्रह्मपरेश्वरम् ।
पत्रं पुष्पं जलं भावं ददौ श्रीपतये सती ।।४६ ।।
वरं समार्थयत् तस्माच्चतुर्युगगुणाश्रयाः ।
पौत्रा मे सन्तु भगवन् येन योगो भवेत्तव ।।४७।।
पौत्राणां च कुटुम्बस्य भक्त्या चानन्यलब्धया ।
युगदोषेण दोषैश्च द्वेषेणापि द्रुतं तव ।।४८।।
भवेद् भक्तिः स्मृतिर्नित्या स्नेहादप्यधिका यतः ।
तव योगं विना मोक्षो नैव भवति देहिनाम् ।।४९।।
आन्योपायैश्चिरंलभ्यो द्वेषैर्लभ्यो द्रुतं भवान् ।
तव हस्तेन मरणं मोक्षदं निश्चितं भवेत् ।।2.85.५०।।
इत्येवं मत्कुटुम्बार्थे समिच्छामि वरं प्रभो ।
देहि मे चेति श्रुत्वैव तथाऽस्त्वित्याह केशवः ।।५ १।।
अथ हर्याज्ञया देवाः सत्कृता प्रययुश्च ते ।
ऐलविला तपस्त्यक्त्वा प्रसादं बुभुजे हरेः ।।५२।
जलं फलं रसं मधु स्नात्वा शुद्धिं विधाय च ।
स्वामिकृष्णं समपृच्छत् पुलस्त्यस्य प्रिया सती ।।५३।।
ऐलविलोवाच-
भगवन् संशयान्मेऽत्र छेत्तुमर्हसि सर्ववित् ।
नार्यास्तु संशयान् कश्चिदन्यश्छेत्तुं न चार्हति ।।।५४।।
केचिद् ध्यानं वृषं चान्ये विवेकं योगसाधनाम् ।
ब्रह्मचर्यं तपः पातिव्रत्यं पत्नीव्रतं परे ।।५५।।
सत्यं त्यागमहिंसां सतीत्वं सन्यासमित्यपि ।
दानं दयां चाध्ययनं प्रशंसन्ति तथेतरे ।।५६।।
तीर्थयात्रां चेन्द्रियाणां निग्रहं सत्समागमम् ।
सर्वार्पणं प्रपत्तिं वा गुर्वर्पणं विरागिताम् ।।५७।।
ज्ञानं ब्रह्ममयं चैषां किं श्रेयो ब्रूहि मे प्रभो! ।
यदि वा विद्यते चान्यद् गुप्तं तद्वक्तुमर्हसि ।।५८।।
श्रुत्वा चैलविलावाक्यं स्वामिकृष्णनरायणः ।
प्राह दिव्यं परं तत्त्वं श्रेयःप्रदं परात्परम् ।।५९।।
हिताय सर्वजीवानां पूर्वैः पूर्वतरैः सृतम् ।
अवाच्यं सर्वगूढार्थं ज्ञानमज्ञैर्बहिष्कृतम् ।। 2.85.६ ०।।
श्रीकृष्णनारायणस्वाम्युवाच-
परं गुह्यतमं क्षेत्रं परधामप्रदं परम् ।
ममाऽक्षराह्वयं क्षेत्रं यत्र कुंकुमवापिका ।।६ १ ।।
सर्वेषां देहिनां वासात् संसारार्णवतारिणी ।
अश्वपट्टसरोरम्या लोमशाश्रमशोभिता ।।६२।।
तत्र भक्ता ऐलविले! मदीयं व्रतमास्थितः ।
निवसन्ति महात्मानः परां भक्तिं ममाश्रिताः ।।६३।।
उत्तमं सर्वतीर्थानां क्षेत्राणामुत्तमं च यत् ।
स्थानानामुत्तमं स्थानं क्षेत्रं मेऽक्षरसंज्ञितम् ।।६४।।
भूतले नैव संलग्नं चिदाकाशस्थितं हि तत् ।
अदिव्या नहि पश्यन्ति मुक्ताः पश्यन्ति तद् हृदा ।।६५।।
स्थानं प्रियतमं मे तद् गुप्तं शीघ्रं प्रमुक्तिदम् ।
मद्भक्ता यत्र वर्तन्ते मामेव च भजन्ति वै ।।६६।।
तत्र यान्ति नरा नार्यस्तेऽपि प्रयान्ति मत्पदम् ।
अन्यधामानि दृष्ट्वैव मामेव प्रविशन्ति ते ।।६७।।
दत्तं जप्तं कृतं चेष्टं तप्तं ध्यातं हुतं श्रुतम् ।
सेवितं भोजितं ज्ञातं सर्वं तत्राऽक्षयं भवेत् ।।६८।।
जन्मान्तरसहस्रेषु कृतं पापं तु सञ्चितम् ।
क्षेत्रेऽक्षरे प्रविष्टस्य सर्वं द्राग् याति संक्षयम् ।।६९।।
मानवास्तु नरा नार्यः संकराश्चातिपापिनः ।
पापयोनिगता दुष्टाः स्त्रियः संकीर्णयोगजाः ।।2.85.७०।।
म्लेच्छाश्चण्डालजाश्चापि कीटाः पिपालिका मृगाः ।
पशवः पक्षिणः सरीसृपास्तृणानि पादपाः ।।७ १ ।।
वल्लयो जडजाताश्च यदि क्षेत्रेऽक्षरे मृताः ।
ते तु सचन्द्रतिलका महाहस्त्यादिवाहनाः ।।७२।।
रम्ये ममाऽक्षरे दिव्यास्ते प्रयान्ति प्रमोक्षणम् ।
अक्षरे तु मृतः कश्चिन्न याति नरकं ह्यघी ।। ७३।।
ममाऽनुग्रहमाप्तास्ते सर्वे यान्त्यक्षरं पदम् ।
किं वक्तव्यं भवेदत्र चैलविले मम स्थले ।।७४।।
मोक्षं सुदुर्लभं ज्ञात्वा संसारं चातिभीषणम् ।
गतिं ज्ञानेन हत्वाऽपि वसेत् क्षेत्रेऽक्षरे मम ।।७५।।
यत्र तत्र विपन्नस्य गतिस्त्वत्र हि मोक्षदा ।
प्रसादाद् दह्यति पापं वासात्तु दिव्यता भवेत् ।।७६।।
दर्शनान्मम मुक्तिश्च जायते त्वक्षरे पदे ।
मम योगान्महामुक्तिर्जायते मे परे पदे ।।७७।।
अपुण्या नहि पश्यन्ति मायापटलचक्षुषः ।
तमोवृत्ता न पश्यन्ति दिव्यं क्षेत्रं ममाऽक्षरम् ।।७८।।
ते तु विण्मूत्ररेतोभृद्देहे विशन्ति वै मुहुः ।
हन्यमानोऽपि यो देही विशेद् विघ्नशतैरपि ।।७९।।
अक्षरं परमं क्षेत्रं चाऽश्वपट्टसरोऽभितः ।
स याति परमं धाम यत्र गत्वा न शोचति ।।2.85.८०।।
जन्ममृत्युजरामुक्तं परं क्षेत्रं ममास्पदम् ।
अपुनर्मरणानां तद् गदितं मोक्षकांक्षिणाम् ।।८ १ ।।
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरुत्कृष्टा याऽक्षरे लभ्यते परा ।।८२।।
नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ।
किल्बिषैः पूर्णदेहाश्च निकृष्टैः पातकैर्युताः ।।८३।।
तेषां तीक्ष्णं भेषजं चाक्षरं क्षेत्रं परं पदम् ।
अक्षरं तत्परं ज्ञानमक्षरं तत्परं पदम् ।।८४।।
अक्षरं तत्परं वत्त्वमक्षरं पुरुषोत्तमः ।
धृत्वा वै नैष्ठिकीं दीक्षामक्षरे ये वसन्ति ते ।।८५।।
मत्तो लब्ध्वा परं ज्ञानं यान्ति मे परमं पदम् ।
प्रभासं स्वर्णनगरी वस्त्रापथं च नर्मदा ।।८६।।
नारायणसरच्चापि पुष्करं कौरवं स्थलम् ।
गंगा बदरिका शालग्रामं श्रीशैल इत्यपि ।।८७।।
हिमालयश्च केदारो गया गोकर्णमित्यपि ।
कृष्णा गोदावरी सिन्धुर्गोमती ब्रह्मपुत्रिका ।।८८।।
नारायणीसरिच्चापि विज्ञतुरीयकं सरः ।
तूंगानीकसरो न्याससरश्चण्डसरस्तथा ।।८९।।
नष्टजरानदी रक्तवार्धिर्नीलाब्धिरित्यपि ।
नीपरा दीनयूपा च सेना महाबृहत्सरः ।।2.85.९०।।
अन्तार्किवर्तुलं चापि सूपर्युपरिकंसरः ।
पन्नाम्नी कालिमा चापि यानेशी श्वेतवारिधिः ।।९ १ ।।
उरलाद्रिर्मानसं च सरो ब्रह्मसरोवरम् ।
बालकृष्णसरश्चापि द्विकलं च सरस्तथा ।।९२।।
अंगशिक्षांगिका चापि मुरानदी तुरुनदी ।
ऐतानदी मिकांगा च इरावती नदी तथा ।। ९३ ।।
हुतलीना च गंगाऽपि साभराख्यं महत् सरः ।
एतानि पुण्यस्थानानि पृथिव्यां विश्रुतानि तु ।।९४।।
तानि त्वायान्ति सततं चाश्वपट्टसरोवरम् ।
तन्मृताः परमं मोक्षं न यान्ति ते यथाऽक्षरे ।।९५।।
कुंकुमवापिकाक्षेत्रे साक्षादहं परेश्वरः ।
ब्रह्मह्रदं समादाय वर्ताम्येव निरन्तरम् ।।९६।।
ब्रह्मह्रदोऽनन्तजन्मकृतपापानि नाशयेत् ।
अन्यत्र सुलभा गंगा श्राद्धं दानं जपो व्रतम् ।।९७।।
कुंकुमवापिकाक्षेत्रे तत्सर्वं त्वतिदुर्लभम् ।
यदि पापो यदि शठो यदि त्वधार्मिको जनः ।। ९८।।
अक्षरं तत्पदं प्राप्य पुनाति कुलसप्तकम् ।
यजेत जुहुयान्नित्यं ददात्यर्चयते तथा ।।९९।।
क्षेत्रेऽक्षरे तु मां भक्तस्तस्याऽनन्तगुणं फलम् ।
तत्र गत्वा तु ये भक्ता अर्चयन्ति स्तुवन्ति माम् ।। 2.85.१० ०।।
सर्वपापविनिर्मुक्तास्ते ज्ञेया मम पार्षदाः ।
अन्यत्र यागाज्ज्ञानाद्वा सन्यासादथ योगतः ।। १० १।।
प्राप्यते तत्परं स्थानं सहस्रेण तु जन्मनाम् ।
अक्षरे ये वसन्त्येते विन्दन्त्येकेन जन्मना ।। १ ०२।।
तत्र योगस्तपो ज्ञानं व्रतं चाहं निरन्तरम् ।
मां समासाद्य भक्तानां गन्तव्यं नाऽस्ति चाऽपरम् ।। १०३ ।।
तदेव गुह्यं गुह्यानां परं श्रेयःप्रदं मतम् ।
ज्ञानध्याननिविष्टानां परमानन्दमिच्छताम् ।। १०४।।
तत्र ददाम्यहं मन्त्रं त्वक्षरे क्षेत्रके मम ।
यत्तत्परतरं तत्त्वं सोऽहं क्षेत्रं च तन्मम ।। १ ०५।।
भ्रूमध्ये नाभिमध्ये च हृदयेऽपि च मूर्द्धनि ।
यस्मात् कस्माद् याति चाऽसुस्त्वक्षरेऽत्र प्रमुच्यते ।। १ ०६।।
अनादिश्रीकृष्णनारायणस्वामी वसाम्यहम् ।
मामासाद्याऽतिपापाश्च प्रयान्ति परमां गतिम् ।। १ ०७।।
नारायणानां सर्वेषां श्रेष्ठोऽहं परमेश्वरः ।
नारायणास्तथा चान्ये शंभ्वाद्या वैष्णवा अपि ।। १ ०८।।
धामान्यपि च सर्वाणि धामस्था मुक्तकोटयः ।
ब्रह्माण्डेश्वरवर्याश्च देवाद्यास्तीर्थकोटयः ।। १ ०९।।
वसामस्तत्र मे क्षेत्रेऽक्षरे चाश्वसरोऽभितः ।
कुंकुमवापिका ब्रह्मरूपिणी मुक्तसत्पुरी ।।2.85.१ १० ।।
पापोपहतमतयो नैव पश्यन्ति दिव्यताम् ।
न तेषां वीक्षितुं शक्यं चाऽक्षरं मम भूतलम् ।। ११ १।।
पुण्यवासाः स्मरन्त्येनां पुरीं दिव्येन चक्षुषा ।
पश्यन्ति योगसिद्धा च लोकान्तरेऽपि वासिनः ।। ११ २।।
आगच्छतामिदं स्थानं सेवितुं मोक्षकांक्षिणाम् ।
मृतानां पथि चेत्तेषां पुनर्जन्म न विद्यते ।। ११३ ।।
योगी वाऽप्यथवाऽयोगी पापी वा पुण्यकृत्तमः ।
न लोकवचनात् पित्रोर्न चापि गुरुवादतः । ।१ १४।।
मतिं चोत्क्रमयेत् साक्षादक्षरक्षेत्रगां शुभाम् ।
कुंकुमवापिकावासं चाऽश्वसरोजलाप्लवम् ।। १ १५।।
राधिके! भगवानेवं चैलविलां प्रबोध्य च ।
विरराम क्षणं साऽपि श्रुत्वाऽऽश्चर्यमवाप ह ।। ११६ ।।

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽनादिश्रीकृष्णनारायणस्वामिना ऐलविलायै कथितमक्षरमाहात्म्यमितिनामा पञ्चाशीतितमोऽध्यायः ।। ८५ ।।