लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०९३

← अध्यायः ०९२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९३
[[लेखकः :|]]
अध्यायः ०९४ →

श्रीकृष्ण उवाच-
राधिके श्रीवासुदेवस्त्वाह संकर्षणादिकान् ।
अनादिश्रीकृष्णनारायणस्य परमात्मनः ।। १ ।।
स्थितिस्थापकशक्त्याख्यः कालः पुत्रो लयंकरः ।
हरते सर्वमेवैषो मायावैषम्यमित्यपि ।। २ ।।
क्षोभं करोति चैवैषस्तदा माया प्रमाथिनी ।
प्रसूते विषमावस्थां महापूरुषयोगतः ।। ३ ।।
माया कालः पूरुषश्च परमेश्वरशक्तयः ।
ताभ्यः सर्वमिदं जातं तस्मात्ता ब्रह्मरूपिकाः ।। ४ ।।
तज्जातं ब्रह्मरूपं च जगत् सर्वं तु तत्तनु ।
तत्र सर्वत्र एवाऽस्याक्षरस्य ब्रह्मणः खलु ।। ५ ।।
पाणिपादाक्षिश्रवणाननमस्तकनाभयः ।
अतः सर्वं समावृत्य तिष्ठत्यक्षरमेव तत् ।। ६ ।।
सर्वेन्द्रियगुणाभासं दिव्येन्द्रियसमन्वितम् ।
सर्वाधारं महानन्दं प्रमाणातीतगोचरम् ।। ७ ।।
सर्वोपमानरहितं सर्वावासं परामृतम् ।
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमक्षरम् ।। ८ ।।
निर्गुणं परमं ज्योतिर्निर्विकल्पमसीमकम् ।
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः स्थितः ।। ९ ।।
तत्रास्ते सर्वगः शान्तस्तदात्मा परमेश्वरः ।
तेन व्याप्तमिदं विश्वं जीवेशमुक्तवासितम् ।। 2.93.१ ०।।
तस्येच्छयाऽप्यहं जातो वासुदेवः परेश्वर ।
मत्तो यूयं मूर्तयश्च त्रय एव जपोषलाः ।। ११ ।।
ततो भूमा महाविष्णुस्ततो विराट् च विश्वसृट् ।
ततो महर्षयो देवा जगत्स्थावरजंगमम् ।। १२।।
जगन्माता महामाया तस्येच्छा मूलरूपिणी ।
अमृताख्या दोषकर्त्री पारगा पूरिका तथा ।। १३।।
महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ।
सा या प्रकृतिरिष्टैव कान्तावन्मोहिनी प्रिया ।। १४।।
मोहापन्नस्तु पुरुषः स आत्मा जीव ईश्वरः ।
अहंकारकृतमैत्र्यो महत्तत्त्वातिबान्धवः ।। १५।।
मानसे कृतविश्वासो जन्मलाभाय कल्पते ।
प्रकृतौ नास्ति यस्येष्टं मोहस्तस्य न विद्यते ।। १६।।
अहंकारे न वै मैत्री महत्तत्वे न बन्धुता ।
मानसे न च विश्वासो मोक्षलाभाय कल्पते ।। १७।।
तस्यैतेऽनुकूलभावे वर्तन्ते ह्युपकारिणः ।
माया कालश्च पुरुषस्त एतेऽप्युपकारिणः ।। १८।।
प्रापयन्त्यक्षरं दिव्यं यस्येष्टः परमेश्वरः ।
अनादिश्रीकृष्णनारायणः परमधामगः ।। १९।।
तद्योगात्त्वस्य जायन्ते भक्तस्य दिव्यविग्रहाः ।
ज्ञानेच्छाकृतयश्चापि सुखदुःखादिभावनाः ।। 2.93.२०।।
धर्माधर्मादिकोशाश्च मनोऽहंबुद्धिवेदनाः ।
जायन्ते दिव्यरूपाश्च सत्त्वं रजश्च कल्मषम् ।।।२१।।।
तन्मात्राणीन्द्रियवर्गः षट्कोशा भूतपञ्चकम् ।
तद्विकारास्तथा सर्वे जायन्ते दिव्यघट्टनाः ।।२२।।
तत्क्रियास्तद्व्यवहारश्चेष्टा वर्तनमित्यपि ।
सर्वं दिव्यं मोक्षदं च जायते ब्रह्मनिर्गुणम् ।।२३।।
कालो नात्र प्रभुर्यो वै सृजते हरते प्रजाः ।
सर्वे कालस्य वशगाः कालो भक्तस्य वै वशे ।।२४।।
भक्तेऽक्षरं त्वक्षरे च सर्वज्ञः स्वामिवल्लभः ।
सर्वज्ञान्न परः कश्चित् तं भजित्वा प्रमुच्यते ।।२५।।।
नित्यं नास्तीति जगति किञ्चित् स्थावरजंगमम् ।
ऋते श्रीपरमात्मानं श्रीकृष्णं पुरुषोत्तमम् ।।२६।।
नाऽयं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो वै देहिभिर्ज्ञातुं विना भक्तिं पराश्रयाम् ।।२७।।
श्रीहरिं सर्वभूतानामन्तस्तिष्ठति सर्वतः ।
तं सर्वसाक्षिणं लोका न जानन्ति परेश्वराः ।।२८।।
यस्मिन्नन्तः सर्वमिदं यश्च सर्वान्तरे स्थितः ।
सोऽयं धाता विधाता च कालोऽग्निर्विश्वतोमुखः ।।२९।।
न तं पश्यन्ति मुनयो राजसाः पितृदेवताः ।
ब्रह्मा विराट् तथा भूमा ये चान्ये तत्परेऽपि च ।।2.93.३०।।
यथाकथञ्चित् तन्नाथं जानाम्यर्थं ततोऽवरम् ।
मुक्ता नान्तं नाऽक्षरं च तदाऽन्येषां तु का कथा ।।३१।।
नित्यं तद्विग्रहे व्याप्ता नैव जानाति माणिकी ।
तदाऽन्यासां तु शक्तीनां का कथाऽस्य विजानने ।।३२।।
गृणन्ति सततं वेदा तमेकं परमेश्वरम् ।
यजन्ति विविधैर्यज्ञैर्ब्राह्मणा वेदपारगाः ।।३३।।
ध्यायन्ति योगनिष्ठाश्च यतन्ते पारमीक्षितुम् ।
विनाऽनुग्रहमेवाऽस्य नैव पश्यन्ति काष्ठया ।।३४।।
स एव सर्वहविषां भोक्ता चापि फलप्रदः ।
सर्वदेवतनुः सोऽयं सर्वात्मा श्रेयसां पदम् ।।३५।।
तं तत्कृपया पश्यन्ति विद्वांसः सन्त एव तु ।
तेषां सन्निहितः सोऽयं ये तं नित्यमुपासते ।।३६।।
तेभ्यो ददाति तत्स्थानमानन्दं परमं पदम् ।
उत्तमा मध्यमाश्चापि निकृष्टाः पापयोनयः ।।३७।।
तस्य भक्त्या प्रमुच्यन्ते तेनैव संगता यदा।
तद्भक्ता न विनश्यन्ति निम्नं यान्ति न वै पदम् ।।३८।।
तन्मार्गस्थास्तस्य योगं कारयन्ति हि साधवः ।
यो वै निन्दति तान् मूढो बालकृष्णं स निन्दति ।। ३९।।
यस्तान् पूजयते भक्त्या स तं पूजयति प्रभुम् ।
पत्रं पुष्पं फलं तोयं भोजनं चाम्बरं द्रवम् ।।2.93.४०।।
तस्मै ददाति यो भक्त्या स स्यात् तस्य प्रियः सदा ।
स पूर्वं भक्तवर्गस्य दुःखनाशार्थमेव हि ।।४१।।
शक्तिं प्रकाशयामास राधिकां निजवामतः ।
तयाऽर्थितः स वै कृष्णो बभूवाऽक्षरधामनि ।।४२।।
गोलोके न्यवसत् तस्या भक्तिग्रहणहेतवे ।
स पूर्वं भक्तवर्गस्य सम्पद्दानार्थमेव तु ।।४३।।
शक्तिं प्रकाशयामास श्रीलक्ष्मीं निजवक्षसः ।
तथाऽर्थितः स वैकुण्ठे नारायणो बभूव ह ।।४४।।
स पूर्वरचनार्थं वै सृष्टिं सस्मार पूर्ववत्। ।
शक्तिं प्रकाशयामास जघनात् प्रकृतिं पराम् ।।४५।।
तयाऽर्थितः स भगवान्नव्याकृतेऽक्षराश्रये ।
वासुदेवोऽहमभवं प्रकृतेश्चेतनाप्रदः ।।४६ ।।
तेनाऽर्थिता महासृष्टिर्जनिस्थैर्यान्तधर्मिणी ।
तन्मूर्त्यात्मकमद्देहाद्भवन्तस्त्रय एव च ।।४७।।
अनिरुद्धश्च प्रद्युम्नः संकर्षणोऽतिवैभवाः ।
प्राविर्भूता गुणकार्यकराः श्रीपरमेश्वराः ।।४८।।
तेनाऽर्थितस्ततो न्यायः स भूमा तद्धृदुद्भवः ।
ईश्वराणां न्यायकर्ताऽमृते धाम्नि विराजते ।।४९ ।।
तेनाऽर्थितस्ततो मायाविकारोऽङ्कुरकारणम् ।
मुक्तस्तस्य भ्रकुटेस्तु समुत्पन्नः स पूरुषः ।।2.93.५ ०।।
प्रकृतेः पुरुषः सोऽयं रमते मायया तदा ।
तस्माज्जातं च युगलं बुद्ध्या महत्समाख्यया ।।५१ ।।
सेवितश्च पुमान् तस्याः कान्तो रमणरञ्जनः ।
प्रधानपुरुषौ देहो हरेः ख्यातावुभौ सदा ।।।५२।।
तत्त्वं ताभ्यामहङ्गर्वाभिधानं समजायत ।
महाविष्णुः स वै जातः सृष्ट्यर्थं श्रीनिषेवितः ।।५३ ।।
तस्माज्जातो विराडाख्यस्ततो देवा हरादयः ।
तेभ्यः पितृप्रणाल्या वै वेदानप्रापयद्धरिः ।।५४।।
स एव परमे धाम्नि राजमानः परेश्वरः ।
तपोऽर्थं कल्पयामास नरनारायणं तनूम् ।।५५ ।।
जीवलोकस्य शान्त्यर्थं दुःखनाशार्थमित्यपि ।
आसुराणां प्रशान्त्यर्थं लक्ष्मीशः क्षीरसागरे ।।५६।।
श्वेधाम्नि रमाकान्तो विराजतेंऽशमात्रतः ।
योगिनां च सतां साध्वीयोषितां परमो गुरुः ।।५७।।
धार्मिकाणां स गोप्ता च निहन्ता वेदविद्विषाम् ।
मायिकानां च मायाया निहन्ता स परेश्वरः ।।५८।।
सा माया च परा शक्तिर्यदा विद्येति गीयते ।
सा माया चाऽपरा शक्तिर्यदाऽविद्या हि सा मता ।।५९।।
नाशयेत् स च तां मायां मोक्षप्रदो हि माधवः ।
श्रीकृष्णः सर्वशक्तीनां प्रवर्तको निवर्तकः ।।2.93.६०।।
आधारभूतः सर्वासां निधानममृतस्य च ।
एका शक्तिः केशवस्याऽक्षरं ब्रह्म च धाम यत् ।।६१ ।।
अन्या शक्तिर्विपुला या संस्थापयति वै जगत् ।
तत्रान्तर्यामिता तस्य चापरा शक्तिरेव सा ।।६२।।
ज्ञानभक्तिप्रपक्षाभ्यां समाराधयति प्रभुम् ।
स याति वै हरेर्धाम व्यतिक्रम्य तु किल्बिषम् ।।६३।।
सर्वाः शक्तीर्व्यतिक्रम्य मां प्रयाति मदिष्टकृत् ।
ममोपासनया केचिद् भवन्त्यपि नरायणाः ।।६४।।
मम भावैः संभृताश्च तारयन्ति च देहिनः ।
केचिद् भवन्ति लोकेशा विष्णवस्तत्कृपावशात् ।।६५।।
केचित् हरादयश्चापि केचिद् ब्रह्मादिकेश्वराः ।
तेषु सर्वेषु भगवान् प्रेरकश्च निवर्तकः ।।६६।।
सोऽयं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः ।
मायाविनामयं देवः पुराणो हरिरव्ययः ।।६७।।
योगिनामस्त्ययं शंभुः स्त्रीणां देवी गिरीन्द्रजा ।
आदित्यानामयं विष्णुर्वसूनामस्ति पावकः ।।६८।।
रुद्राणां शंकरश्चायं गरुडः पततामयम् ।
ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामयम् ।।६९।।
ऋषीणां च वशिष्ठोऽयं देवानां च शतक्रतुः ।
शिल्पिनां विश्वकर्माऽयं प्रह्लादः सुरविद्विषाम् ।।2.93.७०।।
मुनीनामप्ययं व्यासो गणानां च विनायकः ।
वीराणां वीरभद्रोऽयं सिद्धानां कपिलो मुनिः ।।७१।।
पर्वतानामयं मेरुर्नक्षत्राणां तु चन्द्रमाः ।
वज्रं प्रहरणानां च व्रतानां सत्यमेव सः ।।७२।।
अनन्तो भोगिनां सोऽयं सेनानीनां च पावकिः ।
आश्रमाणां गृहस्थः स युगानां सत्यमेव सः ।।७३।।
कुबेरः सर्वयक्षाणां निर्वृतिः सर्वरक्षसाम् ।
प्रजापतीनां दक्षश्च मृगेन्द्राणां मृगाधिपः ।।७४।।
वेदानां सामवेदश्च जप्यानां प्रणवस्त्वयम् ।
सूक्तानां पौरुषं सूक्तं मनुर्नीतिमतां हि सः ।।७५।।
विद्यानामात्मविद्या सः तत्त्वानां चेतनो हि सः ।
गतीनां मुक्तिरेवाऽयं बन्धनानां तु वासना ।।७६।।
पत्नीव्रतो द्विजानां तु सतीनां कम्भरा सती ।
सम्पदां च महालक्ष्मीरूपः सः पुरुषोत्तमः ।।७७।।
एवं वै भावयेत्तत्र तत्र कृष्णनरायणम् ।
तेन नारायणः स्वामी तत्र फलति सर्वथा ।।७८।।
स च मूर्तिस्वरूपोऽस्ति सर्वलोकेषु चानुजाः ।
तथैवाचार्यरूपोऽस्ति गुरुः श्रीपरमेश्वरः ।।७९।।
साधुरूपः स एवाऽस्ति दिव्यदेहः स पावनः ।
पितृरूपः स एवाऽस्ति मातृरूपोऽपि माधवः ।।2.93.८०।।
सतीरूपः पतिरूपः स एवाऽस्ति नरोत्तमः ।
अष्टावेते हि गुरवस्तारका दिव्यभाविताः ।।८१।।
तेषां प्रत्युपकारो हि न कथंचन विद्यते ।
तेषां नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ।।८२।।
त एवैतेऽनादिश्रीमत्कृष्णनारायणात्मकाः ।
मत्वैवं ये भजन्ते तान् यान्ति ते परमां गतिम् ।।८३।।
सोऽयं साक्षात्परब्रहाऽनादिश्रीपुरुषोत्तमः ।
सर्वावतारशास्ता च कृष्णनारायणः प्रभुः ।।८४।।
भगवाँश्चाऽक्षरातीतश्चान्तर्यामीश्वरेश्वरः ।
बालरूपः कम्भराश्रीगृहे चास्तेऽवतीर्य च ।।८५।।
श्रीमद्गोपालबालः सः लोमशाश्रमसन्निधौ ।
प्रासादे कानके चास्तेऽक्षरक्षेत्रेऽश्वसारसे ।।८६।।
तीर्थे कुंकुमवाप्याख्ये भूतले दिव्यविग्रहे ।
वर्तते मानवे रूपे ब्रह्मप्रियाभिसेवितः ।।८७।।
कृपया जीवमोक्षार्थं ब्रह्माण्डरक्षणाय च ।
वर्तते मानवे रूपे मानवर्ज्योऽपि माधवः ।।८८।।
ब्रह्मविष्णुमहेशानाम् भवतामंशरूपिणाम् ।
दृन्दृश्यो वर्तते भाग्याद् यो नाऽस्मद्दृक्प्रगोचरः ।।८९।।
इत्युक्त्वा विररामाऽसौ वासुदेवः प्रभुः क्षणम् ।
दध्युश्चित्ते त्रयस्तेऽपि दिव्यमानवमच्युतम् ।।2.93.९०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वासुदेवगीतायां प्रभोः प्राप्तिसाधनविभूतीनां निरूपणनामा त्रिनवतितमोऽध्यायः ।। ९३ ।।