लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०९२

← अध्यायः ०९१ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९२
[[लेखकः :|]]
अध्यायः ०९३ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके वासुदेवं संकर्षणादयः ।
त्रय ईशेश्वरा ज्ञानं पप्रच्छुर्ब्रह्मबोधकम् ।। १ ।।
ज्ञानं जीवेश्वराणां तु भक्तिकृद् वद चाग्रज ।
को वा त्वात्मा च का मुक्तिः संसारः किन्निमित्तकः ।। २ ।।
कः संसारस्तथा ब्रह्म किं तत् परतरं ततः ।
त्वं वेत्सि परमं गुह्यं सर्वं वै भगवन् प्रभो ।। ३ ।।
नारायण स्वयं साक्षात्पुराणाऽचिन्त्यपूरुष ।
न ह्यन्यो विद्यते वेत्ता त्वामृते पुरुषोत्तम ।। ४ ।।
एवमुक्त्वाऽनिरुद्धश्च प्रद्यम्नः संप्रकर्षणः ।
दध्युः स्वस्वहृत्सु तं कंचित्परमं पुरुषं प्रभुम् ।। ५ ।।
तावद् विलोकयामासुः श्रीहरिं पुरुषोत्तमम् ।
विहाय वासुदेवाख्यं रूपं तत्कारणं परम् ।। ६ ।।
अनादिश्रीकृष्णनारायणं ब्रह्मपरं हरिम् ।
विभ्राजमानं मुक्तैश्च सेवितं दिव्यमद्भुतम् ।। ७ ।।
श्रीवत्सवक्षसं कान्तं प्रभामण्डलमण्डितम् ।
सर्वायुधधरं कृष्णनारायणं धिया युतम् ।। ८ ।।
नित्यानन्दगुणैश्वर्यभूतिशक्तिसुखाश्रयम् ।
द्विभुजं कोटिमुक्ताभिर्मुक्तैः सेवितपत्कजम् ।। ९ ।।
हसन्तं हासयन्तं च कोटिकन्दर्पसुन्दरम् ।
किशोरं दिव्यशोभाढ्यं सर्वसृष्टिमनोहरम् ।। 2.92.१ ०।।
उज्ज्वलं सौम्यभावेन संभृतं चायतेक्षणम् ।
परे धाम्नि दिव्यगजासनस्थं. परमेश्वरम् ।। ११ ।।
ततोऽक्षरं ब्रह्मधाम ददृशुः सीमवर्जितम् ।
कोटिमुक्तान् ददृशुश्चाक्षरसंज्ञान् मनोहरान् ।। १२।।
ततस्ते ददृशुः शीघ्रं गोलोकं गोपसंश्रितम् ।
गोपीगणैः शोभितं श्रीराधाकृष्णाऽभ्यधिष्ठितम् ।। १३।।
ततस्ते ददृशू रम्यं वैकुण्ठं ब्रह्मसदृशम् ।
लक्ष्मीनारायणावासं कोटिपार्षदसंश्रितम् ।। १४।।
ततो दिव्यं सुकैलासं सदाशिवशिवाश्रितम् ।
ददृशुस्ते च भूम्नोऽथाऽमृताख्यं धाम शोभितम् ।। १५।।
ततस्ते ददृशुर्विष्णोर्वैकुण्ठं क्षीरसागरम् ।
श्वेतद्वीपं बदरीं च वासुदेवेऽग्रजे तदा ।। १६।।
तत्र तत्र हरेर्मूर्तिं यादृशीं तादृशीं तु ते ।
वासुदेवे ददृशुर्हि सर्वां सृष्टिं च मायिकीम् ।। १७।।
अथ तिरोऽभवत् सृष्टिः क्षणान्ते तेजसां चयम् ।
ददृशुस्तत्र च दिव्यं सौराष्ट्रं वै यथास्थितम् ।। १८।।
तत्र क्षेत्रं चाश्वपट्टसरोऽभिधं सुभास्वरम् ।
तत्र कुंकुमवापीं च तथा श्रीलोमशाश्रमम् ।। १ ९।।
तत्सर्वं परमं धाम दिव्यमुक्तादिराजितम् ।
ब्रह्मप्रियाभिसंव्याप्तं सांख्ययोगिन्यधिश्रितम् ।।2.92.२०।।
अनादिश्रीकृष्णनारायणभक्ताधिवासितम् ।
दिव्यश्रीकम्भरालक्ष्मीगोपालकृष्णशोभितम् ।।२१ ।।
प्रभापारवतीलक्ष्मीमाणिकीराधिकाश्रितम् ।
मञ्जुलासगुणाहंसाविजयाललिताश्रितम् ।।२२।।
शतेन द्वादशभिश्च प्रियाभिरधिवासितम् ।
अनन्तकोटयब्जकानाधिष्ठितं दिव्यभूतिकम् ।।२३।।
ददशुर्दिव्यकलशैः प्रासादानपि शोभितान् ।
महाप्रासादमेतस्याऽनादिकृष्णस्य ददृशुः ।।२४।।
स्वात्माधारं परं दिव्यं यत्र श्रीभगवान् स्वयम् ।
किशोरप्रतिभश्चास्ते बालकृष्णो नरायणः ।।२५।।
नारायणानां परमः पुमान् श्रीपरमेश्वरः ।
ईश्वराणां च परमः साक्षाच्छ्रीपुरुषोत्तमः ।।२६।।
अवतारसमूहानां कारणं चाऽवतारी यः ।
कृष्णानां चापि यः कृष्णो व्यूहानां व्यूहकृत्प्रभुः ।।२७।।
तं हरिं ददृशू राधे वासुदेवे हरौ तु ते ।
विभ्राजमानं विमले गजस्वर्णासने हरिम् ।।२८।।
यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् ।
सवासुदेवं तं दृष्ट्वा महानन्दं प्रपेदिरे ।।२९।।
ततः क्षणान्तरे सर्वं लीनं ददृशिरे पुरः ।
वासुदेवं ददृशुस्ते प्रशान्तमनसोऽभवन् ।
एवं प्रत्यक्षविज्ञानं कारयित्वा तु ताँस्ततः ।।2.92.३ ०।।
वासुदेवः समुवाच गुह्यं ज्ञानं सनातनम् ।
यन्न देवा विजानन्ति यजमाना द्विजातयः ।।३ १ ।।
तं ज्ञात्वा परमेशानं ब्रह्मीभूता महर्षयः ।
संसारं न प्रपद्यन्ते पूर्वेऽपि ब्रह्मधामिनः ।।३२।।
आत्माऽयं सुखवान् स्वच्छः शुद्धः सूक्ष्मः सनातनः ।
तदन्तरे तु यश्चास्ते सर्वान्तरः परात्परः ।।३३।।
सोऽन्तर्यामी स पुरुषः स प्राणः स्वामिसंज्ञकः ।
अस्मात् सञ्जायते विश्वं तस्य धाम्नि प्रलीयते ।।३४।।
स मायां छायया गृह्णन् करोति विविधास्तनूः ।
नाऽस्य बन्धो न तद्भावो नायं मायागुणाश्रयः ।।३५।।
यथा प्रकाशतमसोस्तादात्म्यं नोपपद्यते ।
तद्वदैक्यं न सम्बन्धः प्रपञ्चपरमात्मनोः ।।३६।।
छायातपौ यथा लोके परस्परविलक्षणौ ।
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।।३७।।
आत्मा शुद्धो नित्यबुद्धो मुक्तरूपः स्वभावतः ।
परमात्माऽतिशुद्धश्च सर्वज्ञश्चात्मसुस्थितः ।।३८।।
विकारहीनौ निर्द्वन्द्वौ सदानन्दपरिप्लुतौ ।
आत्मतदन्तरात्मानौ सयुजौ दिव्यसद्गुणौ ।।३९।।
नित्ययुक्तौ च सुहृदौ द्रष्टारौ च नियामकौ ।
आत्मा कर्म कृतं भुंक्तेऽन्तर्यामी भोगवर्जितः ।।2.92.४०।।
दिशत्येव यथाकालं नियाम्य श्रेष्ठिने फलम् ।
अहं कर्ता सुखी दुःखी कृशः स्थूलश्च मानवान् ।।४१ ।।
अहंकारेण तद्भोक्ता भवत्यज्ञानवैभवात् ।
अज्ञानादन्यथाज्ञानान्मनसा सह युज्यते ।।४२।।
प्राकृतं गुणसंसर्गं योजयित्वा मनोऽस्थिरम् ।
स्वधर्माढ्यं तदात्मानं सम्पादयति वै मुहुः ।।४३।।
अहंकाराऽविवेकेन कर्ताऽहं चेति मानयन् ।
स्वात्मानं चाऽक्षरं ब्रह्म विस्मरत्येव कल्मषी ।।४४।।
अनात्मन्यात्मविज्ञानी सर्वदुःखप्रशेवधिः ।
रागद्वेषादयश्चापि भ्रान्तिजास्तत्र यन्ति च ।।४५।।
तैर्दोषैः पुण्यपापेऽयं भुंक्ते स्वभावजे यथा ।
भ्रान्तिनाशे तु दोषाणां विगमे निष्प्रपञ्चकः ।।४६।।
एकः सन्तिष्ठते देवे कृष्णनारायणेऽर्पितः ।
सच्चिदानन्दयोगेन सच्चिदानन्दवान् सदा ।।४७।।
वर्तते परमेशस्य कृपया चेश्वरो यथा ।
यथा वै धूमसम्पर्कान्नाकाशो मलिनः क्वचित् ।।४८।।
तथा मानसदोषैश्च निर्लेपोऽक्षरसंज्ञितः ।
उपाधिवर्जितः शुद्धो विमलात्मा प्रकाशते ।।४९।।
ज्ञेयं त्यक्त्वा ततो ज्ञप्तिं ज्ञप्तिसंस्कारमित्यपि ।
त्यक्त्वा त्वात्मप्रकाशः स्याद् यथा नारायणः स्वयम् ।।2.92.५०।।
तस्मादात्माऽक्षरः शुद्धो नित्यः श्रीहरिसंश्रितः ।
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।।५ १ ।।
यदात्मनि परब्रह्म भाति सर्वत्र सर्वदा ।
श्रद्दधानस्य भक्तस्य तदा सम्पद्यते स्वयम् ।।५२।।
यदा सर्वं कार्यजातं स्वस्मिन्नेवाऽभिपश्यति ।
कार्यजाते निजात्मानं तदा सम्पद्यते हरिः ।।।५३।।
यदा सर्वं समाधिस्थो नातिरिक्तं प्रपश्यति ।
एकीभूतः परेणाऽऽत्मा तदा मुक्तः प्रजायते ।।।५४।।
यदाऽस्य मानसा भावा विलीयन्ते परे हरौ ।
तदाऽयममृतीभूतो मोक्षं याति हरेः पदम् ।।५५।।
यदा सर्वं पृथग्भूतं तस्मिन्नेव विलोक्यते ।
ततश्चापि च विस्तारं तदाऽस्य ब्रह्मयोग्यता ।।५६।।
यदा पश्यति चात्मानं तदात्मानं च केवलम् ।
तदाऽस्य ब्रह्मसम्पत्तिर्निवृत्तिर्मायिकी तदा ।।५७।।
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
आत्मात्मब्रह्मविज्ञानं तदाऽयं शाश्वतः शिवः ।।५८।।
यथा नदीनदा यान्ति सागरेणैकतां तथा ।
आत्माऽक्षरेण तच्चापि परे ब्रह्मणि चैकताम् ।।५९।।
व्रजेत्तदा भवेत् साक्षादपरोक्षानुदर्शनम् ।
विशेषाऽद्वैताऽद्वैतं तद् श्रुतिभिः सन्निरूपितम् ।।2.92.६०।।
तद्विज्ञानं परश्रेयःप्रदं चोपासनाभिधम् ।
यत्र तज्जायते तत्र न प्रपञ्चो न वासना ।।६१ ।।
अज्ञानं वर्तते यत्र तत्र मोहश्च वासना ।
तस्मान्मोहं परित्यज्य दग्ध्वा सर्वास्तु वासनाः ।।६२।।
सर्वश्रुतिसुनिस्तारं ब्रह्म भूत्वा तरेद् बुधः ।
विज्ञानं भगवद्भक्तिं योगं संसाध्य वै ध्रुवम् ।।६३।।
ब्रह्मरूपं विभाव्यैव परं हरिमवाप्नुयात् ।
एष आत्माऽहमव्यक्तो ब्रह्मेदं धाम भक्तिमत् ।।६४।।
ब्रह्मण्ययं परः स्वामी सोऽक्षरे पुरुषोत्तमः ।
विशेषाऽद्वैताऽद्वैतं तद् यो हरिः परमेश्वरः ।।६५।।
सर्वरसः सर्वरूपः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादश्च सर्वात्मा सर्वतोमुखः ।।६६।।
अनादिश्रीकृष्णनारायणोऽन्तर्यमनोऽपि सः ।
अपाणिपादो जवगो ग्रहीता सर्वसंस्थितः ।।६७।।
अचक्षुरपि चष्टेऽसो कर्णशून्यः शृणोत्ययम् ।
वेदाऽहमेनं पुरुषं पुराणं परमेश्वरम् ।।६८।।
परे धाम्नि स्थितं चापि कम्भराश्रीसुतं शुभम् ।
कृष्णनारायणं श्रीशं नरनारायणं च तम् ।।६९।।
वासुदेवं हरं विष्णुं हरिं सर्वान्तरस्थितम् ।
पश्यन्ति ऋषयस्तं तु तदनुग्रहशालिनः ।।2.92.७०।।
तापसा नैव पश्यन्ति पश्यन्त्येनं हि सेवकाः ।
निर्गुणोऽमलरूपस्य यदैश्वर्याऽक्षराभिधम् ।।७१ ।।
उपासकाः प्रपश्यन्ति सूक्ष्मतत्त्वादिदर्शिनः ।
यन्न देवा विजानन्ति मोहितास्तस्य मायया ।।७२।।
का कथा जीवलोकस्य शृणुध्वं भ्रातरो मम ।
अनिरुद्ध! त्वयि त्वास्ते सर्जनैश्वर्यमुत्तमम् ।।७३ ।।
अक्षरस्यैव तद्बोद्धं ब्रह्मणः कोटिभागजम् ।
प्रद्युम्न! त्वयि यच्चास्ते पोषणैश्वर्यमित्यपि ।।७४।।
अक्षरस्यैव तद् बोध्यं ब्रह्मणः कोटिभागजम् ।
संकर्षण! त्वयि चास्ते संहारैश्वर्यमित्यपि ।।७५।।
अक्षरस्यैव तद्बोध्यं ब्रह्मणः कोटिभागजम् ।
मयि चास्ते यदैश्वर्यं वसतिर्दीव्यतिस्तथा ।।७६।।
अक्षरस्यैव बोध्यं तद् यत्प्राप्तं तेन वै हरेः ।
अहंविशेषणं तत्राऽक्षरेऽद्वैतस्वरूपिणि ।।७७।।
विशेषाद्वैतमेतद्वै चाऽक्षरं ब्रह्म विद्यते ।
तदेकं त्वक्षरं नान्यत् समं चाक्षरसंज्ञितम् ।।७८।।
विशेष्यं त्वक्षरं यत्राऽद्वैते श्रीपरमात्मनि ।
समन्वेति स विशेषाद्वैताद्वैतः परेश्वरः ।।७९।।
मायातीतं चाक्षरं च तदतीतः परः प्रभुः ।
मायां विहाय जीवाश्चाक्षरं यान्ति हि तत्पदम् ।।2.92.८०।।
प्रविष्टास्तस्य सायुज्यं लभन्ते भक्तियोगिनः ।
ये हि मायामतिक्रान्ताः सर्वा विश्वस्वरूपिणीम् ।।८१ ।।
लभन्ते तेऽक्षरधाम तत्र मे परमं पदम् ।
न तेषां पुनरावृत्तिरैश्वरी चापि मायिकी ।।८२।।
प्रसादात्तस्य कृष्णस्याऽक्षरेशस्य हरेःप्रभोः।
अनादिश्रीकृष्णनारायणस्येत्यनुशासनम् ।।।८३।।
तत्पुत्रशिष्यसाधुभ्यो दातव्यं ब्रह्मयोषिते ।
प्रदातव्यं न चान्येभ्योऽपात्रेभ्योऽपथ्यमेव यत् ।।८४।।
इत्येतद् राधिके तुभ्यं मया ज्ञानं प्रकाशितम् ।
वासुदेवेन यत्पूर्वं चानुजेभ्यः प्रकीर्तितम् ।।८५।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वासुदेवः गीतायां परब्रह्मविज्ञानेन विशेषाद्वैताऽद्वैतेन तत्पदप्राप्त्यादिनिरूपणनामा द्वानवतितमोऽध्यायः ।। ९२ ।।